Digital Sanskrit Buddhist Canon

चित्तपरिकर्म द्वादशः परिच्छेदः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Cittaparikarma dvādaśaḥ paricchedaḥ

चित्तपरिकर्म द्वादशः परिच्छेदः।



तदेवमरण्ये वसन्



समाधानाय युज्येत



उक्तं हि भगवत्याम्- स तेषामेव सत्त्वानामर्थाय ध्यानपारमितायां चरन्नविक्षिप्तचित्तो भवति। तत्कस्य हेतोः? तथा ह्यस्यैवं - भवति लौकिकी ध्यानोपपत्तिरपि तावद्विक्षिप्तचित्तस्य दुर्लभा, कः पुनर्वादोऽनुत्तरा सम्यक्संबोधिः। तस्मान्मया अविक्षिप्तचित्तेन भवितव्यम्, यावन्नानुत्तरां सम्यक्संबोधिमभिसंबुध्येयमिति॥



पुनरस्यामुक्तम्- पुनरपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादमुपादाय ध्यानपारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तैर्मनसिकारैर्ध्यानं समापद्यते। स चक्षुषा रूपाणि दृष्ट्वा न निमित्तग्राही भवति नानुव्यञ्जनग्राही। यतोधिकरणमस्य चक्षुरिन्द्रियेणासंवरसंवृतस्य विहरतोऽभिध्यादौर्मनस्ये अन्ये वा पापका अकुशला धर्माश्चित्तमनुप्राप्नुयुः, तेषां संवराय प्रतिपद्यते। रक्षति चक्षुरिन्द्रियम्। एवं श्रोत्रेण शब्दान् श्रुत्वा, घ्राणेन गन्धान् घ्रात्वा, जिह्वया रसानास्वाद्य, कायेन स्प्रष्टव्यानि स्पृष्ट्वा, मनसा धर्मान् विज्ञाय न निमित्तग्राही भवति, नानुव्यञ्जनग्राही। यतोधिकरणमस्य मन‍इन्द्रियेणासंवरसंवृतस्य पापकाश्चित्तमनुप्राप्नुयुः, तेषां संवराय प्रतिपद्यते। रक्षति मन‍इन्द्रियम्। स गच्छन्नपि तिष्ठन्नपि निषण्णोऽपि शयानोऽपि भाषमाणोऽपि समाहितावस्थां [न] विजहाति। स भवत्यहस्तलोलः अपादलोलोऽमुखलोलोऽप्रकीर्णवाक् अविक्षिप्तेन्द्रियोऽनुद्धतोऽनुन्नतोऽचपलोऽनलसोऽसंभ्रान्तकायोऽसंभ्रान्तचित्तः। शान्तकायः शान्तवाक् शान्तचित्तः। रहस्यरहसि का कल्पितेर्यापथः संतुष्टः॥ पे॥ सुभरः सुपोषः सूपास्यकल्याणाचारगोचरः। संगणिकयापि विवेकगोचरः। लाभेऽलाभे च समो निर्विकारः। अनुन्नतोऽनवनतः। एवं सुखे दुःखे, स्तुतौ निन्दायाम्, यशस्ययशसि, जीविते मरणे च समो निर्विकारोऽनुन्नतोऽनवनतः। एवं शत्रौ मित्रे च। मनापवर्तिनि। आर्येष्वनार्येषु। शव्देषु संकीर्णेष्वसंकीर्णेषु। प्रियाप्रियेषु च रूपेषु समो निर्विकारः। अनुन्नतोऽनवनतः अनुरोधविरोधापगतः। तत्कस्य हेतोः? तथा हि स स्वलक्षणशून्यानसंभूताननिष्पन्नाननभिनिर्वृत्तान् सर्वधर्मान् पश्यतीति विस्तरः॥



तत्र लीने मनसि मुदिताभावनयोत्तेजनं कुर्यात्, उद्धते त्वनित्यतामनसिकारैः प्रशमः॥

उभयप्रतिपक्षार्थं चार्यराष्ट्रपालोक्तां गाथां स्मरेत्-



बहुकल्पकोटीभि कदाचि बुद्धो

उत्पद्यते लोकहितो महर्षी।

लब्धोऽधुना स प्रवरः क्षणोऽद्य

त्यजति प्रमादं यदि मोक्तुकामः।इति॥



तथा- मायोपमं वितथमेतत्स्वप्नोपमं च संस्कृतमवेक्ष्य न चिराद्भविष्यति वियोगः सर्वप्रियैः, न नित्यमिह कश्चित्। उद्युज्य यथा घटत नित्यं पारमितासु भूमिषु बलेषु। मा जातु स्रंसय वीर्यं यावन्न बुध्यथा प्रवरबोधिम्। इति॥



