Digital Sanskrit Buddhist Canon

शीलपारमितायामनर्थवर्जनं पञ्चमः परिच्छेदः

Technical Details
शीलपारमितायामनर्थवर्जनं पञ्चमः परिच्छेदः।



उक्तः संक्षेपतोऽनर्थः। तस्य विवर्जनं यथा अध्याशयसंचोदनसूत्रे-एवंविधानर्थश्रवणभयभीरुकैः आदिकर्मिकबोधिसत्त्वैः समादानानि यथा गृहीतानि तथा कार्यम्। एवं हि तैरुक्तम्‍एते वयं भगवन् अद्याग्रेण तथागतस्य पुरतः एवं समादानं कुर्मः। सचेद्वयं भगवन् अद्याग्रेण बोधिसत्त्वयानिकं पुद्गलं गृहिणं वा प्रव्रजितं वा आपत्त्या चोदयिष्यामो भूतेन वा अभूतेन वा, विसंवादितोऽस्माभिस्तथागतोऽर्हन् सम्यक्संबुद्धो भवेत्। सचेद्वयं भगवन् अद्याग्रेण बोधिसत्त्वयानिकं पुद्गलमवमन्येम, अवर्णं चास्य भाषेम, विसंवादितोऽस्माभिस्तथागतो भवेदर्हन् सम्यक्संबुद्धः सचेद्वयं भगवन् अद्याग्रेण बोधिसत्त्वयानिकं पुद्गलं गृहिणं वा प्रव्रजितं वा पञ्चमिः कामगुणैः क्रीडन्तं परिचारयन्तं दृष्टा अप्रसादं कुर्याम, विलेखं वा चित्तस्योत्पादयेम, अगौरवं वोत्पादयेम, न च तत्र शास्तृसंज्ञामुत्पादयेम, विसंवादितोऽस्माभिस्तथागतो भवेत्। सचेद्वयं भगवन् अद्याग्रेण मित्रकुलभिक्षादकुलनिदानं बोधिसत्त्वयानिकानां पुद्गलानां कायपीडां चित्तपीडां वा कुर्याम, विसंवादितोऽस्माभिस्तथागतो भवेत्। सचेद्वयं भगवन् अद्याग्रेण बोधिसत्त्वयानिकं पुद्गलं दृष्ट्वा एकेनाप्यमनोज्ञवचनेनाभाषेम, विसंवादितोऽस्माभिस्तथागतो भवेत्। सचेद्वयं भगवन् अद्याग्रेण त्रिष्कृत्वो रात्रेः त्रिष्कृत्वो दिवसस्य बोधिसत्त्वयानिकं पुद्गलं न नमस्येम, विसंवादितोऽस्माभिस्तथागतो भवेत्। सचेद्वयं भगवन् अद्याग्रेणास्य व्रतसमादानस्य कृतशो राज्यप्रतिलम्भं वा धनप्रतिलम्भं वा कायजीवितं वा न परित्यजेम, विसंवादितोऽस्माभिस्तथागतो भवेत्।सचेद्वयं भगवन् अद्याग्रेण श्रावकयानिकं वा प्रत्येकबुद्धयानिकं वा पुद्गलमवमन्येम वयं विशिष्टतरा नैते इति, विसंवादितोऽस्माभिस्तथागतो भवेत्। सचेद्वयं भगवन्नीचचित्ताश्चण्डालसदृशचित्ता न विहरेम, विसंवादितोऽस्माभिस्तथागतो भवेत्। सचेद्वयं भगवन् अद्याग्रेण आत्मानमुत्कर्षयेम, परं वा पंसयेम, विसंवादितोऽस्माभिस्तथागतो भवेत्। सचेद्वयं भगवन् अद्याग्रेण व्यापादविग्रहभयाद्योजनं वा योजनशतं वा न पलायेम ईरिताः समानाः, विसंवादितोऽस्माभिस्तथागतो भवेत्। सचेद्वयं भगवन् अद्याग्रेण शीलवन्तमात्मानं प्रतिजानीम, बहुश्रुतं वा धुतगुणिनं वा अन्यतरान्यतरेण वा गुणेनात्मानमुद्भावयेम, विसंवादितोऽस्माभिस्तथागतो भवेत्। सचेद्वयं भगवन् अद्याग्रेण प्रतिच्छन्न कल्याणा विवृतपापा न विहरेम, विसंवादितोऽस्माभिस्तथागतो भवेदर्हन् सम्यक्संबुद्धः॥पेयालं॥ तत्र भगवान् मैत्रेयं बोधिसत्वं महासत्त्वमामन्त्रयते स्म-कर्मावरणं मैत्रेय क्षपयितुकामेन कुलपुत्रेण वा कुलदुहित्रा वा एवं समादानं कर्तव्यं यथा एभिः कुलपुत्रैः कृतमिति॥



