Digital Sanskrit Buddhist Canon

पापशोधनं नाम अष्टमः परिच्छेदः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
पापशोधनं नाम अष्टमः परिच्छेदः।



उक्ता त्रयाणामय्यात्मभावादीनां रक्षा। शुद्धिरधुना वक्तव्या। किमर्थम्?



शोधितस्यात्मभावस्य भोगः पथ्यो भविष्यति।

सम्यक्सिद्धस्य भक्तस्य निष्कणस्येव देहिनाम्॥१७॥



यथोक्तमार्यतथागतगुह्यसूत्रे-यानि च तानि महानगरेषु महाश्मशानानि भवन्त्यनेकप्राणिशतसहस्त्राकीर्णानि, तत्रापि स बोधिसत्त्वो महान्तमात्मभावं मृतं कालगतमुपदर्शयति। तत्र ते तिर्यग्योनिगताः सत्त्वा यावदर्थं मासं परिभुज्य आयुःपर्यन्ते मृताः कालगताः सुगतौ स्वर्गलोके देवेषूपपद्यन्ते। स चैव तेषां हेतुर्भवति यावत्परिनिर्वाणाय, यदिदं तस्यैव बोधिसत्त्वस्य पूर्वप्रणिधानपरिशुद्धया। येन दीर्घरात्रमेवं प्रणिधानं कृतम्- ये मे मृतस्य कालगतस्य मासं परिभुञ्जीरन्, स एव तेषां हेतुर्भवेत् स्वर्गोत्पत्तये यावत्परिनिर्वाणाय तस्य शीलवतः। क्रध्यति प्रार्थना। ऋध्यति प्रणिधानमिति॥



पुनरत्रैवोक्तम्- स धर्मकायप्रभावितो दर्शनेनापि सत्त्वानामर्थं करोति। श्रवणेनापि स्पर्शनेनापि सत्त्वानामर्थ करोति। तद्यथापि नाम शान्तमते जीवकेन वैद्यराजेन सर्वभैषज्यानि समुदानीय भैषज्यतरुसंहतिमयं दारिकारूपं [कृतं] प्रासादिकं दर्शनीयं सुकृतं सुनिष्ठितं सुपरिकर्मकृतम्। सा आगच्छति गच्छति तिष्ठति निषीदति शय्यां च कल्पयति। तत्र ये आगच्छन्त्यातुरा महात्मानो राजानो वा राजमात्रा वा श्रेष्ठिगृहपत्यमात्यकोट्टराजानो वा, तान् स जीवको वैद्यराजस्तया भैषज्यदारिकया सार्धं संयोजयति। तेषां समनन्तरसंयोगमापन्नानां सर्वव्याधयः प्रस्त्रभ्यन्ते, अरोगाश्च भवन्ति सुखिनो निर्विकाराः। पश्य शान्तमते जीवकस्य वैद्यराजस्य लौकिकव्याधिचिकित्साज्ञानं यद्यन्येषां वैद्यानां संविद्यते। एवमेव शान्तमते तस्य धर्मकायप्रभावितस्य बोधिसत्त्वस्य यावन्तः सत्त्वाः स्त्रीपुरुषदारकदारिका रागदोषमोहसंतप्ताः कायं स्पृशन्ति, तेषां संस्पृष्टमात्राणां सर्वक्लेशाः प्रस्त्रभ्यन्ते, विगतसंतापं च कायं संजानन्ति यदिदं तस्यैव बोधिसत्त्वस्य पूर्वप्रणिधानसुपरिशुद्धत्वात्। एतदर्थमात्मभावः शोध्यः॥



किं च अशोधने दोषमाह-



तृणच्छन्नं यथा शस्यं रोगैः सीदति नैघते।

बुद्धङ्कुरस्तथा वृद्धिं क्लेशच्छन्नो न गच्छति।१८॥



प्रतिपक्षनिरासेन वृद्धयर्थ चेत्यभिप्रायः॥



आत्मभावस्य का शुद्धिः पापक्लेशविशोधनम्।

संबुद्धोक्त्यर्थसारेण यत्नाभावे त्वपायगः॥१९॥



तत्र पापशोधनं चतुर्धर्मकसूत्रे देशितम्- चतुर्भिर्मैत्रेय धर्मैः समन्वागतो बोधिसत्त्वो महासत्त्वः कृतोपचितं पापमभिभवति। कतमैश्चतुर्भिः?यदुत विदूषणासमुदाचारेण, प्रतिपक्षसमुदाचारेण, प्रत्यापत्तिबलेन आश्रयबलेन च। तत्र विदूषणासमुदाचारोऽकुशलं कर्माध्याचरति, तत्रैव तत्रैव च विप्रतिसारबहुलो भवति। तत्र प्रतिपक्षसमुदाचारः कृत्वाप्यकुशलं कर्म कुशले कर्मण्यत्यर्थाभियोगं गतः। प्रत्यापत्तिबलं संवरसमादानादकरणसंवरलाभः। तत्राश्रयबलं बुद्धधर्मसंघशरणगमनमनुत्सृष्टबोधिचित्तता च। सुबलवत्संनिश्रयेण न शक्यते पापेनाभिभवितुम्। एभिर्मैत्रेयः चतुर्भिर्धर्मैः समन्वागतो बोधिसत्त्वो महासत्त्वः कृतोपचितं पापमभिभवतीति॥



तत्र कथं विदूषणासमुदाचारो भावयितव्यः ? यथा सुवर्णप्रभासोत्तमसूत्रेऽभिहितम्-



समन्वाहरन्तु मां बुद्धाः कृपाकारुण्यचेतसः।

[ अत्ययं प्रतिगृह्णन्तु दशदिक्षु व्यवस्थिताः।]

