Digital Sanskrit Buddhist Canon

भोगपुण्यरक्षा सप्तमः परिच्छेदः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
भोगपुण्यरक्षा सप्तमः परिच्छेदः।



एवं तावदात्मभावरक्षा वेदितव्या। भोगरक्षा तु वक्तव्या। तत्र -



सुकृतारम्भिणा भाव्यं मात्रज्ञेन च सर्वतः।

इति शिक्षापदादस्य भोगरक्षा न दुष्करा॥१४॥



उग्रपरिपृच्छायां हि शिक्षापदमुक्तम्-सुसमीक्षितकर्मकारिता सुकृतकर्मकारिता च। तेन भोगानां दुर्न्यासा प्रत्यवेक्षा। अवज्ञाप्रतिषेधः सिद्धो भवति। शमथप्रस्तावेन च मात्रज्ञता युक्तिज्ञता चोक्ता। तेनेदं सिद्धं भवति- यदिदं अल्पाधमभोगेनापि कार्यसिद्धौ सत्यां स्वयमन्यैर्वा बहूत्तमभोगनाशनोपेक्षा न कार्येति॥



अत एव उग्रपरिपृच्छायामुक्तम्- पुत्रभार्यादासीदासकर्मकरपौरुषेयाणां सम्यक्परिभोगेनेति॥

तथा स्वपरबोधिपक्षश्रुताद्यन्तरायकरौ त्यागात्यागौ न कार्यौ। अधिकसत्त्वार्थशक्तेस्तुल्यशक्तेर्वा बोधिसत्त्वस्य अधिकतुल्यकुशलान्तरायकरौ त्यागात्यागौ न कार्याविति सिद्धं भवतीति॥



इदं च संधाय बोधिसत्त्वप्रातिमोक्षेऽभिहितम्- यस्तु खलु पुनः शारिपुत्र अभिनिष्क्रान्तगृहावासो बोधिसत्त्वो बोध्यङ्गैरभियुक्तः तेन कथं दानं दातव्यम्। कतरं दानं दातव्यम्। कियद्रूपं दानं दातव्यम्। पे। धर्मदायकेन भवितव्यं धर्मदानपतिना। यश्च शारिपुत्र गृही बोधिसत्त्वो गङ्गानदीवालिकासमानि बुद्धक्षेत्राणि सप्तरत्नप्रतिपूर्णानि कृत्वा तथागतेभ्योऽर्हद्भयः सम्यक्संबुद्धेभ्यो दानं दद्याद्, यश्च शारिपुत्र प्रव्रज्यापर्यापन्नो बोधिसत्व एकां चतुष्पदिकां गाथां प्रकाशयेत्, अयमेव ततो बहुतरं पुण्यं प्रसवति। न शारिपुत्र तथागतेन प्रव्रजितस्यामिषदानमनुज्ञातम्। पे। यस्य खलु पुनः शारिपुत्र पात्रागतः पात्रपर्यापन्नो लाभो भवेद्धार्मिको धर्मलब्धः, तेन साधारण भोजिना भवितव्यं सार्ध सब्रह्मचारिभिः। सचेत्पुनः कश्चिदेवागत्य पात्रं वा चीवरं व याचेत, तस्यातिरिक्तं भवेद्बुद्धानुज्ञातात्त्रिचीवरात्। यथापरित्यक्तं दातव्यम्। सचेत्पुनस्तस्योनं चीवरं भवेद्यन्निश्रित्य ब्रह्मचर्यवासः, तन्न परित्यक्तव्यम्। तत्कस्य हेतोः? अविसर्जनीयं त्रिचीवरमुक्तं तथागतेन। सचेत्पुनः शारिपुत्र बोधिसत्त्वः त्रिचीवरं परित्यज्य याचनकगुरुको भवेत्, न तेनाल्पेच्छता आसेविता भवेत्। यस्तु खलु पुनः शारिपुत्र अभिनिष्क्रान्तगृहावासो बोधिसत्त्वः, तेन धर्म आसेवितव्यः। तत्र तेनाभियुक्तेन भवितव्यमिति॥



अन्यथा ह्येकसंग्रहार्थं महतः सत्त्वराशेस्तस्य च सत्त्वस्य बोधिसत्त्वाशयपरिकर्मान्तरायान्महतोऽर्थस्य हानिः कृता स्यात्। अत एवोदारकुशलपक्षविवर्जनता अपक्षाल इत्युच्यते। एवं तावत्त्यागप्रतिषेधः। अत्यागप्रतिषेधोऽपि यथा- आर्यसागरमतिसुत्रे महायानान्तरायेषु बहुलाभता पज्यते। योऽयं विधिरात्मन्युक्तः, सोऽन्यस्मिन्नापि बोधिसत्त्वे प्रतिपाद्यः इति कुतो गम्यते? आर्योग्रपरिपृच्छायां देशितत्वात्। परकृत्यकारितः स्वकार्यपरित्याग इति॥