आर्यललितविस्तरेऽप्युक्तम्-

ज्वलितं त्रिभवं जरव्याधिदुखैर्मरणाग्निप्रदीप्तमनाथमिदम्।

भवनिः सरणे सद मूढ जगद्भ्रमति भ्रमरो यथ कुम्भगतः॥

अध्रुवं त्रिभवं शरदभ्रनिभं नटरङ्गसमा जगि जन्मच्युतिः।

गिरिनद्यसमं लघुशीघ्रजवं व्रजतायु जगे यथ विद्यु नभे॥

भुवि देवपुरे त्रि‍अपायपथे भवतृष्ण‍अविद्यवशा जनता।

परिवर्तिषु पञ्चगतिष्वबुधा यथ कुम्भकरस्य हि चक्रभ्रमी॥

प्रियरूपवरैः सद स्निग्धरुतैः शुभगन्धरसैर्वरस्पर्शसुखैः।

परिषिक्तमिदं कलिपाशजगत् मृगलुब्धकपाशि यथैव कपि॥

सभयाः सरणाः सद वैरकराः बहुशोक‍उपद्रव कामगुणाः।

असिधारसमा विषपत्रनिभाः जहितार्यजनैर्यथ मीढघटः।

स्मृतिमोषकरास्तमसीकरणा भयहेतुकरा दुखमूल सदा।

भवतृष्णलतायविवृद्धिकराः सभयाः सरणाः सद कामगुणाः॥

यथ अग्निखदा ज्वलिताः सभयाः तथ काम इमे विदितार्यजनैः।

महपङ्कसमा असिशूलसमा मधुदिग्ध इव क्षुरधारसमा॥

यथ सर्पशिरो यथ मीढघटः तथ काम इमे विदिता विदुषाम्।

तथ शूलसमा द्विजपेशिसमा यथ श्वानकरंक सवैरमुखा॥

दकचन्द्रनिभा इति कामगुणाः प्रतिबिम्ब इवा गिरिघोष यथा।

प्रतिभाससमा नटरङ्गनिभा तथ स्वप्नसमा विदितार्यजनैः॥

क्षणिका वसिका इति कामगुणाः तथ मायमरीचिसमा अलिका।

दकबुद्बुदफेनसमा वितथाः परिकल्पसमुत्थित बुद्ध बुधैः॥

प्रथमे वयसे वररूपधरः प्रिय इष्ट मतो इय बालचरी।

जरव्याधिदुखैर्हततेजवपुं विजहन्ति मृगा इव शुष्कनदीम्॥

धनधान्यवरो बहुद्रव्यबली प्रिय इष्ट मतो इय बालचरी।

परिहीणधनं पुन कृच्छ्रगतं विजहन्ति नरा इव शून्यटवीम्॥

यथ पुष्पद्रुमो सफलो व द्रुमो नरु दानरतस्तथ प्रीतिकरः।

धनहीनु जरार्दितु याचनको भवते तद अप्रिय गृध्रसमः॥

प्रभु द्रव्यबली वररूपधरः प्रियसङ्ग मनेन्द्रियप्रीतिकरः।

जरव्याधिदुखार्दितु क्षीणधनो भवते तद अप्रिय मृत्युसमः॥

जरया जरितः समतीतवयो द्रम विद्युहतो व यथा भवति।

जरजीर्ण अगार यथा सभयो जरनिः सरणं लघु ब्रूहि मुने॥

जर शोषयते नरनारिगणं यथ मालुलता घनशालवनम्।

जर वीर्यपराक्रमवेगहरी जर पङ्कनिमग्न यथा पुरुषो॥

जर रूपसुरूपविरूपकरी जर तेजहरी बलस्थामहरी।

सद सौख्यहरी परिभावकरी जर मृत्युकरी जर ओजहरी॥

बहुरोगशतैर्घनव्याधिदुखैः उपसृष्टु जगज्ज्वलनेव मृगाः।

जरव्याधिगतं प्रसमीक्ष्य जगत् दुखनिःसरणं लघु देशयही॥

शिशिरेहि यथा हिमधातु महं तृणगुल्मवनौषधि‍ओजहरो॥

तथ ओजहरो अयु व्याधि जगे परिहीयति इन्द्रियरूपबलम्॥

धनधान्यमहार्थक्षयान्तकरः परिभावकरः सद व्याधि जगे॥

प्रतिघातकरः प्रियद्वेषकरः परिदाहकरो यथ सूर्यु नभे॥

मरणं च्यवनं च्युति कालक्रिया प्रियद्रव्यजनेन वियोगु सदा।

अपुनागमनं च असंगमनं द्रुमपत्रफला नदिस्त्रोतु यथा॥

मरणं वशितान वशीकुरुते मरणं हरते नदिदारु यथा।

असहाय नरो व्रजतेऽद्वितियः स्वककर्मफलानुगतो विवशः॥

मरणं ग्रसते बहु प्राणिशतान् मकरो व जलाकरि भूतगणान्।

गरुडो उरगं मृगराज गजं ज्वलनो व तृणौषधिभूतगणम्॥इति॥



राजाववादकसूत्रेऽप्याह- तद्यथा महाराज चतसृभ्यो दिग्भ्यश्चत्वारः पर्वता आगच्छेयुर्दृढाः सारवन्तोऽखण्डा अच्छिद्रा असुषिराः सुसंवृता एकघना नभ[ः] स्पृशन्तः पृथिवीं चोल्लिखन्तः सर्वतृणकाष्ठशाखापर्णपलाशादिसर्वसत्त्वप्राणिभूतानि निर्मथ्नन्तः। तेभ्यो न सुकरं जवेन वा पलायितुं बलेन वा द्रव्यमन्त्रौषधिभिर्वा निवर्तयितुम्, एवमेव महाराज चत्वारीमानि महाभयान्यागच्छन्ति येषां न सुकरं जवेन वा पलायितुं बलेन द्रव्यमन्त्रौषघैर्वा निवर्तनं कर्तुम्। कतमानि चत्वारि? जरा व्याधिर्मरणं विपत्तिश्च॥ जरा महाराज आगच्छति यौवनं प्रमथमाना। व्याधिर्महाराज आगच्छत्यारोग्यं प्रथममानः। मरणं आगच्छति जीवितं प्रमथमानम्। विपत्तिर्महाराज आगच्छति सर्वाः संपत्तीः प्रमथमाना। तत्कस्य हेतोः? तद्यथा महाराज सिंहो मृगराजो रूपसंपन्नो जवसंपन्नः सुजातनखदंष्ट्राकरालो मृगगणमनुप्रविश्य मृगं गृहीत्वा यथाकामकरणीयं करोति। स च मृगोऽतिबलं व्यालमुखमासाद्य विवशो भवति। एवमेव महाराज विद्धस्य मृत्युशल्येनापगतमदस्यापरायणस्य मर्मसु छिद्यमानेषु मुच्यमानेषु संघिषु मांसशोणिते परिशुष्यमाणे परितप्ततृषितविह्वलवदनस्य करचरणविक्षेपाभियुक्तस्य अकर्मण्यस्यासमर्थस्य लालासिङ्घाणकपूयमूत्रपुरीषोपलिप्तस्य ईषज्जीवितावशेषस्य कर्मभवात्पुनर्भवमालम्बमानस्य यमपुरुषभयभीतस्य कालरात्रिवशगतस्य चरमाश्वासप्रश्वासेषु प्ररुध्यमानेषु एकाकिनोऽद्वितीयस्यासहायस्येमं लोकं जहतः परलोकमाक्रामतो महापथं व्रजतो महाकान्तारं प्रविशतो महागहनं समवगाहमानस्य महान्धकारं प्रतिपद्यमानस्य महार्णवेनोह्यमानस्य कर्मवायुना ह्रियमाणस्य अनिमित्तीकृतां दिशं गच्छतो नान्यत्त्राणं नान्यच्छरणं नान्यत्परायणमृते धर्मात्। धर्मो हि महाराज तस्मिन् समये त्राणं लयनं शरणं परायणं भवति। तद्यथा शीतार्तस्याग्निप्रतापः, अग्निमपगतस्यानिर्वापणम्, उष्णार्तस्य शैत्यम्, अध्वानं प्रतिपन्नस्य शीतलं छायोपवनम्, पिपासितस्य शीतलजलम्, बुभुक्षितस्य वा प्रणीतमन्नम्, ब्याधितस्य वैद्योषधिपरिचारकाः, भयभीतस्य बलवन्तः सहायाः साधवः प्रतिशरणा भवन्ति, एवमेव महाराज विद्धस्य मृत्युशल्येन अपगतमदस्यात्राणस्यापरायणस्य नान्यत्त्राणं नान्यत्परायणमन्यत्र धर्मात्। तस्मात्तर्हि ते महाराज अनित्यतानुदर्शिना भवितव्यम्, क्षयव्ययानुदर्शिना भवितव्यं मरणभयभीतेन। धर्मेणैव ते महाराज राज्यं कारयितव्यं नाधर्मेण। तत्कस्य हेतोः? अस्थापि ते महाराज, आत्मभावस्यैवं सुचिरमपि परिरक्षितस्य सुचिरमपि शुचिना प्रणीतेन खादनीयभोजनीयास्वादनीयेन संतर्पितस्य संप्रवारितस्य क्षुत्पिपासापरिगतस्य कालक्रिया भविष्यति। एवं काशिकौशेयदूकूलपत्रोर्णक्षौमादिभिर्वस्त्रविशेषैराच्छादितस्य चरमशयनावस्थितस्य विविधस्वेदाम्बुक्लिन्नमलिनवसनावृतस्य कालक्रिया भविष्यति। एवमपि ते महाराज स्नानानुलेपनवासधूपपुष्पसुरभिगन्धस्यात्मभावस्य नचिरेण दुर्गन्धता भविष्यति। एवं स्त्र्यगारमध्यगतस्यापि ते स्त्रीगणपरिवृतस्य नानावाद्यगीततूर्यनाटयैरुपगीयमानस्य सुमनसः क्रीडतो रममाणस्य परिचारयतो मरणभयभीतस्य अतीव दुःखदौर्मनस्याभ्यां कालक्रिया भविष्यति। एवमपि ते महाराज गृहेषूपलेपनोपलिप्तेषु सुस्थापितार्गलेषु सुपिहितवातायनेषु बहुगन्धधूपपुष्पतैलवर्तिप्रज्वालितेष्वासक्तपट्टदामकलापेषु मुक्तकुसुमावकीर्णेषु गन्धघटिकानिर्धूपितेषु विन्यस्तपादपीठपटिकास्तरणगोणिकस्तरणकाचलिन्दिकप्रावरणसान्तरोपच्छदपटिकोभयकृतोपधानेषु पर्यङ्केषु शयित्वा। पुनश्च शृगालकाकगृघ्रमृतकलेवरमांसास्थिकेशरुधिरवसाकुले परमबीभत्से श्मशाने गतचेष्टस्यात्मभावः पृथिव्यामवशः शेष्यते। एवमपि ते महाराज गजस्कन्धाश्वपृष्ठरथाभिरूढस्य शङ्खपटहेष्वाहन्यमानेषु छत्रेण धार्यमाणेन वालव्यजनेन वीज[य]मानस्यानेकहस्त्यश्वरथपदातिभिरनुयातस्याञ्जलिशतसहस्त्रैर्नमस्क्रियमाणस्य निर्गमनमनुभूय नचिरान्निश्चेष्टस्य मृतशयनाभिरूढस्य चतुर्भिः पुरुषैरुत्क्षिप्तस्य दक्षिणेन नगरद्वारेण निर्णीतस्य मातापितृभ्रातृभगिनीभार्यापुत्रदुहितृवयस्यदासीदासकर्मकरपौरुषेयैः शोकगतहृदयैर्विक्षिप्तभुजैः सोरस्ताडं परमकरुणं- हा पुत्र हा नाथ हा तात हा स्वामिन् इत्याक्रन्दमानैः पौरजानपदैः सपरिभवदृश्यमानस्य श्मशानं नीतस्य पुनः काकगृघ्रश्वशृगालादिभिर्भक्षितस्य तान्यस्थीन्यग्निना वा दग्धानि पृथिव्यां वा निखानितानि अद्भिर्वाक्लिन्नानि वातातपवर्षैर्वा चूर्णीकृतानि दिग्विदिक्षु प्रक्षिप्तानि तत्रैव पूतभावमायास्यन्ति। एवमनित्याः सर्वसंस्काराः, एवमध्रुवाः। इति विस्तरः॥



