Digital Sanskrit Buddhist Canon

अरण्यसंवर्णनं नामैकादशः परिच्छेदः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
अरण्यसंवर्णनं नामैकादशः परिच्छेदः।



तदेवमुग्रदत्तपरिपृच्छाविधिना गृहदोषान् भावयित्वा श्रुतवता चित्तं शोधयितुमरण्यमाश्रयणीयमिति स्थितम्। तथा चोक्तं चन्द्रप्रदीपसूत्रे-



न जातु कामान् प्रतिषेवमाणः पुत्रेषु दारेषु जनित्व तृष्णाम्॥

गृहं च सेवित्व जुगुप्सनीयमनुत्तरां प्राप्स्यति सोऽग्रबोधिम्॥

ये काम वर्जन्ति यथाऽग्निकर्षूं पुत्रेषु दारेषु जनित्व तृष्णाम्।

उत्त्रस्त गेहादभिनिष्क्रमन्ति न दुर्लभा तेष्वियमग्रबोधिः॥

न कश्चि बुद्धः पुरिमेण आसीदनागतो भेष्यति योऽवतिष्ठते।

येहि स्थितैरेव अगारमध्ये प्राप्ता इयं उत्तम अग्रबोधिः॥

प्रहाय राज्यं यथ खेटपिण्डं वसेदरण्येषु विवेककामः।

क्लेशान् प्रहाय विनिहत्य मानं बुध्यन्ति बोधिं विरजामसंस्कृताम्॥ पेयालं॥

अन्नेहि पानेहि च चीवरेहि पुष्पेहि गन्धेहि विलेपनेहि।

न्नोपस्थिता भोन्ति नरोत्तमा जिना यथ प्रव्रजित्वा चरमाण धर्मान्॥

यश्चैच बोधिं प्रतिकाङ्क्षमाणः सत्त्वार्थ निर्विण्ण कुसंस्कृतातः।

अरण्याभिमुख सप्त पदानि गच्छेद् अयं ततः पुण्यविशिष्ट भोति॥

यदि पुनर्विसभागसत्त्वानुनयात्परिषत्कामतया वा लाभादिकामतया वा विवेकप्रवेशे विलम्बेत, तदर्थमत्रैवोक्तम्-