तथा आर्यविमलकीर्तिनिर्देशेऽप्युक्तम्- संसारभयमीतेन किं प्रतिसर्तव्यम्? आह-संसारभयभीतेन मञ्जुश्रीर्बोधिसत्त्वेन बुद्धमाहात्म्यं प्रतिसर्तव्यम्। आह-बुद्धमाहात्म्ये स्थातुकामेन कुन्न स्थातव्यम्? आह- बुद्धमाहात्म्ये स्थातुकामेन सर्वसत्त्वसमतायां स्थातव्यम्। आह-सर्वसत्त्वसमतायां स्थातुकामेन कुत्र स्थातव्यम्? आह - सर्वसत्त्वसमतायां स्थातुकामेन सर्वसत्त्वप्रमोक्षाय स्थातव्यमिति॥



तथा च धर्मसंगीतौ सार्थवाहो बोधिसत्त्व आह- यो भगवन् बोधिसत्त्वः सर्वसत्त्वानां प्रथमतरं बोधिमिच्छति, नात्मनः। यावदियं भगवन् धर्मसंगीतिरिति॥



उत्सर्गादेव चास्य स्वार्थाभावः सिद्धः। किं तु सत्त्वार्थहानिभयादयोग्ये सत्त्वे स्वभारं नारोपयति। यत्र तु सत्त्वार्थहानिं न पश्यति, तत्र स्वयं कृतमन्येन वा जगद्धितमाचरितमिति को विशेषः? यदयमपरबोधिसत्त्वकुशलसिद्धये न स्वकुशलमुत्सृजति। अथ स्वदुर्गतिदुःखाद्बिभेति, द्वितीयस्यापि तदेव दुःखम्। अथ तद्दुःखेन मे बाधा नास्तीत्युपेक्षते, यथोक्तैः सूत्रैः सापत्तिको भवति॥



यथा च रत्नकूटसूत्रे- चत्वार इमे काश्यप बोधिसत्त्वप्रतिरूपका इत्यारभ्योक्तम्-आत्मसुखार्थिको भवति न सर्वसत्त्वदुःखापनयनार्थिक इति॥ तस्मादुग्रपरिपृच्छाविधिना पूर्ववदात्मा गर्हणीयः। एषा तु बोधिसत्त्वशिक्षा यथा आर्यनिरारम्भेण धर्मसंगीतिसूत्रे निर्दिष्टा-कथं कुलपुत्राः प्रतिपत्तिस्थिता वेदितव्याः? आह-यदा सत्त्वेषु न विप्रतिपद्यन्ते। आह-कथं सत्त्वेषु न विप्रतिपद्यन्ते? आह-यन्मैत्रीं च महाकरुणां च न त्यजन्ति। सुभूतिराह-कतमा बोधिसत्त्वानां महामैत्री? आह-यत्कायजीवितं च सर्वकुशलमूलं च सर्वसत्त्वानां निर्यातयन्ति, न च प्रतिकारं काङ्क्षन्ति। आह- कतमा बोधिसत्त्वानां महाकरुणा यत्पूर्वतरं सत्त्वानां बोधिमिच्छन्ति नात्मन इति॥



अत्रैव चाह-महाकरुणामूलाः सर्वबोधिसत्त्वशिक्षा इति॥ अवश्यं च भगवतेदं न निवारणीयम्। अन्यतरबोधिसत्त्वार्थे नार्थित्वादवश्यं तूपदिशतीति निश्चीयते। येन दातुर्महादक्षिणीये महार्थदानान्महापुण्यसागरविस्तरो दृश्यते। अन्यथा तु केवलमेव विघातिनो मरणं स्यात्॥



यत्त प्रशान्तविनिश्चयप्रातिहार्यसूत्रे देशितम्- य एष ते महाराज वर्षशतसहस्त्रेण परिव्ययोऽत्र प्रविष्टः, स सर्वः पिण्डीकृत्यैकस्य भिक्षोर्यात्रा भवेदेवं प्रत्येकं सर्वभिक्षूणाम्। यश्चोद्देशस्वाध्यायाभियुक्तो बोधिसत्त्वः सगौरवो धर्मकामः श्रद्धादेयमाहारं परिगृह्यैवं चित्तमुत्पादयेत्-अनेनाहं धर्मपर्येष्टिमापत्स्य इति। अस्य कुशलस्यैष देयधर्मपरित्यागः शततमीमपि कलां नोपैतीति, तद्गृहसुखपरिशुद्धिमधिकृत्योक्तम्। न तु पूर्वोक्तविधिना कश्चिद्दोषः॥



