Digital Sanskrit Buddhist Canon

क्षान्तिपारमिता नवमः परिच्छेदः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Kṣāntipāramitā navamaḥ paricchedaḥ

क्षान्तिपारमिता नवमः परिच्छेदः।



तदेवमविरतप्रवृत्तां बहुसुखां दौःशील्योत्पत्तिं रक्षन्, एवं च कर्मावरणविबन्धमपनयन्, क्लेशविशोधने प्रयतेत॥



तत्रादौ तावत्

क्षमेत



अक्षमस्य हि श्रुतादौ वीर्यं प्रतिहन्यतेऽखेदसहत्वात्। अश्रुतवांश्च न समाध्युपायं जानाति, नापि क्लेशशोधनोपायम्। तस्मादखिन्नः-



श्रुतमेपेत

ज्ञानतोऽपि संकीर्णचारिणः समाधानं दुष्करमिति।

संश्रयेत वनं ततः।

तत्रापि विक्षेपप्रशमनानभियुक्तस्य चित्तं न समाधीयत इति-

समाधानाय युज्येत

समाहितस्य च न किंचित्फलमन्यत्र क्लेशशोधनादिति-

भावयेदशुभादिकम्॥२०॥

इत्येतानि तावत्क्लेशशुद्धेरुद्देशपदानि॥



इदानीं निर्देश उच्यते- तत्र क्षान्तिस्त्रिविधा धर्मसंगीतिसूत्रेऽमिहिता-दुःखाधिवासनक्षान्तिः, धर्मनिध्यानक्षान्तिः परापकारमर्षणक्षान्तिश्चेति। तत्र दुःखाधिवासनक्षान्तिविपक्षोऽनिष्टागमप्राप्तदुःखमीरुता, इष्टविघातप्राप्तश्च सुखाभिष्वङ्गः। ताभ्यां दौर्मनस्यम्, ततो द्वेषो लीनता च॥



अत एवाह चन्द्रप्रदीपसूत्रे-सुखेऽनभिष्वङ्गः। दुःखेऽवैमुख्यमिति॥

रत्नमेघसूत्रेऽप्युक्तम्-य इमे आध्यात्मिकाः शोकपरिदेवदुःखदौर्मनस्योपायासाः, तान् क्षमतेऽधिवासयतीति॥



आर्योग्रदत्तपरिपृच्छायामप्युक्तम्-पुनरपरं गृहपते गृहिणा बोधिसत्त्वेनानुनयप्रतिधापगतेन भवितव्यमष्टलोकधर्माननुलिप्तेन। तेन भोगलामेन वा भार्यापुत्रलाभेन वा धनधान्यवित्तलाभेन वा नोन्नमितव्यं न प्रहर्षितव्यम्। सर्वविपत्तिषु चानेन नावनमितव्यम्। न दुर्मनसा भवितव्यम्। एवं चानेन प्रत्यवेक्षितव्यम् - मायाकृतं सर्वसंस्कृतं विठपनप्रत्युपस्थानलक्षणम्। कर्मविपाकनिर्वृत्ता ह्येते यदिदं मातापितृपुत्रभार्यादासीदासकर्मकरपौरुषेयमित्रामात्यज्ञातिसालोहिताः। नैते मम स्वकाः, नाहमेतेषामिति॥



अपि च-



यद्यस्त्येव प्रतीकारो दौर्मनस्येन तत्र किम्।

प्रतीकारेऽपि मुह्येत दुर्मनाः क्रोधमूर्च्छितः॥

लीनत्वाद्वा हतोत्साहो गृह्यते परयापदा।

तच्चिन्तया मुधा याति ह्रस्वमायुर्मुहुर्मुहुः॥

तेनभ्यासात्त्यजेदेतं निरर्थकमनर्थवत्॥

कथं च दौर्मनस्यत्यागोऽभ्यस्यते? लघुसुकुमारचित्तोत्सर्गात्। यथोक्तमुग्रदत्तपरिपृच्छायाम्- अपगततूलपिचूपमता चित्तस्येति॥

आर्यगण्डव्यूहेऽप्युक्तम्-दुर्योधनं चित्तं ते दारिके उत्पादयितव्यं सर्वक्लेशनिर्घाताय।