सर्वधर्माप्रवृत्तिनिर्देशेऽप्याह-

त्रिष्कृत्व रात्रिंदिवसं तथैव

स बोधिसत्त्वान् प्रणमेत मूर्ध्ना।

तेषां न किंचित्स्खलितं गवेषेत्

चरेत चर्यां हि सदा यथेष्टम्॥

पश्येद्यदा कामगुणै रमन्तं

न तस्य किंचित्स्खलितं गवेषेत्।

गुणैरनन्तां वरबोधिचर्याम्

एषोऽपि कालेन हि तां स्पृशेत॥

युक्त्यानुपूर्व्या क्रिययानुपूर्व्या

भवेज्जिनो नैव हि एकवाचा।

बहुकल्पकोटयो नियुतानि चैष।

संनाहसंप्रस्थित नान्यभावी॥



अत्रैवाह- ये कुलपुत्र एवंरूपेण कर्मावरणेनानर्थिकाः, तैर्न द्वितीयस्य बोधिसत्त्वस्य सर्वचर्यासु विप्रतिपत्तव्यम्। सर्वाः क्रियास्तस्य विमोक्तव्याः। एवं चित्तमुत्पादयितव्यम्-नाहं परचित्तं जाने। दुर्विज्ञेया सत्वचर्या। इदं च खलु कुलपुत्र अर्थवशं संपश्यंस्तथागत एवं धर्म देशयति-न पुद्गलेन पुद्गलः प्रमातव्यः॥ अहं वा पुद्गलं प्रमिणुयाम्, यो वा स्यान्मादृशः। यः कुलपुत्र आत्मानं रक्षितुकामस्तेन न कस्यचिच्चर्या विवेचयितव्या। न परेषां विकुट्टना कर्तव्या अयमीदृशोऽयमीदृश इति। बुद्धधर्माभियुक्तेन भवितव्यं रात्रिंदिवं धर्मपरिगृद्धमानसेनेति॥



तथा क्षितिगर्भसूत्रेऽपि कथितम्-अथ तावदेव बहूनि शतसहस्त्राणि विद्वांसः सत्त्वा उत्थायासनाद्येन भगवांस्तेनाञ्जलिं प्रणम्यैबमाहुः- वयं भदन्त भगवतः पुरत एवं प्रणिधानं कुर्मः-यावच्चिरं वयं भदन्त भगवन् संसारे संसरेम, तावन्मात्रप्रतिलब्धक्षान्तिकामा राजस्थानं प्रतिलभेम, मा अमात्यस्थानम्। मा नगरज्येष्ठस्थानम्। मा ग्रामज्येष्ठस्थानम्। मा निगमज्येष्ठस्थानम्। मा पुरोहितज्येष्ठस्थानम्, मा भट्टज्येष्ठस्थानम्, यावन्मा सार्थवाहज्येष्ठस्थानम्। मोपाध्यायज्येष्ठस्थानम्। मा श्रमणज्येष्ठस्थानम्। मा गृहपतिज्येष्ठस्थानम्। मा कुटुम्बिज्येष्ठस्थानम् यावत्सर्वशो वयं मा सत्त्वानामधिपतिस्थानं प्रतिलभेम, यावन्न क्षान्तिप्रतिलब्धाः स्याम। यतोनिदानं वयमेवंरूपमतिगाढं कर्म बुद्धानां शासनमाक्षिपेम। इति विस्तरः॥



चन्द्रप्रदीपसूत्रेऽप्यनर्थविवर्जनमुक्तम्-



नास्ति पापमकर्तव्य कुमारा तेषु भेष्यति।

मा तेहि संस्तवं सार्धं कुर्यास्त्वं कालि पश्चिमे॥

आलपे संलपेय्यासि कुर्यासी तेष्वगौरवम्।

अनोलीनः सत्करेय्यास्यग्रबोधयि कारणात्॥

वर्षाग्रं परिपृच्छित्वा यस्ते वृद्धतरो भवेत्।

कुर्यासि गौरवं तत्र शिरसा पादवन्दनम्॥

न तेषां स्खलितं पश्येद् बोधिमण्डं विपश्यताम्।

प्रतिघातं न जनयेत् मैत्रचित्तः सदा भवेत्॥

यद्येषां स्खलितं पश्येद्दोषांस्तेषां न कीर्तयेत्।

यादृशं काहिति कर्म तादृशं लप्स्यते फलम्॥

स्मितेन मुखचन्द्रेण वृद्धेषु नवकेषु च।

पूर्वाभाषी भवेन्नित्यं हतमानश्च सूरतः॥

चीवरैः पिण्डपातैश्च कुर्यात्तेषामनुग्रहम्।

एवं चित्त प्रदध्यास्त्वं सर्वे भेष्यन्ति नायकाः॥इति॥



यस्यं च बोधिचित्तोत्पादिके गौरवं प्रसादश्च नोत्पद्येते, तेन स्वदुर्गतिप्रपातभयरक्षार्थ दृष्टादृष्टप्रामोद्यानुभवनार्थ स्वचित्तकलुषप्रसादनार्थ चित्तकल्यताचित्तकर्मण्यताप्रतिलाभार्थं च यथा आर्यगण्डव्यूहे बोधिचित्तोत्पादिकगुणा भगवदार्यमैत्रेयेणार्यसुधनमधिकृत्योद्भावितास्तथा भावयितव्याः॥