उक्ता समासतो भोगरक्षा। पुण्यरक्षा वाच्या। तत्र-



स्वार्थविपाकवैतृष्ण्याच्छुमं संरक्षितं भवेत्।



यथोक्तं नारायणपरिपृच्छायाम्- स नात्महेतोः शीलं रक्षति, न स्वर्गहेतोः, न शक्रत्वहेतोः, न भोगहेतोः, नैश्वर्यहेतोः, न रूपहेतोर्न वर्णहेतोर्न यशोहेतोः। पेयालं। न निरयभयभीतः शीलं रक्षति। पेयालं। एवं न तिर्यग्योनिभयभीतः शीलं रक्षति। अन्यत्र बुद्धनेत्रीप्रतिष्ठापनाय शीलं रक्षति। यावत्सर्वसत्त्वहितसुखयोगक्षेमार्थिकः शीलं रक्षति॥ स एवंरूपेण शीलस्कन्धेन समन्वागतो बोधिसत्त्वो दशभिधर्मैर्न हीयते। कतमैर्दशभिः? यदुत न चक्रवर्तिराज्यात्परिहीयते॥ तत्र च भवत्यप्रमत्तो बोधिप्रतिकाङ्क्षी बुद्धदर्शनमभिकाङ्क्षते। एवं ब्रह्मत्वाद्रुद्धदर्शनामेद्यप्रतिलम्भाद्धर्मश्रवणान्न परिहीयते। यावद्यथाश्रुतप्रतिपत्तिसंपादनाय बोधिसत्त्वसंवरसमादानान्न परिहीयते। अनाच्छेद्यप्रतिभानात्सर्वकुशलधर्मप्रार्थनध्यानान्न परिहीयते॥ एवं शीलस्कन्धप्रतिष्ठितो बोधिसत्त्वो महासत्वः सदा नमस्कृतो भवति देवैः। सदा प्रशंसितो भवति नागैः। सदा नमस्कृतो भवति यक्षैः। सदा पूजितो भवति गन्धर्वैः। सदापचायितश्च भवति नागेन्द्रासुरेन्द्रैः। सदा सुमानितश्च भवति ब्राह्मणक्षत्रियश्रेष्ठिगृहपतिभिः। सदाभिगमनीयश्च भवति पण्डितैः। सदा समन्वाहृतश्च भवति बुद्धैः। शास्तृसंमतश्च भवति सदेवकस्य लोकस्य। अनुकम्पकश्च भवति सर्वसत्त्वानाम्॥ पे॥ चतस्त्रो गतीर्न गच्छति। कतमाश्चतस्त्रः? यदुताक्षणगतिं न गच्छत्यन्यत्र सत्त्वपरिपाकात्। बुद्धशून्यबुद्धक्षेत्रं न गच्छति। मिथ्यादृष्टिकुलोपपत्तिं न गच्छति। सर्वदुर्गतिगतिं न गच्छति॥



एवं पूर्वोत्सृष्टस्यापि पुण्यस्य क्लेशवशात्पुनरुपादीयमानस्य रक्षा कार्या। पुण्यदानादपि यत्पुण्यं ततोऽपि न विपाकः प्रार्थनीयोऽन्यत्र परार्थात्। किं च पुण्यं रक्षितुकामः-



पश्चात्तापं न कुर्वीत



यथोक्तमुग्रपरिपृच्छायाम्। दत्वा च न विप्रतिसारचित्तमुत्पादयितव्यमिति॥

पृष्ठदौर्बल्याद्दौर्बल्यम्। विप्रतिसारात् पापवत्पुण्यस्यापि क्षयः स्यादित्यभिप्रायः॥



न च कृत्वा प्रकाशयेत्॥ १५॥



अनेकपर्यायेण हि भगवता प्रच्छन्नकल्याणता विवृतपापता वर्णिता। तत्र विवृतस्य क्षयो गम्यते। पापस्य दौर्मनस्येनैव पुण्यस्य सौमनस्येन। अनापत्तिः सत्त्वार्थं निरामिषचित्तस्य प्रकाशयतः॥



यथा रत्न्मेघे वैद्यदृष्टान्तेनात्मोत्कर्षो निर्दोष उक्तः। पुनः पुण्यरक्षाकामः-



लाभसत्कारभीतः स्यादुन्नतिं वर्जयेत्सदा।

बोधिसत्त्वः प्रसन्नः स्याद्धर्मे विमतिमुत्सृजेत्॥ १६॥



इदं च रत्नकूटेऽभिहितम्-चतुर्भिः काश्यप धर्मैः समन्वागतस्य बोधिसत्त्वस्योत्पन्नोत्पन्नाः कुशला धर्माः परिहीयन्ते। यैः [चतुर्भिर्मुक्ताः] न वर्धन्ते कुशलैर्धर्मैः॥ कतमैश्चतुर्भिः? यदुताभिमानिकस्य लोकायतमन्त्रपर्येष्टया। लाभसत्काराध्यवसितस्य कुलप्रत्यवलोकनेन। बोधिसत्त्वविद्वेषाभ्याख्यानेन। अश्रुतानामनिर्दिष्टानां च सूत्रान्तानां प्रतिक्षेपेणेति॥