न विज्ञ बालेहि करोन्ति विग्रहं सत्कृत्य बालान् परिवर्जयन्ति।

ममान्तिके चेति प्रदुष्टचित्त न बालधर्मेहि करोन्ति संस्तवम्॥

न विज्ञ बालान करोति सेवनां विदित्व बालान स्वभावसंततिम्।

कियच्चिरं बालसुसेविनापि पुनोऽपि ते भोन्ति अमित्रसंनिभाः॥

न विज्ञ बालेष्विह विश्वसन्ति विज्ञाय बालान स्वभावसंततिम्॥

स्वभावभिन्ना प्रकृतीय बालाः कुतोऽस्ति मित्रं हि पृथग्जनानाम्॥

सहधार्मिकेनो वचनेन उक्ताः क्रोधं च दोषं च अप्रत्ययं च।

प्राविष्करोन्ती इमि बालधर्मा इममर्थ विज्ञाय न विश्वसन्ति॥

बाला हि बालेहि समं समेन्ति यथा अमेध्येन अमेध्य सार्धम्।

विज्ञा पुनर्विज्ञजनेन सार्धं समेन्ति सर्पिर्यथ सर्पिमण्डे॥



तथा च पुनरत्रैवमाह-

सूसुखिताः सद ते नर लोके येषु प्रियाप्रिय नास्ति कहिंचित्।

ये च न कन्दरकेऽभिरमन्ते श्रामणकं सुसुखं अनुभोन्ति॥

येषु ममापि तु नास्ति कहिंचित् येषु परिग्रहु सर्वशु नास्ति।

खङ्गसमा विचरन्तिमु लोकं गगने पवन यथेव व्रजन्ति॥

स्युः सुखिता बत ते नर लोके येष न सज्जति मानस लोके।

वायुसमं सद तेष्विह चित्तं नो च प्रियाप्रिय विद्यति सङ्गो॥

अप्रिय ये दुखितेहि निवासो येऽपि प्रिया दुखितेहि वियोगो।

अन्त उमे अपि ते हि एति जहित्वा ते सुखिता नर ये रत धर्मे॥



पुनरत्रैवोक्तम्-



भवति सततमल्पकृत्ययोगी पृथु गुणदोषत सर्वि वर्जयित्वा।

न विवदति कदाचि युक्तयोगी इमि गुण तस्य भवन्त्यरण्यवासे॥

संद भवति निविण्ण संस्कृतेऽसौ न भवति तस्य पृहा कहिचि लोके।

न च भवति विवृद्धिरास्त्रवाणां वन वसतोऽस्य भवन्ति आनुशंसाः॥

अधिकरण न तस्य जातु भोती सद उपशान्तरतो विवेकचारी।

वचसि मनसि काय संवृतस्यो बहु गुण तस्य भवन्त्यरण्यवासे॥

भवति च अनुकूल तस्य मोक्षो लघुप्रतिविध्यति सोऽधिमुक्ति शान्ताम्।

वनिचरिधिमुक्ति सेवतोऽस्य इमि गुण भोन्त्यरण्यवासि सर्वे॥

पुनराह-

वनषण्ड सेवथ विविक्त सदा विजहित्व ग्रामनगरेषु गतिम्।

अद्वितीय खङ्गसम भोथ सदा न चिरेण लप्स्यथ समाधिवरम्॥ इति॥



आर्यराष्ट्रपालसूत्रेऽप्याह-



त्यक्त्वा गेहमनन्तदोषगहनं चिन्तानपेक्षाः सदा

तेऽरण्ये रतिमाप्नुवन्ति गुणिनः शान्तेन्द्रियाः सूरताः।

न स्त्रीसंभव नैव चापि पुरुषैस्तेषां क्कचिद्विद्यते

एकाकी विहरन्ति खङ्गसदृशाः शुद्धाशया निर्मलाः॥

लाभैर्नापि च तेषु हर्ष स्वमनो लीयन्त्यलाभैर्न च

अल्पेच्छा इतरेतरैरभिरता मायाकुहावर्जिताः॥इति॥



उग्रदत्तपरिपृच्छायामय्याह- सत्त्वसंसर्गो मे न कर्तव्यः, न हि मयैकसत्त्वस्य कुशलमूलानि संजनयितव्यानीत्यादि॥



यदि पुनः श्रुतवानिमां क्षणसंपदमासाद्य लाभादौ सक्तः चित्तं न शोधयेत्, स एवैकः सदेवके लोके वञ्चितः स्यात्॥ उक्तं हि आर्यरत्नकूटे- तद्यथा काश्यप कश्चिदेव पुरुषो महता उदकार्णवेनोह्यमान उदकतृष्णया कालं कुर्यात् एवमेव काश्यप इहैके श्रमणब्राह्मणा बहून् धर्मानुद्गृह्यपर्यवाप्य न रागतृष्णां विनोदयन्ति, न द्वेषतृष्णाम्, न मोहतृष्णां विनोदयन्ति। ते महता धर्मार्णवेनोह्यमानाः क्लेशतृष्णया कालगता दुर्गतिविनिपातगामिनो भवन्तीति॥