तत्र क्लेशः प्राधान्येन रागद्वेषमोहाः, यस्यैषामेकतरस्य तावत्प्रतिपक्षमादौ भावयेत्, तन्निदानं च वर्जयेत्॥



तत्र आर्यरत्नमेघे तावदाह- स रागस्य प्रतिपक्षं भजते, रागोत्पत्तिप्रत्ययांश्च वर्जयति।

कतमश्च स रागस्य प्रतिपक्षः? कतमे च ते रागोत्पत्तिप्रत्ययाः? अशुभा भावना रागस्य प्रतिपक्षः। जनपदकल्याणी रागोत्पत्तिप्रत्ययः। कतमा च सा अशुभा भावना? यदुत सन्त्यस्मिन् काये केशा रोमाणि नखा दन्ता रजोमलं त्वक् मांसास्थि स्नायुः शिरा वृक्का हृदयं प्लीहकः क्लोमकः अन्त्राणि अन्त्रगुणः, आमाशयः पक्काशयः, औदर्यकं यकृत्पुरीषमश्रु स्वेदः खेटः सिङ्घाणकः वसा लसीका मज्जा मेदः पित्तं श्लेष्मा पूयं शोणितं मस्तकं मस्तकलुङ्गं प्रस्त्रावः। एषु च वस्तुषु बोधिसत्त्व उपपरीक्षणजातीयो भवति। तस्यैवमुपपरीक्षमाणस्यैवं भवति- योऽपि तावत्स्याद्बालो मूढः अभव्योऽकुशलः, सोऽपि तावदेतानि बस्तूनि ज्ञात्वा रागचित्तं नोत्पादयेत्, प्रागेव सप्रज्ञजातीयः। एवं हि बोधिसत्त्वोऽशुभभावनाबहुलो भवतीति॥



भगवत्यामप्युक्तम्- पुनरपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निममेवं कायं यथाभूतं प्रजानाति। तद्यथापि नाम सुभूते गोघातको वा गोघातकान्तेवासी वा गां हत्वा तीक्ष्णेन शस्त्रेण चत्वारि फलकानि कृत्वा प्रत्यवेक्षते स्थितोऽथवा निषण्णः। एवमेव सुभूते बोधिसत्त्वः प्रज्ञापारमितायां चरन्निममेव कायं धातुशो यथाभूतं प्रजानाति। अस्त्यस्मिन् काये पृथिवीधातुरब्धातुरपि तेजोधातुरपि वायुधातुरपीति॥ पेयालं॥



पुनरप्याह- तद्यथापि नाम सुभूते कर्षकस्य मूतोडी पूर्णा नानाधान्यानां शालीनां व्रीहीणां तिलानां तण्डुलानां मुद्गानां भाषाणां यवानां गोधूमानां मसूराणां सर्षपाणाम् , तानेतान् चक्षुष्मान् पुरुषः प्रत्यवेक्षमाणः एवं जातीयादयं शालिरयं व्रीहिरमी तिला अमी तण्डुला अमी मुद्रा अमी माषा अमी यवा अमी गोधूमा अमी मसूरा अमी सर्षपा इति॥ एवमेव बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्निममेव कायमूर्द्धं पादतलादधः केशमस्तकनखरोमत्वक्‍रोमपर्यन्तं पूर्णं नानाप्रकारस्याशुचेर्यथाभूतं प्रत्यवेक्षते- सन्त्यस्मिन् काये केशा रोमाणि नखा यावन्मस्तकं मस्तकलुङ्गमक्षिगूथं कर्णगूथमिति॥ पे॥ पुनरपरं सुभूते बोधिसत्त्वः श्मशानगतः पश्यति नानारूपाणि मृतशरीराणि श्मशानेऽपविद्धानि शवशयने उज्झितानि एकाहमृतानि वा द्वयहमृतानि वा त्र्यहमृतानि वा चतुरहमृतानि वा पञ्चाहमृतानि वा व्याध्मातकानि विनीलकानि विपूयकानि विपठयकानि, स इममेव कायं तत्रोपसंहरति- अयमपि काय एवंधर्मा एवंस्वभावः एतां धर्मतामव्यतिवृत्त इति॥ एवं हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् बहिर्धा काये कायानुदर्शी विहरति॥ पे॥ पुनरपरं यदा मृतशरीराणि श्मशाने उत्सृष्टानि पश्यति, षडात्रमृतानि काकैर्वा खाद्यमानानि, कुररैर्वा गृघ्रैर्वा श्वभिर्वा शृगालैर्वा, ततोऽन्यैर्वा नानाविधैः पाणकजातैः खाद्यमानानि, स इममेव कायं तत्रोपसंहरति‍अयमपि काय एवंधर्मा एवंस्वभावः, एतां धर्मतां न व्यतिवृत्त इति॥ पुनरपरं यदा मृतशरीराणि पश्यति श्मशाने उत्सृष्टानि विखादितान्यशुचीनि दुर्गन्धानि, स इममेव कायं तत्रोपसंहरतीति पूर्ववत्॥ पे॥ पुनरपरं यदा पश्यति मृतशरीराणि शिवपथिकायामस्थिसंकलिकां मांसशोणितभ्रक्षितां स्नायुविनिबद्धाम्। स तत्रेममेव कायमिति पूर्ववत्॥ पुनरपरं यदा मृतशरीराणि पश्यति शिवपथिकायामस्थिसंकलीभूतानि अपगतमांसशोणितस्नायुबन्धनानि, स इममेव कायमिति पूर्ववत्॥ पुनरपरं यदा पश्यति शिवपथिकायामस्थीनि दिग्विदिक्षु क्षिप्तानि, यदुतान्येन पादास्थीनि, अन्येन जङ्घास्थीनि, अन्येन चोर्वस्थीनि, अन्येन श्रोणिकटाहकम्, अन्येन पृष्ठवंशम्, अन्येन पार्श्वकास्थीनि, अन्येन ग्रीवास्थीनि, अन्येन बाह्वस्थीनि, स इममेव कायमुपसंहरतीति पूर्ववत्॥ पे॥ पुनरपरं यदा पश्यति शिवपथिकायामस्थीन्यनेकवार्षिकाणि वातानुपरिशोषितानि शङ्खसंनिभानि, इममेव कायं तत्रोपसंहरतीति पूर्ववत्। अयमपि काय एवंधर्मा एवंस्वभाव एतां धर्मतां न व्यतिवृत्त इति॥ पुनरपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् यदा पश्यति शिवपथिकायामस्थीन्यनेकवार्षिकाणि तिरोभूतानि नीलानि कपोतवर्णानि पूतीनि चूर्णकजातानि पृथिव्यां पांशुनाशमसभीभूतानि, स इममेव कायं तत्रोपसंहरति- अयमपि काय एवंधर्माः एवंस्वभावः, एतां धर्मतां न व्यतिवृत्त इति॥