आर्यसर्वास्तिवादिनां च [ विनये] पठयते- पश्यध्वं भिक्षव एतं भिक्षुं केशनखस्तूपे सर्वाङ्गेन प्रणिपत्य चित्तमभिप्रसादयन्तम्? एवं भदन्त अनेन भिक्षवो भिक्षुणा यावती भूमिराक्रान्ता अधोऽशीतियोजनसहस्त्राणि यावत्काञ्चनचक्रम्। अत्रान्तरे यावन्त्यो वालिकास्तावन्त्यनेन भिक्षुणा चक्रवर्तिराज्यसहस्त्राणि परिभोक्तव्यानि। यावदथायुष्मानुपालिर्येन भगवान् तेनाञ्जलिं प्रणम्य भगवन्तमिदमवोचत्- यदुक्तं भगवता अस्य भिक्षोरेवं महान्ति कुशलमूलानि। कुत्रेमानि भगवन् कुशलमूलानि तनुत्वं परिक्षयं पर्यादानं गच्छन्ति? नाहमुपाले एवं क्षतिं चोपहतिं च समनुपश्यामि। यथा सब्रह्मचारी सब्रह्मचारिणोऽन्तिके दुष्टचित्तमुत्पादयति, अत्रोपाले इमानि महान्ति कुशलमूलानि तनुत्वं परिक्षयं पर्यादानं गच्छन्ति। तस्मात्तर्ह्युपाले एवं शिक्षितव्यं यद्दग्धस्थूणायामपि चित्तं न प्रदूषयिष्यामः प्रागेव सविज्ञानके काय इति॥



आर्यमञ्जुश्रीविक्रीडितसूत्रेऽप्याह-प्रतिघः प्रतिघ इति कल्पशतोपचितं कुशलमूलं प्रतिहन्ति, तेनोच्यते प्रतिघ इति॥



आर्यगण्डव्यूहसूत्रे च समन्तसत्त्वपरित्राण्योजःश्रिया रात्रिदेवतया पूर्वावदानं कथयन्त्या अभिहितम्- ते तेनान्योन्यावमन्यनासमुदितेनाकुशलमूलेनायुःप्रमाणादपि परिहीयन्ते स्म। वर्णादपि बलादपि[ सौख्यादपि ] परिहीयन्ते स्मेति॥ अत्र च न कदाचिदुन्नतिः कार्येति प्रदर्शनार्थं सदेत्युच्यते॥



लाभसत्कारस्तु कदाचिदभ्युपगम्यतेऽपि। यथोक्तं आर्यरत्नमेघे- इह कुलपुत्र बोधिसत्त्वः सुमेरुमात्रमपि रत्न‍राशिं लभमानः प्रतिगृह्णाति, प्रत्यवरमपि वस्तु प्रतिलभमानः। तत्कस्य हेतोः? तस्यैवं भवति-एते सत्त्वा मत्सरिणो लुब्धा लोभाभिभूताः। तद्धेतोः तत्प्रत्ययं तन्निदानं महावारिस्कन्धावष्टब्धा इव संसारसागरे उन्मज्जनिमज्जनं कुर्वन्ति। तदेषां भविष्यति दीर्घरात्रमर्थाय हिताय सुखाय। सर्वं प्रतिगृह्य न स्वीकरोति। न लोभचित्तमुत्पादयति अन्यत्र सर्वसत्त्वसाधारणां बुद्धधर्मसंघेषु कारां करोति। यथा दुःखितानां च सर्वसत्त्वानामुपजीव्यं करोति। तं च दानपतिं समुत्तेजयति संप्रहर्षयतीति॥



तथा अत्रैवोक्तम्-तेन च दानेन नोन्नतो भवतीति॥

पुनरत्रैवाह- यदि पुनरस्य तद्धेतोस्तत्प्रत्ययं तन्निदानं कीर्तिशब्दश्लोको भवति, तत्र नोन्नामजातो भवति, न मानजातो न मदजातः। एवं चास्य भवति- नचिरेण कालेन यस्य चायं कीर्तिश्लोकशब्दः समुत्थापितो यश्च कीर्तिशब्दश्लोकः, त्रयमप्येतत्सर्वेण सर्व न भविष्यति। तत्र कः पण्डितजातीयोऽनित्येषु न च स्थितेषु धर्मेष्वध्रुवेप्वनाश्वासिकेष्वनुनयचित्तमुत्पादयेदुन्नतो भवेन्मानदर्पितो वा? एवं हि बोधिसत्त्वो लाभसत्कारकीर्तिशब्दश्लोकेषु सूपस्थितस्मृतिर्विहरतीति॥



पुनराह- चण्डालकुमारोपमाश्च लोके विहरन्ति नीचनीचेन मनसा। मानमददर्पाधिगताश्च भवन्ति पैशुन्यसंज्ञायाः सततसमितं प्रत्युपस्थितत्वादिति॥



