Digital Sanskrit Buddhist Canon

अनर्थवर्जनं चतुर्थः परिच्छेदः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Anarthavarjanaṁ caturthaḥ paricchedaḥ
अनर्थवर्जनं चतुर्थः परिच्छेदः।



अपरेऽपि महान्तोऽनर्थाः सूत्रान्तेषूक्ताः। यथा तावदाकाशगर्भसूत्रे-पञ्चेमाः कुलपुत्र क्षत्रियस्य मूर्धाभिषिक्तस्य मूलापत्तयः, याभिर्मूलापत्तिभिः क्षत्रियो मूर्धाभिषिक्तः सर्वाणि पूर्वावरोपितानि कुशलमूलानि झोषयति। वस्तुपतितः पाराजिकः सर्वदेवमनुष्यमुखेभ्योऽपायगामी भवति। कतमाः पञ्च? यः कुलपुत्र मूर्धाभिषिक्तं स्तौपिकं वस्त्वपहरति सांधिकं वा चातुर्दिशसांधिकं वा निर्यातितं वा, स्वयं वापहरति हारयति वा, इयं प्रथमा मूलापत्तिः॥ यः पुनर्धर्म प्रतिक्षिपति श्रावकनिर्याणभाषितं वा प्रत्येकबुद्धनिर्याणभाषितं वा महायाननिर्याणभाषितं वा प्रतिक्षिपति प्रतिषेधयति, इयं द्वितीया मूलापत्तिः॥ यः पुनर्मामुद्दिश्य शिरस्तुण्डमुण्डकाषायवस्त्रप्रावृतः शिक्षाधारी वा अशिक्षाधारी वा, तस्य दुःशीलस्य वा शीलवतो वा काषायाणि वस्त्राण्यपहरति अपहारयति, गृहस्थं वा करोति, काये दण्डैः प्रहरति, चारके वा प्रतिक्षिपति, जीवितेन वा वियोजयति, इयं तृतीया मूलापत्तिः॥ यः पुनः क्षत्रियः संचिन्त्य मातरं जीविताद्वयपरोपयति पितरमर्हन्तं भगवच्छ्रावकं वा जीविताद् व्यपरोपयति, समग्रं वा संघं भिनत्ति, तथागतस्यार्हतः सम्यक्संबुद्धस्य संचिन्त्य दुष्टचित्तो रुधिरमुत्पादयति। एभिः पञ्चभिरानन्तर्यैः कर्मभिरन्यतरान्यतरं कर्मोत्पादयति, इयं चतुर्थी मूलापत्तिः॥ यः पुनः क्षत्रियोऽहेतुवादी भवति परलोकोपेक्षकः, दशाकुशलान् कर्मपथान् समादाय वर्तते, अन्यांश्च बहून् सत्त्वान् दशस्वकुशलेषु कर्मपथेषु समादापयति, विनयति निवेशयति प्रतिष्ठापयति, इयं पञ्चमी मूलापत्तिः॥ पेयालं॥ यः पुनर्ग्रामभेदं जनपदभेदं नगरभेदं राष्ट्राभेदं करोति, इयं षष्ठी मूलापत्तिः॥पेयालं॥ आदिकर्मिणां महायानसंप्रतिस्थितानां कुलपुत्राण कुलदुहिततृणां वा अष्टौमूलापत्तयः, याभिर्मूलापत्तिभिः स्खलिता आदिकर्मिका महायानसंप्रस्थिताः सर्वाणि पूर्वावरोपितानि कुशलमूलानि काषयन्ति। वस्तुपतिताः पराजिता देवमनुष्यमहायानसुखादपायगामिनो भवन्ति, चिरं च संसारे सीदन्ति कल्याणमित्रविरहिताः। कतमा अष्टौ? ये सत्त्वाः पूर्वदुश्चरितहेतुना अस्मिन् क्लिष्टे पञ्चकषाये लोके उपपन्नाः, त इत्वरकुशलमूलाः कल्याणमित्रं संनिःश्रित्येदं परमगम्भीरं महायानं शृण्वन्ति। ते च परीत्तबुद्धयोऽपि कुलपुत्रा अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयन्ति। तेषामादिकर्मिका ये च बोधिसत्त्वा इदं परमगम्भीरं शून्यताप्रतिसंयुक्तं सूत्रान्तं शृण्वन्ति उद्दिशन्ति पठन्ति, ते यथाश्रुतं यथापर्यवाप्तं परेषां पूर्वबुद्धिसद्दशानां स्वर्थं सुव्यञ्जनं विस्तरेणाग्रस्तः स्मारयन्ति प्रकाशयन्ति। ते ह्यकृतश्रमा बालाः पृथग्जनाः शृण्वन्त उत्त्रस्यन्ति संत्रस्यन्ति संत्रासमापद्यन्ते। ते संत्रासेन विवर्तयन्ति, अनुत्तरायाः सम्यक्संबोधेश्चित्तं श्रावकयाने चित्तं प्रणिदधति। एषा आदिकर्मिकबोधिसत्त्वस्य मूलापत्तिः प्रथमा, यया मूलापत्त्या स कुलपुत्रः सव पूर्वावरोपितं कुशलमूलं काषयति वस्तुपतितः पराजितः स्वर्गापवर्गसुखात्। विसंवादितं चास्य बोधिचित्तम्। अपायगामी भवति। तस्माद्बोधिसत्त्वेन महासत्त्वेन परपुद्गलानामाशयानुशयं प्रथमं ज्ञात्वा यथाशयानां सत्वानामनुपूर्वेण धर्मदेशना कर्तव्या, तद्यथा महासमुद्रेऽनुपूर्वेणावतारयति। पे। पुनरपरमादिकर्मिको बोधिसत्त्वः कस्यचिदेवं वक्ष्यति-न त्वं शक्यसि षट्पारमितासु चर्यां चर्तुम्। न त्वं शक्यस्यनुत्तरां सम्यक्संबोधिमभिसंबोदुम्। शीघ्रं त्वं श्रावकयाने प्रत्येकबुद्धयाने वा चित्तमुत्पादय। तेन त्वं संसारान्निर्यास्यसि। यावद्यथापूर्वोक्तम्। इयमादिकर्मिकस्य बोधिसत्त्वस्य द्वितीया मूलापत्तिः॥ पुनरपरमादिकर्मिको बोधिसत्त्वः कस्यचिदेवं वक्ष्यति-किं भोः प्रातिमोक्षविनयेन शीलेन सुरक्षितेन? शीघ्रं त्वमनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयस्व। महायानं पठ। यत्ते किंचित्कायवाङ्यनोभिः क्लेशप्रत्ययादकुशलं कर्म समुदानीतम्, तेन पाठेन शुद्धिर्भवत्याविपाकम्, यावद्यथापूवाक्तम्। इयमादिकर्मिकस्य बोधिसत्त्वस्य तृतीया मूलापत्तिः॥ पुनरपरं कुलपुत्र केषांचिदादिकर्मिको बोधिसत्त्व एवं वक्ष्यति-वर्जयत यूयं कुलपुत्राः श्रावकयानकथाम्। मा शृणुत, मा पठत, मा परेषामुपदिशत। गोपयत श्रावकयानकथाम्। न यूयं तस्मात् महत्फलं प्राप्स्यथ। न यूयं ततोनिदानाच्छक्ताः क्लेशान्तं कर्तुम्। श्रद्दधत महायानकथाम्। शृणुत, महायानं पठत, महायानं परेषां चोपदिशत। ततो यूयं सर्वदुर्गत्यपायपथान् शमयिष्यथ। क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यथ। यदि ते तस्य वचनकारिणो भवन्ति, ईदृशं दृष्टिगतमुपगृह्णीयुः। उभयोरपि मूलापत्तिर्भवति। इयमादिकर्मिकस्य बोधिसत्त्वस्य चतुर्थी मूलापत्तिः। पुनरपरमादिकर्मिका बोधिसत्त्वा द्विजिह्वीका भवन्ति, अन्यथा निदर्शयन्ति। इदं च महायानं कीर्तिशब्दश्लोकार्थ लाभसत्कारहेतोः पठन्ति, स्वाध्यायन्ति धारयन्ति वाचयन्ति देशयन्ति, परेषां च श्रुतमात्रमुपदिशन्ति। एवं च वक्ष्यन्ति- वयं महायानिका नान्ये। ते परेषामीर्ष्यायन्ति लाभसत्कारहेतोः। यतस्ते लभन्ते उपभोगपरिभोगान् परेभ्यः, तत्प्रत्ययात्ते प्रकुप्यन्ति, तेषां चावर्णनिश्चारयन्ति, कुत्सन्ति पंसयन्ति, विजुगुप्सन्ति, आत्मानं चोत्कर्षयन्ति न तान्। अतस्ते ईर्ष्याहेतुना चोत्तरिमनुष्यधर्मैरात्मानं विज्ञपयन्ति। ततस्ते तेन वस्तुना पतिताः पराजिता महायानसुखादेतां महागुरुकामापत्तिमापद्यन्ते यया अपायगामिनो भवन्ति। यथा कश्चित्पुरुषो रत्नद्वीपं गन्तु नावा समुद्रमवतरते। स महासमुद्रे स्वयमेव तां नावं भिन्द्यात्, तत्रैव मरणं निगच्छेत्। एवमेव ये आदिकर्मिका बोधिसत्त्वा महागुणसागरमवतर्तुकामा ईर्ष्याहेतोस्तद्वदन्ति, तत्प्रत्ययात्ते श्रद्धानावं भित्त्वा प्रज्ञाजीवितेन वियोगं प्राप्रुवन्ति। एवं ते बाला आदिकर्मिका बोधिसत्त्वा ईर्ष्याहेतोरनृतप्रत्ययां महागुरुकामापत्तिमापद्यन्ते। इयं पञ्चमी मूलापत्तिरादिकर्मिकस्य बोधिसत्त्वस्य॥ पुनरपरं कुलपुत्र भविष्यन्त्यनागतेऽध्वनि गृहस्थप्रव्रजिता आदिकर्मिका बोधिसत्त्वाः, ये ते गम्भीराः शून्यताप्रतिसंयुक्ताः सूत्रान्ता धारणीक्षान्तिसमाधिभूमिस्वलंकृतमहाविद्वत्पुरुषाणां कृतश्रमाणां बोधिसत्त्वानां गोचराः, तान् महायानसूत्रान्तान् धारयन्ति पठन्ति स्वाध्यायन्ति परेषां च विस्तरेण वाचयित्वा प्रकाशयन्ति-अहं चेमान् धर्मान् स्वबुद्धया बुद्धा एवं च पुनरहं कारुण्यहेतोस्तवोपदिशामि। त्वया वा पुनस्तथा भावयितव्यं यथा त्वमत्र गम्भीरेषु धर्मेषु प्रत्यक्षो भविष्यसि। एवं ते ज्ञानदर्शनं भविष्यति यथा मम। एतहिं न पुनरेव ददाति। पठितमात्रेणाहमिमानेवरूपान् धर्मान् गम्भीरगम्भीरानुपदिशामि न साक्षात्क्रियया॥ लाभसत्कारहेतोरात्मानं विक्रीणाति। तत्प्रत्ययात्सर्वत्र्यध्वगतानामर्हृतां सम्यक्संबुद्धानां बोधिसत्वानामार्यपुद्गलानां च पुरतः सापराधिको भवति। महागुरुकामापत्तिमापद्यते। विसंवादयति देवमनुष्यान् महायानेन। श्रावकयानमेवास्य न भवति, प्रागेव महायानस्यावतारविशेषाधिगमः, प्रागेवानुत्तरा सम्यक्संबोधिः॥ तद्यथा कश्चित्पुरुषो महाटवीं प्रस्थितः क्षुत्तर्षप्रपीडितः। स तत्र महाफलवृक्षे प्रतिष्ठितः। आहारार्थ स उदारफलवृक्षमपहाय गन्धसंपन्नं रससंपन्नमनास्वाद्य विषवृक्षमभिरुह्य विषफलानि भुञ्जीत, भुक्तवा च कालं कुर्यात्। तदुपमांस्तान् पुद्गलान् वदामि, ये दुर्लभं मनुष्यलाभं लब्ध्वा कल्याणमित्रं संनिश्रित्य महायानमवतर्तुकामा लाभसत्कारयशोहेतोरात्मानमुपदर्शयन्ति, परान् पंसयन्ति, एवंरूपां महागुरुकामापत्तिमापद्यन्ते, यया गुरुकयापत्या सर्वविज्ञानां परमजुगुप्सिता भवन्ति अपायगामिनः। तथारूपाश्च पुद्गला न सेवनीयाः सर्वक्षत्रियव्राह्मणविट्शूद्राणाम्। यश्च तान् सेवते, स सातिसारो भवति सर्वविज्ञानाम्। इयं कुलपुत्र बोधिसत्त्वस्य षष्ठी मूलापत्तिः॥ पुनरपरं कुलपुत्र भविष्यन्त्यनागतेऽध्वनि क्षत्रियाणां पुरोहितचण्डाला अमात्यचण्डाला भटचण्डाला मूर्खाः पण्डितमानिनो महाधना महाभोगाः। बहुविधेषु दानमयपुण्यक्रियावस्तुषु संद्दृश्यन्ते। ते त्यागमदमत्ता मानमददर्पेण क्षत्रियं विभेदयन्ति, श्रमणान् क्षत्रियैः। ते क्षत्रियान्निश्रित्य श्रमणान् दण्डापयन्ति, अर्थं दण्डेन मुषन्ति। तेनोपद्रवेण ते भिक्षवः पौद्गलिकं वा सांधिकं वा चातुर्दिशसांधिकं वा स्तौपिकं वा श्रमणैरपहृत्य तेषां प्राहृतं प्रदाप्यन्ते। ते पुनश्चण्डालाः क्षत्रियस्योपनामयिष्यन्ति। ते उभयतोऽपि मूलापत्तिमापद्यन्ते। ये क्षत्रियचण्डालाः श्रमणैः सार्धं प्रदुष्यन्ति, तथारूपं च ते धर्मं प्रज्ञपयिष्यन्ति अधर्मं व धर्ममपहाय। सूत्रविनयशिक्षा अनपेक्ष्य कालोपदेशमहाप्रदेशानपहाय। महाकरुणानेत्री प्रज्ञापारमिताशिक्षोपायकौशल्यशिक्षाः। याश्च अपरेषु सूत्रेषु शिक्षा उपदिष्टास्ता अपहाय तथारूपां धर्मयुक्तिं भिक्षुणां विहेठनार्थपूर्वकं क्रियाकारं प्रज्ञपयन्ति, यैः क्रियाकारैर्भिक्षूणां विहेठना भवति। रिञ्चन्ति शमथविपश्यनानुयोगमनस्कारम्। तेऽवध्यायन्तो व्यापादबहुला भवन्ति। तेन च हेतुना भिक्षूणामप्युपशान्ताः क्लेशा नोपशम्यन्ति, न तनूभवन्ति। तत्काले पुनस्ते भिक्षव आशयविपन्ना भवन्ति, शीलविपन्नाश्च भवन्ति। आचारविपन्ना भवन्ति, दृष्टिविपन्ना भवन्ति। तद्धेतोः शैथिलिका भवन्ति, बाहुलिका भवन्ति। अश्रमणाः श्रमणप्रतिज्ञाः, अब्रह्मचारिणो ब्रह्मचारिप्रतिज्ञाः, शङ्खस्वरसमाचाराः प्रष्टव्यधर्मदेशकाः। ते भूयस्या मात्रया सपरिचारस्य क्षत्रियस्य सत्कृता भवन्ति, मानिताः पूजिता भवन्ति। ते च प्रहाणाभियुक्तानां भिक्षूणां गृहस्थेष्ववर्ण निश्चारयन्ति। स च क्षत्रियः सपरिवारः प्रहाणाभियुक्तानां भिक्षूणामन्तिके प्रदुष्यति अवव्यायति। यस्तत्र प्रहाणिकानां भिक्षूणामुपभोगः, तं स्वाव्यायाभिरतानां भिक्षूणां निर्यातयन्ति। ते उभयतो मूलापत्तिमापद्यन्ते। तत्कस्य हेतोः? ध्यायी भिक्षुः सुक्षेत्रम्। नाध्ययनवैयावृत्याश्रिता नाध्ययनाभियुक्ताः समाधिधारणीक्षान्तिभूमिषु भाजनोभूता दक्षिणीयाः पात्रभूताः। आलोककरा लोकस्य मार्गो पदेशकाः। कर्मक्षेत्रक्लेशक्षेत्रात् सत्वानुत्तारयन्ति, निर्वाणगमने च मार्गे प्रतिष्ठापयन्ति। इमाः कुलपुत्र अष्टौ मूलापत्तय इति॥