एष तावत्समासतो रागस्य समुदाचारप्रतिपक्षः। द्वेषस्य मैत्री प्रतिपक्षः, अप्रियसत्त्वादर्शनं च। तेन वा सह भोजनाद्येकार्थतया प्रीत्युत्पादनं तत्र परसुखस्याशंसा प्रार्थना तृष्णाभिनन्दनं मैत्री। कामरागप्रत्युपकारहेतुभ्यामक्लिष्टः स्नेह इत्यर्थः॥



सा त्रिविधा आर्याक्षयमतिसूत्रेऽविहिता- सत्वारम्बणा मैत्री प्रथमचित्तोत्पादिकानां बोधिसत्त्वानाम्, धर्मारम्बणा चर्याप्रतिपन्नानां बोधिसत्त्वानाम्, अनारम्बणा मैत्री अनुत्पत्तिकधर्मक्षान्तिप्रतिलब्धानां बोधिसत्त्वानामिति॥



पुनर्बुद्धरम्बणा बोधिसत्त्वारम्बणा श्रावकप्रत्येकबुद्धारम्बणा सत्त्वारम्बणा च। तत्र सत्त्वारम्बणायाः पूर्वं प्रिये सत्त्वे हितसुखोपसंहारान्न ध्यानमभ्यस्य। तत्समे मैत्रीमुपसंहरेत्। ततः परिचित्तेषु, तत उदासीनेषु, ततः समीपवासिषु, ततः स्वग्रामवासिषु, एवं परग्रामे च। एवं यावदेकां दिशमधिमुच्य स्फरित्वोपसंपद्य विहरति। एवं दशसु दिक्षु। बुद्धाद्यारम्बणायास्त्वयं प्रयासो नास्ति॥