पुनरप्युक्तम्- इह कुलपुत्र अभिनिष्क्रान्तगृहवासः प्रव्रजितो बोधिसत्त्वो मृतकसदृशोऽहं मित्रामात्यज्ञातिसालोहितानामिति निहतमानो भवति। वैरूप्यं मेऽभ्युद्गतम्, विवर्णानि च मे वासांसि प्रावृतानि, अन्यश्च मे आकल्पः संवृत्त इति निहतमानो भवति। मुण्डः पात्रपाणिः कुलात्कुलमुपसंक्रमामि भिक्षाहेतोर्भिक्षानिदानमिति निहतमानो भवति। नीचनीचेन चित्तन चण्डालकुमारसद्दशेन पिण्डाय चरामीति निहतमानो भवति। पैण्डिलिकोऽस्मि संवृत्तः , परप्रतिबद्धा च मे जीविकेति निहतमानो भवति। अवधूतमवज्ञातं प्रतिगृह्णामीति निहतमानो भवति। आराधनीया मे आचार्यगुरुदक्षीणीया इति निहतमानो भवति। संतोषणीया मे सब्रह्मचारिणो यदुत तेन तेनाचारगोचरसमुदाचारेणेति निहतमानो भवति। अप्रतिलब्धान् बुद्धधर्मान् प्रतिपत्स्य इति निहतमानो भवति। क्रुद्धानां व्यापन्नचित्तानां सत्त्वानां मध्ये क्षान्तिबहुलो विहरिष्यामीति निहतमानो भवतीति॥



आर्यसागरमतिसूत्रेऽप्युक्तम्-स कायपरिशुद्धश्च भवति। लक्षणसमलंकृतगात्रः मृदुतरुणहस्तपादः सुविभक्तपुण्यनिष्यन्दगात्रोऽहीनेन्द्रियः सर्वाङ्गप्रत्यङ्गपरिपूर्णः। न च रूपमदमत्तो भवति, न कायमण्डनयोगानुयुक्तः। स कियद्धीनानामपि सत्त्वानां रूपविकलानामप्यवनमति प्रणमति धर्मग्राह्यतामुपादायेति॥



पुनरत्रैवोक्तम्-स्याद्यथापि नाम भगवन् महासागरः प्रतिसंतिष्ठते, तदा निम्ने पृथिवीप्रदेशे संतिष्ठते। तस्य निम्नत्वादल्पकृच्छ्रेण सर्वनद्यश्च सर्वप्रस्त्रवणानि च प्रपतन्ति। एवमेव भगवन् निर्मानस्य गुरुदक्षिणीयगौरवस्य बोधिसत्त्वस्याल्पकृच्छ्रेण तानि गम्भीराणि धर्मसुखानि श्रोत्रेन्द्रियस्याभासमागच्छन्ति। स्मृतौ चावतिष्ठन्ते। तस्मात्तर्हि भगवन् यो बोधिसत्त्वो मानोन्नतो भवति मानस्तब्धः, न च गुरुदक्षिणीयेभ्योऽवनमति न प्रणमति, वेदितव्यं भगवन् माराङ्कुशाविद्धो बतायं बोधिसत्त्व इति॥



आर्यलोकोत्तरपरिवर्ते चोक्तम्-दशेमानि भो जिनपुत्र बोधिसत्त्वानां मारकर्माणि। कतमानि दश? यदिदं गुरुदक्षीणीयाचार्यमातापितृश्रमणब्राह्मणसम्यग्गतसम्यक्प्रतिपन्नेष्वगौरवता मारकर्म॥ धर्मभाणकानां विशिष्टधर्माधिगतानामुदारधर्मदेशकानां महायानसमारूढानां निर्वाणपथविधिज्ञानां धारणीसूत्रान्तराजप्रतिलब्धानां नावनमति। गर्वितस्तब्धश्च भवति। धर्मभाणके न गौरवमुत्पादयति, न शुश्रूषां न चित्रीकारं करोति। मारकर्मधर्मश्रवणसांकथ्ये च निषण्णः उदारधर्मवेगे समुत्पन्ने धर्मभाणकस्य साधुकारं न प्रयच्छति मा कश्चिदस्मिन् प्रशंसतीति मारकर्म॥ अभिमानं चोत्पाद्यात्मानं प्रतिगृह्णाति। परांश्च न गृह्णाति। आत्मज्ञतां च नावतरति। चित्तनिध्यप्तिं नोत्पादयति। मारकर्म॥ अधिमानं चोत्पाद्याजानन्नबुध्यमानो वर्णार्हाणां पुद्गलानां वर्णं प्रतिच्छादयति। अवर्णं भाषते। न च परस्य गुणवर्णेनात्तमना भवति। मारकर्म॥ जानाति च - अयं धर्मोऽयं विनयो भूतमिदं बुद्धवचनमिति। पुद्गलविद्वेषेण धर्मविद्वेषं करोति। सद्धर्मं प्रतिक्षिपति। अन्यांश्च विग्राहयति। मारकर्म॥ उच्चमानसं प्रार्थयते। परिहारधर्मे न मार्गयति। परोपस्थानं सोऽभियाति। अभिनन्दति। वृद्धस्थविराणां चिरचरितब्रह्मचर्याणां न प्रत्युपतिष्ठते, न च प्रत्युद्गच्छति। मारकर्म॥ भृकुटीमुखः खलु पुनर्भवति, न स्मितमुखः। न खिलमधुरवचनः। सदा कठिनचित्तश्छिद्रान्वेषी। अवतारप्रेक्षी। मारकर्म॥ अभिमानं च पतित्वा पण्डितान्नोपसंक्रामति। न सेवते। न भजते। न पर्युपास्ते। न परिप्रश्नयति। न परिपृच्छति- किं कुशलं किमकुशलं किं करणीयं किं कृतं दीर्घरात्रमर्थाय हिताय सुखाय भवति, किं वा अकृतं दीर्घरात्रमनर्थायाहितायासुखाय भवतीति। स जडः स जडतरो भवति। मोहव्यूहो मानग्राही। अनिःसरणदर्शी। मारकर्म॥ स मानाभिभूतो बुद्धोत्पादं विरागयति। पूर्वकुशलमूलं क्षपयति। नवं नोत्थापयति। अनिर्देशं निर्दिशति। विग्रहमारभते, विवादबहुलश्च भवति। स एवंधर्मविहारी स्थानमेतद्विद्यते यस्मिन् मिथ्या महाप्रपातं पतेत्। अथ च पुनर्बोधिचित्तबलाधीनादैश्चर्यं प्रतिलभते। स कल्पशतसहस्त्रेषु बुद्धोत्पादं नासादयति, कुतः पुनर्धर्मश्रवणम्। इदं दशमं मारकर्म॥ इमानि भो जिनपुत्र दश मारकर्माणियानि परिवर्ज्य बोधिसत्त्वा दश ज्ञानकर्माणि प्रतिलभते। अत्रैव च ज्ञानकर्मसु पच्यते। निर्मानता सर्वसत्त्वेध्विति॥



