Digital Sanskrit Buddhist Canon

आत्मभावरक्षा षष्ठः परिच्छेदः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
आत्मभावरक्षा षष्ठः परिच्छेदः।



उक्तं निष्फलस्पन्दवर्जनम्। कथमेतत्सिध्येदित्याह-



एतत्सिध्येत्सदा स्मृत्या



इति। द्वादशेमाः स्मृतयो निष्फलस्पन्दवर्जनाय संवर्तन्ते। यदुत तथागताज्ञानतिक्रमानुपालनविपाकगौरवस्मृतिः। सर्वकायस्य निश्चलस्वभावताप्रतिष्ठिततानुस्मृतिः। सति सत्त्वार्थे यदङ्गमनुपयोगि तद् दृढतरस्मृत्यपेक्षानिश्चलमाध्यछन्दपरायत्तीकृतं सर्वधीरचेष्टास्मृतिः। नवकस्य भयोत्सवादिसंबन्धसंभ्रमेऽङ्गमुक्तस्मृतिः। ईर्यापथचतुष्काक्षेपनिरूपणस्मृतिः। अन्तरान्तरा च ईर्यापथत्रिकोपारक्षणार्थमीर्यापथसंपदवलोकनस्मृतिः। भाषणकाले चातिप्रसादौद्धत्यसंरम्भपक्षपातादिवशादतिमात्राप्रासादिकहस्तपादशिरोमुखविकारनियमनस्मृतिः। यः श्रोता, वक्तव्यः स यावन्मात्रेण ध्वनितार्थ जानाति, तदनतिरेकेण स्वरेण भाषणस्मृतिरन्यत्र पराशङ्कादोषसंभवात्। अशिक्षितजनसमागमसंकटे स्वचित्ततच्चित्तप्रसादनादितात्पर्यस्मृतिः। चित्तमत्तद्विपस्य शमथस्तम्भे नित्यबद्धस्मृतिः। मुहुर्मुहुश्च चित्तावस्थाप्रत्यवेक्षणास्मृतिः। महाजनसंपातं प्रायोऽन्यकार्यत्यागेनापि यथोक्तस्मृतिरक्षा तात्पर्यस्मृतिरिति॥



एवमेताभिः स्मृतिभिर्निष्फलस्पन्दनवर्जनं सिध्यति। सा च-

स्मृतिस्तीव्रादराद्भवेत्।

तत्रादरः कार्येषु सर्वभावेनाभिमुख्यम्। अवज्ञाप्रतिपक्षः। अयं च -

आदरः शममाहात्म्यं ज्ञात्वातापेन जायते॥ ८॥

कस्तावदयं शमो नाम? य आर्याक्षयमतिसूत्रे शमथ उक्तः॥



तत्र कतमा शमथाक्षयता? या चित्तस्य शान्तिरूपशान्तिरविक्षेपकेन्द्रियसंयमः , अनुद्धतता, अनुन्नहनता अचपलता अचञ्चलता सौम्यता गुप्तता कर्मण्यता आजानेयता एकाग्रता एकारामता संगणिकावर्जनता विवेकरतिः कायविवेकश्चित्ताविभ्रमोऽरण्यमुखमनसिकारता अल्पेच्छता। यावदीर्यापथगुप्तिः कालज्ञता समयज्ञता मात्रज्ञता मुक्तिज्ञता सुभरता सुपोषतेत्यादि॥

किं पुनरस्य शमस्य माहात्म्यम्? यथाभूतज्ञानजननशक्तिः। यस्मात्-



समाहितो यथाभूतं प्रजानातीत्यवदन्मुनिः।

यथोक्तं धर्मसंगीतौ-समाहितमनसो यथाभूतदर्शनं भवति। यथाभूतदर्शिनो बोधिसत्त्वस्य सत्त्वेषु महाकरुणा प्रवर्तते। एवं चास्य भवति-इदं मया समाधिमुखं सर्वधर्मयथाभूतदर्शनं च सर्वसत्त्वानां निष्पादयितव्यम्। स तया महाकरुणा संचोद्यमानोऽधिशीलमधिचित्तमधिप्रज्ञं च शिक्षां परिपूर्य चतुरां सम्यक्संबोधिमभिसंबुध्यते- तस्मान्मया शीलसुस्थितेनाप्रकम्पेनाशिथिलेन भवितव्यमिति। इदं शमथमाहात्म्यमात्मनः परेषां च अनन्तापायादिदुःखसमतिक्रमानन्तलौकिकलोकोत्तरसुखसंपत्प्रकर्षपारप्राप्त्यात्मकमवगम्य तदभिलाषेणातापो भावयितव्यः आदीप्तगृहान्तर्गतेनेव शीतलजलाभिलाषिणा। तेन तीव्र आदरो भवति शिक्षासु। तेनापि स्मृतिरुप तिष्ठति। उपस्थितस्मृतिर्निष्फलं वर्जयति। यश्च वर्जयति तस्यानर्था न संभवन्ति। तस्मादात्मभावं रक्षितुकामेन स्मृतिमूलमन्विष्य नित्यमुपस्थितस्मृतिना भवितव्यम्॥



अत एव उग्रपरिपृच्छायां गृहिणं बोधिसत्त्वमधिकृत्योक्तम्-तेन सुरामैरेयमद्यप्रमादस्थानात् प्रतिविरतेन भवितव्यममत्तेनानुन्मत्तेनाचपलेनाचञ्चलेनासंभ्रान्तेनामुखरेणानुन्नडेनानुद्धतेनोपस्थितस्मृतिना संप्रजन्येनेति। अत्रैव च प्रव्रजितबोधिसत्वमधिकृत्योक्तम्-स्मृतिसंप्रजन्यस्याविक्षेप इति॥



तत्र स्मृतिः आर्यरत्नचूडसूत्रेऽभिहिता-यया स्मृत्या सर्वक्लेशानां प्रादुर्भावो न भवति। यया स्मृत्या सर्वमारकर्मणामवतारं न ददाति। यया स्मृत्या उत्पथे वा कुमार्गे वा न पतति। यया स्मृत्या दौवारिकभूतया सर्वेषामकुशलानां चित्तचैतसिकानां धर्माणामवकाशं न ददाति। इयमुच्यते सम्यक्स्मृतिरिति॥



संप्रजन्यं तु प्रज्ञापारमितायामुक्तम्- चरंश्चरामीति प्रजानाति। स्थितः स्थितोऽस्मीति प्रजानाति। शयानः शयित इति प्रजानाति। निषण्णो निषण्णोऽस्मीति प्रजानाति। यथा यथा चास्य कायः स्थितो भवति, तथा तथैव प्रजानाति। पेयालं। सोऽतिक्रामन् वा प्रतिक्रामन् वा संप्रजानचारी भवति। आलोकिते संमिञ्ज्जिते प्रसारिते संघाटीपट्टपात्रचीवरधारणे अशिते पीते खादिते निद्राक्लमप्रतिविनोदने आगते गते स्थिते निषण्णे सुप्ते जागरिते भाषिते तूष्णीभावे प्रतिसंलयने संप्रजानचारी भवतीति॥