ये च दशदिशि लोके तिष्ठन्ति द्विपदोत्तमाः॥

यच्च मे पापकं कर्म कृतं पूर्वं सुदारुणम्।

तत्सर्वं देशयिष्यामि स्थितो दशबलाग्रतः॥

मातापितॄनजानता बुद्धानामप्रजानता।

कुशलं चाप्रजानता यत्त पापं कृतं मया॥

ऐश्वर्यमदमत्तेन कुलभोगमदेन च।

तारुण्यमदमत्तेन यतु पापं कृतं मया॥

दुश्चिन्तितं दुरुक्तं च दुष्कृतेनापि कर्मणा।

अनादीनवदर्शिना यत्तु पापं कृतं मया॥

बालबुद्धिप्रचारेण अज्ञानावृतचेतसा।

पापमित्रवशाच्चैव क्लेशव्याकुलचेतसा॥

क्रीडारतिवशाच्चैव शोकरोगवशेन वा।

अतृप्तधनदोषेण यत्तु पापं कृतं मया॥

अनार्यजनसंसगैरीर्ष्यामात्सर्यहेतुना।

शाठयदारिद्यदोषेण यत्तु पापं कृतं मया॥

व्यसनागमकालेऽस्मिन् कामानां भयहेतुना।

अनैश्चर्यगतेनापि यत्तु पापं कृतं मया॥

चलचित्तवशेनैव कामक्रोधवशेन वा।

क्षुत्पिपासार्दितेनापि यत्तु पापं कृतं मया॥

पानार्थ भोजनार्थं च वस्त्रार्थं स्त्रीषु हेतुना।

विचित्रैः क्लेशसंतापैर्यत्तु पापं कृतं मया॥

कायवाङ्यनसां पापं त्रिधा दुश्चरितं चितम्।

यत्कृतमीदृशै रूपैस्तत्सर्वं देशयाम्यहम्॥

यत्तु बुद्धेषु धर्मेषु श्रावकेषु तथैव च।

अगौरवं कृतं स्याद्धि तत्सर्वं देशयाम्यहम्॥

यत्तु प्रत्येकबुद्धेषु भोधिसत्त्वेषु वा पुनः।

अगौरवं कृतं स्याद्धि तत्सर्वं देशयाम्यहम्॥

सद्धर्मभाणकेष्वेव अन्येषु गुणवत्सु वा।

अगौरवं कृतं स्याद्धि तत्सर्वं देशयाम्यहम्॥

सद्धर्मः प्रतिक्षिप्तंः स्यादजानन्तेन मे सदा।

मातापितृष्वगौरवं तत्सर्वं देशयाम्यहम्॥

मूर्खत्वेन बालत्वेन मानदर्पावृतेन च।

रागद्वेषेण मोहेन तत्सर्वं देशयाम्यहम्॥

व्यवलोकयन्तु मां बुद्धाः समन्वाहृतचेतसः।

अत्ययं प्रतिगृह्णन्तु कारुण्यार्पितचेतसः॥

यत्तु पापं कृतं पूर्वं मया कल्पशतेषु च।

तस्यार्थं शोकचित्तोऽहं कृपणीयो भयार्दितः॥

बिमेमि पापकर्माणां सततं दीनमानसः।

यत्र यत्र चरिष्यामि न चास्ति मे बलं क्कचित्॥

सर्वे कारुणिका बुद्धाः सर्वे भयहरा जगे।

अत्ययं प्रतिगृह्णन्तु मोचयन्तु च मां भयात्॥

क्लेशकर्मफलं मह्यं प्रवाहयन्तु तथागताः।

स्नापयन्तु च मां बुद्धाः कारुण्यसरितोदकैः॥

सर्व पापं देशयामि यत्तु पूर्वं कृतं मया।

यच्च एतर्हि मे पापं तत्सर्वं देशयाम्यहम्॥

आयत्यां संवरमापद्ये सर्वदुष्कृतकर्मणाम्।

न छादयामि तत्पापं यद्भवेन्मम दुष्कृतम्॥

त्रिविधं कायिकं कर्म वचसा च चतुर्बिधम्।

मनसा त्रिप्रकारेण तत्सर्वं देशयाम्यहम्॥

कायकृतं वाचकृतं मनसा च विचिन्तितम्।

कृतं दशविधं कर्म तत्सर्वं देशयाम्यहम्॥

यच्च मे पापकं कर्म अनिष्टफलदायकम्।

तत्सर्वं देशयिष्यामि बुद्धानां पुरतः स्थितः॥

भवगति संकटे बालबुद्धिना पापं यन्मे कृतं सुदारुणम्। दशबलमग्रतः स्थितः तत्सर्वं पापं प्रतिदेशयामि। देशयामि च तत्पापं यन्मया संचितं जन्मसंकटे विविधैः कायप्रचारसंकटैर्भवसंकटलोकसंकटे चापलचलचित्तसंकटे मूर्खबालकृतक्लेशसंकटे। पापमित्रागमसंकटेन च। भयसंकटरागसंकटे दोषमोहतमसंकटैरपि क्षणसंकटे कालसंकटे पुण्योपार्जनसंकटैरपि। जिनसंकटसंमुखस्थितः तत्सर्वपापं प्रतिदेशयामि॥



विशेषतस्तु बोधिसत्त्वापत्तीनां गुर्वीणां लध्वीनां देशना आर्योपालिपरिपृच्छायामुक्ता- का पुनर्गुर्वी मूलापत्तिः? सामान्यतस्तु तत्रोक्तम्। सचेदुपाले महायानसंप्रस्थितो बोधिसत्त्वो महासत्त्वो गङ्गनदीवालिकोपमा रागप्रतिसंयुक्ता आपत्तीरापद्येत, यां चैकतो द्वेषसंयुक्तामापत्तिमापद्येत बोधिसत्त्वयानं प्रमाणीकृत्य। पे। इयं ताभ्यो गुरुतरा आपत्तिर्येयं द्वेषसंयुक्ता। तत्कस्य हेतोः? योऽयं द्वेष उपाले सत्त्वपरित्यागाय संवर्तते। रागः सत्त्वसंग्रहाय संवर्तते, तत्र उपाले यः क्लेशः सत्त्वसंग्रहाय संवर्तते, न तत्र बोधिसत्त्वस्य छलं न भयम्। पेयालं। तस्मात्तर्हि त्वामुपाले याः काश्चन रागप्रतिसंयुक्ता आपत्तयः, सर्वास्ता अनापत्तय इति वदामि। कोऽत्राभिप्रायः? सत्त्वसंग्राहकस्यैव पूर्वमेव विशेषितत्वात्। अध्याशयकृपावतो ह्ययमुपदेशः। यस्मादनन्तरमाह- तत्र उपाले येऽनुपायकुशला बोधिसत्त्वास्ते रागप्रतिसंयुक्ताभ्य आपत्तिभ्यो बिभ्यति। ये पुनरुपायकुशला बोधिसत्त्वास्ते द्वेषसंप्रयुक्ताभ्य आपत्तिभ्यो बिभ्यति न रागप्रतिसंयुक्ताभ्य इति॥