आर्यराष्ट्रपालसूत्रेऽप्युक्तम्-

अपायभूमिं गतिमक्षणेषु

दरिद्रतां नीचकुलोपपत्तिम्।

जात्यन्ध्यदौर्बल्यमथाल्पस्थामतां

गृह्णन्ति ते मानवशेन मूढाः॥इति॥



धर्मसंगीतिसूत्रेऽप्युक्तम्- सत्त्वक्षेत्रं बोधिसत्त्वस्य बुद्धक्षेत्रं यतश्च बुद्धक्षेत्राद्बुद्धधर्माणां लाभागमो भवति। नार्हामि तस्मिन् विप्रतिपत्तुम्। एवं चास्य भवति-सर्वं सुचरितं दुश्चरितं च सत्त्वान्निश्रित्य प्रवर्तते। दुश्चरिताश्रयाच्चापायाः प्रवर्तन्ते, सुचरिताश्रयाद्देवमनुष्या इति॥



अत एव रत्नोल्काधारण्यामप्युक्तम्- इह भो जिनपुत्राः प्रथमचित्तोत्पादिको बोधिसत्त्वः आदित एव सर्वसत्त्वानामन्तिके दशप्रकारं चित्तमुत्पादयति। कतमद्दशप्रकारम्? तद्यथा- हितचित्ततां सुखचित्ततां दायाचित्ततां स्निग्धचित्ततां प्रियचित्ततां अनुग्रहचित्ततां आरक्षाचित्ततां समचित्ततां आचार्यचित्ततां शास्तृचित्तताम्। इदं दशप्रकारं चित्तमुत्पादयतीति॥



श्रद्धाबलाधानावतारमुद्रासूत्रेऽप्युक्तम्- सर्वसत्त्वानां शिष्यत्वाभ्युपगमे स्थितोऽस्मि। परांश्च सर्वसत्त्वशिष्यत्वाभ्युपगमे प्रतिस्ठापयिष्यामीत्याश्वासं प्रतिलभते। पेयालं। सर्वसत्त्वेष्ववनमनप्रणमनतायां प्रतिष्ठितोऽस्मीति पूर्ववत्॥



तत्रावनमनप्रणमनतायां सर्वसत्त्वेषु निर्मानता॥

तथा आर्यविमलकीर्तिनिर्देशे परिशुद्धबुद्धक्षेत्रोपपत्तये सर्वसत्त्वेषु शास्तृप्रेमोक्तम्। लोकप्रसादानुरक्षार्थ त्वासनपादप्रख्यालनकर्म कुर्वतापि चेतसा स्त्रीषु वा अक्षणप्राप्तेषु वा विनिपतितेषु बोधिसत्त्वेन प्रेमगौरवाभ्यासः कार्यः॥