तस्मादवश्यमरण्यमाश्रयेत्। तादृशानि च स्थानानि आश्रयेत्, येषु च स्थानेषु नातिदूरे पिण्डपातगोचरो भवति नातिसंनिकृष्टे, येषु पानीयानि भवन्त्यच्छानि शुचीनि निर्मलान्यल्पायासानि सुखपरिभोगानि। यानि च स्थानानि वृक्षसंपन्नानि भवन्ति, पुष्पसंपन्नानि फलसंपन्नानि पत्रसंपन्नान्यपगतदुष्टश्वापदानि गुहासंपन्नानि प्राग्भारसंपन्नानि सुखपरिसर्प्यकाणि शान्तान्यद्वितीयानि, तादृशानि स्थानान्याश्रयेत्। स तेषु स्थानेष्वाश्रितो यदनेन पूर्वं पठितं भवति, तत् त्रिभी रात्रैस्त्रिर्दिवसस्य स्वाध्यायति नात्युच्चेन स्वरेण नातिनीचेन नोद्धतैरिन्द्रियैर्न बहिर्गतेन चित्तेन प्रसादमुपजीवन् ग्रन्थमुपधारयन्निमित्तान्युद्गृह्णन् मिद्धमपक्रामन्। सचेदारण्यकस्य भिक्षो राजा वोपसंक्रामति राजमात्रो वा अन्ये वा ब्राह्मणक्षत्रियनैगमजानपदाः, तेन तेषामादरेण स्वागतक्रिया कर्तव्या। एवं चानेन वक्तव्यम्- निषीद महाराज यथाप्रज्ञप्त आसने। सचेदुपविशति, द्वाभ्यामप्युपवेष्टव्यम्। सचेन्नोपविशति, उभाभ्यामपि नोपवेष्टव्यम्। सचेच्चलेन्द्रियो भवति, उत्कर्षयितव्यम्। तस्य ते महाराज लाभाः सुलब्धा यस्य ते भूप्रदेशे शीलवन्तो गुणवन्तो बहुश्रुताः श्रमणब्राह्मणाः प्रतिवसन्ति अनुपद्रुताश्चौरभटादिभिः। सचेत् स्थिरो भवति विनीतः प्रशान्तेन्द्रियः, भव्यश्च भवति धर्मदेशनायाः, ततोऽस्य विचित्रा धर्मदेशना उपसंहर्तव्या। सचेद्विचित्रां न प्रियायते, संवेगानुकूला धर्मदेशना उपसंहर्तव्या। सचेत्संवेगा[नुकूलां] न प्रियायते, उदारोदाराणि तथागतमाहात्म्यानि उपदेष्टव्यानि। ब्राह्मणक्षत्रियनैगमजानपदानामप्युपसंक्रामतां यथानुरूपाः क्रिया उपसंहर्तव्याः। स एवं बहुश्रुतः सत् प्रतिबलो भवति धार्मश्रवणिकानां चित्तमाराधयितुम्। ते च सत्त्वास्तस्यान्तिके प्रीतिं च प्रसादं च प्रामोद्यं च प्रतिलभन्त इति॥