के पुनरुपायकुशलाः? ये प्रज्ञाकृपाभ्यां सत्त्वत्यागान्निवार्यन्ते। उभयथा हि सत्त्वत्यागो भवति- केवलप्रज्ञया दुःखशून्यतावबोधात्, केवलया च कृपया। क्लेशबलादचिरेण कृपाहानिः। यदुक्तमुपायकौशल्यसूत्रे- तद्यथा कुलपुत्र मन्त्रविद्याधरः पुरुषो राज्ञा पञ्चपाशकेन बन्धनेन बद्धः स्यात्। स यदा काङ्क्षेत प्रक्रमणाय, तदैकमन्त्रविद्याबलेन सर्वबन्धनानि छित्त्वा प्रक्रमेत्। एवमेव कुलपुत्र उपायकुशलो बोधिसत्त्वः पञ्चमिः कामगुणै रतिं विन्दति, तैश्चाकीर्णो विहरति। यदा च पुनराकाङ्क्षते, तदा प्रज्ञाबलाधीनेन एकेन च सर्वज्ञताचित्तेन सर्वकामगुणान् प्रभुज्य च्युतो ब्रह्मलोक उपपद्यत इति॥



द्वेषेऽपि किं नैवमिष्यते? प्रकृतिमहासावद्यत्वात्। कृपावैकल्ये चोपायस्यैवासंभवात्॥

परार्थसिद्धिं वा स्वार्थाद्गुरुतरामधिमुच्यमानः कोपपरवत्तयापि परमनुशास्य अनुतापपूर्वकमायत्यां संवरमुत्पद्यते। अहितनिवारके क्रोधे को दोषः? अवकाशदानेन तद्वासनादोषात् कृपाहानिदोषः। तच्छेदेन मूलच्छेददोष इति पश्चाद्दर्शयिष्यामः। यद्यपि तस्य सत्त्वस्य तद्धितम्, तथापि बोधिसत्त्वकृपाहान्या महतः सत्त्वार्थानुबन्धस्य हानिः स्यात्॥



आर्यसत्यकपरिवर्तेऽपि पुत्रदृष्टान्तः करुणाधिष्ठित एव वेदितव्यः। यश्च तत्रापि कृपाप्रतिषेधाः, स लोकार्थपाण्डित्येन लोकावर्जनार्थम्। निवार्यमाणश्च यदि हितकामो बोधिसत्त्वो प्रतिघं लभेत संबोधिसत्त्वः, स्यादुभयोरनर्थः॥

रागेऽपि तर्हि दोषः पठयते-

कामानुषेवणि भोति अन्ध मनुजो मातापितृघातको

कामान् सेवतु शीलवन्तु वधयी तस्माद्विवर्जेत्सदा॥इति॥



स्वसौख्यसङ्गेन च परदुःखोपेक्षा दृष्टा। सत्यं दृष्टा। येन परदुःखं स्वदुःखतया नाभ्यस्तम्, येन त्वग्यस्तम्, तस्योभयदोषासंभवः। यथोक्तं चन्द्रप्रदीपसूत्रे- तद्यथापि नाम आनन्द कश्चिदेव पुरुषोऽधस्तात्पादतलमादाय यावन्मूर्धन्यादीप्तो भवेत् संप्रज्वलित एकज्वालीभूतः, तं कश्चिवदे पुरुष उपसंक्रम्य एवं वदेत्- एहि त्वं मोः पुरुष अनिर्वापितेनात्मभावेन पञ्चमिः कामगुणैः समर्पितः समन्वङ्गीभूतः क्रीडस्व रमस्व परिचारयस्वेति। तत्किं मन्यसे आनन्द अपि तु स पुरुषोऽनिर्वापितेनात्मभावेन पञ्चमिः कामगुणै.......क्रीडेत रमेत्परिचरेत्? आनन्द आह- नो हीदं भगवन्॥भगवानाह- क्रीडेत आनन्द स पुरुषो रमेत्परिचरेत्परिकल्पमुपादाय अपरिनिर्वापितेनात्मभावेन पञ्चमिः कामगुणैः समर्पितः समन्वङ्गीभूतः? न त्वेवं तथागतस्य पूर्वं बोधिसत्त्वचर्यां चरमाणस्य सत्त्वान् त्रिभिरपायैर्दुःखितान् दृष्टा दरिद्रानभूत् सौमनस्यं वा चित्तप्रसादो वेति विस्तरः॥



लोकेऽपि पुत्रे शूलमारोप्यमाणे पश्यतोर्मातापित्रोर्न सौख्यसङ्गो दृष्टः स्वानुरूपकृपावशात् प्रच्छन्नस्तर्हि सस्वामिकासु निःस्वामिकसु वा कुलधर्मध्वजरक्षितासु काममिथ्याचारो न स्यात्। सति सत्त्वार्थे सत्त्वानुपघाते चानुबन्धं निरूप्यादोषः। सम्यग्ब्रह्मचारिणीषु कृतार्थत्वाडूरात्परिहारः। पूज्या च मातृभगिन्यादिवत्। एवं तर्हि भिक्षोरप्येवमापन्नम्। न तस्यापरेण ब्रह्मचर्यप्रकारेण सत्त्वार्थसाधनात्॥ तथाद्युक्तमार्याक्षयमतिसूत्रे-कालाकाले पुनरनेनोपेक्षा करणीयेति॥ अथ ततोऽप्यधिकं सत्त्वार्थ पश्येत्, शिक्षां निक्षिपेत्॥ उपायकौशल्यसूत्रे-ज्योतिर्माणवकं द्वाचत्वारिंशद्वर्षसहस्त्रब्रह्मचारिणमधिकृत्य सप्तमे पदे स्थितस्य कारुण्यमुत्पद्येत। किं चाप्यहमिदं व्रतं खण्डयित्वा निरयपरायणः स्याम्, तथाप्युत्सहेऽहं नैरयिकं दुःखं प्रतिवेदयितुम्। अथ चेयं स्त्री सुखिता भवतु। मा कालं करोतु। इति हि कुलपुत्र ज्योतिर्माणवकः पश्चान्मुखो निवर्त्य तां स्त्रियं दक्षिणेन पाणिना गृहीत्वैवमाह- उत्तिष्ठ मगिनि यथाकामकरणीयस्ते भवामीति। पे॥ सोऽहं कुलपुत्र महाकारुण्यचित्तोत्पादेनेत्वरेण कामोपसंहितेन दशकल्पसहस्त्राणि पश्चान्मुखमकार्षम्। पश्य कुलपुत्र यदन्येषां निरयसंवर्तनीयं कर्म, तदुपायकुशलस्य बोधिसत्त्वस्य ब्रह्मलोकोपपत्तिसंवर्तनीयमिति॥