सा च वज्रध्वजपरिणामनायामुक्ता, स बोधिसत्त्वचर्याणां चरन् यावन्ति कानिचिद् दृश्यन्ते रूपाणि मनोज्ञानि वा प्रतिकूलानि वा, एवं शब्दा गन्धा रसा स्प्रष्टव्या धर्मा मनोज्ञा वा प्रतिकूला वा, अनवद्या विशुद्धाः कल्याणोदारप्रभास्वरा वा, येन सौमनस्यं जायते। सुखमवक्रामति। प्रसादो जायते। प्रीतिः संभवति। प्रामोद्यं संतिष्ठते। हर्षः प्रादुर्भवति। दौर्मनस्यं निवर्तते। चित्तकल्पता प्रादुर्भवति। चित्तं कर्मण्यं भवति। आशयो मृदुर्भवति। इन्द्रियाणि प्रह्लादं गच्छन्ति। सततसुखं संवेदयमान एवं परिणामयति सर्वबुद्धानामेतया परिणामनया भूयस्या मात्रयाते बुद्धा भगवन्तोऽचिन्त्येन बुद्धविहारसुखेन समन्वागता भवन्तु, अतुल्येन बुद्धसमाधिसुखेन सुसंगृहीता भवन्तु, अनन्तसुखेन भूयस्या मात्रयोपस्तब्धा भवन्तु। अप्रमाणेन बुद्धविमोक्षसुखेन समन्वागता भवन्तु। अप्रमेयेण बुद्धप्रातिहार्यसुखेन सुसंगृहीता भवन्तु। अचिन्त्येन बुद्धासङ्गविहारसुखेन सुपरिगृहीता भवन्तु। दुरासदेन बुद्धवृषभितसुखेनाभिच्छन्ना भवन्तु। अप्रमेयेण बुद्धबलसुखेन अत्यन्तसुखिता भवन्तु। सर्ववेदितशान्तेनानुत्पत्तिसुखेनाधिकारसुखा भवन्तु। असङ्गविहारसततसमाहितेन तथागतसुखेनाद्वयसमुदाचारेणाविकोपितसुखा भवन्तु॥ एवं बोधिसत्त्वस्तत्कुशलमूलं तथागतेषु परिणमय्य बोधिसत्त्वेषु परिणामयति। यदिदमपरिपूर्णानामभिप्रायाणां परिपूरणाय परिणामयति अपरिशुद्धानां सर्वज्ञताध्याशयानां परिशुद्धयै। अपरिनिष्पन्नानां सर्वपारमितानां परिनिष्पत्तये। वज्रोपमस्य बोधिचित्तोत्पादस्याधिष्ठानाय। अनिवर्त्यस्य सर्वज्ञतासंनाहस्याप्रतिप्रस्त्रब्धये। बोधिसत्त्वानां कुशलमूलानां मार्गणतायै। सर्वजगत्समतास्थितस्य महाप्रणिधानस्य परिपूरये। सर्वबोधिसत्त्वविहाराणामधिगमाय। सर्वबोधिसत्त्वेन्द्रियाणां तीक्ष्णाभिज्ञतायै। सर्वबोधिसत्त्वकुशलमूलानां सर्वज्ञतास्पर्शनतायै॥ स एवं तत्कुशलमूलं बोधिसत्त्वानामर्थाय परिणमय्य बुद्धशासनावचरेषु सर्वश्रावकप्रत्येकबुद्धेषु तत्कुशलमूलमेव परिणामयति। ये केचित्सत्त्वा एकाच्छटासंघातमात्रमपि बुद्धशब्दं शृण्वन्ति, धर्मशब्दं वा आर्यसंघपर्युपासनं वा कुर्वन्ति, तेषां तत्कुशलमूलमनुत्तरायै सम्यक्संबोधिये परिणामयति। बुद्धानुस्मृतिपरिपूर्यै परिणामयति। धर्मानुस्मृतिप्रयोगतायै परिणामयति। आर्यसंघगौरवाय परिणामयति। अचिरहितबुद्धदर्शनतायै परिणामयति। चित्तपरिशुद्धयै परिणामयति। बुद्धधर्मप्रतिवेधाय परिणामयति। अप्रमेयगुणप्रतिपत्तये परिणामयति। सर्वाभिज्ञाकुशलपरिशुद्धयै परिणामयति।धर्मविमतिविनिवर्तनाय परिणामयति। यथा बुद्धशासनावचरेषु परिणामयति, श्रावकप्रत्येकबुद्धेषु च। तथा स बोधिसत्त्वः सर्वसत्त्वेषु तत्कुशलमूलं परिणामयति॥ यदिदं नैरयिकमार्गविनिवर्तनाय परिणामयति। तिर्यग्योनिव्यवच्छेदाय परिणामयति। यमलोकोपच्छेदसुखाय परिणामयति। निरवशेषसर्वापायगत्युपपत्तिव्यवच्छेदाय परिणामयति॥ तेषां च सर्वसत्त्वानामनुत्तरबोधिच्छन्दविवर्धनतायै परिणामयति॥ अध्याशयसर्वज्ञताचित्तलाभाय परिणामयति। सर्वबुद्धधर्माप्रतिक्षेपाय परिणामयति। अत्यन्तसुखसर्वज्ञताभूमिसंवर्तनाय परिणामयति। अत्यन्तसर्वसत्त्वविशुद्धये परिणामयति। सर्वसत्त्वानामनन्तज्ञानाधिगमाय परिणामयति। पे। तस्य यत्किंचिच्चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यगमनागमनशरीरोपस्थाननिषद्यादिनिषेवणायतनानां प्रवर्तनकर्म ईर्यापथाधिष्ठानमीर्यापथस्याविकोपनं कायकर्म वाक्कर्म मनस्कर्म सुचरितं षण्णामिन्द्रियाणां संवरः स्वशरीराच्छादनमर्दनस्नानकर्म, अशितपीतखादितं संमिञ्जितप्रसारितावलोकितविलोकितसुप्तजागरितस्वशरीरगतोपस्थानम्, सर्वमेतद्बोधिसत्त्वस्य सर्वज्ञतालम्बनप्रयुक्तस्य न किंचिदपरिणांमितसर्वज्ञतायां सर्वसत्त्वहितसुखचित्तस्य॥ पे॥ सर्वजगत्परित्राणमनसो नित्योद्युक्तकुशलमूलस्य मदप्रमादव्यतिवृत्तस्य॥ पे॥ सर्वक्लेशपराङ्युखस्य सर्वबोधिसत्त्वानुशिक्षणचेतसः सर्वज्ञतामार्गाप्रतिहतस्य ज्ञानभूमिनिषेवणस्य पण्डितसंवासाभिरतस्य॥ पे॥ मधुकर इव कुशलमूलसंभरणस्य सर्वजगदुच्चलितसंतानस्यानभिनिविष्टसर्वसंस्कारस्य। पे॥ अन्तशः श्वस्वपि तदन्येष्वपिं तिर्यग्योनिगतेष्वेकौदनोन्मिञ्जितमेकालोपं वा परित्यजति। सुगतावुपपत्तिषु तत्सर्वं तेषामेव हिताय तेषामेव परिमोचनाय परिणामयति। तस्यास्तिर्यग्योनिस्तस्माद्दुःखार्णवात्तस्माद्दुःखोत्पादात्तस्माद्दुःखस्कन्धात्तस्माद्दुःखावेदनायः तस्माद्दुःखोपचयात्तस्माद्दुःखाभिसंस्कारात्तस्माद्दुःखनिदानात्ततो दुःखमूलात्तस्माद्दुःखायतनात्तेषां सत्त्वानां विनिवर्तनाय परिणामयति, तदारम्बणेन च सर्वसत्त्वारम्बणीकरोति मनसिकरोति, तत्र कुशलमूले पूर्वंगमीकरोति, यदिदं सर्वज्ञतायां परिणामयति। बोधिचित्तोत्पादेन प्रतिगृह्णाति। तत्र कुशलमूलमुपनयति। संसारकान्ताराद्विनिवर्तयति। अनावरणेन बुद्धसुखेनाभिमुखीकरोति। संसारसागरादुन्मज्जयति। बुद्धधर्मप्रयुक्तय मैत्र्या स्फरतीत्यादि॥ इमाश्च सुवर्णप्रभासोक्ता मैत्रीकरुणागर्भा गाथाः सर्वा आदरतः समन्वाहृत्य भावयितव्या अन्तशो वचसापि-