उग्रदत्तपरिपृच्छायामप्याह- पुनरपरं गृहपते प्रव्रजितेन बोधिसत्त्वेनारण्ये प्रतिवसता एवमुपपरीक्षितव्यम्। किमर्थमहमरण्ये प्रतिवसामि? न केवलमरण्यवासेन श्रमणो भवति। बहवोऽप्यत्र अदान्ता अविनीता अयुक्ता अनभियुक्ताः प्रतिवसन्ति। तद्यथा-मृगवानरपक्षिसंघचौरचण्डालाः प्रतिवसन्ति। न च ते श्रमणगुणसमन्वागता भवन्ति। अपि तु खलु पुनरहं यस्यार्थाय अरण्ये प्रतिवसामि, स मया अर्थः परिपूरयितव्यो यदुत श्रामण्यार्थः॥ पे॥ पुनरपरं गृहपते प्रव्रजितेन बोधिसत्त्वेन अरण्ये विहरता एवमुपपरीक्षितव्यम्-किमर्थमहमरण्यमागतः? तेनैवं मीमांसयितव्यम्-भयभीतोऽस्म्यहमरण्यमागतः। कुतो भयभीतः? संगणिकाभयभीतः। संसर्गभयभीतो रागद्वेषमोहभयभीतो मानमदभ्रक्षपरिदाहभयभीतो लोमेर्ष्यामात्सर्यभयभीतः रूपशब्दगन्धरसस्पर्ष्टव्यभयभीतः। सोऽहंकारममकारभयभीतः। औद्धत्यविचिकित्साभयभीतः। स्कन्धमारभयभीतः। क्लेशमारभयभीतः। मृत्युमारभयभीतो देवपुत्रमारभयभीतः। अनित्ये नित्य इति विपर्यासभयभीतोऽनात्मनि आत्मेति विपर्यासभयभीतोऽशुचौ शुचिरिति विपर्यासभयभीतो दुःखे सुखमिति विपर्यासभयभीतः। चित्तमनोविज्ञानभयभीतो नीवरणावरणपर्युत्थानभयभीतः। सत्कायदृष्टिभयभीतः पापमित्रभयभीतो लाभसत्कारभयभीतोऽकालमन्त्रभयभीतोऽदृष्टे दृष्तमिति भयभीतोऽश्रुते श्रुतमिति भयभीतोऽमते मतमिति भयभीतोऽविज्ञाते विज्ञातमिति भयभीतोऽश्रमणे श्रमणमदभयभीतोऽन्योन्यविद्वेषणभयभीतः कामधातुरूपधात्वरूप्यधातुभयभीतः सर्वभवगत्युपपत्तिभयभीतो निरयतिर्यग्योनिपितृविषयभयभीतः। संक्षेपेण सर्वेभ्योऽकुशलेभ्यो मनसिकारेभ्यो भयभीतः। एभ्यो ह्यहमेवंरूपेभ्यो भयभैरवेभ्यो भीतोऽरण्यावासमुपगतः॥ पे॥ पुनरपरं गृहपते प्रव्रजितेन बोधिसत्त्वेनारण्यवासस्थितेन भीतेन वा त्रस्तेन वा एवं शिक्षितव्यम्- यानि कानिचिद्भयान्युत्पद्यन्ते सर्वाणी, तान्यात्मग्राहत उत्पद्यन्ते॥ पे॥ सचेत्पुनरहमरण्ये प्रतिवसन्नात्मग्राहं परित्यजेयम्, नात्माभिनिवेशं नात्मपरिग्रहं नात्मनिदानं नात्मतृष्णां नात्मसंज्ञां नात्मवादोपादानं नात्मदृष्टिं नात्माधिष्ठानं नात्मपरिकल्पनां नात्मरक्षां परित्यजेयम्, निरर्थको मेऽरण्यवासः स्यात्। अपि तु खलु पुनर्गृहपते नास्त्यात्मसंज्ञिनोऽरण्यवासो नास्ति परसंज्ञिनः॥ पे॥अरण्यवासो नाम गृहपते उच्यते सर्वधर्मेष्वसंभववासः सर्वधर्मेष्वसङ्गवासः॥ पे। तद्यथा गृहपते अरण्ये तृणगुल्मौषधिवनस्पतयः प्रतिवसन्तो न बिभ्यति, नोत्रस्यन्ति, न संत्रस्यन्ति, न संत्रासमापद्यन्ते, एवमेव गृहपते प्रव्रजितेन बोधिसत्त्वेन अरण्ये विहरता तृणगुल्मौषधिवनस्पतिकाष्ठकुडयवदात्मप्रतिभासवत्संज्ञाकाये उत्पादयितव्या। मायासमता चित्तस्योत्पादयितव्या। कोऽत्र बिभेति? कोऽस्मिन्नुत्रस्यति? तेन भयभीतेन वा त्रस्तेन वा एवं योनिशः काय उपपरिक्षितव्यः _ नास्त्यत्र काये आत्मा व सत्त्वो वा जीवो वा पोषो वा पुद्गलो वा मनुजो वा। अभूतपरिकल्प एष यदुत भयं नाम। स मया अभूतपरिकल्पो न परिकल्पयितव्यः। तेन यथा अरण्ये तृणगुल्मौषधिवनस्पतयः प्रतिवसन्ति अममा अपरिग्रहाः, एवमेवाममेनापरिग्रहेणारण्यमेव सर्वधर्मा इति ज्ञात्वा उपसंपद्य विहर्तव्यम्। तत्कस्य हेतोः? रणच्छेदोऽरण्यवासोऽममोऽपरिग्रहः। पे॥ पुनरपरं गृहपते प्रव्रजितेन बोधिसत्त्वेन बुद्धानुज्ञातो ऽरण्यवास इति ज्ञात्वा अरण्ये वस्तव्यम्। अत्र हि शुक्लधर्मपरिपूरिर्भवति। उपस्तब्धकुशलमूलः पश्चाद् ग्रामनगरनिगमराष्ट्रराजधानीष्ववतीर्य धर्मं देशयिष्यामि॥ पे॥ सचेत्पुनर्गृहपते प्रव्रजितो बोधिसत्त्व उद्देशस्वाध्यायार्थं गणमवतरति, तेन तत्र सगौरवेण भवितव्यं सप्रतीशेनाचार्योपाध्यायेषु स्थविरमध्यनवकेषु भिक्षुषु प्रदक्षिणं भवितव्यमनलसेन स्वयंकारिणा अपरोपतापिना। न च तेनोपस्थानगुरुकेण भवितव्यम्। एवं चानेनोपपरीक्षितव्यम्। तथागतोऽप्यर्हन् सम्यक्संबुद्धः सदेवस्य लोकस्य समारकस्य सब्रह्मकस्य सश्रमणब्राह्मणिकायाः प्रजायाः पूजितो दक्षिणीयः सर्वसत्त्वानाम्। सोऽपि तावन्न कस्यचित्सकाशादुपस्थानं स्वीकरोति, किं पुनरस्माभिरशिक्षितैः शिक्षितुकामैः? अपि तु वयमेव सर्वसत्त्वानामुपस्थायका भविष्यामः। वयमेव परेषामुपस्थानपरिचर्यां करिष्यामः, न च पुनः कस्यचित्सकाशादुपस्थानपरिचर्यां स्वीकरिष्यामः। तत्कस्य हेतोः? उपस्थानगुरुकस्य हि गृहपते भिक्षोर्गुणधर्मानुग्रहो नश्यति। येषां च संग्रहं करोति, तेषामेवं भवति- उपस्थानहेतोरेषोऽस्माकं संग्रहं करोति॥