पुनरत्रैवाह- यदि बोधिसत्त्व एकस्य सत्त्वस्य कुशलमूलं संजनयेत्तथारूपां चापत्तिमापद्येत यथारूपया आपत्त्या आपन्नया कल्पशतसहस्त्रं निरये पच्येत, उत्सोढव्यमेव भगवन् बोधिसत्त्वेनापत्तिमापत्तुं तच्च नैरयिकं दुःखम्। न त्वेव तस्यैकस्य सत्त्वस्य कुशलं परित्यक्तुमिति॥



पुनरत्रैवाह-इह कुलपुत्र उपायकुशलो बोधिसत्त्वो यदा कदाचित्कस्मिंश्चित्पापमित्रवशेनापत्तिमापद्येत, स इतः प्रतिसंशिक्षते- न मयैमिः स्कन्धैः परिनिर्वापयितव्यम्। मया पुनरेवं संनाहः संनद्धव्यः- अपरान्तकोटिः संसरितव्या सत्त्वानां परिपाचनहेतोरिति। न मया चित्तदाहः करणीयः। यथा यथा संसरिष्यामि तथा तथा सत्त्वान् परिपाचयिष्यामि। अपि त्वेतां चापत्तिं यथाधर्म प्रतिकरिष्यामि। आयत्यां संवरमापत्स्ये। सचेत्कुलपुत्र प्रव्रजितो बोधिसत्त्वः परिकल्पमादाय सर्वाश्चतस्त्रो मूलापत्तीरतिक्रमेत्, अनेन चोपायकौशल्येन विनोदयेत, अनापत्तिं बोधिसत्त्वस्य वदामीति॥



स्फुटं चार्यरत्नमेघे आनन्तर्यचिकीर्षुपुरुषमारणानुज्ञानात्। श्रावकविनयेऽपि मूलापत्तिस्थान एव कारुण्यान्मृगादिमोक्षणेऽनापत्तिरुक्तव॥



अयं च रागे गुणो यद्बोधिसत्त्वे रागमुत्पाद्य सुगतिर्लभ्यते न तु क्रोधेन। यथोक्तमुपायकौशल्यसूत्रे प्रियंकरे बोधिसत्त्वे रक्ता[ध] व्योत्तरां दारिकामधिकृत्य-

प्रियंकरस्य प्रणिधेः पुनः पुनर्या इस्त्रि प्रेक्षेत सरागचित्ता।

सा इस्त्रिभावं परिवर्जयित्वा पुरुषो भवेत् यादृगुदारसत्त्वः॥

पश्यस्व आनन्द गुणास्य ईदृशाः येनान्यसत्त्वा निरयं व्रजन्ति।

तेनैव शूरेषु जनित्व रागं गच्छन्ति स्वर्ग पुरुषत्वमेव च॥पेयालं॥

भैषज्यराजेषु महायशेषु को बोधिसत्त्वेषु जनयेत द्वेषम्।

येषां किलेशोऽपि सुखस्य दायकः किं वा पुनर्यस्तान् सत्करेयाः॥इति॥



एवमन्यस्मिन् सत्त्वार्थोपाये सति रागजा आपत्तिरनापत्तिरुक्ता॥ उपायकौशल्यसूत्रे च गणिकावत्कृतार्थो बोधिसत्त्वो निरपेक्षस्तं सत्त्वं त्यजतीति विस्तरेणोक्तम्॥



अलब्धभूमेश्च षट्पारमितासु चरितवत इयं चिन्ता, नेतरस्येति आस्तां प्रासङ्गिकम्॥

तस्माद् द्वेषस्यावकाशो न देयः। उक्तं ह्युपालिपरिपृच्छायाम्- बोधिसत्त्वानां शारिपुत्र द्वेमहासावद्ये आपत्ती। कतमे द्वे? द्वेषसहगता मोहसहगता चेति। तत्र शारिपुत्र प्रथमा आपत्तिर्दशवर्गे ऋजुकेन देशयितव्या। हस्तापत्तिः पञ्चवर्गे गुर्वी देशयितव्या। स्त्रिया हस्तग्रहणं चक्षुर्दर्शनम् दुष्टचित्तापत्तिरेकपुद्गलस्य द्वयोर्वा शारिपुत्र तां गुर्वी दर्शयेत्। पञ्चानन्तर्यसमन्वागतापत्तिर्बोधिसत्त्वेन स्त्र्यापत्तिर्दारिकापत्तिर्हस्तापत्तिः स्तूपापत्तिः संघापत्तिः। तथा अन्याश्चापत्तयो बोधिसत्त्वेन पञ्चत्रिशतां बुद्धानां भगवतामन्तिके रात्रिंदिवं एकाकिना गुर्ब्यो देशयितव्याः॥