शीलं हि समाधिसंवर्तनीयम्॥ यथोक्तं चन्द्रप्रदीपसूत्रे-

क्षिप्रं समाधिं लभते निरङ्गणं विशुद्धशीलस्मिमि आनुशंसाः॥ इति॥

अतोऽवगम्यते- ये केचित्समाधिहेतवः प्रयोगास्ते शीलान्तर्गता इति। तस्मात्समाध्यर्थिना स्मृतिसंप्रजन्यशीलेन भवितव्यम्। तथा शीलार्थिनापि समाधौ यत्नः, कार्यः, तत्रैव सूत्रे वचनात्।

ध्यानानुशंसेषु हि पठयते-



नासौ भोति अनाचारो आचारे सुप्रतिष्ठितः।

गोचरे चरते योगी विवर्जेति अगोचरम्॥

निष्परिदाहविहारी गुप्त‍इन्द्रियसंवृतः॥इति॥



एताभ्यां च शीलसमाधिभ्यामन्योन्यसंवर्धनकराभ्यां चित्तकर्मपरिनिष्पत्तिः। एतावती चेयं बोधिसत्त्वशिक्षा यदुत चित्तपरिकर्म, एतन्मूलत्वात् सर्वसत्त्वार्थानाम्॥ उक्तं ह्यार्यरत्नमेघेचित्तपूर्वगमाश्च सर्वधर्माः। चित्ते परिज्ञाते सर्वधर्माः परिज्ञाता भवन्ति। अपि तु -



चित्तेन नीयते लोकः चित्तं चित्तं न पश्यति।

चित्तेन चीयते कर्म शुभं वा यदि वाशुभम्॥

चित्तं भ्रमतेऽलातवत्। चित्तं भ्रमते तुरङ्गवत्। चित्तं दहते देवाग्निवत्। चित्तं हरते महाम्बुवत्॥ स एवं व्युपपरीक्षमाणश्चित्ते सूपस्थितस्मृतिर्विहरति, न चित्तस्य वशं गच्छति। अपि तु चित्तमेवास्य वशं गच्छति। चितेनास्य वशीभूतेन सर्वधर्मा वशीभवन्तीति॥



तथा आर्यधर्मसंगीतिसूत्रेऽप्युक्तम्-मतिविक्रमो बोधिसत्त्व आह-योऽयं धर्मो धर्म इत्युच्यते, नायं धर्मो देशस्थो न प्रदेशस्थोऽन्यत्र स्वचित्ताधीनो धर्मः। तस्मान्मया स्वचित्तं स्वाराधितं स्वधिष्ठितं सुसमारब्धं सुनिगृहीतं कर्तव्यम्। तत्कस्य हेतोः? यत्र चितं तत्र गुणदोषाः। नास्ति निश्चित्ततायां गुणदोषाः। तत्र बोधिसत्त्वो दोषेभ्यश्चित्तं निवार्य गुणेषु प्रवर्तयति॥ तदुच्यतेचित्ताधीनो धर्मो धर्माधीना बोधिरितिः॥ अयं भगवन् धर्मं समाददानः सुखाभिसंबोधाय संवर्तत इति॥



आर्यगण्डव्यूहसूत्रेऽपि वर्णितम्-स्वचित्ताधिष्ठानं सर्वबोधिसत्त्वचर्या, स्वचित्ताधिष्ठानं सर्वसत्त्वपरिपाकविनयः॥ पेयालं॥ तस्य मम कुलपुत्र एवं भवति- स्वचित्तमेवोपस्तम्भयितव्यं सर्वकुशलमूलैः। स्वचित्तमेवाभिष्यन्दयितव्यं धर्ममेघैः। स्वचित्तमेव परिशोधयितव्यमावरणाय धर्मेभ्यः। स्वचित्तमेव (दृ)ढीकर्तव्यं वीर्येणेत्यादि॥



तथा अत्रैव मायादेव्यदर्शनाकुलीभूते आर्यसुधने रत्ननेत्राया नगरदेवतायास्तदृर्शनार्थमियमनुशासनी- चित्तनगरपरिपालनकुशलेन ते कुलपुत्र भवितव्यं सर्वसंसारविषयरत्यसंवसनतया। चित्तनगरालंकारप्रयुक्तेन ते कुलपुत्र भवितव्यं दशतथागतबलाध्यालम्बनतया। चित्तनगरपरिशोधनप्रयुक्तेन ते कुलपुत्र भवितव्यमीर्ष्यामात्सर्यशाठयापनयनतया। चित्तनगरविवर्धनाभियुक्तेन ते कुलपुत्र भवितव्यं सर्वज्ञतासंभारमहावीर्यवेगविवर्धनतया। चित्तनगरदुर्योधनदुरासदताभिनिर्हारप्रयुक्तेन ते कुलपुत्र भवितव्यं सर्वक्लेशमारकायिकपापमित्रमारचक्रानवमर्दनतया। चित्तनगरप्रविस्तरणप्रयुक्तेन ते कुलपुत्र भवितव्यं महामैत्रीसर्वजगत्स्फुरणतया। चित्तनगरप्रतिच्छादनप्रयुक्तेन ते कुलपुत्र भवितव्यं विपुलधर्मच्छत्रसर्वाकुशलधर्मप्रतिपक्षाभिनिर्हरणतया। चित्तनगरविवरणप्रयुक्तेन ते कुलपुत्र भवितव्यम् आध्यात्मिकबाह्यवस्तुसर्वजगत्संप्रापणतया। चित्तनगरदृढस्थामाभिनिर्हारप्रयुक्तेन ते कुलपुत्र भवितव्यं सर्वाकुशलधर्मस्वसंतत्यवसनतया। यावदेवं चित्तनगरविशुद्धयमियुक्तेन कुलपुत्र बोधिसत्त्वेन शक्यं सर्वकुशलमूलसमार्जनमनुप्राप्तुम्। तत्कस्य हेतोः? तथा हि तस्य बोधिसत्त्वस्यैवं चित्तनगरपरिशुद्धस्य सर्वावरणानि पुरतो न संतिष्ठिन्ते। बुद्धदर्शनावरणं वा धर्मश्रवणावरणं वेत्यादि॥



तस्माद् व्यवस्थितमेवम्-चित्तपरिकर्मैव बोधिसत्त्वशिक्षेति। तच्चाचपलचेतसः॥

शमाच्च न चलेच्चितं बाह्यचेष्टानिवर्तनात्॥ ९॥



असंप्रजन्यपरतन्त्रस्य मुषितस्मृतेश्च चित्तं चलति समीहितादालम्बनादन्यत्र नीयमानत्वात्। यदा तु स्मृतिसंप्रजन्येन बाह्याश्चेष्टा निवर्तिता भवन्ति, तदा तद्वशत्वादेकस्मिन्नालम्बने निबद्धं यावदिष्यते तावत्तिष्ठति। ततश्च पूर्ववदनुशंसविस्तरः। अद्यत्वेऽपि च सत्वार्थक्षमो भवत्येव प्रसादकरत्वात्। कथम्?