अपराजितचित्तं सर्वाभिनिवेशविनिर्भेदाय। अक्षोभ्यचित्तं विषमाशयत्वसागरावर्तप्रयातेष्विति॥



न च अभ्यासस्य दुष्करं नाम किंचिदस्ति। तथा हि मूढतराणामपि तावद्भारहारककैवर्तकर्षकादीनां दुःखाभ्यासात्क्षुद्रतरफलेऽपि वस्तुनि संरूढकिणाङ्कितं चित्तमवसादेन न परिभूयते। किं पुनः सर्वसंसारसुखसर्वबोधिसत्त्वसुखानुत्तरपदसमधिगमफले कर्मणि? तथा प्राकृता अपि किंचिदपकारिष्वात्मदुष्कृतेनैव हतेषु स्वयं मृत्युषु प्रहर्तुं गाढप्रहारवेदना अपि संग्रामयन्त्येव। किं पुनर्द्राधिष्ठकालापकारिषु दुःखोपात्तकुशलधनलवस्तैन्येषु नरकेषु नावध्यघातकेषु भवचारकपालकेषु निःसरणद्वारदिग्नाशकेष्वानुकूल्येऽपि दृढतरबाधाकरेष्वनपकृतवैरिष्वनवधिकल्पाबद्धदृढवैरेषु क्लेशशत्रुषु प्रहर्तुमुत्साहो दुःखसहनं वा न भवेत्? विशेषतस्त्रिभुवनविजयाय बद्धपरिकरस्य मारशबरप्रतिगृहीतजगद्बन्दिमोक्षाय संग्रामयतः। तत्रात्मदुःखाभ्यासपूर्वकं कष्टं कष्टतराभ्यासः सिध्यति। यथा च अभ्यासवशात्सत्त्वानां दुःखसुखसंज्ञा, तथा सर्वदुःखोत्पादेषु सुखसंज्ञाप्रत्युपस्थानाभ्यासात् सुखसंज्ञैव प्रत्युपतिष्ठते। एतन्निष्यन्दफलं च सर्वधर्मसुखाक्रान्तं नाम समाधिं प्रतिलभते। उक्तं हि पितापुत्रसमागमे- अस्ति भगवन् सर्वधर्मसुखाक्रान्तो नाम समाधिः, यस्य समाधेः प्रतिलम्भाद्बोधिसत्त्वः सर्वारम्बणवस्तुषु सुखामेव वेदनां वेदयते, नादुःखासुखाम्। तस्य नैरयिकामपि कारणां कार्यमाणस्य सुखसंज्ञैव प्रत्युपस्थिता भवति। मानुषीमपि कारणां कार्यमाणस्य, हस्तेष्वपि छिद्यमानेषु, पादेष्वपि कर्णेष्वपि नासास्वपि सुखसंज्ञैव प्रत्युपस्थिता भवति। वेत्रैरपि ताडयमानस्य, अर्धवेत्रैरपि कशाभिरपि ताडयमानस्य सुखसंज्ञैव प्रवर्तते। बन्धनागारेष्वपि प्रक्षिप्तस्य। पे। तैलपाचिकं वा क्रियमाणस्य, इक्षुकुट्टितबद्वा कुट्टयमानस्य, नडचिप्पितिकं वा चिप्यमानस्य, तैलप्रद्योतिकं वा दीप्यमानस्य, सर्पिःप्रद्योतिकं वा दधिप्रद्योतिकं वा दीप्यमानस्य सुखसंज्ञैव प्रत्युपस्थिता भवति। उल्कामुखं वा हियमाणस्य, सिंहसुखं वा ह्रियमाणस्य, शुष्कवर्तिकां वा वर्त्यमानस्य। पेयालं। कार्षापणच्छेदिकं वा छिद्यमानस्य, पिष्टपाचनिकं वा पाच्यमानस्य, हस्तिभिर्वा मर्द्यमानस्य, सुखसंज्ञैव प्रवर्तते। अक्षिण्युत्पाठयमाने जीवशूलिकमपि क्रियमाणस्य सर्वशो वा आघातं निर्णीय शिरसि वा प्रपात्यमाने सुखसंज्ञैव प्रवर्तते, न दुःखसंज्ञा, नादुःखासुखसंज्ञा। तत्कस्य हेतोः? तथा हि बोधिसत्त्वस्य महासत्त्वस्य दीर्घरात्रं चर्यां चरत एतत्प्रणिधानमभूत्- ये मां भोजयेरन्, ते उपशमशमसुखस्य लाभिनो भवेयुः। ये मां पालयेयुः सत्कुर्युर्गुरुकुर्युर्मानयेयुः पूजयेयुः, सर्वे ते उपशमसुखस्य लाभिनो भवेयुः। येऽपि मामाक्रोशेयुर्विस्पर्शेयुस्ताडयेयुः शस्त्रेणाच्छिन्द्युर्यावत्सर्वशो जीविताद् व्यपरोपयेयुः, सर्वे ते संबोधिसुखस्य लाभिनो भवेयुः, अनुत्तरां सम्यक्संबोधिमभिसंबुध्येरन्निति॥ स एभिर्मनस्कारैः समन्वागतः एतेन कर्मणा एभिः प्रणिधिभिः समन्वागतः सर्वसत्त्वानुगतां सुखसंज्ञामासेवते निसेवते भावयति बहुलीकरोति। स तस्य कर्मणो विपाकेन सर्वधर्मसुखाक्रान्तं नाम समाधिं प्रतिलभते। यस्मिन् समये बोधिसत्त्वेन सर्वधर्मसुखाक्रान्तो नाम समाधिः प्रतिलब्धो भवति, तस्मिन् समयेऽक्षोभ्यो भवत्यसंहार्यः सर्वमारकर्मभिरिति विस्तरः॥