तत्रेयं देशना-अहमेवंनामा बुद्धं शरणं गच्छामि। धर्मं शरणं गच्छामि। संघं शरणं गच्छामि॥ नमः शाक्यमुनये तथागतायार्हते सम्यक्संबुद्धाय। नमो वज्रप्रमर्दिने। नमो रत्नार्चिषे। नमो नागेश्वरराजाय। नमो वीरसेनाय। नमो वीरनन्दिने। नमो रत्नश्रिये। नमो रत्नचन्द्रप्रभाय। नमोऽमोघदर्शिने। नमो रत्नचन्द्राय। नमो निर्मलाय। नमो विमलाय। नमः शूरदत्ताय। नमो ब्रह्मणे। नमो ब्रह्मदत्ताय। नमो वरूणाय। नमो वरुणदेवाय। नमो भद्रश्रिये। नमश्चन्दनश्रिये। नमोऽनन्तौजसे। नमः प्रभासश्रिये। नमोऽशोकश्रिये। नमो नारायणाय। नमः कुसुमश्रिये। नमो ब्रह्मज्योतिर्विक्रीडिताभिज्ञाय तथागताय। नमो धनश्रिये। नमः स्मृतिश्रिये। नमः सुपरिकीर्तितनामघेयश्रिये। नम इन्द्रकेतुध्वजराजाय। नमः सुविक्रान्तश्रिये। नमो विचित्रसंक्रमाय। नमो विक्रान्तगामिने। नमः समन्तावभासव्यूहश्रिये। नमो रत्नपद्मविक्रामिणे। नमो रत्नपद्मसुप्रतिष्ठितशैलेन्द्रराजाय तथागतायार्हते सम्यक्संबुद्धाय॥ एवंप्रमुखा यावन्तः सर्वलोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धास्तिष्ठन्ति घ्रियन्ते यापयन्ति, ते मां समन्वाहरन्तु बुद्धा भगवन्तः। यन्मया अस्यां जातौ अन्यासु वा जातिषु अनवराग्रे जातिसंसारे संसरता पापकं कर्म कृतं स्यात्कारितं वा क्रियमाणं वा अनुमोदितं भवेत्, स्तौपिकं वा सांधिकं वा द्रव्यमपहृतं स्यात्, हारितं वा ह्रियमाणं वा अनुमोदितं भवेत्। पञ्चानन्तर्याणि कृतानि स्युः कारितानि वा क्रियमाणानि वा अनुमोदितानि भवेयुः। दशाकुशलान् कर्मपथान् समादाय वर्तितं स्यात्, परे वा समादापिताः स्युर्वर्तमाना वा अनुमोदिता भवेयुर्येन कर्मावरणेनावृतोऽहं निरयं व गच्छेयं तिर्यग्योनिं वा यमविषयं वा गच्छेयं प्रत्यन्तजनपदेषु म्लेच्छेषु वा प्रत्याजायेयं दीर्घायुष्केषु देवेघूपपद्येयमिन्द्रियविकलतां वाधिगच्छेयं मिथ्यादृष्टिं वोपगृह्णीयां बुद्धोत्पादं वा विरागयेयम्, तत्सर्वं कर्मावरणं तेषां बुद्धानां भगवतां ज्ञानभूतानां साक्षिभूतानां प्रमाणभूतानां जानतां पश्यतामग्रतः प्रतिदेशयामि, आविष्करोमि न प्रतिच्छादयामि, आयत्यां संवरमापद्ये। समन्वाहरन्तु मां ते बुद्धा भगवन्तो यन्मया अस्यां जातावन्यासु वा जातिष्वनवराग्रे वा जातिसंसारे संसरता दानं दत्तं भवेदन्तशस्तिर्यग्योनिगतायाप्यालोपः, शीलं वा रक्षितं भवेद्यच्च मे ब्रह्मचर्यवासकुशलमूलम्, यच्च मे सत्त्वपरिपाककुशलमूलम्, यच्च मे बोधिचित्तकुशलम्, यच्च मेऽनुत्तरज्ञानकुशलमूलम्, तत्सर्वमैकध्यं पिण्डयित्वा तुलयित्त्वा अभिसंक्षिप्य अनुत्तरायां सम्यक्संबोधौ उत्तरोत्तरया परिणामनया यथा परिणामितमतीतैर्बुद्धैर्भगवद्भिर्यथा परिणामयिष्यत्यनागता बुद्धा भगवन्तः, यथा परिणामयन्ति‍एतर्हि दशसु दिक्षु प्रत्युत्पन्ना बुद्धा भगवन्तः, तथा अहमपि परिणामयामि। सर्वं पुण्यमनुमोदयामि।

सर्वान् बुद्धानध्येष्यामि। भवतु मे ज्ञानमनुत्तरम्॥



ये चाभ्यतीतास्तथपि च ये अनागता

ये चापि तिष्ठन्ति नरोत्तमा जिनाः।

अनन्तवर्णान् गुणसागरोपमा-

नुपैमि सर्वान् शरणं कृताञ्जलिः॥

ये बोधिसत्त्वाः करुणबलैरुपेता

विचरन्ति लोके सत्त्वहिताय शूराः।

त्रायन्तु ते मां सद पापकारिणं

शरणं यामि तान् बहुबोधिसत्त्वान्॥



इति हि शारिपुत्र बोधिसत्वेनेमान् पञ्चत्रिंशतो बुद्धान् प्रमुखान् कृत्वा सर्वताथागतानुगतैर्मनसिकारैः पापशुद्धिः कार्या। तस्यैवं सर्वपापविशुद्धस्य तत्र च बुद्धा भगवन्तो मुखान्युपदर्शयन्ति सत्त्वविमोक्षार्थमेव। नानाव्यञ्जनाकारमुपदर्शयन्ति विभ्रान्तबालपृथग्जनानां परिपाचनाहेतोः। पेयालं। न शक्यं सर्वश्रावकप्रत्येकबुद्धनिकायैरापत्तिकौकृत्यस्थानं विशोधयितुम्, यद्बोधिसत्त्वस्तेषां बुद्धानां भगवतां नामधेयधारणपरिकीर्तनेन रात्रिंदिवं त्रिस्कन्धकधर्मपर्यायप्रवर्तनेनापत्तिकौकृत्यान्निःसरति समाधिं च प्रतिलभते॥