उक्तं हि गण्डव्यूहे- तस्य समनन्तरनिषण्णस्य तस्मिन् महासिंहासने सर्वः स जनकायोऽभिमुखः प्राञ्जलिस्थितोऽभूत् तमेव राजानं नमस्यमानः। पेयालं। स खलु सर्वधर्मनिर्नादच्छत्रमण्डलनिर्घोषो राजा तेषां याचनकानां सहदर्शनेनात्तमनस्कतरो राज्ञानेन च त्रिसाहस्त्रचक्रवर्तिराज्यप्रतिलाभेनासीमाप्राप्तकल्पपर्यवसानेन(?) यावत् शुद्धावासदेवशान्तिविमोक्षमुखविहारेणापर्यन्तकल्पावसानेन। तद्यथा कुलपुत्र पुरुषस्यैकान्ततृष्णाचरितस्य मातापितृभ्रातृभगिनीमित्रामात्यज्ञातिसालोहितपुत्रदुहितृभार्याचिरकालवियुक्तस्याटवीकान्तारविप्रणष्टस्य तद्दर्शनकामस्य तेषां समवधानेन महती प्रीतिरध्यवसानमुत्पतेत् तद्दर्शनावितृप्ततया। एवमेव कुलपुत्र राज्ञः सर्वधर्मनिर्नादच्छत्रमण्डल निर्घोषस्य तेषां याचनकानां सहदर्शनेन महाप्रीतिवेगाः संजाताः। चित्ततुष्टिसुखमवक्रान्तम्, महांश्चित्तोदग्रतावेगः प्रादुर्भूतो यावत्तेषु सर्वयाचनकेषु एकपुत्रकसंज्ञा मातापितृसंज्ञा दक्षिणीयसंज्ञा कल्याणमित्रसंज्ञा वर्णसंज्ञा दुर्लभसंज्ञा दुष्करकारकसंज्ञा बहुकरसंज्ञा परमोपकारिसंज्ञा बोधिमार्गोपस्तम्भसंज्ञा आचार्यशास्तृसंज्ञोत्पद्येतेति॥



एवमन्यगतभावे सत्त्वानामग्रतोगमनोपस्थानादिप्रसङ्गे सर्वोत्सर्गं स्मरेत्-एषामेवायमात्मीयः कायः। यथेष्टमत्र वर्तन्ताम्। पृथिवीशोधनोपलेपनादिष्विव स्वसुखार्थमिति। अथवा स्वाम्यप्रसादभीतेनेव तत्प्रसादार्थिनेव तदाज्ञासंपादना मनसिकर्तव्या। भगवतोऽप्युपस्थानं कुर्वतोऽन्यगत्यभावात् भिक्षुणा ग्लानेनाङ्गीकृतम्॥



यथोक्तं भिक्षुप्रकीर्णके-भगवानाह- मा भाय भिक्षु मा भाय भिक्षु। अहं ते भिक्षु उपस्थास्ये। आहर भिक्षु चीवराणि यावत्ते धोवामि। एवमुक्ते आयुष्मानानन्दो भगवन्तमेतदवोचत्- मा भगवानेतस्य ग्लानस्याशुचिम्रक्षितानि चीवराणि धोवतु। अहं भगवन् धोविष्यम्। भगवानाह- तेन ह्यानन्द त्वमेतस्य भिक्षुस्य चीवराणि धोव। तथागतो उदकमासिञ्चिष्यति। अथ खल्वायुष्मानानन्दो तस्य ग्लानस्य भिक्षुस्य चीचराणि धोवति। भगवानुदकमासिञ्चति॥ पेयालं॥ अथ खल्वायुष्मानानन्दस्तं ग्लानं भिक्षुं साधु च सुष्ठु चानुपरिगृह्य बहिर्धा हरित्वा स्नापयेत्। भगवानुदकमासिञ्चतीति॥ आह च-