अयं हि प्रयोगः सर्वपरित्यागपूरणः सर्वचर्यादुष्करचर्यासाधनः सर्वक्षान्तिदृढीकरणः सर्ववीर्यासंसादनः सर्वध्यानप्रज्ञाङ्गसंभारः। तस्मान्नित्यमुदितः स्यात्॥ यथाह चन्द्रप्रदीपसूत्रे-



सगौरवः प्रीतमनाः स [दा] भवेत्

सौम्याय दृष्टीय सदा स्थितो भवेत्॥इति॥



उक्तं चाक्षयमतिसूत्रे- तत्र कतमा मुदिता? यावद्धर्मानुस्मरणात्प्रीतिः प्रसादः प्रामोद्यं चित्तस्यानवलीनता अनवमृद्यता अपरितर्षणा सर्वकामरतीनामपकर्षणा सर्वधर्मरतीनां प्रतिष्ठानम्, चित्तस्य प्रामोद्यं कायस्यौद्बिल्यं बुद्धेः संप्रहर्षणं मनस उत्प्लवः, तथागतकायाभिनन्दनरतिर्लक्षणानुव्यञ्जनविभूषणपर्येष्टिकौशल्यम्, कुशलधर्मश्रवणापरिखेदता, तत्वधर्मप्रतिशरणप्रतिपत्तिप्रीतिप्रसादप्रामोद्यम् मुदितस्य धर्मोत्प्लवः, सततं सत्त्वेष्वप्रतिहतबुद्धिता, तीव्रच्छन्दता, बुद्धधर्मपर्येष्टिषु तस्य च धर्मच्छन्दस्यानुत्सृजनता, उदारेषु बुद्धधर्मेष्वधिमुक्तिः, विमुक्तिः प्रादेशिकयानापकृष्टचित्तोत्पादः, मात्सर्यासंकुचितश्चित्तोत्पादः याचितस्य दातुकामता, ददतो दत्वा च त्रिमण्डलपरिशोधितं दानप्रामोद्यम्, शीलवत्सु सदा प्रसादः, दुःशीलेष्वनुग्रहप्रीतिः, स्वशीलपरिशुद्धया सर्वदुर्गन्धमतिक्रमाश्वासनम्, तथागतशीलपरिणामनता, दृढाभेद्यता, परदुरुक्तदुरागतेषु वचनपथेष्वप्रतिहतचित्तता, क्षान्तिसौरत्यम्, निर्मानता, गुरुषु गौरवावनामश्चित्रीकारः, सदा स्मितमुखता, भृकुटिविगतता, पूर्वाभिलापिता, अकुहनता, अनेष्यैषिकता, शुद्धाशयता, चित्ताकर्कशता, अकुटिलता, सर्वत्रानुशंसदर्शिता, आत्मस्खलितप्रत्यवेक्षिता, आपत्तिष्वचोदनता, संरञ्जनीयधर्मेष्वनुवर्तनता, शास्तृप्रेम बोधिसत्त्वेषु, आत्मप्रेम धर्मेषु, जीवितप्रेम तथागतेषु, मातापितृप्रेम गुरुषु, पुत्रप्रेम सत्त्वेषु, बुद्धप्रेम आचार्योपाध्यायेषु, उत्तमाङ्गशिरःप्रेम प्रतिपत्तिषु, हस्तपादप्रेम पारमितासु, सर्वरत्नप्रेम धर्मभाणकेषु, सर्वरतिक्रीडा प्रेमानुशासनीषु, आरोग्यप्रेम संतुष्टौ, भैषज्यप्रेम धर्मपर्येष्टिषु, वैद्यप्रेम चोदकस्मारकेषु। इति हि या सर्वेन्द्रियेष्वनवलीनेन्द्रियता, इयमुच्यते मुदितेत्यादि॥