आसां निःसरणमिहैव सूत्रेऽभिहितम्-यदि ते बोधिसत्त्वा आकाशगर्भस्य बोधिसत्त्वस्य नाम श्रुत्वा दर्शनमस्याकाङ्क्षेरन्, अपायप्रपतनभयात् मूलापत्तीर्दर्शयितुकामाः, यदि ते आकाशगर्भ बोधिसत्त्वं नमस्कुर्युः, नाम चास्य परिकीर्तयेयुः, तेषां स कुलपुत्रो यथाभाग्यतया स्वरूपेणाग्रतस्तिष्ठति ब्राह्मणरूपेण, यावद्दारिकारूपेण पुरतः स्थास्यति। तस्यादिकर्मिकस्य बोधिसत्त्वस्य यथासमुत्थितास्ता आपत्तीः प्रतिदेशयति। गम्भीरं चास्योपायकौशल्यं महायाने चर्यामुपदर्शयति। यावदवैवर्तिकभूमौ च प्रतिष्ठापयति। पेयालं। यदि तेषां संमुखं दर्शनं न ददाति, यस्तमभियाचति, तेनादिकर्मिकेण बोधिसत्त्वेन सापराधेन पश्चिमे यामे उत्थायासनात् प्राङ्मुखेन स्थित्वा धूपं धूपयितव्यम्, अरुणो देवपुत्र आयाचितव्यः। एवं च वक्तव्यम्‍अरुण अरुण महाकृप महाभाग, महोदितस्त्वं जम्बुद्वीपे। मां करुणया छादयस्व। शीघ्रमाकाशगर्भ महाकारुणिकं मम वचनेन बोधय। मम स्वप्नान्तरे तमुपायमुपदर्शय, येनाहमुपायेन आपत्तिं प्रतिदेशयामि, आर्ये महायाने उपायप्रज्ञां प्रतिलप्स्यामीति। तेन तत्कालं शय्यायां निद्रापयितव्यम्। सहोद्नतेऽरुणे इह जम्बुद्वीपे आकाशगर्भस्य बोधिसत्त्वस्येह समागमो भवति स्वरूपेण च। तस्यादिकर्मिकस्य बोधिसत्त्वस्य स्वप्नान्तरे पुरतः स्थित्वा तां मूलापत्तिं देशयति महायानोपायेन। तथारूपं च तस्योपायज्ञानं संदर्शयति, येनोपायकौशल्येन स आदिकर्मिको बोधिसत्त्वस्तत्रैव बोधिचित्तासंप्रमोषं नाम समाधिं प्रतिलभते, सुदृढव्यवस्थितश्च भवति महायाने॥ इत्यादि॥