सर्वत्राचपलो मन्दमतिस्निग्धाभिभाषणात्।

आवर्जयेज्जनं भव्यमादेयश्चापि जायते॥१०॥



एतदेव च बोधिसत्त्वस्य कृत्यं यदुत सत्त्वावर्जनम्। यथा आर्यधर्मसंगीतिसूत्रे आर्यप्रियदर्शनेन बोधिसत्त्वेन परिदीपितम्- तथा तथा भगवन् बोधिसत्त्वेन प्रतिपत्तव्यं यत्सहदर्शनेनैव सत्त्वाः प्रसीदेयुः। तत्कस्माद्धेतोः? न भगवन् बोधिसत्त्वस्यान्यत्करणीयमस्ति अन्यत्र सत्त्वावर्जनात्। सत्त्वपरिपाक एवेयं भगवन् बोधिसत्त्वस्य धर्मसंगीतिरिति॥



एवं पुनरक्रियमाणे को दोष इत्याह-



अनादेयं तु तं लोकः परिभूय जिनाङ्कुरम्।

भस्मच्छन्नो यथा वह्निः पच्येत नरकादिषु॥११॥



यथा प्रागुपदर्शितम्॥

येन चास्य परिभवः , एवमनर्थः-



रत्नमेघे जिनेनोक्तः तेन संक्षेपसंवरः।

येनाप्रसादः सत्त्वानां तद्यत्नेन विवर्जयेत्॥१२॥



इति। यथाह- कतमे च ते बोधिसत्त्वसमुदाचाराः? यावदिह बोधिसत्त्वो नास्थाने विहरति नाकाले। नाकालभाणी भवति, नाकालज्ञो भवति, नादेशज्ञो भवति। यतोनिदानमस्यान्तिके सत्त्वा अप्रसादं प्रतिवेदयेयुः, स सर्वसत्त्वानुरक्षया आत्मनश्च बोधिसंभारपरिपूरणार्थं संपन्नेर्यापथो भवति, मृदुभाणी मन्दभाणी असंसर्गबहुलः प्रविवेकाभिमुखः सुप्रसन्नमुख इति॥



अत एव धर्मसंगीतिसूत्रे देशितम्-यः सत्त्वान् रक्षति, स शीलं रक्षतीति॥

अनया कनीयेन मातृग्रामेण सह रहोवस्थादिषु लोकरक्षा च कृता स्यात्। एवं भोग्येषु जलस्थलेषु मूत्रपुरीषश्र्लेष्मपूयादीनां कुत्सितानां रहस्यरहसि चोत्सर्गं न कुर्याद्देवमनुष्यचित्तरक्षार्थम्॥



सद्धर्मस्मृत्युपस्थाने च रह उत्सिष्टं कृत्वा अनुत्सिष्टाहारेष्वददतः प्रेतगतिः पठयते॥

तथा बोधिसत्त्वप्रातिमोक्षेऽप्यप्रसादपरिहार उक्तः- न पुरतो दन्तकाष्ठं खादितव्यं न पुरतः खेलो निक्षिप्तव्य इति॥ एष च गौरवलज्जाविधिः सर्वद्रष्टव्यो न ब्रह्मचारिष्वेव। अत्र तु सूत्रे ब्रह्मचार्यधिकारः तेषु गुरुतरापत्तिभयसंदर्शनार्थम्॥ यथ अत्रैवाह-नोच्चैर्माषिणा भवितव्यमिति॥ न चायं विधिः प्रादेशिकः। तथा ब्रह्मपरिपृच्छायामप्युक्तम्- न च वधकसदृशेन बोधिसत्त्वेन भवितव्यमिति। तथा प्रातिमोक्षादपि लोकाप्रसादकरमन्वेष्य वर्जनीयम्। तत्र तावत्-

मुखपूरं न भुञ्जीत सशब्दं प्रसृताननः।

प्रलम्बपादं नासीत न बाहुं मर्दयेत्समम्॥



एवं स्वयमप्युत्प्रेक्ष्य दृष्ट्वा श्रुत्वा च लोकाप्रसादं रक्षेत्। अप्रसादकरवचनवर्जनं तु न सुकरमिति स्मरणबोधनार्थमुपदर्श्यते। आर्यसागरमतिसूत्रे देशितम्-नावलीनवचनो भवति। न व्यवकीर्णवचनः। नाक्स्यन्दनवचनः। नोज्ज्वालनवचनः। न रागानुनीतवचनः। न प्राकृतवचनः। नासंरक्षितवचनः। न व्यापादसंधुक्षणवचनः। न चञ्चलवचनः। न चपलवचनः। न नटरङ्गवचनः। न मुखसाक्ष्यवरोपणवचनो भवतीति॥



आर्यतथागतगुह्यसूत्रेऽप्याह- न खलु पुनः कुलपुत्र बोधिसत्त्वस्य वाग् रक्ता वा दुष्टा वा मूढा वा क्लिष्टा वा क्षुण्णव्याकरणा वा स्वपक्षोत्कर्षणवचना वा, परपक्षनिग्रहवचना वा, आत्मवर्णानुनयवचना वा, परवर्णप्रतिघवचना वा, प्रतिज्ञोत्तारणवचना वा, आभिमानिकव्याकरणवचना वेति॥



आर्यदशभूमकसूत्रेऽप्युक्तम्-येयं वागमनोज्ञा स्वसंतानपरसंतानविनाशनी तथारूपां वाचं प्रहाय, येयं वाक् स्निग्धा मृद्वी मनोज्ञा मधुरा प्रियकरणी मनआपकरणी हितकरणी कर्णसुखा हृदयंगमा प्रेमणी वर्णविष्पष्टा विज्ञेया श्रवणीया अनिश्रिता बहुजनकान्ता बहुजनप्रिया बहुजनमनआपा विज्ञप्रशस्ता सर्वसत्त्वहितसुखावहा मन‍उत्प्लावकरी मनःप्रह्लादनकरी स्वपरसंतानप्रमोदनकरी रागद्वेषमोहसर्वक्लेशप्रशमनी, तथारूपां वाचं निश्चारयति। यावदितिहासपूर्वकमपि वचनं परिहार्य परिहरतीति॥



आर्यगगनगञ्जसूत्रे तूक्तम्-गुरुवचनानवमर्दनतया, परवचनानाच्छिन्दनतया चादेयग्राह्यवचनो भवतीति॥



धर्मसंगीतिसूत्रेऽप्युक्तम्-गगनगञ्जो बोधिसत्त्व आह- न बोधिसत्त्वेनैषा वाग्भाषितव्या यया परो व्यापद्येत। न सा वाग्भाषितव्या यया परं तापयेत्। न बोधिसत्त्वेन सा वाग्भाषितव्या यत्परो जानीयात्। न सा वाग्भाषितव्या यापार्था निरर्था। न बोधिसत्त्वेन सा वाग्भाषितव्या यया न विद्यामुत्पादयेत्। न सा वाग्भाषितव्या या सत्त्वानां न हृदयंगमा न पौरी न कर्णसुखा, न सा वाग्भाषितव्येति॥

संक्षेपतस्तु पराप्रसादरक्षा आर्यसागरमतिसूत्रे देशिता-अपर एकधर्मो महायानसंग्रहाय संवर्तते-स्वस्खलितप्रत्यवेक्षणतया सर्वसत्त्वानुरक्षेति॥



एषा रक्षात्मभावस्य



यथा परैर्न नाश्येत। यथा न परान्न नाशयेत्। अस्य तु ग्रन्थविस्तरस्यायं पिण्डार्थो बोधिसत्त्वेन मनसा नित्यं धारयितव्यः-