सुवर्णभासोत्तमदुन्दुभेन शाम्यन्तु दुःखास्त्रिसहस्त्रलोके।

अपायदुःखा यमलोकदुःखा दारिद्रदुःखाश्च इह त्रिलोके॥

अनेन चो दुन्दुभिघोषनादिना शाम्यन्तु सर्वव्यसनानि लोके।

भवन्तु सत्त्वा ह्यभयाहता तथा यथाभयाः शान्तभया मुनीन्द्राः॥

यथैव सर्वार्यगुणोपपन्नाः संसारसर्वज्ञमहासमुद्राः।

तथैव भोन्तु गुणसागराः प्रजाः समाधिबोध्यङ्गगुणैरुपेताः॥

अनेन चो दुन्दुभिघोषनादिना भवन्तु ब्रह्मस्वर सर्वसत्त्वाः।

स्पृशन्तु बुद्धत्ववराग्रबोधिं प्रवर्तयन्तू शुभधर्मचक्रम्॥

तिष्ठन्तु कल्पानि अचिन्तियानि देशन्तु धर्मं जगतो हिताय।

हनन्तु क्लेशान् बिधमन्तु दुःखान् समेन्तु रागं तथ दोष मोहम्।

ये सत्त्व तिष्ठन्ति अपायभूमौ आदीप्त संप्रज्वलितास्थिगात्राः।

शृण्वन्तु ते दुन्दुभि संप्रवादितं नमोऽस्तु बुद्धाय भणन्तु वाचम्॥

जातिस्मराः सत्त्वा भवन्तु सर्वे जातीशतं जातिसहस्त्रकोटयः।

अनुस्मरन्तू सततं मुनीन्द्रान् शृण्वन्तु तेषां वचनं ह्युदारम्॥

अनेन चो दुन्दुभिघोषनादिना लभन्तु बुद्धेहि समागमं सदा।

विवर्जयन्तू खलु पापकर्म चरन्तु कुशलानि शुभक्रियाणि॥

सर्वत्र क्षेत्रेषु च सर्वप्राणिनां सर्वे च दुःखाः प्रशमन्तु लोके।

ये सत्त्व विकलेन्द्रिय अङ्गहीनाः ते सर्वि सकलेन्द्रिय भोन्तु सांप्रतम्॥

ये व्याधिता दुर्बलक्षीणगात्रा निस्त्राणभूताः शयिता दिशासु।

ते सर्वि मुच्यन्तु च व्याधितो लघु लभन्तु चारोग्यबलेन्द्रियाणि॥

ये राजचौरभटतर्जितवध्यप्राप्ता नानाविधैर्मयशतैर्व्यसनोपपन्नाः॥

ते सर्वि सत्त्व व्यसनागतदुःखिता हि मुच्यन्तु तैर्भयशतैः परमैः सुघोरैः॥

ये ताडिता बन्धनबद्धपीडिता विविधेषु व्यसनेषु च संस्थिता हि।

अनेकआयाससहस्त्रआकुला विचित्रभयदारुणशोकप्राप्ताः॥

ते सर्वि मुच्यन्त्विह बन्धनेभ्यः संताडिता मुच्यिषु ताडनेभ्यः।

बध्याश्च संयुज्यिषु जीवितेन व्यसनागता निर्भय भोन्तु सर्वे॥

ये सत्त्व क्षुत्तर्षपिपासपीडिता लभन्तु ते भोजनपान चित्रम्।

अन्धाश्च पश्यन्तु विचित्ररूपां बधिराश्च शृण्वन्तु मनोज्ञघोषान्॥

नग्राश्च वस्त्राणि लभन्तु चित्रां दरिद्रसत्त्वाश्च निधिं लभन्तु।

प्रभूतधनधान्यविचित्ररत्नैः सर्वे च सत्त्वाः सुखिनो भवन्तु॥

मा कस्यचिद्भवतु दुःखवेदना सौख्यान्विताः सत्त्व भवन्तु सर्वे।

अभिरूपप्रासादिकसौम्यरूपा अनेकसुखसंचित नित्य भोन्तु॥

मनसान्नपानाः सुसमृद्धपुण्याः सह चित्तमात्रेण भवन्तु तेषाम्।

वीणामृदङ्गाः पणवाः सुघोषकाः उत्सा सराः पुष्करिणी तडागाः॥

सुवर्णपद्मोत्पलपद्मिनीश्च सह चितत्मात्रेण भवन्तु तेषाम्।

गन्धं च माल्यं च विलेपनं च वासश्च चूर्णं कुसुमं विचित्रम्॥

त्रिष्कालवृक्षेमि प्रवर्षयन्तु गृह्णन्तु ते सत्त्व भवन्तु हृष्टाः।

कुर्वन्तु पूजां दशसू दिशासु अचिन्तियां सर्वतथागतानाम्॥

सबोधिसत्त्वानथ श्रावकाणां धर्मस्य बोधि प्रतिसृष्टितस्य।

नीचां गतिं सत्त्व विवर्जयन्तु भवन्तु अष्टाक्षणवीतिवृत्ताः॥

आसादयन्तू जिनराजमुत्तमं लभन्तु बुद्धेहि समागमं सदा।

सर्वाः स्त्रियो नित्य नरा भवन्तु शूराश्च वीरा विदुपण्डिताश्च॥

ते सर्वि बोधाय चरन्तु नित्यं चरन्तु ते पारिमितासु षट्सु।

पश्यन्तु बुद्धान् दशसू दिशासु रत्नद्रुमेन्द्रेषु सुखोपविष्टान्।

वैडूर्यरत्नासनसंनिषण्णान् धर्माश्च शृण्वन्तु प्रकाश्यमानान् इति॥



एषा संक्षेपतो मैत्री द्वेषसमुदाचारप्रतिपक्षः॥

मोहानुशयस्य प्रतीत्यसमुत्पाददर्शनं प्रतिपक्षः॥



तत्र प्रतीत्यसमुत्पादः शालिस्तम्बसूत्रेऽभिहितः- तत्राध्यात्मिकस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धः कतमः? यदिदमबिद्याप्रत्ययाः संस्कारा यावज्जातिप्रत्ययं जरामरणमिति। अविद्या चेन्नाभविष्यत्, नैव संस्काराः प्राज्ञास्यन्त। एवं यावद्यदि जातिर्नाभविष्यत्, न जरामरणं प्राज्ञास्यत। अथ सत्यामविद्यायां संस्काराणामभिनिर्वृत्तिर्भवति। एवं यावज्जात्यां सत्यां जरामरणस्याभिनिर्वृत्तिर्भवति। तत्र अविद्याया नैवं भवति- अहं संस्कारानभिनिर्वर्तयामीति। संस्काराणामप्येवं न भवति- वयमविद्ययाभिनिर्वृत्ता इति। एवं यावज्जात्या नैवं भवति- अहं जरामरणमभिनिर्र्वर्तयामीति।

जरामरणस्यापि नैवं भवति- अहं जात्या निर्वृत्त इति। अथ च सत्यामविद्यायां संस्काराणामभिनिर्वृत्तिर्भवति प्रादुर्भावः। एवं यावज्जात्यां सत्यां जरामरणस्याभिनिर्वृत्तिर्भवति प्रादुर्भावः। एवमाध्यात्मिकस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धो द्रष्टव्यः॥



कथमाध्यात्मिकस्य प्रतीत्यसमुत्पादस्य प्रत्ययोपनिबन्धो द्रष्टव्य इति? [षण्णां धातूनां समवायात्। कतमेषां षण्णां धातूनां समवायात्?] यदिदं पृथिव्यप्तेजोवाय्वाकाशविज्ञानधातूनां समवायादाध्यात्मिकस्य प्रतीत्यसमुत्पादस्य प्रत्ययोपनिबन्धो द्रष्टव्यः॥ तत्राध्यात्मिकस्य प्रतीत्यसमुत्पादस्य पृथिवीधातुः कतम इति? योऽयं कायस्य संश्लेषतः कठिनभावमभिनिर्वर्तयति, अयमुच्यते पृथिवीधातुः। यः कायस्यानुपरिग्रहकृत्यं करोति, अयमुच्यतेऽब्धातुः। यः कायस्याशितपीतभक्षितं परिपाचयति, अयमुच्यते तेजोधातुः। यः कायस्याश्वासप्रश्वासकृत्यं करोति, अयमुच्यते वायुधातुः। यः कायस्यान्तःशौषिर्यभावमभिनिर्वर्तयति, अयमुच्यते आकाशधातुः।



यो नामरूपमभिनिर्वर्तयति नडकलापयोगेन पञ्चविज्ञानकायसंप्रयुक्तं सास्त्रवं च मनोविज्ञानम्, अयमुच्यते विज्ञानधातुः। असत्सु प्रत्ययेषु कायस्योत्पत्तिर्न भवति। यदा आध्यात्मिकः पृथिवीधातुरविकलो भवति, एवमप्तेजोवाय्वाकाशविज्ञानधातवश्चाविकला भवन्ति, ततः सर्वेषां समवायात्कायस्योत्पत्तिर्भवति। तत्र पृथिवीधातोर्नैवं भवति - अहं कायस्य कठिनभावभिनिर्वर्तयामीति। अब्धातोर्नैवं भवति- अहं कायस्यानुपरिग्रहकृत्यं करोमीति। तेजोधातोर्नैवं भवति- अहं कायस्याशितपीतखादितं परिपाचयामीति। वायुधातोर्नैवं भवति- अहं कायस्याश्वासप्रश्वासकृत्यं करोमीति। आकाशधातोर्नैवं भवति- अहं कायस्यान्तःशौषिर्य करोमीति। विज्ञानधातोर्नैवं भवति- अहमेभिः प्रत्ययैर्जनित इति। अथ च सत्स्वेषु प्रत्ययेषु कायस्योत्पतिर्भवति। तत्र पृथिवीधातुर्नात्मा न सत्त्वो न जीवो न जन्तुर्न मनुजो न मानवो न स्त्री न पुमान्न नपुंसकम्, न चाहम्, न मम, न चाप्यन्यस्य कस्यचित्। एवमब्धातुस्तेजोधातुर्वायुधातुराकाशधातुर्विज्ञानधातुर्न सत्त्वो न जीवो न जन्तुर्न मनुजो न मानवो न स्त्री न पुमान्न नपुंसकं न चाहं न मम न चाप्यन्यस्य कस्यचित्॥