एष दृष्ट्व जरव्याधिपीडितान् प्राणिनो दुःखशतैरुपद्रुतान्।

जन्ममृत्युभयशोकतापितान् तेष अर्थि चरते कृपाशयः॥

दुःखयन्त्रपरिपीडितं जगत् दृष्ट्व पञ्चगतिचक्रमण्डले।

ज्ञानवज्रमयमेष ते दृढं दुःखयन्त्रगतिचक्रमेदनम्।

रागदोषतृणखाणुकण्टकं दृष्टिसङ्गबहुकक्षसंकुलम्।

सत्त्वक्षेत्रपरिशोधनार्थिकः प्रज्ञलाङ्गल दृढं गवेषते॥

मोहविद्यगहनाशयं जगत् प्रज्ञचक्षुहतनष्टदैशिकम्।

तस्य क्षेम दिशदैशिकः प्रभुः सार्थवाह जगतो भविष्यति॥

क्षान्तिवर्मत्रिविमोक्षवाहनो ज्ञानखङ्गरिपुक्लेशधर्षकः।

शूरभूत अभयस्य दायको देशिको हि जगतो भविष्यति॥

धर्मनाव समुदानयत्ययं ज्ञानसागरपथे सुशिक्षितः।

शान्तिरत्नवरद्वीपनायकः कर्णधार त्रिमवार्णेवे अयम्॥

ज्ञानरश्मिप्रणिधानमण्डलः सर्वसत्त्वभुवनावभासकः।

धर्मधातु गगने समुद्रतो बुद्धसूर्य समुदेश्यते अयम्॥

मैत्रिचन्दनसमानशीतलः सर्वसत्त्वसमचित्तसुप्रभः।

शुक्लधर्मपरिपूर्णमण्डलो बुद्धचन्द्र समुदेश्यते अयम्॥

आशये दृढतले प्रतिष्ठितो बोधिचर्य अनुपूर्व उद्गतः।

सर्वधर्मरतनाकरो ह्ययं ज्ञानसागरवरो भविष्यति॥

बोधिचित्तभुजगेन्द्रसंभवो धर्मधातु गगने समुद्गतः।

धर्ममेघयुगपत्प्रवर्षणः सर्वशुक्लफलशस्यवर्धनः॥

श्रद्धवर्ति त्रिमलंतमोपहं मैत्रिस्नेहस्मृतिभाजनं दृढम्।

बोधिचित्तविमलाग्निसुप्रभं धर्मदीप समुज्वालयिष्यति॥

बोधिचित्तकललः कृपार्बुदो मैत्रपेशिरचलाशयो धनः।

बोधि‍अङ्गमनुपूर्वसंभवो बुद्धगर्भ अयु संप्रवर्धते॥

पुण्यगर्भमभिवर्धयिष्यति प्रज्ञगर्भमभिशोधयिष्यति।

ज्ञानगर्भ समुदेश्यते अयं यादृशः प्रणिधिगर्भसंभवः॥

ईदृशाः करुणमैत्रवर्मिताः सत्त्वमोचनमती हिताशयाम्।

दुर्लभा जगि सदेवमानुषे यादृशो अयु विशुद्धमानसः॥

ईदृशाशयसुमूलसंस्थितो ईदृशो दृढप्रयोगवर्धितः।

ईदृशस्त्रिभवच्छादनप्रभो ज्ञानवृक्ष फलदः सुदुर्लभः॥

एष सर्वगुणसंभवार्थिकः सर्वधर्मपरिपृच्छनार्थिकः।

सर्वसंशयविदारणार्थिकः सर्व मित्र भजते अतन्द्रितः॥

एष मारकलिक्लेशसूदनो एष दृष्टिमलतृष्णशोधनः।

एष सर्वजगमोक्षणोद्यतो एष ते सद विशेषपण्डितः॥

एष दुर्गति विशोधयिष्यति स्वर्गमार्गमुपदर्शयिष्यति।

मोक्षमार्गमुपनेष्यते जगद् यादृशो गुणपथे प्रतिष्ठितः॥

एष सर्वगतिदुःखमोचको एष सर्वगतिसौख्यदायकः।

एष सर्वभवपाशछेदको भेष्यते भवगतीनिसूदनः॥इति॥