सुनिश्चलं सुप्रसन्नं धीरं सादरगौरवम्।

सलज्जं सभयं शान्तं पराराधनतत्परम्।

आत्मसत्त्ववशं नित्यमनवद्येषु वस्तुषु।

निर्माणमिव निर्मानं धारयाम्येष मानसम्॥इति॥



किमेतावती आत्मभावरक्षा? न हि। किं तर्हि-



भैषज्यवसनादिभिः।



सह। तत्र द्विविधं भैषज्यम्। सततभैषज्यं ग्लानप्रत्ययभैषज्यं च। तत्र सततभैषज्यमधिकृत्य आर्यरत्नमेघेऽभिहितम्- तस्मात्पिण्डपात्रादेकं प्रत्यंशं सब्रह्मचारिणां स्थापयति। द्वितीयं दुःखितानां तृतीयं विनिपतितानां चतुर्थमात्मना परिभुङ्क्ते। परिभुञ्जानो न रक्तः परिभुङ्क्तेऽसक्तोऽगृद्धोऽनध्यवसितः। अन्यत्र यावदेव कायस्य स्थितये, यापनायै। तथा परिभुङ्क्ते यथा नातिसंलिखितो भवति, नातिगुरुकायः। तत्कस्य हेतोः? अतिसंलिखितो हि कुशलपक्षपराङ्मुखो भवति। अतिगुरुकायो मिद्धावष्टब्धो भवति। तेन तं पिण्डपातं परिभुज्य कुशलपक्षामि मुखेन भवितव्यमित्यादि॥



आर्यरत्नराशावप्युक्तम्-तेन ग्रामं वा नगरं वा निगमं वा पिण्डाय चरता धर्मसंनाहं संनह्यपिण्डाय चर्तव्यम्। तत्र कतमो धर्मसंनाहः? अमनआपानि रूपाणि दृष्ट्वा न प्रतिहव्यन्तम्। मनआपानि दृष्ट्वा नानुनेतव्यम्। एवं मनआपामनआपेषु शब्दगन्धरसस्प्रष्टव्येषु विज्ञप्तेषु नानुनेतव्यं न प्रतिहन्तव्यम्। इन्द्रियसुसंवृतेनानुत्क्षिप्तचक्षुषा युगमात्रप्रेक्षिणा। दान्ताजानेयचित्तेन पूर्वधर्ममनसिकारमनुत्सृजता नामिषप्रक्षिप्तया संतत्या पिण्डाय चर्तव्यम्, सपदानचारिणा च भवितब्यम्। यतश्च पिण्डपातो लभ्यते तत्रानुनयो न कर्तव्यः। यतश्च न लभ्यते तत्र प्रतिघातो नोत्पादयितव्यः। दशकुलप्रवेशे न चैकादशात्कुलाद् भिक्षा न लभ्यते। तथापि न परितप्तव्यम्, एवं च चित्तमुत्पादयितव्यम्- एवं बहुकृत्या ह्येते श्रमणब्राह्मणगृहपतयः। न तैरवश्यं मम दातव्यम्। इदं तावदाश्चर्यं यन्मामेते समन्वाहरन्ति। कः पुनर्वादो यद्भिक्षां दास्यन्ति। तेनैवमपरितपता पिण्डाय चर्तव्यम्। ये चास्य सत्त्वाश्चक्षुष आभासमागच्छन्ति स्त्रीपुरुषदारकदारिकाः, अन्तशस्तिर्यग्योनिगताः, तत्र मैत्रीकरुणाचित्तमुत्पादयितव्यम्-तथाहं करिष्यामि यथा ये मे सत्त्वाश्चक्षुषा आभासमागच्छन्ति, पिण्डपातं वा दास्यन्ति, तान् सुगतिगामिनः करिष्यामि। तादृशं योगमापत्स्ये। तेन लूहं वा प्रणीतं वापिण्डपातं संगृह्य समन्ताच्चतुर्दिशं व्यवलोकयितव्यम्-क इह ग्रामनगरनिगमे दरिद्रः सत्त्वः, यस्यास्मात्पिण्डपातात्संविभागं करिष्यामि? यदि दरिद्रं सत्त्वं पश्यति तेन तत्पिण्डपातात्संविभागः कर्तव्यः। अथ न कंचित्सत्वं दरिद्रं पश्यति, तेनैवं चित्तमुत्पादयितव्यम्-सन्त्यनाभासगताः सत्त्वा ये मम चक्षुष आभासं नागच्छन्ति। तेषामितः पिण्डपातादग्रं प्रत्यंशं निर्यातयामि। दत्तादानाः परिभुञ्जन्ताम्। तेन तत्पिण्डपातं गृहीत्वा तदरण्यायतनमभिरुह्य धौतपाणिना शोभनसमाचारेण श्रमणचारित्रकल्पसमन्वागतेनाधिष्ठानधिष्ठितेन पर्यङ्कं बद्धा स पीण्डपातः परिभोक्तव्यः। पेयालं। परिभुञ्जता चैवं मनसिकार उत्पादयितव्यः- सन्त्यस्मिन् कायेऽशीतिः क्रिमिकुलसहस्त्राणि। तान्यनेनैवौजसा सुखं फासुं विहरन्तु। इदानीं चैषामामिषेण संग्रहं करिष्यामि। बोधिप्राप्तश्च पुनर्धर्मेण संग्रहं करिष्यामि। यदि पुनरस्य लूहं पिण्डपातं भवति, तेनैवं चित्तमुत्पादयितव्यम्-लूहाहारतया मे लघुः कायो भविष्यति प्रहाणक्षमः, उच्चारप्रस्त्रावनिष्यन्दश्च मे परीत्तो भविष्यति। श्रद्धादेयं च परीत्तं भविष्यति। कायलघुता चित्तलघुता च मे भविष्यति। अल्पग्लानमिद्धश्च मे भविष्यति। यदा पुनरस्य प्रभूतः पिण्डपातो भवति, तत्रापि मात्राभोजिना भवितव्यम् उत्सर्जनधर्मिणा च, ततः पिण्डपातादन्यतरायां शिलायामवतीर्यैवं चित्तमुत्पादयितव्यम्-ये केचिन्मृगपक्षिसंघा आमिषभोजनेनार्थिकास्ते दत्तादानाः परिभुञ्जन्तामिति॥