अत्र च शिक्षितान् बोधिसत्त्वानिदं वचनमलंकरोति। यदुक्तमार्यमहामेघे- निरयगतिचित्तनित्यसमाधानशीलाश्च निरयगतिप्रियाश्च निरयगतिपत्तनवणिजश्च भवन्ति। निरयलोलाश्च भवन्ति, निरयलोभमत्सरिणश्च निरयाग्निचित्तप्रगुणा भवन्तीति॥

उक्ता दुःखाधिवासना क्षान्तिः॥



आर्यसागरमतिसूत्रे तु त्रिविधापि क्षान्तिरुक्ता- इह सागरमते बोधिसत्त्वो महासत्त्वः सर्वज्ञताचित्तोत्पादरत्ने अनार्यैर्दुःशीलैः सत्त्वैर्मारैर्मा रकायिकाभिर्वा देवताभिर्माराधिष्ठितैर्वा मारदूतैर्वा विहेठयमानः समीर्यमाणः क्षोभ्यमाणस्तर्ज्यमानस्ताडयमानो न भिद्यते ततोऽध्याशयचित्तोत्पादात्। न भिद्यते सर्वसत्त्वप्रमोक्षमहाकरुणावीर्यारम्भात्। न भिद्यते त्रिरत्नवंशानुपच्छेदपराक्रमात्। न भिद्यते सर्वधर्मसमुदानयनकुशलप्रयोगात्। न भिद्यते लक्षणानुव्यञ्जनपरिनिष्पत्तिगतात्पुण्यसंभारोपचयात्। न भिद्यते बुद्धक्षेत्रपरिशुद्धयभिनिर्हाराहृतादौत्सुक्यात्। न भिद्यते सर्वधर्मापरिग्रहाभियुक्तात् कायजीवितोत्सर्गात्। न भिद्यते सर्वसत्त्वपरिपाचनाभियुक्तादात्मसौख्यानध्यवसानात्। स एवमध्याशयसंपन्न एव समानः सर्वसत्त्वानामन्तिकादुच्चग्घनां सहते, उन्मननां कुत्सनां सहते, सर्वसत्त्वानामाक्रोशपरिभाषां दुरुक्तदुरागतान् वचनपथान् सहते। सर्वसत्त्वपीडां सहते। सर्वसत्त्वभारांश्च सहते उत्तारयति वा। न च खिद्यते। न च लीयते। न संलीयते। न विषीदति। बलमुपदर्शयति। स्थाम संजनयति। वीर्यमारभते। पराक्रमं पराक्रमते। उत्साहं जनयति। उन्मूढचित्तं निगृह्णति। स आक्रुष्टो न प्रत्याक्रोशति। ताडितो न प्रतिताडयति। रोषितो न प्रतिरोषयति। क्रुद्धाय न प्रतिक्रुध्याति। एवं चित्तगणनासंनाहं संनह्यति। सचेत्पुनरेते सत्त्वा यावन्तो दशसु दिक्षु प्रभाव्यमानः प्रभाव्यन्ते, ते सर्वेऽसिशक्तितोमरपालियोगेन मां पृष्ठतः पृष्ठतोऽनुबध्नीयुः। यत्रैष पृथिवीप्रदेशे स्थितो वा निषण्णो वा चंक्रम्यमाणो वा शयानो वा बोधिचित्तमुत्पादयिष्यति दानचित्तं वा , यावत्प्रज्ञाचित्तं वा श्रुतकुशलमूलचित्तं वा उत्पादयिष्यति, तत्रास्य पृथिवीप्रदेशे शतधाबदरीपत्रप्रमाणं कायं छेत्स्यामो विकरिष्यामो विध्वंसयिष्यामः। ते चेत्सर्वसत्त्वा मामाक्रोशयेयुः परिभाषेरन् कुत्सयेयुः पंसयेयुरसत्याभिर्वाग्भिः परुषाभिर्वाग्भिः