अथवा योऽत्र सूत्रेऽव्येषणमन्त्रः पूर्वमुक्तः, तेनायं विधिः कार्यः। एवं स्यात्-अरण्ये उपवनेऽभ्यवकाशे वा अगरुं वा तगरं वा कालानुसारि वा धूपयितव्यम्। प्राञ्जलिना च भूत्वा समन्ततो दिग्विदिक्षु च पञ्चमण्डलकेन वन्दित्वा इमे मन्त्रपदाः प्रवर्तयितव्याः। तद्यथा-सुमृश २। कारुणिक। चर तुर। विचर। संचर। कारुणिक। मुरर मुरर वेगधारि नमुचमे भुजयत कारुणिक चिन्तामणि पूरय कारुणिक सर्वाशां मे स्थापय आज्ञाधारी स्फु गु। र। रतिविवेक गु। दृष्टिविवेक गु। पूरय कारुणिक पूरयन्तु ममाशाम्। सर्वथा चाशोकगति स्वाहा॥ विधिः पूर्ववत्। सर्वव्याधिदुःखसर्वभयसर्वोपकरणविधातप्रतिधाते सर्वाभीष्टसिद्धये च कार्यः॥ यदि क्षत्रियादयोऽपि बोधिसत्त्वाः, कथमेषामापत्तिनियमोऽन्येषां चाधिक्यम्? अथ ते न सांवरिकाः, कथमेषामापत्तिव्यवस्था, कथं वा तद्दोषात्सांवरिका अपि गृह्यन्ते? नैष दोषः। येषां यत्र बहुलं संभवः, ते तत्राकोटिताः स्वनामग्रहणदर्शनाद्भयोत्पादनार्थम्। परस्परतस्तु सर्वैः सर्वा आपत्तयः परिहर्तव्याः। येन वा प्रकृतिमहासावद्यतया असमादानोऽप्यभव्यो भवत्युच्छिन्नकुशलमूलश्च, सुतरां तेन सांवरिकाः। इत्यलमनया चिन्तया॥