उक्तो विद्षणासमुदाचारः। प्रतिपक्षसमुदाचार उच्यते। तत्र गम्भीरसूत्रान्तपरिचयात् पापक्षयो भवति। यथा वज्रच्छेदिकायामुक्तम्- ये ते सुभूते कुलपुत्रा वा कुलदुहितरो वा इमानेवंरूपान् सूत्रान्तानुद्गहीष्यन्ति यावत्पर्यवाष्स्यन्ति, ते परिभूता भविष्यन्ति सुपरिभूताः। तत्कस्य हेतोः? यानि तेषां सत्त्वानां पौर्वजन्मिकानि कर्माणि कृतान्यपायसंवर्तनीयानि, तानि तया परिभूततया दृष्ट एव धर्मे क्षपयिष्यन्ति बुद्धबोधिं च प्राप्स्यन्तीति॥



शून्यताधिमुक्तयाऽपि पापशुद्धिर्भवति तथागतकोषसूत्रे वचनात्- यः काश्यप पिता चस्यात्प्रत्येकबुद्धश्च, तं जीविताद् व्यपरोपयेदिदमग्रं प्राणातिपातानाम्। इदमग्रमदत्तादानानाम्, यदुत त्रिरत्नद्रव्यापहरणता। इदमग्रं काममिथ्याचाराणां यदुत माता स्यादर्हन्तीं च। इदमग्रं मृषावादानां यदुत तथागतस्याभ्याख्यानम्। इदमग्रं पैशुन्यानां यदुतार्यसंघस्यावर्णः। इदमग्रं पारुण्याणां यदुतार्याणामवस्फण्डनम्। इदमग्रं संभिन्नप्रलापानां यदुत धर्मकामानां विक्षेपः। इदमग्रं व्यापादानां यदुतानन्तर्यपरिकर्षणम्। इदमग्रमभिध्यानां यदुत सम्यग्गतानां लाभहरणचित्तता। इदमग्रं मिथ्यादृष्टीनां यदुत गहनतादृष्टिः। इमे काश्यप दशाकुशलाः कर्मपथा महासावद्याः। सचेत्काश्यप एकसत्त्व एभिरेवंमहासावद्यैर्दशभिरकुशलैः कर्मपथैः समन्वागतो भवेत्, स च तथागतस्य हेतुप्रत्ययसंयुक्तां धर्मदेशनामवतरेत् - नात्र कश्चिदात्मा वा सत्त्वो वा जीवो व पुद्गलो वा यः करोति प्रतिसंवेदयते, इति ह्यकृतामनभिसंस्कारां मायाधर्मतामसंक्लेशधर्मतां प्रकृतिप्रभास्वरतां सर्वधर्माणामवतरति, आदिशुद्धान् सर्वधर्मानमिश्रद्दधात्यधिमुच्यते, नाहं तस्य सत्त्वस्यापायगमनं वदामीति॥



कर्मावरणविशुद्धिसूत्रेऽप्युक्तम्-पुनरपरं मञ्जुश्रीर्यो बोधिसत्त्व आपत्तिमनापत्तिं पश्यति, अविनयं विनयं पश्यति, संक्लेशं व्यवदानं पश्यति, संसारधातुं निर्वाणधातुं पश्यति, स कर्मावरणविशुद्धिं प्रतिलभत इति॥



त्रिसमयराजेऽपि पापप्रतिपक्षसमुदाचार उक्तः - अक्षिणी निमील्य बुद्धबोधिसत्त्वालम्बनचित्तः शताक्षरमष्टसहस्त्रं जपेत्। निमीलिताक्ष एव बुद्धबोधिसत्त्वान् पश्यति, विगतपापो भवति। अथवा चैत्यं प्रदक्षिणीकुर्वनष्टसहस्त्रं जपेत्, चैत्यप्रतिमायाः सद्धर्मपुस्तकानां चैकतमं पुरस्कृत्यायमेव विधिरिति॥



चुन्दाधारणीं वा तावज्जपेद्यावत्पापक्षयनिमित्तानि पश्यति स्वप्ने। तद्यथा क्रन्दनादिर्छदनदधिक्षीरादिभोजनात्तु विगतपापो भवति। वमनाद्वा चन्द्रसूर्यदर्शनादाकाशगमनाज्ज्वलितानलमहिषकृष्णपुरुषपराजयाद् भिक्षुभिक्षुणीसंघदर्शनात् क्षीरवृक्षगिरिसिंहासनप्रासादनावारोहणाद्धर्मश्रवणाच्च पापक्षयः संलक्षयितव्यः॥



तथागतबिम्बपरिवर्तेऽपि प्रतिपक्षसमुदाचार उक्तः- तद्यथा पुरुषो मीढावलिप्तः सुधौतस्नानं कृत्वा गन्धैर्विलिप्येत, तस्य तद्दौर्गन्ध्यं वान्तं विगतं स्यात्, एवं पञ्चानन्तर्यकारिणस्तत्पापं विगच्छति। योऽपि दशाकुशलकर्मपथसमन्वागतस्तथागते श्रद्धां प्रतिलभ्य तथागतबिम्बं कारयेत्, तस्यापि तत्पापं न प्रज्ञायते विशेषतो बोधिचित्तसमन्वागतस्य, विशेषतोऽभिनिष्क्रान्तगृहावासस्य शीलवतः। इति॥



पुष्पकूटधारण्यामप्युक्तम्-यश्च खलु पुनः सिंहविक्रीडिततथागतं संमुखं वर्षं वा वर्षसहस्त्रं वा वर्षशतसहस्त्रं वा सर्वसुखोपधानैरुपतिष्ठेत, यश्च परिनिर्वृतस्य तथागतस्य चैत्ये बोधिचित्तसंगृहीत‍एकपुष्पमारोपयेत्, तथागतपूजायै जलाञ्जलिं चोपनामयेत्, जलेन व सिञ्चयेत्, इषिकापदं वा दद्यात्, निर्माल्यं चापनयेत्, उपलेपनप्रदानं वा पुष्पप्रदानं वा दीपप्रदानं वा कुर्यादात्तमनाः, एकक्रमव्यतिहारं वातिक्रम्य वाचं भाषते नमस्तस्मै बुद्धाय भगवत इतिमात्रे अत्र सिंहविक्रीडित काङ्क्षा वा विमतिर्वा विचिकित्सा वा यदसौ कल्पं वा कल्पशतं वा कल्पसहस्त्रं व दुर्गतिविनिपातं गच्छेत्, नेदं स्थानं विद्यत इति॥