एवमनया भावनया अनर्थविवर्जनं सुकरं भवति। तथा अध्याशयसंचोदनसूत्रेऽप्यनर्थविवर्जन मुक्तम्-चतुर्भिर्मैत्रेय धर्मैः समन्वागतो बोधिसत्त्वयानिकः पुद्गलः पश्चिमायां पञ्चशत्यां सद्धर्मविप्रलोपे वर्तमानेऽक्षतोऽनुपहतः स्वस्तिना परिमोक्ष्यते। कतमैश्चतुर्भिः? आत्मस्खलितप्रत्यवेक्षणतया, परेषां बोधिसत्त्वयानिकानां पुद्गलानामापत्त्यचोदनतया, मित्रकुलभिक्षादकुलानवलोकनतया, अमनस्कवचनप्रतिविरमणतया। एभिर्मैत्रेय चतुर्भिरिति पूर्ववत्॥ अपरैश्चतुर्भिः। कतमैः? अल्पश्रुतसत्त्वपरिवर्जनतया, पर्षदनुपादानतया, प्रान्तशय्यासननिवेवणतया, आत्मदमशमथयोगमनुयुक्ततया च। एभिश्चतुर्भिरिति विस्तरः॥



पुनरत्रैवाह-आदिकर्मिकेण मैत्रेय बोधिसत्त्वेन प्रज्ञाबलाधानप्राप्तेन लाभसत्कारपरिवर्जितेन लाभसत्कारदोषदर्शिना भवितव्यम्। पेयालं। संगणिकारामपरिवर्जितेन संगणिकारामदोषदर्शिना भवितव्यम्। भाष्यारामपरिवर्जितेन भाष्यारामदोषदर्शिना भवितव्यम्। निद्रारामवर्जितेन निद्रारामदोषदर्शिना भवितव्यम्। कर्मारामवर्जितेन कर्मारामदोषदर्शिना भवितव्यम्। प्रपञ्चारामवर्जितेन प्रपञ्चारामदोषदर्शिना भवितव्यम्। पेयालं। इह मैत्रेय बोधिसत्त्वेन महासत्त्वेन रागसंजननो लाभसत्कारः प्रत्यवेक्षितव्यः। स्मृतिविध्वंसनकरो लाभसत्कारः प्रत्यवेक्षितव्यः। लाभालाभतया उन्नामावनामकरो लाभसत्कारः प्रत्यवेक्षितव्यः। मोहोत्पादनो लाभसत्कारः प्रत्यवेक्षितव्यः। कुलमात्सर्याध्यवसानो लाभसत्कारः प्रत्यवेक्षितव्यः। आत्मार्थनिष्पादनतया शाठयोत्पादनो लाभसत्कारः प्रत्यवेक्षितव्यः। चतुरार्यवंशपरिवर्जनतया आहीक्यानपत्राप्यसंजननो लाभसत्कारः प्रत्यवेक्षितव्यः। एवं सर्वबुद्धाननुज्ञानो लाभसत्कारः प्रत्यवेक्षितव्यः। मानमदोत्पादनो लाभसत्कारः प्रत्यवेक्षितव्यः। गुरूणामवमाननो लाभसत्कारः। मारपक्षो लाभसत्कारः। एकान्तप्रमादमूलः कुशलमूलापहरणो लाभसत्कारः। विद्युचक्राशनिसदृशो लाभसत्कारः। बहुपलिगोधपलिगुद्धो मित्रकुलभिक्षादकुलावलोकनो दौर्मनस्यसंजननः। बुद्धिविभ्रामणो लाभसत्कारः। प्रियवस्तुपरिणामनतया शोकभाजनो लाभसत्कारः। चतुःस्मृत्युपस्थानसंभोषणः शुक्लधर्मदुर्बलीकरणः चतुःसम्यक्प्रहाणपरिहाणकरणो लाभसत्कारः। ऋद्धयभिज्ञापरिहाणकरणः। पूर्व सत्कारपश्चादसत्कारकरणः। अमित्रसत्करणमित्रप्रहाणो लाभसत्कारः। पराभिसंधानतया गणिकासदृशः। ध्यानाप्रमाणपरिवर्जनः। नरकतिर्यग्योनियमलोकप्रपातनो लाभसत्कारः। देवदत्तोद्रकसमाचारो लाभसत्कारः प्रत्यवेक्षितव्यः॥