पुनराह- तेन सर्वेण रससंज्ञा नोत्पादयितव्या। पेयालं। चण्डालकुमारसदृशेन मया भवितव्यम्। चित्तकायचौक्षेण, न भोजन चौक्षेण। तत्कस्माद्धेतोः? कियत्प्रणीतमपि भोजनं भुक्तम्, सर्व तत्पूतिनिष्यन्दपर्यवसानं दुर्गन्धपर्यवसानं प्रतिकूलपर्यवसानम्। तस्मान्मया न प्रणीतभोजनाकाङ्क्षिणा भवितव्यम्। तेन नैवं चित्तमुत्पादयितव्यम्- पुरुषो मे पिण्डपातं ददाति न स्त्री। स्त्री मे पिण्डपातं ददाति न पुरुषः। दारको मे पिण्डपातं ददाति न दारिका। दारिका मे पिण्डपातं ददाति न दारकः। प्रणीतं लभेऽहं न लूहम्। सत्कृत्य लभेऽहं नासत्कृत्य। चपलं लभेऽहं न कृच्छ्रेण। प्रविष्टमात्रं च मां समन्वाहरेयुः। न मे कश्चिद्विक्षेपो भवेत्। सुनिहिताँल्लभेऽहं प्र[णी] तान्नानारसाँल्लभेऽहम्। न हीनदरिद्रभोजनं लभेऽहम्, प्रत्युद्गच्छेयुर्मां स्त्रीपुरुषदारकदारिकाः। इमे ते सर्वेऽकुशला मनसिकारा नोत्पादयितव्याः। पेयालं प्रायेण हि सत्त्वा रसगृद्धा भोजनहेतोः पापानि कर्माणि कृत्वा नरकेषुपद्यन्ते। ये ये पुनः संतुष्टा अगृद्धा अलोलुपा रसप्रतिप्रस्त्रब्धा जिह्वेन्द्रियसंतुष्टाः कियल्लूहेनापि भोजनेन यापयन्ति, तेषां च्युतानां कालगतानां स्वर्गोपपत्तिर्भवति सुगतिगमनं भवति देवमनुष्येषु। ते देवोपपन्नाः सुधां परिभुञ्जते। एवं काश्यप पिण्डचारिकेण भिक्षुणा रसतृष्णां विनिवर्तयित्वा निध्याप्तचितेन सुपरिपक्कान् कुल्माषान् परिभुञ्जता न परितप्तव्यम्। तत्कस्माद्धेतोः? कायसंधारणार्थ मार्गसंधारणार्थं मया भोजनं परिभोक्तव्यम्। पेयालं। यदि पुनः काश्यप पिण्डचारिको भिक्षुर्मेघाकुलवृष्टिकालसमये वर्तमाने न शक्रुयात् पिण्डायावतर्तुम्, तेन मैत्र्याहारसंनद्धेन धर्मचिन्तामनसिकारप्रतिष्ठितेन द्विरात्रं त्रिरात्रं वा भक्तच्छन्दच्छिन्नेन एवं संज्ञा उत्पादयितव्या- सन्ति यामलौकिकाः प्रेता दुष्करकर्मकारिणो ये वर्षशतेन खेलपिण्डमप्याहारं न प्रतिलभन्ते। तन्मया धर्मयोनिशश्चिन्ताप्रतिष्ठितेन कायदौर्वल्यं वा चित्तदौर्बल्यं वा नोत्पादयितव्यम्। अधिवासयिष्यामि क्षुत्पिपासाम्, न पुनरार्यमार्गभावनाया वीर्यं स्त्रंसयिष्यामि। पे॥ यत्र कुले पिण्डपातं शुचिं कारयेत्तत्र कुले आसने निपद्य धार्मी कथा कर्तव्या। यावन्न स पिण्डपातः शुचीकृतो भवेत्, तेन पिण्डपातं गृहीत्वा उत्थायासनात्प्रक्रमितव्यम्। पिण्डचारिकेण काश्यप भिक्षुणा नावभासकरेण भवितव्यम्, न लपना न कुहना कर्तव्या॥



तत्र कतमोऽवभासः ? यत्परेषामेवं वाचं भाषते- लूहो मे पिण्डपातो रूक्षो मे पिण्डपात आसीत्। न च मे यावदर्थ भुक्तम्। बहुजनसाधारणश्च मे पिण्डपातः कृतः। अल्पं मे भुक्तम्, जिघत्सितोऽस्मीति। यत्किंचिदेवंरूपमवभासनिमित्तम्, इयमुच्यते चित्तकुहना। सर्वमेतत्पिण्डचारिकेण भिक्षुणा न कर्तव्यमुपेक्षकभूतेन। यत्पात्रे पतितं लूहं वा प्रणीतं वा अशुभं वा शुभं वा , तत्परिभोक्तव्यमपरितप्यमानेनाशयशुद्धेन धर्मनिध्यप्तिबहुलेन। काययापनार्थमार्यमागस्योपस्तम्भार्थ स पिण्डपातः परिभोक्तव्य इति॥



तथा आर्योग्रपरिपृच्छायामप्युक्तम्- यस्याश्चान्तिके पिण्डपातं परिभुज्य न शक्रोत्यात्मनः परस्य चार्थं परिपूरयितुम्, अनुजानाम्यहं अस्य पिण्डचारिकस्य बोधिसत्त्वस्य निमन्त्रणमिति॥



एवं तावत्सततभैषज्येनात्मभावरक्षा कार्या। तत्रापि न मत्स्यमांसेन, लङ्कावतारसूत्रे प्रतिषिद्धत्वात्॥