यानाराध्य महत्वं विराध्य कष्टां विपत्तिमाप्नोति।

प्राणपरित्यागैरपि तेषां ननु तोषणं न्याय्यम्॥

एते ते वै सत्त्वाः प्रसाद्य यान् सिद्धिमागता बहवः।

सिद्धिक्षेत्रं नान्यत् सत्त्वेभ्यो विद्यते जगति।

एते चिन्तामणयो भद्रघटा घेनवश्च कामदुघाः।

गुरुवच्च देवतेव च तस्मादाराधनीयास्ते॥

किं च निश्छद्मबन्धूनामप्रमेयोपकारिणाम्।

सत्त्वाराधनमुत्सृज्य निष्कृतिः का परा भवेत्॥

शिरसा धारयाप्तास पुरा नाथो यथेप्सितम्।

जटास्वध्युषितान् सत्त्वान् भूत्वा यत्नेन निश्चलः॥



भिन्दन्ति देहं प्रविशन्त्यवीचीं येषां कृते तत्र कृते कृतं स्यात्॥

महापकारिष्वपि तेन सर्वं कल्याणमेवाचरणीयमेषु॥

स्वयं मम स्वामिन एव तावद्यदर्थमात्मन्यपि निर्व्यपेक्षा।

अहं कथं स्वामिषु तेषु तेषु करोमि मानं न तु दासभावम्॥

येषां सुखे यान्ति मुदं मुनीन्द्राः येषां व्यथायां प्रविशन्ति मन्युम्।

तत्तोषणात्सर्वमुनीन्द्रतुष्टिस्तत्रापकारेऽपकृतं मुनीनाम्॥

आदीप्तकायस्य यथा समन्तान्न सर्वकामैरपि सौमनस्यम्।

सत्त्वव्यथायामपि तद्वदेव न प्रीत्युपायोऽस्ति महाकृपाणाम्॥

तस्मान्मया यज्जनदुःखनेन दुःखं कृतं सर्वमहादयानाम्।

तदद्य पापं प्रतिदेशयामि यत्खेदितास्ते मुनयः क्षमन्ताम्॥

आराधनायाश्च तथागतानां सर्वात्मना दास्यमुपैमि लोके।

कुर्वन्तु मे मूर्ध्नि पदं जनौघा निघ्नन्तु वा तुष्यतु लोकनाथः॥

आत्मीकृतं सर्वमिदं जगत्तैः कृपात्मभिर्नैव हि संशयोऽत्र।

दृश्यन्त एते ननु सत्वरूपाः त एव नाथाः किमनादरोऽत्र॥

तथागताराधनमेतदेव स्वार्थस्य संसाधनमेतदेव।

लोकस्य दुःखापहमेतदेव तस्मान्ममास्तु व्रतमेतदेव॥

यथैको राजपुरुषः प्रमथ्नाति महाजनम्।

विकरोति न शक्रोति दीर्घदर्शी महाजनः॥

यस्मान्नैव स एकाकी तस्य राजबलं बलम्।

तथा न दुर्बलं कंचिदपराद्धं विमानयेत्॥

यस्मान्नरकपालश्च कृपावन्तश्च तद्बलम्।

तस्मादाराधयेत्सत्त्वान् भृत्यश्चण्डनृपं यथा॥

कुपितः किं नृपः कुर्याद्येन स्यान्नरकव्यथा।

यत्सत्त्वदौर्मनस्येन कृतेन ह्यनुभूयते॥

तुष्टः किं नृप्तिर्दद्याद्यद्बद्धत्वसमं भवेत्।

यत्सत्त्वसौमनस्येन कृतेन ह्यनुभूयते॥

आस्तां भविष्यद्बुद्धत्वं सत्त्वाराधनसंभवम्।

इहैव सौभाग्ययशः सौस्थित्यं किं न पश्यसि॥

प्रासादिकत्वमारोग्यं प्रामोद्यं चिरजीवितम्।

चक्रवर्तिसुखं स्फीतं क्षमी प्राप्नोति संसरन्॥

मैत्राशयश्च यत्पूज्यः सत्त्वमाहात्म्यमेव तत्॥

बुद्धप्रसादाद्यत्पुण्य बुद्धमाहात्म्यमेव तत्॥

अत एव हि चन्द्रप्रदीपसूत्रे मैत्रीभावफलमुद्भावितम्-

यावन्ति पूजा बहुविध अप्रमेयाः

क्षेत्रं शतेषू नियुत च बिम्बरेषु।

तां पूज कृत्वा अतुलियनायकानां

संख्याकलापी न भवति मैत्रचित्ते॥



तस्मादेवंविघेषु महादक्षिणीयेषुन्नतिं वर्जयेत्सदा। एषा चोन्नतिरयोनिशोमनस्कारात् संभवतीति॥

तस्यानवतारे यत्नः कार्यः। यथोक्तं रत्नमेघे-कथं च कुलपुत्र बोधिसत्त्वोऽयोनिशोमनस्कारापगतो भवति? इह बोधिसत्त्व एकाकी रहोगतः प्रविवेकस्थितो नैवं चित्तमुत्पादयति‍अहं असंकीर्णविहारी। अहं विवेकस्थितः। अहं प्रतिपन्नस्ताथागते धर्मविनये। ये त्वन्ये श्रमणा वा ब्राह्मणा वा, सर्वे ते संकीर्णविहारिणः संसर्गबहुला उद्धुरास्ताथागताद्धर्मविनयात्॥



एवं हि बोधिसत्त्वोऽयोनिशोमनस्कारापगतो भवति॥



पुनरत्रैवोक्तम्-इह बोधिसत्त्वो वीर्यमारभमाणो न तन्महद्वीर्यमास्वादयति। न च तेन वीर्येणात्मानमुत्कर्षयति। न परान् पंसयति। तस्यैवं भवति- को हि नाम सप्रज्ञजातीयः स्वकर्माभियुक्तः परांश्चोदयेत्॥ एवं हि बोधिसत्त्वोऽनुन्नतवीर्यो भवति॥ एष तु पुण्यरक्षायाः संक्षेपो यद्बोधिपरिणामना॥



तथा ह्युक्तमार्याक्षयमतिसूत्रे- न हि बोधिपरिणामितस्य कुशलमूलस्यान्तरा कश्चित्परिक्षयो यावद्बोधिमण्डनिषदनात्। तद्यथापि नाम भदन्त शारद्वतीपुत्र महासमुद्रपतितस्योदकबिन्दोर्नान्तरास्ति क्षयो यावन्न कल्पपर्यवसानः।इति॥



इति शिक्षासमुच्चये भोगपुण्यरक्षा सप्तमः परिच्छेदः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project