पुत्ररत्रैवाह- सचेत्पुनर्गृहपते आरण्यको बोधिसत्त्वो धर्मश्रवणार्थिक आचार्योपाध्यायदर्शनार्थिको वा ग्लनपरिपृच्छको वा ग्रामान्तिकं शयनासनमागच्छेत्, तेन सायमागमनाय प्रक्रमणाय च चित्तमुत्पादयितव्यम्। सचेत्पुनरस्य परप्रतिबद्ध उद्देशः स्वाध्यायो वा, तेन विहारे प्रतिवसता अरण्यप्रवणचित्तेन भवितव्यम्। एष एव तस्यारण्यवासो यत्सर्ववस्तुष्वरण्यसंज्ञा धर्मपर्येष्टया चातृप्ततेति॥



आर्यरत्न‍रात्रिसूत्रेऽप्युक्तम्- यदि पुनरस्य तत्रारण्यायतने विहरतोऽप्राप्तफलपृथग्जनस्य व्यालमृगा आगच्छेयुः, तेन तत्र न भयं न त्रास उत्पादयितव्यः। एवं च चित्तमुत्पादयितव्यम्- पूर्वमेवाहमुत्सृष्टकायजीवितोऽरण्यवासमुपगतः। न मयात्र भेतव्यम् नोत्रसितव्यम्, अपि तु मैत्रीमुत्पादयि[त्वा] दोषं विवर्जयिष्यामि, भयमपनयिष्यामि। यद्येवमपि कृत्वा ते व्यालमृगा मां जीविताद् व्यपरोप्य भुञ्जीरन्, तेन मयैवं चित्तमुत्पादयितव्यम्- लाभा मे सुलब्धा यस्य मे असारात्कायात्सारमादत्तं भविप्यति। न पुनरिमे व्यालमृगाः शक्या मया आमिषेण तोषयितुम्। मम मांसं भक्षयित्वा सुखस्पर्शं विहरिष्यन्ति॥ पे॥ यदि पुनस्तत्रारण्यायतने विहरतोऽमनुष्या उपसंक्रमिष्यन्ति,सुवर्णा व दुर्वर्णा वा, तेन न तत्रानुनेतव्यं न प्रतिहन्तव्यम्। यदि पूर्वबुद्धदर्शिनो देवता आरण्यकं भिक्षुमुपसंक्रम्य प्रश्नं परिपृच्छेयुः तत्र तेनारण्यकेन यथाशक्ति यथाबलं यथाधर्माधिगमाय तासां देवतानां धर्मो देशयितव्यः। यदि पुनस्तावद्गम्भीरान् प्रश्नान् परिपृच्छेयुः, यान् स आरण्यको भिक्षुर्न शक्नुयाद्विसर्जयितुम्, तेन निर्मानेन भूत्वा वाग्भाषितव्या, अशिक्षितो न परिभवितव्यः। युञ्जिष्यामि घटिष्ये बुद्धशासने। भविष्यति स कालः स समयो यदा अधिगतान् धर्मान् श्रुत्वा सर्वकथां विसर्जयिष्यामि। अपि तु प्रतिभातु ते वयं धार्मश्रवणिका इति॥ पे॥ तेन तत्र अरण्यायतने प्रतिवसता तृणगुल्मौषधिवनस्पतीनां निमित्तं ग्रहीतव्यम्। कथमेते भवन्ति? यथैषां भावानामस्वामिकानामममानामपरिग्रहाणामेवं निश्चेष्टानां निर्व्यापाराणां भवत्युत्पादो भङ्गश्च, न चैषां कश्चिदुत्पादयिता, न निरोधयिता, एवमेवायं कायस्तृणकाष्ठकुडयप्रतिभासोपमोऽस्वामिकोऽममोऽपरिग्रहो निश्चेष्टो निर्व्यापरो हेतुप्रत्यययुत्तया उत्पद्यते, हेतुप्रत्ययवैकल्यान्निरुध्यते। न पुनरत्र कश्चिद्धर्मः परमार्थत उत्पद्यते वा निरुध्यते वेति॥



पुनश्चोक्तम्- तेन तत्र अरण्यायतने विहरता एवं चित्तमुत्पादयितव्यम्- यद्यप्यहमरण्यमागत एकोऽद्वितीयः, न मे कश्चित्सहायो यो मां सुकृतं दुष्कृतं वा चोदयेत्। अपि तु खलु पुनः सन्ति मे देवनागयक्षा बुद्धाश्च भगवन्तो ये मम चित्ताशयं जानन्ति। ते मम साक्षिणः। सोऽहमिहारण्यायतने प्रतिवसन्नकुशलचित्तस्य वशं गच्छामि। यदि पुनरहमियद्दूरमागतः, एकोऽद्वितीयोऽसंस्तब्धोऽममोऽपरिग्रहः कामवितर्कं वा वितर्कयेयम्, व्यापादं विहिंसावितर्कं वा वितर्कयेयम्, अन्यं वा अकुशलवितर्कं वितर्कयेयम्, निर्विशेषो भवेयं संसर्गसंगणिकाभिरेतैः सत्त्वैः। ते च मे देवनागयक्षा विसंवादिताः, बुद्धाश्च भगवन्तोऽनभिराद्धा भविष्यन्तीति॥



इति शिक्षासमुच्चये अरण्यसंवर्णनं नामैकादशः परिच्छेदः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project