समुच्चरेयुरधिष्ठिता अनर्थकर्माणः शतधाबदरीपत्रप्रमाणं मम कायं छिन्द्युर्भिन्द्युर्विकरेयुर्विध्वंसयेयुः। एवं मया न कस्यचित्सत्त्वस्यान्तिके क्षोमचित्तमुत्पादयितव्यम्। तत्कस्य हेतोः? पूर्वा कोटिः संसारस्याप्रमाणीकृता यत्र मेऽयमात्मभावो नरकगतस्यापि तिर्यग्योनिगतस्यापि यमलोकगतस्यापि मनुष्यगतस्यापि कामाहारपलिगुद्धस्य धर्मानश्रुतवतो विषमाजीवगोचरस्य निरर्थकजीविनः अङ्गप्रत्यङ्गस्य शतधा छिन्नो भिन्नो निकृत्तो विविधामिश्च कारणाभिः कारितः। न च मया ततोनिदानमात्मार्थः कृतो न परार्थः। सचेत्पुनर्ममैते सर्वसत्त्वा अपरान्तकोटिं छिन्द्युर्भिन्द्युर्विकिरेयुर्विध्वंसयेयुः, तथापि मया अपरित्यक्तैव सर्वज्ञता। अपरित्यक्ता एव सर्वसत्त्वाः। अपरित्यक्तः कुशलो धर्मच्छन्दः। तत्कस्य हेतोः? सर्वा ह्येषा कायपीडा कायविवर्तना नैरयिकस्य दुःखस्य शततमीमपि कलां नोपैति, यावदुपनिषदमपि न क्षमते। नरकावासमप्यहमुत्सहे। न पुनर्मया बुद्धधर्माः परित्यक्तव्याः, न सर्वसत्त्वारम्बणा महाकरुणा। पे॥ यन्निदानं पुनर्व्यापाद उत्पद्येत, तं वयं धर्मं प्रहास्यामः। कतमश्च स धर्मः? यदुत कायप्रेम कायनिकेतः कायाध्यवसानम्। उत्सृष्टश्च कायः उत्सृष्टो व्यापादः। एवं धर्मगणनाविष्टः सागरमते बोधिसत्त्वः सर्वसत्त्वपीडां सहते॥ पे॥ यः कायस्योत्सर्गः कायपरित्यागः कायानवेक्षा, इयमस्य दानपारमिता॥ यत्काये छिद्यमाने सर्वसत्त्वान् मैत्र्या स्फरति, वेदनामिश्च न संह्रियते, इयमस्य शीलपारमिता॥ यत्काये छिद्यमाने य एवास्य कायं छिन्दति तेषामेव प्रमोक्षार्थं क्षमते, न च चित्तेन क्षण्यते, क्षान्तिबलं चोपदर्शयति, इयमस्य क्षान्तिपारमिता। येन वीर्येण तं सर्वज्ञताछन्दं नोत्सृजति, चित्तबलाधानं च प्रतिगृह्णाति, संसारमेव चानुबध्नाति, कुशलमूलारम्भमेव चारभते, इयमस्य वीर्यपारमिता॥ यत्काये विकीर्यमाणे तत्सर्व ज्ञताचित्तोत्पादरत्नं कर्तुं न संमुह्यति, बोधिमेवापेक्षते, शान्तप्रशान्तमेव प्रत्यवेक्षते, इयमस्य ध्यानपारमिता॥ यत्काये छिद्यमाने कायस्य तृणकाष्ठकुडयवत्प्रतिभासोपमतां प्रत्यवेक्षते, मायाधर्मतां च कायस्यावतरति, भूतानित्यतां च भूतदुःखतां च भूतानात्मतां च भूतशान्ततां च कायस्योपनिध्यायति, इयमस्य प्रज्ञापारमितेति विस्तरः॥ पेयालं॥