तथा ह्युक्तम्- मांसं सर्वमभक्ष्यं कृपात्मनो बोधिसत्त्वस्येति वदामि॥पेयालं॥

स्वाजन्याद् व्यभिचाराच्च शुक्रशोणितसंभवात्।

उद्वेजनीयं भूतानां योगी मांसं विवर्जयेत्॥



मांसानि च पलाण्डूंश्च मद्यानि विविधानि च।

गृञ्जनं लशुनं चैव योगी नित्यं विवर्जयेत्॥

म्रक्षणं वर्जयेतैलं शल्यविद्धेषु न स्वपेत्।

छिद्राछिद्रेषु सत्त्वानां यच्च स्थानं महाभयम्॥पेयालं॥

लाभार्थं हन्यते प्राणी मांसार्थं दीयते धनम्।

उभौ तौ पापकर्माणौ पच्येते रौरवादिषु॥यावत्॥

योऽतिक्रम्य मुनेर्वाक्यं मांसं भक्षेत दुर्मतिः।

लोकद्वयविनाशार्थं दीक्षितः शाक्यशासने॥

ते यान्ति परमं घोरं नरकं पापकारिणः।

रौरवादिषु रौद्रेषु पच्यन्ते मांसखादकाः॥

त्रिकोटिशुद्धं मांसं वै अकल्पितमयाचित्तम्।

अचोदितं च नैवास्ति तस्मान्मांसं न भक्षयेत्॥

मांसं न भक्षयेद्योगी मया बुद्धैश्च गर्हितम्।

अन्योन्यभक्षणाः सत्त्वा क्रव्यादकुलसंभवाः॥यावत्॥

दुर्गन्धः कुत्सनीयश्च उन्मत्तश्चापि जायते।

चण्डालपुक्कसकुले डोम्बेषु च पुनः पुनः॥

डाकिनीजातियोनौ च मांसादे जायते कुले।

ऋक्षमार्जारयोनौ च जायतेऽसौ नराधमः॥

हस्तिकक्ष्ये महामेघे निर्वाणङ्गुलिमालिके।

लङ्कावतारसूत्रे च मया मांसं विगर्हितम्॥

बुद्धैश्च बोधिसत्त्वैश्च श्रावकैश्च विगर्हितम्।

खादते यदि निर्लज्ज उन्मत्तो जायते सदा॥

ब्रह्मणेषु च जायते अथवा योगिनां कुले।

प्रज्ञावान् धनवांश्चैव मांसाद्यानां विवर्जनात्॥

दृष्टश्रतविशङ्काभिः सर्व मांसं विवर्जयेत्।

तार्किका नावबुध्यन्ते क्रव्यादकुलसंभवाः॥

यथैष रागो मोक्षस्य अन्तरायकरो भवेत्।

तथैव मांसमद्यादि अन्तरायकरं भवेत्॥

वक्ष्यन्त्यनागते काले मांसादा मोहवादिनः।

कल्पिकं निरवद्यं च मांसं बुद्धानुवर्णितम्॥

भेषज्यमिव आहारं पुत्रमांसोपमं पुनः।

मात्रया प्रतिकूलं च योगी पिण्डं समाचरेत्॥

मैत्रीविहारिणा नित्यं सर्वथा गर्हितं मया।

सिंहव्याघ्रमृगाद्यैश्च सह एकत्र संभवेत्॥

तस्मान्न भक्षयेन्मांसमुद्वेगजनकं नृणाम्।

मोक्षधर्मनिरुद्धत्वादार्याणामेष वै ध्वजः॥

यत्तु ज्ञानवतीपरिवर्ते मांसभक्षणं पठयते, तन्महार्थसाधकत्वान्निर्दोषम्॥

एवं हि तत्रोक्तम्-

एषोऽकरिष्यद्य[दि] भिक्षु कालं

समाधिशब्दोऽपि हि जम्बुद्वीपे।

निरुद्धु सत्त्वान सदाभविष्यत्

चिकित्सिते अस्मि समाधि लब्धः॥

स च महाकरुणाभियुक्तः। तेन अस्मिन्न मैत्रीशङ्कापि नास्तीत्यदोषः॥



यद्यप्यार्यरत्नमेघेऽभिहितम्- स्माशानिकेन निरामिषेण भवितव्यमिति, तदन्यत्रैवंजातीयसत्त्वार्थसंदर्शनार्थम्। विनयेऽपि यदनुज्ञातं तत्तु त्रिकोटिपरिशुद्धभक्षणे न प्रहाणान्तराय इति तत्परित्यागेन शुद्धदृष्टीनामभिमाननिरासार्थम्। तद्गृद्धतया च भव्यानां शासनावतारपरिहारार्थम्॥



तथा ह्युक्तं लङ्कावतारसूत्रे- तत्र तत्र देशनापाठे शिक्षापदानामानुपूर्वी बध्नन्निश्रेणीपदविन्यासयोगेन। त्रिकोटिं बध्वा। तत्र उद्दिश्य कृतानि प्रतिषिद्धानि ततोऽन्तशः प्रकृतिमृतान्यपि प्रतिषिद्धानीति॥

उक्तं सततभैषज्यम्। ग्लानप्रत्ययभैषज्यं तत्सेव्यमेव॥



श्रावकविनयेऽपि तावदात्मार्थं ब्रह्मचर्यवासार्थं पात्रचीवरमपि विक्रीय कायसंधारणमुक्तम्, किं पुनरपरिमितजनपरित्राणहेतोर्बोधिसत्त्वशरीरस्य। दुर्लभा चिदृशी क्षणप्रतिलाभोत्सवसंपद इति। तत्प्रदर्शनार्थं च भगवता तत्र स्वयं भैषज्योपयोगः प्रदर्शितः॥



उक्तं च आर्यरत्नमेघसूत्रे- तैर्यदा प्रचारितं भवति, तदा सत्यां वेलायामसत्यां वा तेषामिमान्येवंरूपाणि कायोपस्तम्भनान्युपकरणानि न लभ्यन्तेऽभ्यवहर्तुम्- यदुत सर्पिर्वा तैलं वा मूलरसो वा गण्डरसो वा फलरसो वा। न चान्यानभ्यवहरतो दृष्ट्वा प्रतिघचित्तमुत्पादयति। यदि पुनः खलु पश्चाद्भक्तिको बोधिसत्त्वो वा ग्लानो भवति, यथारूपेणास्य ग्लान्येन जीवितान्तरायो भवति कुशलपक्षान्तरायो वा, तेन निष्कौकृत्येन भूत्वा निर्विचिकित्सकेन भैषज्यचित्तमुपस्थाप्य प्रतिनिसेव्यानीति॥



वसनोपभोगप्रयोजनमुग्रपरिपृच्छासूत्रेऽभिहितम्-हृरपत्राप्यकौ(पी)नः प्रच्छादनार्थ तु श्रमणलिङ्गसंदर्शनार्थमिमानि च काषायाणि देवमानुषासुरस्य लोकस्य चैत्यमिति चैत्यार्थ सम्यग्धारितव्यानि। निर्वृतिविरागरत्नानि एतानि, न रागरक्तानि। उपशमानुकूलान्येतानि, न संक्लेशसंधुक्षणानुकूलानि। एमिश्च काषायैर्विवृतपापा भविष्यामः, सुकृतकर्मकारिणो न चीवरमण्डनानुयोगमनुयुक्ताः। एतानि च काषायाण्यार्यमार्गसंभारानुकूलानीति कृत्वा तथा करिष्यामो यथा नैकक्षणमपि सकषायाः काये काषायाणि धारयिष्याम इति॥



अत्र च कारणं रत्न‍राशिसूत्रेऽभिहितम्-

ये पुनस्ते काश्यप वै दर्या[र्पात्] असंयता इतः श्रमणगुणधर्मादुदुराः काये काषायाणि वस्त्राणि धारयन्ति, न चैतेषु गौरवमुत्पादयति। तत्र काश्यप श्रमणवर्णप्रतिरूपकं नाम प्रत्येकनरकम्। तत्र कश्यप प्रत्येकनरके श्रमणरूपप्रतिरूपेण ताः कारणाः कार्यन्ते आदीप्तचैला आदीप्तशीर्षा आदीप्तपात्रा आदीप्तासना आदीप्तशयनाः। यः कश्चित्तत्र तेषामुपभोगपरिभोगः, स सर्व आदीप्तः संप्रज्वलित एकज्वलीभूतः। तत्र तैः श्रमणवर्णरूपेण दुःखां वेदनामनुभवन्तीति॥



आर्यरत्नमेघेऽप्युक्तम्- यदि भवेदभ्यवकाशिको बोधिसत्त्वो ग्लानकायोऽप्रतिवलकायस्तेन विहारस्थितेनैवं चितमुत्पादयितव्यम्- क्लेशप्रतिपक्षार्थं तथागतेन धुतगुणाः प्रज्ञप्ताः। तथाहं करिष्यामि, यथा विहारस्थ एव क्लेशानां प्रहाणाय घटिष्यामि। तत्र च विहारे न गृद्धिमुत्पादयामि नाध्यवसानम्। एवं चास्य भवति- कर्तव्यो दानपतीनामनुग्रहो नास्माभिरात्मभरिभिर्भवितव्यमिति॥



पुनरत्रैवाह- ते शय्यां कल्पयन्तो दक्षिणेन पार्श्वेन शय्यां कल्पयन्ति। पादस्योपरि पादमाधाय चीवरै सुसंवृतकायाः स्मृताः संप्रजानाना उत्थानसंज्ञिन आलोकसंज्ञिनः शय्यां कल्पयन्ति। न च निद्रासुखमास्वादयन्ति, न पार्श्वसुखमन्यत्र यावदेवैषां महाभूतानां स्थितये यापनायै। इत्यनया दिशा सर्वपरिभोगाः सत्त्वार्थमधिष्ठातव्याः।