उपायकौशल्यसूत्रेऽपि मूलापत्तिरुक्ता- किं चापि कुलपुत्र बोधिसत्त्वः प्रातिमोक्षशिक्षायां शिक्षमाणः कल्पशतसहस्त्रमपि मूलफलभक्षः स्यात्। सर्वसत्त्वानां च सूक्तदुरुक्तानि क्षमेत्। श्रावकप्रत्येकबुद्धभूमिप्रतिसंयुक्तैश्च मनसिकारौर्विहरेत्। इयं बोधिसत्त्वस्य गुरुका मूलापत्तिः। तद्यथा कुलपुत्र श्रावकयानीयो मूलापत्तिमापन्नः, सोऽभव्यस्तैरेव स्कन्धैः परिनिर्वातुम्, एवमेव कुलपुत्रोऽप्रतिदेश्यैतामापत्तिमनिःसृज्य तान् श्रावकप्रत्येकबुद्धमनसिकारान्, अभव्यो बुद्धभूमौ परिनिर्वातुमिति॥



आसां च मूलापत्तीनां सुखग्रहणधारणार्थमेकीयगतानां च संग्रहकारिका उच्यन्ते-

रत्नत्रयस्वहरणादापत्याराजिका मता।

सद्धर्मस्य प्रतिक्षेपाद् द्वितीया मुनिनोदिता॥

दुःशीलस्यापि वा भिक्षोः काषायस्तैन्यताडनात्।

चारके वा विनिक्षेपादपप्रव्राजनेन च॥

पञ्चानन्तर्यकरणान्मिथ्यादृष्टिग्रहेण वा।

ग्रामादिभेदनाद्वापि मूलापत्तिर्जिनोदिता॥

शून्यतायाश्च कथनात्सत्त्वेष्वकृतबुद्धिषु।

बुद्धत्वप्रस्थितानां वा संबोधेर्विनिवर्तनात्॥

प्रातिमोक्षं परित्याज्य महायाने नियोजनात्।

शिष्ययानं न रागादिप्रहाणायेति वा ग्रहात्॥

परेषां ग्रहणाद्वापि पुनः स्वगुणकाशनात्।

परपंसनतो लाभसत्कारश्लोकहेतुना॥

गम्भीरक्षान्तिकोऽस्मीति मिथ्यैव कथनात्पुनः।

दण्डापयेद्वा श्रमणान् दद्याद्वा शरणत्रयात्॥

गृह्णीयाद्दीयमानं वा शमथत्याजनात्पुनः।

प्रतिसंलीनभोगं च स्वाध्यायिषु निवेदनात्॥

मूला आपत्तयो ह्येता महानरकहेतवः।

आर्यस्याकाशगर्भस्य स्वप्ने देश्याः पुरः स्थितैः॥

बोधिचित्तपरित्यागाद्याचकायाप्रदानतः।

तीव्रमात्सर्यलोभाभ्यां क्रोधाद्वा सत्त्वताडनात्॥

प्रसाद्यमानो यत्नेन सत्त्वेषु न तितिक्षते।

क्लेशात्परानुवृत्त्या वा सद्धर्माभासवर्णनात्॥इति॥



आर्यक्षितिगर्भसूत्रेऽप्युक्तम्- यो महाब्रह्मन् ममोद्दिश्य प्रव्रजितो दुःशीलपापसमाचारो भिक्षुरनुभूतः कशम्बकजातः अश्रमणः श्रमणप्रतिज्ञः अब्रह्मचारी ब्रह्मचारिप्रतिज्ञः। ध्वस्तः पतितः पराजितो विविधैः क्लेशैः। अथ च पुनः स दुःशीलपापसमाचारो भिक्षुरद्यापि सर्वदेवानां यावत्सर्वमनुष्याणां यावत्पुण्यनिधीनां दर्शयिता भवति कल्याणमित्रम्। किं चापि स अपात्रीभूतः, तेन च पुनः शिरस्तुण्डमुण्डेन काषायवस्त्रप्रावरणेर्यापथेन दर्शनहेतुनापि बहूनां सत्त्वानां विविधकुशलमूलोपस्तम्भनकरः सुगतिमार्गदर्शको भवति। तस्माद्यो ममोद्दिश्य प्रव्रजितः शीलवान् दुःशीलो वा, तस्य नानुजानामि चक्रवर्तिराज्ञामपि यन्ममोद्दिश्य प्रव्रजितस्य सहधर्मेणापि काये दण्डप्रहारं वा दातुं चारके वा प्रक्षेप्तुम्, अङ्गभङ्गं विकर्तनं वा कर्तु जीविताद्वा व्यपरोपणं कर्तुम्, किं पुनरधर्मेण। किं चापि स मृतः कथ्यतेऽस्मिन् धर्मविनये। अथ च पुनः स पुद्नलो गोरोचनकस्तूरिकासदृश॥इति॥



अत्रैवाह-ये ममोद्दिश्य प्रव्रजितान् यानभूतान् पात्रभूतान् वा विहेठयिष्यन्ति, ते सर्वेषां त्र्यध्वगतानां बुद्धानामतीव सापराधा भवन्ति। समुछिन्नकुशलमूला दग्धसंताना अवीचिपरायणा भवन्तीति॥