भैर्षज्यगुरुवैदूर्यप्रभराजसूत्रेऽप्युक्तम्- ये पञ्च शिक्षापदानि धारयन्ति, ये दश शिक्षापदानि धारयन्ति, ये च बोधिसत्त्वसंवरं चतुर्वरशिक्षापदशतं धारयन्ति, ये पुनरभिनिष्क्रान्तगृहावासा भिक्षवः पञ्चाशाधिके द्वे शिक्षापदशते धारयन्ति, याश्च भिक्षुण्यः पञ्च शिक्षापदशतानि धारयन्ति, ये च यथापरिगृहीताच्छिक्षासंवरादन्यतराच्छिक्षापदाद्भ्रष्टा भवन्ति, सचेत्ते दुर्गतिभयभीताः, तस्य भगवतो भैषज्यगुरुवैदूर्यप्रभराजस्य तथागतस्य नामधेयं धारयेयुर्यथाविभवतश्च पूजां कुर्युः, न भूयस्तेषामपायगतिः प्रतिकाङ्क्षितव्या॥



अथ भगवानायुष्मन्तमानन्दमामन्त्रयते स्म- श्रद्दधासि त्वमानन्द पत्तीयसि, यदहं तस्य भगवतो भैषज्यगुरुवैदूर्यप्रभराजस्य तथागतस्य गुणान् वर्णयामि। अथ ते काङ्क्षा वा विमतिर्वा विचिकित्सा वा अत्र गम्भीरे बुद्धगोचरे? अथायुष्मानानन्दो भगवन्तमेतदवोचत्- न भदन्त भगवन् काङ्क्षा वा विमतिर्वा विचिकित्सा वा तथागतभाषितेषु सूत्रान्तेषु। तत्कस्य हेतोः? नास्ति तथागतानामपरिशुद्धकायवाङ्भनः समुदाचारता। इमौ भगवन् चन्द्रसूर्यावेवंमहर्द्धिकावेवंमहानुभावौ पृथिव्यां पतेताम्। सुमेरुः पर्वतराजा स्थानाच्चलेत्। न तु बुद्धानां वचनमन्यथा भवेत्। किं तु भदन्त भगवन् सन्ति सत्त्वाः श्रद्धेन्द्रियविकलाः, ये बुद्धगोचरं श्रुत्वा न श्रद्दधति। तेषामेवं भवति- कथमिदं नामधेयस्मरणमात्रेण तस्य तथागतस्य एत्तका गुणानुशंसा भवन्ति? ते न श्रद्दधति। न पत्तीयन्ति। प्रतिक्षिपन्ति। तेषां दीर्घरात्रमनर्थायाहितायसुखाय विनिपाताय भविष्यति। भगवानाह- अस्थानमानन्द अनवकाशो येषां तस्य नामधेयं निपतेत् कर्णे, तेषां दुर्गत्यपायगमनं भवेदिति। दुःश्रद्धानीयश्चानन्द बुद्धानां बुद्धगोचरः। यच्च त्वमानन्द श्रद्दधासि पत्तीयसि, तथागतस्यैषोऽनुभावो द्रष्टव्यः। अभूमिश्चात्र श्रावकप्रत्येकबुद्धानां स्थापयित्वा एकजातिप्रतिबद्धान् बोधिसत्त्वान् महासत्त्वानिति॥



अत्रैव चोक्तम्- ये चान्ये श्राद्धाः कुलपुत्रा वा कुलदुहितरो वा अष्टाङ्गसमन्वागतमुपवासमुपवसन्ति, एकवार्षिकं वा त्रैवार्षिकं वा शिक्षापदं धारयन्ति, येषामेवमभिप्रायः एवं प्रणिधानम् - अनेन वयं कुशलमूलेन पश्चिमायां दिशायां सुखावत्यां लोकधातौ उपपद्येम, यत्रामिताभस्तथागतः। यैः श्रुतं भविष्यति तस्य भगवतो भैषज्यगुरुवैदूर्यप्रभराजस्य तथागतस्य नामधेयम्, तेषां मरणकालसमयेऽष्टौ बोधिसत्त्वा ऋद्धया आगत्य मार्गमुपदर्शयन्ति। ते तत्र नानारङ्गेषु पद्मेषूपपादुकाः प्रादुर्भवन्ति। केचित्पुनर्देवलोक उपपद्यन्ते। तेषां तत्रोपपन्नानां तत्पूर्वकं कुशलमूलं न क्षीयते। दुर्गतिविनिपातभयं च न भविष्यति। ते ततश्च्युत्वा इह मनुष्यलोके राजानो भवन्ति चतुर्द्वीपेश्चराश्चक्रवर्तिनः। अनेकानि सत्त्वकोटीनियुतशतसहस्त्राणि दशकुशलेषु कर्मपथेषु प्रतिष्ठापयन्ति। अपरे पुनः क्षत्रियमहाशालकुलेषूपपद्यन्ते। ब्राह्मणमहाशालकुलेषूपपद्यन्ते। गृहपतिमहाशालकुलेषु प्रभूतधनधान्यकोषकोष्टागारकुलेषूपपद्यन्ते। ते रूपसंपन्ना भवन्ति, परिवारसंपन्ना भवन्ति॥



तत्रैवोक्तम्- येन च पुनर्मातृग्रामेण तस्य भगवतो भैषज्यगुरुवैदूर्यप्रभराजस्य तथागतस्य नामधेयं श्रुतं भविष्यति उद्गृहीतं वा, स तस्य पश्चिमो मतृग्रामभावः प्रतिकाङ्क्षितव्य इति॥