इमे एवंरूपा मैत्रेय लाभसत्कारे आदीनवा ये बोधिसत्त्वेन प्रत्यवेक्षितव्याः। प्रत्यवेक्ष्यचाल्पेच्छतायां रन्तव्यम्, न परितप्तव्यम्। तत्कस्य हेतोः? अल्पेच्छस्य हि मैत्रेय इमे एवंरूपा दोषा न भवन्ति, न चास्यान्तराया भवन्ति बुद्धधर्माणाम्। अनिर्विण्णश्च भवति गृहिप्रव्रजितेभ्यः। अनुरक्षणीयश्च भवति देवमनुष्याणां परिशुद्धाशयस्थितः। असंत्रस्तश्च भवति सर्वदुर्गतिनिपातेभ्यः। अनमिभूतश्च भवति तर्जनाधिगतः। असंहार्यश्च भवति मारविषयविमुक्तः। अधर्षणीयश्च भवति सर्वव्यसनैः। अभिलषणीयश्च भवति देवमनुष्याणां ध्यानाभ्यासाय स्थितः। स्पष्टश्च भवति सर्वव्यसनैः। अभिलषणीयश्च भवति देवमनुष्याणां ध्यानाभ्यासाय स्थितः। स्पष्टश्च भवति मायाशाठयप्रहीणः। अप्रमत्तश्च भवति पञ्चकामगुणदोषदर्शीं। यथावादी तथाकारी भवत्यार्यवंशे स्थितः। अभिलषितश्च भवति विद्वद्भिः सब्रह्मचारिभिः। इमां मैत्रेय एवंरूपामनुशंसां विदित्वा पण्डितेन बोधिसत्त्वेनाध्याशयेनाल्पेच्छतायां रन्तव्यम्। अल्पेच्छता आसेवितव्या सर्वलाभसत्कारप्रहाणायेति॥