अत्रैवाह- सर्वबुद्धैरधिष्ठितोऽयं मोक्षध्वजो यदुत रक्तकाषायवस्त्रमिति॥

अस्मिन्नेव चोक्तम्-तेन खलु पुनः समयेन बहूनि श्रावकनियुतशतसहस्त्राणि बहूनि च बोधिसत्त्वनियुतशतसहस्त्राणि भगवतोऽन्तिके एवंरूपं पूर्वकृतं कर्मावरणं प्रतिदेशयन्ति-वयमपि भदन्त भगवन् बहूनां पूर्वकाणां तथागतानां प्रवचने पात्रभूतान् पात्रभूतांश्च बुद्धानां भगवतां श्रावकयानीयान् पुद्नलान् जुगुप्सितवन्तः पंसितवन्तो रोषितवन्तोऽवर्णायशःकथाश्च निश्चारितवन्तः। तेन वयं कर्मावरणेन त्रिष्वपायेषु विविधां तीव्रां प्रचण्डां दुःखां वेदनां प्रत्यनुभूतवन्तः। पेयालं। वयं तत्कर्मावरणशेषमेतर्हि भगवन्तोऽन्तिके प्रतिदेशयिष्यामः। केचिद्वदन्ति-वयं भगवतः श्रावकान् वचनैस्तर्जितवन्तः परिभाषितवन्तः। केचिद्वदन्ति-वयं भगवतः श्रावकानपात्रभूतान् पात्रभूतांश्च प्रहरितवन्तः। केचिद्वदन्ति-वयं चीवरान् हृतवन्तः। केचिद्वदन्ति-वयं भगवतः श्रावकाणामुपभोगपरिभोगानाच्छिन्नवन्तः। केचिद्वदन्ति-वयं भगवन्तमुद्दिश्य प्रव्रजितान् गृहस्थान् कारितवन्तः, तत अस्थानं सादिताः। केचिद्वदन्ति-अस्माभिर्भगवन् बुद्धानां भगवतां श्रावका अपात्रभूताः पात्रभूताश्च सापराधिकाश्चारके प्रक्षिप्ताः। तेन वयं कर्मावरणेन बहून् कल्पांस्त्रिष्वपायेषु विविधां तीव्रां प्रचण्डां दुःखां वेदनां प्रत्यनुभूतवन्तः। पेयालं। तद्वयमेतर्हि कर्मावरणशेषं भगवतोऽन्तिके प्रतिदेशयामः, आयत्यां संवरमापद्येम। प्रतिगृह्णातु भगवानस्माकमनुकम्पामुपादाय। उद्धरतु भगवानस्माननन्तपापेभ्यः। इति विस्तरः॥



प्रव्रज्यान्तरायसूत्रेऽप्यनर्थ उक्तः-चतुर्भिर्महानामन् धर्मैः समन्वागतो गृही अक्षणप्राप्तो भवति। जात्यन्धश्च जडश्चाजिह्वकश्च चण्डालश्च। न जातु सुखितो भवत्यभ्याख्यानबहुलश्च पण्डकश्च नित्यदासश्च। स्त्री च भवति श्वा च सूकरश्च गर्दश्चोष्ट्रश्चाशीविषश्च भवति तत्र तत्र जातौ। कतमैश्चतुर्भिः? इह महानामन् गृही पूर्वजिनकृताधिकाराणां सत्त्वानां नैष्कम्यचित्तस्य प्रव्रज्याचित्तस्यार्यमागचित्तस्यान्तराय करोति। अनेन प्रथमेन॥ पुनरपरं गृही धनलौल्येन पुत्रलौल्येन कर्मविपाकमश्रद्दधत् पुत्रस्य वा दुहितुर्वा भार्याया वा ज्ञातिसंघस्यैश्वर्यस्थाने वर्तमाने प्रव्रज्यान्तरायं करोति। अनेन द्वितीयेनेति॥ अन्यद् द्वयम्-सद्धर्मप्रतिक्षेपः श्रमणब्राह्मणेषु च प्रतिघः॥