आत्मतृष्णोपभोगात्तु क्लिष्टापत्तिः प्रजायते॥१३॥



यथोक्तं चन्द्रप्रदीपसूत्रे--



ते भोजनं स्वादुरसं प्रणीतं

लब्ध्वा च भुञ्जन्ति अयुक्तयोगाः।

तेषां स आहारु बधाय भोती

यथ हस्तिपोतान विषा [बिसा] अधौताः॥इति॥



आर्यरत्नराशिसूत्रेऽपि भगवता श्रद्धादेयपरिभोगे परिकीर्तिते-अथ तस्यामेव पर्षदि योगाचाराणां भिक्षूणां द्वे शते इमं धर्मपर्यायं श्रुत्वा प्ररुदिते। एवं च वाचमभाषन्तकालं वयं भगवन् करिष्यामो न पुनरप्राप्तफला एकपिण्डपातमपि श्रद्धादेयस्य परिभोक्ष्यामः। भगवानाह- साधु साधु कुलपुत्रा एवंरूपैर्लज्जिभिः कौकृत्यसंपन्नैः परलोकावद्यभयदर्शिभिरिदं प्रवचनं शोभते। अपि तु, द्वयोरहं काश्यप श्रद्धादेयमनुजानामि। कतमयोर्द्वयोः? युक्तस्य मुक्तस्य च। यदि भिक्षवो भिक्षुर्युक्तो योगाचारो मम शिक्षायां प्रतिपन्नः सर्वसंस्कारेष्वनित्यदर्शी सर्वसंस्कारदुःखविदितः सर्वधर्मेष्वनात्माधिमुक्तिः शान्तनिर्वाणाभिकाङ्क्षी सुमेरुमात्रैरालोपैः श्रद्धादेयं भुञ्जीत, अत्यन्तपरिशुद्धैव तस्य सा दक्षिणा भवति। येषां च दायकानां दानपतीनां सकाशाच्छ्रद्धादेयं परिभुक्तं ततस्तेषां दायकदानपतीनां महर्द्धिकः पुण्यविपाको भवति महाद्युतिकः। तत्कस्माद्धेतोः? अग्रमिदमौपधिकानां पुण्यक्रियावस्तूनां येयं मैत्रचित्तसमापत्तिः। तत्र काश्यप यो भिक्षुर्दायकस्य दानपतेरन्तिकाच्चीवरपिण्डपातं परिभुज्य अप्रमाणं चेतःसमाधिं समापद्यते, अप्रमाणस्तस्य दायकस्य दानपतेः पुण्यक्रियाविपाकः प्रतिकाङ्क्षितव्यः। स्यात्काश्यप त्रिसाहस्त्रमहासाहस्त्रायां लोकधातौ महासमुद्राणां क्षयः, न त्वेव तस्य पुण्यनिष्यन्दस्य कश्चित्क्षय इति॥



तदेवं पिण्डपातगमनारम्भे भोजनारम्भे वा त्रिषु स्थानेषु स्मृतिरुपस्थाप्या दायकानुग्रहे, कायक्रिमिसंग्रहे, सर्वसत्त्वार्थसाधके च सद्धर्मपरिग्रहे॥



तथागताज्ञासंपादने तु सर्वकार्येषु स्मृतिः कार्या। आदिशब्दान्मन्त्रैरपि रक्षा कार्या॥

तत्रापि तावदिमां त्रिसमयराजोक्तां विद्यां मण्डलसमयार्थमुच्चारयेत्-नमः सर्वबुद्धबोधिसत्त्वानाम्। ओं विरजि २ महाचक्रविरजि। सत २ सारत २ त्रपि २ विधमनि। सभजनि। संभजनि। तरमति। सिद्ध अग्रे त्वं स्वाहा॥



अनेन सर्वमण्डलप्रविष्टो भवति। अथवा तथागतहृदयमष्टसहस्त्रं जपेत्। स लौकिकलोकोत्तरमण्डलप्रविष्टो भवति। कतमच्च तत्? नमस्त्रैयब्धिकानां तथागतानां सर्वत्राप्रतिहतावाप्तिधर्मताबलिनाम्। ओं असमसम समन्ततोऽनन्तनावाप्तिशासनि। हर २ स्मर स्मरण विगतरागबुद्धधर्मते। सर २ समबला। हस २। त्रय २। गगन महाचलरक्षण। ज्वल ज्वलन सागरे स्वाहा॥



अयं सर्वतथागतानामात्मभावः। अत्रानुत्तरं गारवं भावयितव्यम्। अनेन आदिकर्मिका अपि सत्त्वेष्वनन्तं बुद्धकृत्यं कुर्वन्ति॥

अयमेव परमां रक्षां मारादिभ्यः सर्व दुष्टेभ्यः करोति। हस्तताडेन भस्मना सर्षपैरुदकेन दृष्टया मनसा वा सीमावन्धं करोति॥



व्याधिषु भैषज्यमुदकं चाभिमन्त्र्योपयोज्यम्। वनकुसुमानि वा चैत्ये प्रतिमायां सद्धर्म पुस्तके वा समाहितो निवेदयेत्। पक्षप्रयोगान्महाव्याधिभिरपि मुच्यते। बुद्धबोधिसत्त्वालम्बनेन सर्वसत्त्वार्थाभिलाषिणा च चित्तेन भद्रचरिविधिपूर्वकं च जप्तव्यः। अयं विधिरस्य कल्पस्यावसाने द्रष्टव्यः। त्रिसमयजापिनश्चाम्नायतो न दोषः। उत्सिष्टस्याप्यशुचेर्न दोषः। मुद्राकारा न भक्षणीया न लङ्घनीया। न मञ्चारोहः कर्तव्यः। न मद्यं पातव्यम्। अधिमुक्तिचर्याशिक्षापदेष्वचलस्य निर्विचिकित्सस्य दुःशीलपूर्वस्यापि सिध्यति। पण्तिस्यापण्डितस्य वा नियतं सिध्यति॥



तथा च अत्रैवोक्तम्-



बोधिचित्तं दृढं यस्य निःसङ्गा च मतिर्भवेत्।

विचिकित्सा नैव कर्तव्या तस्येदं सिध्यति ध्रुवम्॥ इति॥



बोधिचित्तदृढता चात्र पृथग्जनचलचित्तताया नियमार्थमुक्ता, न तु भूमिप्रविष्टमधिकृत्य। यस्मादत्रोक्तम्-प्रत्युद्धारतामवभासतां च प्रतिलब्धुकामेन, महान्धकारादालोकं प्रवेष्टुकामेन, यद्भूयसा विनिपतितेन साध्यम्। तथा कुतो ममाल्पपुण्यस्य सिद्धिरिति नीचचित्तप्रतिषेधः। न चातिक्रान्तदुर्गतेरुत्साहोर्मिबहुलस्योपचिताप्रमेयपुण्यस्कन्धस्य भूमिप्रविष्टस्यायं पूर्बोक्तो दोषः संभवति। अत्र च मन्त्राणामज्ञानान्नाधिकाक्षरपाठे दोषोऽस्ति। नापि न्यूनतादोषः। नापि विधिभ्रंशदोषः। किं तु श्रद्धावेगं बोधिचित्तवेगं सर्वोत्सर्गवेगं च प्रमाणीकृत्याविचारतः प्रवर्तितव्यम्। अवश्यं बुद्धबोधिसत्त्वत्वमिहैव यथेष्टसिद्धिश्च भवति॥



अथवा अनेन सर्ववज्रधरमन्त्रेण रक्षां कुर्यात्-नमस्त्रैयब्धिकानां तथागतानां सर्ववज्रधराणां चण्डाल २। चल २। वज्र २। शान्तन २। फलन २। चर २। मारण २। वज्रदा लफट। ललितशिखर समन्तवज्रिणि। ज्वल २। नमोऽस्तु ते अग्रोग्रशासनानां रणं २ हं फुल स्फाट वज्रोत्तमे स्वाहा॥



