Digital Sanskrit Buddhist Canon

वीर्यपारमिता दशमः परिच्छेदः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Vīryapāramitā daśamaḥ paricchedaḥ
वीर्यपारमिता दशमः परिच्छेदः।



एवं क्षान्तिप्रतिस्थितः श्रुते वीर्यमारभेत। अन्यथा श्रुतमेवास्य विनाशाय संपद्यते। यथोक्तं चन्द्रप्रदीपसूत्रे-

कियद्बहू धर्म पर्यापुणेया

शीलं न रक्षेत श्रुतेन मत्तः।

न बाहुश्रुत्येन स शक्यु तायितुं

दुःशील येन व्रजमान दुर्गतिम्॥



श्रुतानुशंसास्तु नारायणपरिपृच्छायामुक्ताः- तथा हि कुलपुत्राः श्रुतवतः प्रज्ञागमो भवति। प्रज्ञावतः क्लेशप्रशमो भवति। निःक्लेशस्य मारोऽवतारं न लभते॥



अत्र च महर्षेरुत्तरस्य जातकं विस्तरेण कृत्वा आह- धर्मकामानां हि विमलतेजः बोधिसत्त्वानां महासत्त्वानां सगौरवाणां सप्रतीशानां अन्यलोकधातुस्थिता अपि बुद्धा भगवन्तो मुखमुपदर्शयन्ति, धर्मं चानुश्रावयन्ति। धर्मकामानां विमलतेजः बोधिसत्त्वानां महासत्त्वानां पर्वतकन्दरवृक्षमध्येषु धर्मनिधानानि निक्षिप्तानि। धर्ममुखान्यनन्तानि पुस्तकगतानि करतलगतानि भवन्ति। धर्मकामानां विमलतेजः बोधिसत्वानां पूर्वबुद्धदर्शिन्यो देवता बुद्धप्रतिभानमुपसंहरन्ति॥ पे॥ परिक्षीणायुष्काणां बुद्धा भगवन्तो देवताश्चायुर्बलं चोपसंहरन्ति। बुद्धाधिष्ठानेन देवताधिष्ठानेन च काङ्क्षमाणा वर्षसहस्त्रमवतिष्ठन्ते॥ पे॥ यावत्कल्पं वा कल्पावशेषं वा यावद्वा आकाङ्क्षन्ति धर्मगौरवजातानां बोधिसत्त्वानां बुद्धा भगवन्तो जरामप्यपनयन्ति। व्याधीनपनयन्ति। स्मृतिमुपसंहरन्ति। गतिं मतिं प्रतिभानं चोपरसंहरन्ति॥ पे॥ दृष्टिकृतानि विनोदयन्ति॥ सम्यग्दृष्टिं चोपरसंहरन्ति। धर्मगौरवेण विमलतेजः बोधिसत्त्वानां महासत्त्वानां सर्वोपक्रमभयानि न भवन्ति। तस्मातर्हि विमलतेजः श्रुतसंभारकौशल्याभियुक्तेन बोधिसत्त्वेन भवितव्यमिति॥



किमाकारं श्रुतं बोधिसत्त्वविनये प्रशस्तम्? यथा आर्याक्षयमतिसूत्रेऽभिहितम्- अशीत्याकारप्रवेशं श्रुतम्। तद्यथा। छन्दाकारमाशयाकारमध्याशयाकारं प्रयोगाकारं निर्माणाकारमप्रमाणाकारं कल्याणमित्राकारं गौरवाकारं प्रदक्षिणाकारं सुवचनाकारं पर्युपासनाकारमवहितश्रोत्राकारं मनस्काराकारमविक्षेपाकारमवस्थानाकारं रत्नसंज्ञाकारं भैषज्यसंज्ञाकारं सर्वव्याधिशमनाकारं स्मृतिभजनाकारं गतिबोधनाकारं मतिरोचनाकारं बुद्धिप्रवेशाकारमतृप्तबुद्धधर्मश्रवणाकारं त्यागबृंहणाकारं दान्ताजानेयाकारं बहुश्रुतसेवनाकारं सत्कृत्यप्रीत्यनुभवनाकारं कायौद्बिल्याकारं चित्तप्रह्लादनाकारमपरिखेदश्रवणाकारं धर्मश्रवणाकारं प्रतिपत्तिश्रवणाकारं परदेशनाश्रवणाकारं अश्रुतश्रवणाकारं अभिज्ञाश्रवणाकारमन्ययानास्पृहणाश्रवणाकारं प्रज्ञापारमिताश्रवणाकारं बोधिसत्त्वपिटकश्रवणाकारं संग्रहवस्तुश्रवणाकारमुपायकौशल्यश्रवणाकारं ब्रह्मविहारश्रवणाकारं स्मृतिसंप्रजन्यश्रवणाकारं गौरवाकारं उत्पादकौशल्यश्रवणाकारमनुत्पादकौशल्यश्रवणाकारमशुभाकारं मैत्र्याः श्रवणाकारं प्रतीत्यसमुत्पादाकारं अनित्याकारं दुःखाकारमनात्माकारं शान्ताकारं शून्यतानिमित्ताप्रणिहिताकारं अनभिसंस्काराकारं कुशलाभिसंस्काराकारं सत्त्वाधिष्ठानाकारं अबिप्रणाशाकारं स्वाधीनाकारं स्वचित्तारक्षणाकारं वीर्यस्यास्त्रंसनाकारं धर्मनिध्यप्त्याकारं क्लेशविपक्षाकारं स्वपक्षपरिकर्षणाकारं परपक्षकेशनिग्रहाकारं सप्तधनसमवशरणाकारं सर्वदारिद्योपच्छेदाकारं सर्वविद्वत्प्रशस्ताकारं पण्डिताभिनन्दनाकारं आर्यसंमताकारं अनार्यप्रसादनाकारं सत्यदर्शनाकारं स्कन्धदोषविवर्जनाकारं संस्कृतदोषपरितुलनाकारमर्थप्रतिशरणाकारं धर्मप्रतिशरणाकारं सर्वपापाकरणाकारं आत्मपरहिताकारं सुकृतकर्माननुतप्यनाकारं विशेषगमनाकारं सर्वबुद्धधर्मप्रतिलाभाकारमिति॥