संगणिकामधिकृत्याह-



विजह्म रागं विजह्म दोषं न तिष्ठते संगणिकासु योगी।

भवत्यसौ तत्प्रवणस्तन्निम्नः एतेन दोषेण रतिं न कुर्यात्॥

औद्धत्य हास्यं च तथा वितर्का भवन्त्यमी संगणिकासु सर्वे।

संकीर्णचारी हि भवत्यसंवृतः करोति यः संगणिकामसाराम्।

लोकस्य मन्त्रेषु रमन्ति बाला हीयन्ति चेहाग्रकथासु बालाः।

प्रदोष वर्धेन्ति वितर्क उत्सदा एतेन दोषेण न तत्र राजते॥

न वर्धते चापि श्रुतेन भिक्षुः अयुक्तमन्त्रेषु रतिं जनित्वा।

तस्मात् परित्यज्य अयुक्तमन्त्रान् धर्मे रतिं विन्दथ नित्यकालम्॥

सहस्त्रशोऽस्थीनि मया स्वकानि त्यक्तानि बोधिं प्रतिकाङ्क्ष तर्हि।

न चास्मि तृप्तः शृणमान धर्म ते खेदमेप्यन्ति शृणोन्त धर्मम्॥

सर्वेण सर्व परिवर्जनीया अयुक्तमन्त्राश्च अशिष्टमन्त्राः।

धर्मे वरे तत्र रतिं जनेथ यो दुर्लभः कल्पशतैरनेकैः॥

वने वसन्तेन गुणार्थिकेन परस्य दोषा न हि वीक्षितव्याः।

अहं विशिष्टो अहमेव श्रेष्ठो न एव चित्तं समुपादनीयम्॥

मदो अयं सर्वप्रमादमूलो न हीनभिक्षू अवमन्यितव्याः।

अनुपूर्व एषो इह शासनस्य नैकेन जन्मेन लभेत बोधिम्॥

अत्रैव भाष्याराममधिकृत्याह-



अगौरवो भोति श्रुतेन मत्तो विवादमन्त्रेषु निविष्ट भोति।

मुषितस्मृतिश्चापि असंप्रजन्यो भाष्ये रमन्तस्य इमे हि दोषाः॥

अध्यात्मचिन्तात्तु सुदूर भोती चित्तं न कायश्च प्रसन्न भोति।

उन्नामनामानि बहूनि गच्छती भाष्ये रमन्तस्य इमे हि दोषाः॥

सद्धर्मचित्तात्तु प्रणष्टु बालः सुकर्कशो भोति अस्निग्धचित्तः।

विपश्यनायाः शमथाच्च दूरे भाष्ये रमन्तस्य इमे हि दोषाः॥

अगौरवो भोति सदा गुरूणां पलिगोधमन्त्रेषु रतिं जनित्वा।

असारस्थायी परिहीणप्रज्ञो भाष्ये रमन्तस्य इमे हि दोषाः॥

अमानितो देवगणैः स भोति नाप्यस्य तस्मिन् स्पृह संजनन्ति।

प्रतिसंविदातो भवती विहीनो भाष्ये रमन्तस्य इमे हि दोषाः॥

परिभाष्यते चापि स पण्डितेभिः ये केचिदस्ती पृथकामसाक्षी।

निरर्थकं जीवितु तस्य भोती भाष्ये रमन्तस्य इमे हि दोषाः॥

स शोचते कालु करोतु बालः प्रतिपत्तिहीनोऽस्मि किमद्य कुर्याम्।

सुदुःखितो भोति अलब्धगाधो भाष्ये रमन्तस्य इमे हि दोषाः॥

चलाचलो भोति तृणं यथेरितं विचिकित्सते एवमसौ न संशयः।

न तस्य जातू दृढ बुद्धि भोती भाष्ये रमन्तस्य इमे हि दोषाः॥

नटो यथा तिष्ठति रङ्गमध्ये अन्यान शूराण गुणान् प्रभाषते।

स्वयं च भोती प्रतिपत्तिहीनो भाष्ये रमन्तस्य इमे हि दोषाः॥

शठश्च सो भोति लघुर्निराशः पुनः पुनश्चारमते विवादम्।

सो दूरतो आर्यधर्मस्य भोती भाष्ये रमन्तस्य इमे हि दोषाः॥

संहृष्यते सत्कृत अल्पस्थामः प्रकम्पते विप्रकृतो अजानी।

कपिर्यथा चञ्चलचित्त भोती भाष्ये रमन्तस्य इमे हि दोषाः॥पेयालं॥

रमित्व भाष्यस्मि चिरं पि कालं न विन्दते प्रीतिमिहात्मसौख्यम्।

वरं हि एकस्य पदस्य चिन्तना प्रीतिं पदे यत्र लभेदनन्ताम्॥

नेक्षुत्वचे सारमिहास्ति किंचिन्मध्येऽस्ति तत्सार सुप्रेमणीयः।

भुक्त्वा त्वचं नेह पुनः स शक्यं लब्धुं नरेणेक्षुरसं प्रधानम्॥

यथा त्वचं तद्वदवैहि भाष्यं यथा रसस्तद्वदिहार्थचिन्ता।

तस्माद्धि भाष्ये तु रतिं विहाय चिन्तेथ अर्थं सद अप्रमत्ताः॥



निद्राराममधिकृत्याह-



महञ्च सो वर्धति मोहजालं विचिकित्सको भोति स दृष्टिप्राप्तः॥

दृष्टीकृतान्यस्य बहूनि भोन्ती यस्मा न मिद्धेऽभिरतिं प्रयाति॥

प्रज्ञा च तेषां भवती सुदुर्बला परिहीयते बुद्धि न तस्य भोति॥

ज्ञानाच्च सो हीयति नित्यकालं यस्मा न मिद्धेऽभिरतिं प्रयाति॥