मजुश्रीबुद्धक्षेत्रगुणव्यूहालंकारसूत्रेऽप्युक्तम्-

ज्ञानोत्तरप्रभाकेतुं प्रणिधानमतिं तथा।

शान्तेन्द्रियं मञ्जुघोषं भक्तितः प्रणमाम्यहम्॥

य एषां बोधिसत्त्वानां नामघेयं तु धारयेत्।

[ए] तस्य मातृग्रामस्य स्त्रीभावो न भविष्यति॥



उक्तः संक्षेपात्प्रतिपक्षसमुदाचारः। प्रत्यापत्तिबलमधुनोच्यते। यथोक्तमार्यक्षितिगर्भसूत्रेप्राणातिपातात्प्रतिविरतो भवति बोधिसत्त्वो महासत्त्वः सर्वसत्त्वानामभयंददः। अनुत्त्रासोऽनुपायासोऽलोमहर्षः। स तेन कुशलमूलेन कर्मविपाकेन यत्पूर्वान्तकोटिपञ्चगतिचक्रारूढेन संसारनद्युद्यातेन प्राणातिपातहेतुना कायवाङ्यनसा कर्मावरणं क्लेशावरणं धर्मावरणं कृतं वा स्यात्कारितं वा अनुमोदितं स्यात्, तत्सर्वं तेन प्राणातिपातवैरमणचक्रेण सर्वानर्थ मर्दयति, यावदशेषमविपाकं कुरुते। सनिकायसभागे देवमनुष्याणां प्रियो भवति, निरातङ्को दीर्घायुष्क इति॥ यावत् पुनरपरं कुलपुत्र यो बोधिसत्त्वो यावज्जीवमदत्तादानात्प्रतिविरतो भवति, स सर्वसत्त्वानामभयं ददाति।

अन्यत्रासयत्नेनासंक्षोमेण स्वलाभेन संतुष्टो विहरति अधार्मिकभोगानभिलाषी। स तेन कुशलमूलेन यावददत्तादानहेतुकं कर्मावरणं मर्दयति प्रमर्दयति यावदशेषमविपाकं कुरुत इति॥ पेयालं॥



एवं दशापि कुशलाः कर्मपथाः स्वविपक्षाकुशलघातकास्तत्र पठयन्ते।

तथा चन्द्रप्रदीपसूत्रेऽपि व्यापादविरत्या सर्वपापक्षयः श्रूयते। यथाह-

सहिष्याम्यत्र बालानामभूतां परिभाषणाम्।

आक्रोशनं तर्जनां च अधिवासिष्यि नायकः॥

क्षपयिष्ये पापकं कर्म यन्मया पुरिमे कृतम्।

अन्येषु बोधिसत्त्वेषु व्यापादो जनितो मया॥ इति॥

उक्तं प्रत्यापत्तिबलम्। आश्रयबलं तु वक्तव्यम्। अत्र सूकरिकावदानमुदाहार्यम्-

ये बुद्धं शरणं यान्ति न ते गच्छन्ति दुर्गतिम्।

प्रहाय मानुषान् कायान् दिव्यान् कायाँल्लभन्ति ते॥



इत्येवं धर्मं संघं चाधिकृत्य पापक्षयः॥



आर्यमैत्रेयविमोक्षे तु बोधिचित्तेन पापविशुद्धिरुक्ता-कल्पोद्दाहाग्निभूतं सर्वदुष्कृतनिर्दहनतया। पातालभूतं सर्वाकुशलधर्मपर्यादानकरणतया। पेयालं॥ तद्यथा कुलपुत्र हाटकप्रभासं नामरसजातम्। तस्यैकं पलं लोहपलसहस्त्रं सुवर्णीकरोति। न च तत्र तत्पलं शक्यते तेन लोहपलसहस्त्रेण पर्यादातुम्, न लोहीकर्तुम्। एवमेवैकः सर्वज्ञताचित्तोत्पादरसधातुः कुशलमूलपरिणामनाज्ञानसंगृहीतः सर्वकर्मक्लेशावरणलोहानि पर्यादाय सर्वधर्मान् सर्वज्ञतावर्णान् करोति। न च सर्वज्ञताचित्तोत्पादरसधातुः शक्यः सर्वकर्मक्लेशलोहैः संक्लेशयितुं पर्यादातुं वा। तद्यथा कुलपुत्र एकः प्रदीपो यादृशे गृहे वा लयने वा प्रवेश्यते, स सहप्रवेशितो वर्षसहस्त्रसंचित्तमपि तमोन्धकारं विधमयति, अवभासं च करोति, एवमेवैकः सर्वज्ञताचित्तोत्पादप्रदीपो यादृशे सत्त्वाशये गहनेऽविद्यातमोन्धकारानुगते प्रवेश्यते, स सहप्रवेशितोऽनभिलाप्यकल्पशतसहस्त्रसंचितमपि कर्मक्लेशावरणतमोन्धकारं विधमति, ज्ञानालोकं च करोति। तद्यथा कुलपुचिन्तामणिराजमुकुटानां महानागराज्ञां नास्ति परोपक्रमभयम्, एवमेव बोधिचित्तमहाकरुणाचिन्तात्रमणिराजमुकुटाववद्धानां बोधिसत्त्वानां नास्ति दुर्गत्यपायपरोपक्रमभयमिति॥



आर्योपालिपरिपृच्छायामप्युक्तम्- इह उपाले महायानं संप्रस्थितो बोधिसत्त्वः सचेत्पूर्वाह्णकालसमये आपत्तिमापद्यते, मध्याह्नकालसमये सर्वज्ञताचित्तेनाविरहितो विहरेत्, अपर्यन्त एव बोधिसत्त्वस्य शीलस्कन्धः। सचेन्मध्याह्नकालसमये आपत्तिमापद्यते, सायाह्नकालसमये सर्वज्ञताचेत्तेनाविरहितो भवेत्, अपर्यन्त एव बोधिसत्त्वस्य शीलस्कन्धः। एवं यामे यामे विधिरुक्तः। एवं ह्युपाले सपरिहारा शिक्षा महायानसंप्रस्थितानां बोधिसत्त्वानाम्। तत्र बोधिसत्त्वेन नातिकौकृत्यपर्युत्थानमुत्पाद्यम् , नातिविप्रतिसारिणा भवितव्यम्। सचेत्पुनः श्रावकयानीयः पुद्गलः पुनः पुनरापत्तिमापद्येत, नष्टः श्रावकस्य पुद्गलस्य शीलस्कन्धो वेदितव्यः॥ इति॥



इति शिक्षासमुच्चये पापशोधनमष्टमः परिच्छेदः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project