पुनरत्रैवाह- यश्च धर्मसंभारयोगः, स एवास्य ज्ञानसंभारो भवति। तत्र कतमो धर्मसंभारयोगः? येयमल्पार्थता अल्पकृत्यता अल्पभाषता अल्पपरिष्कारता पूर्वरात्रापररात्रं जगरिकायोगमनुयुक्तस्य श्रुतार्थपरितुलनता। भूयोभूयः पर्येषणता। चित्तस्यानाविलता। नीवरणानां विष्कम्भनता। आपत्तिषु निःसरणज्ञानम्। अकौकृत्यता। अपर्युत्थानता। प्रतिपत्तिसारता। धर्मनिम्नता धर्मप्रवणता धर्मप्राग्भारता। पराक्रमसंपन्नता आदीप्तशिरश्चैलोपमता ज्ञानपर्येष्टया। तन्मयविहारिता। अशिथिलशीलता अनिक्षिप्तधुरता विशेषगामिता संगणिकाविवर्जनमेकारामता अरण्याभिमुखमनस्कारता आर्यवंशसंतुष्टिः धुतगुणेष्वचलनता धर्मारामरतिरतता लौकिकमन्त्रास्मरणता लोकोत्तरधर्मपर्येष्टिता स्मृत्यप्रमोषता अर्थगत्यनुगमता। मत्या मार्गानुलोमता। धृत्या संवरप्रत्ययैर्ज्ञानानुगमः। हीरपत्राप्यालंकारता। ज्ञानानुगमनसारता। अज्ञानविधमनता। अविद्यामोहतमस्तिमिरपटलपर्यवनद्धस्य प्रज्ञाचक्षुर्विशुद्धिः। सुविशुद्धबुद्धिता। बुद्धिविस्तीर्णता। असंकुचितबुद्धिता प्रभिन्नबुद्धिता। प्रत्यक्षबुद्धिता। अपराधीनगुणता। स्वगुणैरमन्यनता। परगुणपरिकीर्तनता। सुकृतकर्मकारिता। कर्मविपाकानुद्भुरता। कर्मपरिशुद्धिज्ञानमिति॥



किं श्रोतव्यम्? उक्तं भगवता ज्ञानवैपुल्यसूत्रे- सार्थकानि शास्त्राणि शिक्षितव्यानि। अपार्थकानि परिवर्जयितव्यानि। तद्यथा लोकायतशास्त्राणि दण्डनीतिशास्त्राणि काखो........र्दशास्त्राणि वादविद्याशास्त्राणि कुमारक्रीडाशास्त्राणि जम्भकविद्याशास्त्राणि॥ पेयालं॥ यान्यपि तदन्यानि कानिचिन्मोक्षप्रतिकूलानि शास्त्राणि संमोहाय संवर्तन्ते, तानि सर्वाणि बोधिसत्त्वयानसंप्रस्थितेन वर्जयितव्यानीति॥



एवं श्रुतवता चित्तं शोधयितुमरण्यमाश्रयणीयम्। कथं पुनराशयसंपन्नस्याप्युग्रदत्तपरिपृच्छायां गृहमनुज्ञातम्? यत्नवतोऽप्यसामर्थ्यात्। परदारादिष्वपि तर्हि नापत्तिः स्यात्। न। तेषामसामर्थ्येऽपि प्रकृतिदुष्टत्वाद्गृहावासस्य च प्रज्ञप्तिसावद्यत्वादिति॥



इति शिक्षासमुच्चये वीर्यपारमिता परिच्छेदो दशमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project