तत्र अविद्या कतमा? या एष्वेव षट्सु धातुष्वेकसंज्ञा पिण्डसंज्ञा नित्यसंज्ञा ध्रुवसंज्ञा शाश्वतसंज्ञा सुखसंज्ञा आत्मसंज्ञा सत्वजीवमनुजमानवसंज्ञा, अहंकारममकारसंज्ञा। एवमादि विविधमज्ञानम्। इयमुच्यतेऽविद्येति। एवमविद्यायां सत्यां विषयेषु रागद्वेषमोहाः प्रवर्तन्ते। तत्र ये रागद्वेषमोहा विषयेषु,अमी उच्यन्ते संस्कारा इति। वस्तुप्रतिविज्ञप्तिर्विज्ञानम्। विज्ञानसहजाश्चत्वारोऽरूपिण उपादानस्कन्धाः, तन्नाम[रूपम्] , चत्वारि च महाभूतानि चोपादाय उपादाय रूपमैकध्यमभिसंक्षिप्य तन्नामरूपम्। नामरूपसंनिश्रितानीन्द्रियाणि षडायतनम्। त्रयाणां धर्माणां संनिपातः स्पर्शः। स्पर्शानुभवना वेदना। वेदनाध्यवसानं तृष्णा। तृष्णावैपुल्यमुपादानम्। उपादाननिर्जातं पुनर्भवजनकं कर्म भवः। तद्धेतुकस्कन्धप्रादुर्भावो जातिः। स्कन्धपरिपाको जरा। स्कन्धानां विनाशो मरणम्। म्रियमाणस्य मूढस्य साभिष्वङ्गस्यान्तर्दाहः शोकः। लालप्यनं परिदेवः। पञ्चविज्ञानकायसंप्रयुक्तमसातानुभवनं दुःखम्। मनसिकारसंप्रयुक्तं मानसं दुःखं दौर्मनस्यम्। ये वान्ये एवमादय उपक्लेशास्त उपायासाः॥ पेयालं॥



पुनरपरं तत्त्वेऽप्रतिपत्तिः मिथ्याप्रतिपत्तिः अज्ञानमविद्या। एवमविद्यायां सत्यां त्रिविधाः संस्काराः अभिनिर्वर्तन्ते पुण्योपगा अपुण्योपगा आनिञ्ज्योपगाश्च। इम उच्यन्तेऽविद्याप्रत्ययाः संस्कारा इति। पुण्योपगानां संस्काराणां पुण्योपगमेव विज्ञानं भवति। अपुण्योपगानां संस्काराणामपुण्योपगमेव विज्ञानं भवति। आनिञ्ज्योपगाना संस्कारणामानिञ्ज्योपगमेव विज्ञानं भवति। इदमुच्यते संस्कारप्रत्ययं विज्ञानमिति। एवं नामरूपम्। नामरूपविवृद्धया षड्भिरायतनद्वारैः कृत्यक्रियाः प्रवर्तन्ते। तन्नामरूपप्रत्ययं षडायतनमित्युच्यते। षड्भ्य आयतनेभ्यः षट् स्पर्शकायाः प्रवर्तन्ते, अयं षडायतनप्रत्ययः स्पर्श इत्युच्यते। यज्जातीयः स्पर्शो भवति, तज्जातीया वेदना प्रवर्तते। इयं स्पर्शप्रत्यया वेदनेत्युच्यते। यस्तां वेदयति विशेषेणास्वादयति, अभिनन्दति अध्यवस्यति अधितिष्ठति, सा वेदनाप्रत्यया तृष्णेत्युच्यते। आस्वादनाभिनन्दनाध्यवसानम्- मा मे प्रियरूपसातरूपैर्वियोगो भवत्विति अपरित्यागो भूयो भूयश्च प्रार्थना, इदं तृष्णाप्रत्ययमुपादानमित्युच्यते। एवं प्रार्थयमानः पुनर्भवजनकं कर्म समुत्थापयति कायेन वाचा मनसा। अयमुपादानप्रत्ययो भव इत्युच्यते। या कर्मनिर्जातानां स्कन्धानामभिनिर्वृतिः, सा भवप्रत्यया जातिरित्युच्यते। यो जात्यभिनिर्वृत्तानां स्कन्धानामुपचयपरिपाकाद्विनाशो भवति, तदिदं जातिप्रत्ययं जरामरणमुच्यते॥पे॥ एवमयं द्वादशाङ्गः प्रतीत्यसमुत्पादोऽन्योन्यहेतुकोऽन्योन्यप्रत्ययतो नैवानित्यो न नित्यो न संस्कृतो नासंस्कृतो न वेदयिता न क्षयधर्मो न निरोधधर्मो न विरागधर्मः अनादिकालप्रवृत्तोऽनुद्भिन्नोऽनुप्रवर्तते नदीस्त्रोतवत्। अथ च। इमान्यस्य द्वादशाङ्गस्य प्रतीत्यसमुत्पादस्य चत्वारि अङ्गानि संघातक्रियायै हेतुत्वेन प्रवर्तन्ते। कतमानि चत्वारि? यदुत अविद्या तृष्णा कर्म विज्ञानं च। तत्र विज्ञानं वीजस्वभावत्वेन हेतुः। कर्म क्षेत्रस्वभावत्वेन हेतुः। अविद्या तृष्णा च क्लेशस्वभावेन हेतुः। कर्मक्लेशा विज्ञानबीजं संजनयन्ति। तत्र कर्म विज्ञानबीजस्य क्षेत्रकार्यं करोति। तृष्णा विज्ञानबीजं स्नेहयति। अविद्या विज्ञानबीजमवकिरति। [ असतामेषां प्रत्ययानां बीजस्याभिनिवृत्तिर्न भवति ]। तत्र कर्मणो नैवं भवति- अहं विज्ञानबीजं स्नेहयामीति। अबिद्याया अपि नैवं भवति- अहं विज्ञानबीजमवकिरामीति। विज्ञानबीजस्यापि नैवं भवति- अहमेभिः प्रत्ययैर्जनित इति। अपि तु विज्ञानबीजे कर्मक्षेत्रप्रतिष्ठिते तृष्णास्नेहाभिष्यन्दितेऽविद्यावकीर्णे तत्रतत्रोपपत्त्यायतनसंघौ मातुः कुक्षौ विरोहति, नामरूपाङ्कुरस्याभिनिर्वृत्तिर्भवति। स च नामरूपाङ्कुरो न स्वयंकृतो न परकृतो नोभयकृतो निश्वरादिनिर्मितो न कालपरिणामितो न चैककारणाधीनो नाप्यहेतुसमुत्पन्नः। अथ च मातापितृसंयोगादृतुसमवायादन्येषां च प्रत्ययानां समवायादास्वादानुप्रविद्धं विज्ञानबीजं मातुः कुक्षौ नामरूपाङ्कुरबीजमभिनिर्वर्तति। अस्वामिकेषु धर्मेषु अममेषु अपरिग्रहेषु अप्रत्यर्थिकेषु आकाशसमेषु मायालक्षणस्वभावेषु हेतुप्रत्ययानामवैकल्यात्। तद्यथा पञ्चभिः कारणैश्चक्षुर्विज्ञानमुत्पद्यते। कतमैः पञ्चभिः? चक्षुश्च प्रतीत्य रूपं च आलोकं च आकाशं तज्जं च मनसिकारं प्रतीत्योत्पद्यते चक्षुर्विज्ञानम्। तत्र चक्षुर्विज्ञानस्य चक्षुराश्रयकृत्यं करोति। रूपमारम्बणकृत्यं करोति। आलोकोऽवभासकृत्यं करोति। आकाशमनावरणकृत्यं करोति। तज्जमनसिकारः समन्वाहारकृत्यं करोति। असत्स्वेषु प्रत्ययेषु चक्षुर्विज्ञानं नोत्पद्यते। यदा चक्षुराध्यात्मिकमायतनमविकलं भवति, एवं रूपालोकाकाशतज्जमनसिकाराश्च अविकला भवन्ति, ततः सर्वसमवायाच्चक्षुर्विज्ञानस्योत्पत्तिर्भवति। तत्र चक्षुषो नैवं भवति- अहं चक्षुर्विज्ञानस्याश्रयकृत्यं करोमीति। रूपस्यापि नैवं भवति- अह चक्षुर्विज्ञानस्यारम्बणकृत्यं करोमीति। आलोकस्यापि नैवं भवति- अहमवभासकृत्यं करोमीति। आकाशस्यापि नैवं भवति- अहं चक्षुर्विज्ञानस्यानावरणकृत्यं करोमीति। तज्जमनसिकारस्यापि नैवं भवति- अहं चक्षुर्विज्ञानस्य समन्वाहारकृत्यं करोमीति। चक्षुर्विज्ञानस्यापि नैवं भवति- अहमेभिः प्रत्ययैर्जनित इति। अथ च पुनः सत्स्वेषु प्रत्ययेषु चक्षुर्विज्ञानस्योत्पत्तिर्भवति प्रादुर्भावः। एवं शेषाणामिन्द्रियाणां यथायोग्यं कर्तव्यम्॥