अनेन पठितमात्रेण सर्वविघ्नविनायका नोपसंक्रामन्ति। देवनागादयो न प्रसहन्ते। भोजनपानशयनासनवसनपूजोपकरणानि चाभिमन्त्रितेन जलेन दृष्टया मनसा वा रक्षेत। अचलहृदयेन वा सर्वमेतत्कुर्यात्॥ इदं च तत्- नमः समन्तवज्राणां त्राट। अमोघ चण्डमहारोषण स्फाटय हूं। भ्रामय २ हूँ। त्राट हूँ। माँ। ओं बलंददे तेजोमालिनि स्वाहा॥



अनेन प्रथमं पिण्डमष्टाभिमन्त्रितं भुञ्जीत, भैषज्यराजतां बुद्धबोधिसत्त्वानामनुस्मृत्य॥

विषप्रतीकारस्तु॥ तद्यथा- इलिमित्ते। तिलिमित्ते। इलितिलिमित्ते। दुम्बे। दुःसे। दुःसालीये। दुम्बालीये। तक्के। तर्क्करणे। मर्म्मे। मर्मरणे। कश्मीरे। कश्मीरमुक्ते। अघने। अघनघने। इलिमिलीये। अखाप्ये। अपाप्ये। श्वेते। श्वेततुण्डे। अनानुरक्षे स्वाहा॥



य इमां विद्यां सकृच्छृणोति, स सप्त वर्षाण्यहिना न दश्यते। न चास्य काये विषं क्रामति। यश्चैनमहिर्दशति, सप्तधास्य स्फुटेन्मूर्धा अर्जकस्येव मञ्जरी॥



य इमां विद्यां धारयति, स यावज्जीवमहिना न दश्यते। न चास्य काये विषं क्रामति। इमानि च मन्त्रपदानि सर्पस्य पुरतो न वक्तव्यानि, यत्कारणं सर्पो म्रियते॥



तद्यथा। इल्ला। चिल्ला। चक्को। बक्को। कोडा कोडेति। निकुरुडा निकुरुडेति। पोडा पोडेति। मोडा मोडेति। पुरुडा पुरुडेति। फट रहे। फुटटण्ड रहे। नाग रहे। नागटटण्ड रहे। सर्प रहे। सर्पटटण्ड रहे। अच्छे। छल विषशाते। शीतवत्ताले। हलले। हलले। तण्डि २। तड २। ताडि २। मल २। स्फुट २। फुटु २। स्वाहा॥



इति हि भिक्षवो जाङ्गुल्यां विद्यायां उदाहृतायां सर्वभूतसमागते सर्वं तथावितथानन्यथाभूतं सत्यमविपरीतमविपर्यस्तम्। इदं विषमविषं भवतु। दातारं गच्छन्तु। दंष्टारं गच्छतु। अग्निं गच्छतु। जलं गच्छतु। स्थलं गच्छतु। स्तम्भं गच्छतु। कुडयं गच्छतु। भूमिं संक्रामतु। शान्तिं गच्छतु स्वाहा॥



चोरादिप्रतीकारे मारीचीं जपेत्। तद्यथा- पराक्रमसि। उदयमसि। वैरमसि। अर्कमसि। मर्कमसि। वनमसि। अन्तर्द्धानमसि। पथे मे रक्ष। उत्पथे मे रक्ष। जनतो मे रक्ष। चौरतो मे रक्ष। राजतो मे रक्ष। सिंहतो मे रक्ष। व्याघ्रतो मे रक्ष। नागतो मे रक्ष। सर्पतो मे रक्ष। सर्वतो मे रक्ष। रक्ष २ मां। सर्वसत्त्वांश्च सर्वभयेभ्यः सर्वोपाये सोपसर्गेभ्यः स्वाहा॥ ॐवडिलि २ सर्वदुष्टानां ग्रन्थिं वन्दामि स्वाहा॥ नमो रत्नत्रयाय। नमो मारीच्यै देवतायै। मारीच्या देवताया हृदयमावर्तयिष्यामि॥ तद्यथा। बत्तालि। बदालि। बदालि बरालि। बराहमुखि। सर्वदुष्टानां निवारय। बन्धमुखं स्वाहा।



इमामपि विद्यामनन्तजातिस्मरहेतुं महाप्रभावां सप्तपञ्चाशदक्षरां विद्याधरपिटकोपनिबद्धां सर्वभयरक्षार्थ प्रयुञ्जीत। तद्यथा। अट्टे। बट्टे। नट्टे। कुनट्टे। टके॥ ठके। ठरके। उरुमति। रुरुमति। तुरुहिलि मिलि। सर्वज्ञोदुपदग्ग। नमो सब्बसम्मसंबुद्धाणं। सिज्झन्तु मे मन्तपदाः स्वाहा॥



एषा रक्षात्मभावस्य भैषज्यवसनादिभिः।

सत्वार्थस्मृतिपूर्वकमेव वक्तव्या॥



आत्मतृष्णोपभोगात्तु क्लिष्टापत्तिः प्रजायते॥१३॥



सर्वं हि बोधिसत्त्वेनोत्सृष्टं सर्वसत्त्वेभ्यः॥ तत्र यदि विस्मृत्य परद्रव्यमात्मभरणतृष्णया परिभुङ्क्ते, क्लिष्टापत्तिमापद्यते। अथ वितृष्णोऽन्यासक्तो वा सत्त्वकार्यमनुस्मृत्य भुङ्क्ते, न क्लिष्टामापत्तिमापद्यते। परद्रव्यसंज्ञी स्वार्थेन भुङ्क्ते, स्तेयापत्तिमापद्यते। पूरार्घेण प्रातिमोक्षे पाराजिको भवति। सत्त्वस्वामिकैस्तु भोगैः सत्त्वस्वामिक एवात्मभावः संरक्षत इत्यदोषः। न हि दासस्य नित्यं स्वामिकर्मव्यापृतस्य स्वद्रव्यमस्ति येन वर्तेत॥



उक्तं च धर्मसंगीतिसूत्रे-दासोपमेन बोधिसत्त्वेन भवितव्यं सर्वसत्त्वकिंकरणीयप्रापणतयेति॥



न चैकान्तस्वाम्यर्थपरस्य दासस्य व्याध्यादिविक्लवमतेः स्वामिनमननुज्ञाप्यापि भुञ्जानस्य कश्चिद्दोषः। नाप्येवंकुर्वाणस्य बोधिसत्त्वस्यान्तिके कस्यचिद्विदितवृत्तान्तस्याप्यप्रसादो युज्यते मात्सर्यत्यागचित्तापरिज्ञानात्। न चात्र न्याये कश्चित्संदेहो युक्तः। सर्वोत्सर्गो हि पूर्वमेव भगवत्कण्ठोत्तया प्रतिपादितः। तथा चात्मभावरक्षा सत्त्वार्थमेवोक्ता। तस्य स्पष्टावबोधार्थमयं न्यायोऽभियुक्तो न तु स्वार्थापेक्षयेति॥



इति शिक्षासमुच्चये आत्मभावरक्षा षष्ठः परिच्छेदः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project