पुनरपरमस्यैवं भवति-एष सत्त्वः कुसीदः शुक्लधर्मरहितः। स मामाक्रोशयति परिभाषते। हन्त वयमारब्धवीर्या भविष्यामः। अतृप्ताः कुशलमूलपर्येषणाभियुक्ताः। एष एव तावन्मया सत्त्वः पूर्वतरं बोधिमण्डे निषादयितव्यः। पश्चान्मया अनुत्तरा सम्यक्संबोधिरभिसंबोद्धव्येति। पे। ईदृशानामस्माभिः सत्त्वानामदान्तानामगुप्तामामनुपशान्तानामर्थाय संनाहाः संनद्धव्याः। पे। हन्त वयं धर्मतां प्रतिसरिष्यामः। कोऽत्राक्रोशति वा आक्रुश्यते वा , स परिगवेषमाणो न तं धर्ममुपलभते। य आक्रोशति वा आक्रुश्यते वा , स आत्मपरानुपलब्धोपलम्भदृष्टिविगतः क्षमत इति॥



भगवत्यामप्युक्तम्- एवं चित्तमुत्पादयति- येन मया सर्वसत्वानां विवाद उत्सारयितव्यः, सोऽहं स्वयमेव विवदामि- लाभा मे दुर्लब्धा योऽहं जल्पिते प्रतिजल्पामि। येन मया सर्वसत्त्वानां संक्रमभूतेन भवितव्यम्, सोऽहं परस्य त्वमित्यपि वाचं भाषे, परुषं वा प्रतिवचो ददामि॥ इदं मया नैव वक्तव्यं जडसमेन, एडकमूकसमेन मया कलहविवादेषु भवितव्यम्। परतो दुरुक्तान् दुरागतान दुर्भाषितान् भाष्यमाणान् वचनपथान् शृण्वता चित्तं नाघातयितव्यम्। परेषामन्तिके न ममैतत्साधु न प्रतिरूपं योऽहं परस्य दोषान्तरं संजनयेयम्। एतन्न मम प्रतिरूपं यदहं परेषां दोषान्तरमपि संश्रोतव्यं मन्ये।।तत्कस्य हेतोः? न मया आशयो विकोपयितव्यो येन मया सर्वसत्त्वाः सर्वसुखोपधानेन सुखयितव्याः, परिनिर्वापयितव्याश्च अनुत्तरां सम्यक्संबोधिमभिसंबुध्य, तत्र नामाहं व्यापद्ये। न च मया परेषां स्वपराद्धानामपि व्यापत्तव्यम्। स नामाहं मोहं क्षोमं गच्छामि। इदं तु मया करणीयम्- दृढपराक्रमतया पराक्रान्तव्यम्। न मया जीवितान्तरायेऽपि क्रियमाणे क्षोभः करणीयः। न मया भृकुटी मुखे उत्पादयितव्येति॥



बोधिसत्त्वप्रातिमोक्षेऽप्युक्तम्- ये क्रुद्धाः सत्त्वास्तानाश्वासयति, क्षमापयति, अनुलोमयति, धर्मेण तोषयतीति॥

इति शिक्षासमुच्चये क्षान्तिपारमिता परिच्छेदो नवमः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project