कुसीद अज्ञो अलसो अप्रज्ञो अमनुष्य अवतार लभेन्ति तस्य।

विहेठयन्ते च वने वसन्तं यस्मा न मिद्धेऽभिरतिं प्रयाति॥

कुशलेन चित्तेन सदा अनर्थिको धर्मे न छन्दो न हि भोति तस्य।

अधर्मकामश्च स भोति भूयो यस्मा न मिद्धेऽभिरतिं प्रयाति॥

सद्धर्मछेन्देन बिहीन मूढः परिहीयते सर्वगुणेहि बालः।

शुक्लं च धातेति तमोऽधिगच्छती यस्मा न मिद्धेऽभिरतिं प्रयाति॥

अविशारदो भोति प्रलीनचित्तः प्रामोद्य तस्यो भवती न नित्यम्।

निद्रयापग्रस्तः शिथिलाङ्ग भोती यस्मा न मिद्धेऽभिरतिं प्रयाति॥

आत्मा तु ज्ञात्वा च कुसीदप्राप्तः ईर्ष्यायते वीर्यबलैरुपेतान्।

वीर्यान्वितानां च अवर्ण भाषते यस्मा न मिद्धेऽभिरतिं प्रयाति।पेयालं।

यत्सर्वदुःखस्य तमस्य नाशनम् अपायपरिवर्जनताय मूलम्।

सर्वेहि बुद्धैर्हि सदा प्रशस्तं तं वीर्यमार्यं सततं भजस्व॥



कर्माराममधिकृत्याह-



सुदुर्वचो भोति गुरूभि चोदितः प्रदक्षिणं गृह्णति नानुशासनम्।

विपन्नशीलश्च स भोति क्षिप्रं दोषा अमी कर्मरते भवन्ति॥

उत्कण्ठितो भोति स नित्यकालं गृहस्थकर्माणि सदा विचिन्तयन्।

ध्यानप्रहाणैश्च न तस्य कृत्यं दोषा अमी कर्मरते भवन्ति॥

तीव्रश्च संजायति तस्य रागो रसारसेषु ग्रसितः स मूर्च्छितः।

न तुष्यतेऽसावितरेतरेण दोषा अमी कर्मरते भवन्ति॥

महत्या च भोती परिषाय तुष्टो स दुःखितो भोति तया विहीनः।

संकीर्ण भोती स यथेह गर्दभो दोषा अमी कर्मरते भवन्ति॥पेयालं॥

दिवा च रात्रौ च अनन्यचित्तो भक्ते च चोले च भवत्यभीक्ष्णम्।

स्वनर्थिको भोति गुणैः स सर्वदा दोषा अमी कर्मरते भवन्ति॥

कृत्यान्यसौ पृच्छति लौकिकानि अयुक्तमन्त्रैश्च रतिं प्रयाति।

युक्तैश्च मन्त्रैः स न विन्दते रतिं दोषा अमी कर्मरते भवन्ति॥पेयालं॥



अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्-सुपरीत्तप्रज्ञास्ते भगवन् बोधिसत्त्वा भविष्यन्ति विहीनप्रज्ञा येऽग्रधर्मान् वर्जयित्वा हीनानि कर्माण्यारप्स्यन्ते। एवमुक्ते भगवान् मैत्रेयं बोधिसत्त्वं महासत्त्वमेतदवोचत्-एवमेतन्मैत्रेय, एवमेतद्यथा वदसि-सुपरीत्तप्रज्ञास्ते बोधिसत्त्वा भविष्यन्ति येऽग्रधर्मान् परिवर्जयित्वा हीनानि कर्माण्यारप्स्यन्ते। अपि त्वारोचयामि ते मैत्रेय, प्रतिवेदयामि ते। न ते बोधिसत्त्वास्तथागतशासने प्रव्रजिता येषां नास्ति योगो नास्ति ध्यानं नास्ति प्रहाणं नास्त्यध्ययनं नास्ति बाहुश्रुत्यपर्येष्टिः। अपि तु मैत्रेय ध्यानप्रहाणप्रभावितं तथागतशासनं ज्ञानसंस्कृतं ज्ञानसमाहितमभियोगप्रभावितम्, न गृहिकर्मान्तवैयापृत्यप्रभावितम्।

अयुक्तयोगानामेतत्कर्म संसाराभिरतानां यदुत वैयापृत्यं लौकिककृत्यपलिगोधः। न तत्र बोधिसत्त्वेन स्पृहोत्पादयितव्या। सचेन्मैत्रेय वैयापृत्याभिरतो बोधिसत्त्वः सप्तरत्नमयैः स्तूपैरिमं त्रिसाहस्त्रमहासाहस्त्रं लोकधातुं पूरयेत्, नाहं तेनाराधितो भवेयं न मानितो नापि सत्कृतः। पेयालंं। तत्र जम्बूद्वीपः पूरितः स्याद्वैयापृत्यकरैर्बोधिसत्त्वैः। सर्वैस्तैरेकस्योद्देशस्वाध्यायाभियुक्तस्य बोधिसत्त्वस्योपस्थानपरिचर्या करणीया। जम्बूदीपप्रमाणैश्चोद्देशस्वाध्यायाभियुक्तैर्बोधिसत्त्वैरेकस्य प्रतिसंलपनाभियुक्तस्य बोधिसत्त्वस्योपस्थानपरिचर्या कर्तव्या। पेयालं। तत्कस्य हेतोः? दुष्करमेतत्कर्म यदुत प्रज्ञाकर्म, उत्तरं निरुत्तरं सर्वत्रैलोक्यप्रतिविशिष्टमभ्युद्गतम्। तस्मात्तर्हि मैत्रेय बोधिसत्त्वेन योगार्थिकेन वीर्यमारब्धुकामेन प्रज्ञायामभियोक्तव्यमिति॥