तत्र न कश्चिद्धर्मोऽस्माल्लोकात्परं लोकं संक्रामति। अस्ति च कर्मफलप्रतिविज्ञप्तिः, हेतुप्रत्ययानामवैकल्यात्। यथा अग्निरूपादानवैकल्पान्न ज्वलति, एवमेव कर्मक्लेशजनितं विज्ञानबीजं तत्रतत्रो पपत्त्यायतनप्रतिसंधौ मातुः कुक्षौ नामरूपाङ्कुरमभिनिर्वर्तयति, अस्वामिकेषु धर्मेषु अममेषु अपरिग्रहेषु अप्रत्यर्थिकेषु आकाशसमेषु मायालक्षणस्वभावेषु, हेतुप्रत्ययानामवैकल्यात्॥



तत्राध्यात्मिकः प्रतीत्यसमुत्पादः पञ्चमिः कारणैर्द्रष्टव्यः। कतमैः पञ्चमिः? न शाश्वततो नोच्छेदतो न संक्रान्तितः परीत्तहेतुतो विपुलफलाभिनिर्वृत्तितः तत्सदृशानुप्रबन्धतश्चेति। कथं न शाश्वततः? यस्मादन्ये मारणान्तिकाः स्कन्धा अन्य औपपत्त्यंशिकाः। न तु य एव मारणान्तिकाः स्कन्धास्त एवौपपत्यंशिकाः स्कन्धाः। अपि तु मारणान्तिकाश्च स्कन्धा निरुध्यमाना औपपत्त्यंशिकाः स्कन्धाश्च प्रादुर्भवन्ति। अतो न शाश्वततः॥ कथं नोच्छेदतः? न च निरुद्धेषु स्कन्धेषु औपपत्त्यंशिकाः स्कन्धाः प्रादुर्भवन्ति, नाप्यनिरुद्धेषु। अपि तु मारणान्तिकाश्च स्कन्धा निरुध्यन्ते, औपपत्त्यंशिकाश्च प्रादुर्भवन्ति। तुलादण्डोन्नामावनामवत्। अतो नोच्छेदतः॥ [ कथं न संक्रान्तितः?] विसदृशात्सत्त्वनिकायाद्विभागाः स्कन्धा जात्यन्तरेऽभिनिर्वर्तन्ते। अतो न संक्रान्तितः। [ कथं परीत्तहेतुतो विपुलफलाभिनिर्वृत्तितः?] परीत्तं कर्म क्रियते, विपुलः फलविपाकोऽनुभूयते। अतः परीत्तहेतुतो विपुलफलाभिनिर्वृत्तितः॥ [कथं तत्सदृशानुप्रबन्धतः?] यथावेदनीयं कर्म क्रियते, तथावेदनीयो विपाकोऽनुभूयते। अतस्तत्सदृशानुप्रबन्धतश्चेति॥



यः कश्चिद्भदन्त शारिपुत्र इमं प्रतीत्यसमुत्पादं भगवता सम्यक्प्रणीतमेवं यथाभूतं सम्यक्प्रज्ञया सततसमितमजीवं निर्जीवं यथावदविपरीतमजातमभूतमकृतमसंस्कृतमप्रतिघमनावरणं शिवमभयं महार्थमव्ययमव्युपशममस्वभावं पश्यति, असत्यतस्तुच्छतो रिक्ततोऽसारतोऽघतोऽनित्यतो दुःखतः शून्यतोऽनात्मतश्च समनुपश्यति, स न पूर्वान्तं प्रतिसरति- किमहमभूवमतीतेऽध्वनि, आहोस्विन्नाभूवमतीतेऽध्वनि, को न्वहमभूवमतीतेऽध्वनि। अपरान्तं वा पुनर्न प्रतिसरति- किं नु भविष्याम्यनागतेऽध्वनि, आहोस्विन्न भविष्याम्यनागतेऽध्वनि, को नु भविष्यामीति। प्रत्युत्पन्नं वा पुनर्न प्रतिसरति- किंस्विदिदं कथं स्विदिदम्, के सन्तः के भविष्याम इति॥



आर्यदशभूमकेऽप्युक्तम्- तत्र अविद्या तृष्णोपादानं च क्लेशवर्त्मनोऽव्यवच्छेदः। संस्काराभवश्च कर्मवर्त्मनोऽव्यवच्छेदः। परिशेषं दुःखवर्त्मनोऽव्यवच्छेदः। अपि तु खलु पुनर्यदुच्यते-अविद्याप्रत्ययाः संस्कारा इति, एषा पूर्वान्तिक्यपेक्षा। विज्ञानं यावद्वेदनेति, एषा प्रत्युत्पन्नापेक्षा। तृष्णा यावद्भव इति, एषाऽपरान्तिक्यपेक्षा। अत ऊर्ध्वमस्य प्रवृत्तिरिति। पेयालं। तस्यैवं भवति-संयोगात्संस्कृतं प्रवर्तते, विसंयोगान्न प्रवर्तते। सामग्रयाः संस्कृतं प्रवर्तते, विसामग्र्या न प्रवर्तते। हन्त वयमेवं बहुदोषदुष्टं संस्कृतं विदित्वा अस्य संयोगस्य अस्याश्च सामग्र्या व्यवच्छेदं करिष्यामः। न चात्यन्तोपशमं सर्वसंस्काराणामधिगमिप्यामः सत्त्वपरिपाचनतायै। इति॥ इदं संक्षेपान्मोहशोधनम्॥



इति शिक्षासमुच्चये चित्तपरिकर्मपरिच्छेदो द्वादशमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project