प्रपञ्चाराममधिकृत्याह-



अष्टाक्षणा तस्य न भोन्ति दूरे क्षणसंपदा तस्य न भोति श्रेष्ठा।

एते अनर्थास्य भवन्ति नित्यं दोषा अमी तस्य प्रपञ्चचारिणः॥पेयालं॥

दोषानिमान् सम्यगवेत्य पण्डितः सर्वान् प्रपञ्चान् परिवर्जयीत।

सुलमा अनर्था हि प्रपञ्चचारिणः तस्मात्प्रपञ्चेन न संवसेत॥

यायाच्छतं योजनकं परं वरं यत्र प्रपञ्चोऽस्ति य विग्रहो वा।

न तत्र वासं न निकेतु कुर्यान्मुहूर्तमात्रं स्ति य यत्र क्लेशः॥

नार्थार्थिकाः प्रव्रजिता गुणार्थिका मा विग्रहं कुर्वथ दुष्टचित्ताः।

न वोऽस्ति क्षेत्रं न कृषिर्वणिज्या स्युर्यस्य अर्थाय प्रपञ्च एते॥

न पुत्र धीता न च वोऽस्ति भार्या न चास्य मित्रं न च बन्धुवर्गः।

दास्यो न दासा न च ईश्चरत्वं मा विग्रहं कुर्वथ प्रव्रजित्वा॥

काषायवस्त्राणि गृहीत्व श्रद्धया शान्तप्रशान्तैर्हि निषेवितानि।

शान्तप्रशान्ता उपशान्त भोथ प्रपञ्च वर्जित्व जनेथ क्षान्तिम्॥

आशीविषान् रक्षथ रौद्रचित्तान् नरकाश्च तिर्यग्विषयो यमस्य।

प्रपञ्चचारस्य न भोन्ति दूरे तस्माद्धि क्षान्तौ जनयेत वीर्यम्॥पेयालं॥

इमेन योगेन लभेत शुद्धिं क्ष[प]यित्व कर्मावरणं अशेषम्।

धर्षेति मारं सबलं सवाहनं यो धीरु तस्यैव जनेति क्षान्तिम्॥ इति॥



संक्षेपतस्तत्र अनर्थविवर्जनमुक्तम्- तस्मात्तर्हि मैत्रेय बोधिसत्त्वयानिकेन कुलपुत्रेण वा कुलदुहित्रा वा पश्चिमायां पञ्चशत्यां सद्धर्मप्रलोपे वर्तमाने अक्षतेनानुपहतेन स्वस्तिना परिमोक्तुकामेन सर्वकर्मावरणानि क्षपयितुकामेनासंसर्गाभिरतेन भवितव्यमरण्यवनप्रान्तवासिना अनभियुक्तसत्त्वपरिवर्जितेनात्मस्खलितगवेषिणा परस्खलितागवेषिणा तूष्णीभावाभिरतेन प्रज्ञापारमिताविहाराभिरतेनेति॥

आर्यरत्नमेघेऽप्यनर्थवर्जनमुक्तम्-तावत्पिण्डाय चरति यावदस्य कार्यस्य प्राप्तिर्भवति।

अन्यत्र येषु स्थानेषु चण्डा वा कुक्कुरास्तरुणवत्सा वा गावः प्रकृतिदुःशीला वा तिर्यग्योनिगता विहेठनाभिप्राया वा स्त्रीपुरुषदारकदारिकाः, जुगुप्सितानि वा स्थानानि, तानि सर्वेण सर्वं वर्जयतीति॥



अनेनैतद्दर्शितं भवति यद् दृष्टेऽपि बाधाकरे एवंविधे तदवर्जयत आपतिर्मवतीति॥

अथ यदेवमाद्यनर्थवर्जनमुक्तम्-

केनैतल्लभ्यते सर्वनिष्फलस्पन्दवर्जनात्॥७॥



केनैतल्लभ्यते? सर्वनिष्फलस्पदवर्जनात्। फलमत्र परार्थे। तदर्थ यः स्पन्दो न संवर्तते, स निष्फलत्वाद्वर्जयितव्यः॥

यथा चन्द्रप्रदीपसूत्रे कायसंवरमध्ये पठयते-न हस्तलोलुपो भवति न पादलोलुपः हस्तपादसंयत इति॥



तथा दशधर्मकसूत्रेऽपि देशितम्- हस्तविक्षेपः पादविक्षेपोऽधावनं परिधावनं लङ्घनं प्लवनम्, इदमुच्यते कायदौष्टुल्यमिति॥



आर्यधर्मसंगीतिसूत्रे तु यथा बोधिसत्त्वानां परार्थादन्यत्कर्म न कल्पते, तथा स्पष्टमेव परिदीपितम्-यत्किंचिद्भगवन् बोधिसत्त्वानां कायकर्म, यत्किंचिद्वाक्कर्म, यत्किंचिन्मनस्कर्म, तत्सर्वं सत्त्वावेक्षितं प्रवर्तते महाकरुणाधिपतेयं सत्त्वहिताधिष्टाननिमित्तं सर्वसत्त्वहितसुखाध्याशयप्रवृत्तम्। स एवंहिताशयः एवंसंज्ञी भवति- सा मया प्रतिपत्तिः प्रतिपत्तव्या या सर्वसत्त्वानां हितावहा सुखावहा च। पेयालं॥ आयतनेषु शून्यग्रामवत्प्रत्यवेक्षणा प्रतिपत्तिः। न चायतनपरित्यागं स्पृहयतीति॥



आर्यगगनगञ्जसूत्रेऽप्युक्तम्- तद्यथापि नाम छिद्रान्मारुतः प्रविशति, एवमेव यतो यत एव चित्तस्य छिद्रं भवति, ततस्तत एव मारोऽवतारं लभते। तस्मात्सदा अच्छिद्रचित्तेन बोधिसत्त्वेन भवितव्यम्। तत्रेयमच्छिद्रचित्तता यदिदं सर्वाकारज्ञतायाः शून्यतायाः परिपूरिरिति॥



का पुनरियं सर्वाकारवरोपेता शून्यता? येयं बोधिसत्त्वचर्याया अपरित्यागेनाभ्यस्यमाना अभयस्ता वा सर्वभावशून्यता। एषा च रत्नचूडसूत्रे विस्तरेणाख्याता॥



तथा अक्षयमतिसूत्रेऽपि दर्शितम्- पापकानामकुशलानां धर्माणां प्रहाणाय छन्दं जनयति। अत्र प्रस्तावे यानि चान्यानि पुनः कानिचिदन्यान्यपि चित्तविक्षेपकराणि, यानि समाधिस्कन्धस्य विपक्षाय संवर्तन्ते, अयमुच्यते समाधिविपक्षः। यावदिमे उच्यन्ते पाप[का] अकुशला धर्मा इति॥



शीलपारमितायामनर्थवर्जनं पञ्चमः परिच्छेदः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project