दश चाकुशलाः कर्मपथाः अनथाः सद्धर्मस्मृत्युपस्थानाद्विपाककटुका द्रष्टव्याः। ततः किंचिन्मात्रं सूत्रं सूच्यते। प्राणातिपातविपाकलवस्तावत्। यथाह-तद्यथा अग्निशिखाचरा नाम पक्षिणो येऽग्निशिखामध्यगता न दह्यन्ते संहृष्टतराश्च नारकेयाणां कपालं भित्त्वा रुधिरं पिबन्ति। कपालान्तरचरा नाम पक्षिणो ये मस्तकं भित्त्वा ज्वलितमस्तकलुङ्गान् पिबन्ति। जिह्वामिषभुजो नाम पक्षिणो ये जिह्वां विदार्य अभितोऽभितः प्रभक्षयन्ति। सापि जिह्वा भुक्ता पुनरपि संजायते पद्मदलकोमलतरा। एवमर्थानुरूपसंज्ञा दन्तोत्पाटका नाम, कण्ठनाडयपकर्षका नाम। क्लोमकाशिनः। आमाशयादाः। प्लीहसंवर्तकाः। अन्त्रविवरखादिनः। पृष्ठवंशचरा नाम। मर्मगुह्यका नाम पक्षिणः, ये सर्वाणि मर्मविवराणि भित्त्वा मर्माणि कृन्तयित्वा विवराणि प्रविश्य मज्जामण्डं पिबन्ति क्रन्दमानानाम्। सूचीच्छिद्रा नाम पक्षिणो ये सूचीसदृशतुण्डा रक्तं पिबन्ति। एवमस्थिविवराशिनः, षट् त्वग्मक्षिणः। नखनिकृन्तका मेदोदाः स्नायुविशेषकाः, केशोण्डुका नाम पक्षिणो ये केशमूलान्युत्पाटयन्ति। स एवमवीचीप्रदेशस्त्रीणि योजनशतसहस्त्राणि। पक्षिमैरवपक्षो नाम। तत्र तैरन्यैर्नारकेयैः सहानेकानि वर्षशतसहस्त्राणि भक्ष्यते संभवति च। स कथंचिदपि तस्मान्युक्तः सर्वस्माद्दुःखजालपरिवृतः श्वभ्रप्रपातो नाम द्वितीयः प्रदेशस्तत्र गच्छति त्राणान्वेषी शरणान्वेषी परित्राणान्वेषी। समन्तत एकादशभिरर्चिस्कन्धैरावृतो निःसहायः कर्मपाशबन्धनबद्धः समन्ततः शत्रुभिरावृत कान्तारमनुप्रपन्नः सर्वस्मान्नरकपुञ्जादधिकतरं व्यसनमभिप्रपन्नस्तं श्वभ्रप्रपातं नाम प्रदेशमनुधावति। पतिते अतीव पादः प्रविलीयते। उत्क्षिप्तः पुनरपि संभवति सुकुमारतरः श्लक्ष्णतरः खराभिस्तीब्राभिर्वेदनाभिरभिभूतः। तस्यैवं भयविक्लववदनस्य करचरणसर्वाङ्गप्रयङ्गप्रविलीयमानस्य स प्रदेशः श्वभ्रप्रपातो नाम प्रादुर्भवति। स तस्मिन् देशे निपतति। पतितः श्वभ्रे प्रपतति त्रीणि योजनसहस्त्राणि। पुनरपि कर्मकृतेन वायुनोत्क्षिप्यते। स प्रपतमानः कङ्कवायसगृध्रोलूकैर्भक्ष्यते। यावत्तस्यैवमुत्क्षिप्यमानस्य च प्रपततश्चानेकानि वर्षशतसहस्त्राणि गच्छन्ति। कथंचिदपि तस्मान्मुक्तः परिभ्रामितश्चक्राङ्कविवरं नाम प्रदेशमनुधावति। तस्मिंश्च प्रदेशे सहस्त्राराणि चक्राणि प्रादुर्भवन्ति वज्रनाभीनि तीक्ष्णज्वालानि शीघ्रभ्रमाणि। तस्य सहगमनादेव तानि चक्राणि शरीरं प्राप्य भ्रमन्ति। पेयालं प्रत्येकं सर्वाङ्गानि प्रमथ्नन्तो दहन्ति,पादतले चास्य शङ्कुभिर्भिद्येते। एवं मक्कोटकपर्वते। माक्कोटकैः प्राणिजातिभिः सान्तर्ब्रहिः परमाणुशः प्रभक्ष्यते। भुक्तो भुक्तः पुनरपि संजायते सुकुमारतरः। सुकुमारतया भूयोऽप्यधिकतरां वेदनामनुभवति। भुक्तभुक्तस्य प्रभूततरमेवास्य त्वङ्यांसं प्रादुर्भवति। तस्य प्राणातिपातकृतोपचितस्य तत्फलं भवति॥



अदत्तादानविपाकमाह- स एष दुष्कृतकर्मान्तचारी अलातचक्रनिर्माणगन्धर्वनगरः मृगतृष्णिकासदृशं महदर्थजातं पश्यति रत्नवस्त्रधनधान्यनिकरभूतम्। तस्यैवं लोभाभिभूतस्य कर्मणा मोहितस्य एवं भवति ममेदमिति। स एवं मोहितः पापकारी प्रज्वलिताङ्गारकर्षूर्लङ्घयित्वा तद् द्रविणमनुधावति। स कर्मकृतैर्यमपुरुषैर्गृह्यते शस्त्रजालमध्यगतः सर्वाङ्गप्रत्यङ्गशः पाटयते विशस्यते दह्यते अस्थ्यवशेषः क्रियते। न चास्यानादिकालप्रवृत्तः स लोभस्तामप्यवस्थां गतस्य परिहीयत इति॥



काममिथ्याचारमधिकृत्याह- एष स पापकर्ता तस्माच्छस्त्रसंकटान्मुक्तः कथमप्यङ्गारकर्षूर्लङ्गयित्वा कर्मणा भ्रामितः प्रदेशमन्यं प्रपद्यते वितथदर्शनं नाम। तत्र कर्मकृतां स्त्रियं पश्यति, या तेन पूर्व नष्टस्मृतिना दृष्टा। दृष्ट्वा च अनादिकालाभ्यस्तो रागाग्निरुत्पद्यते। स तेन धावति येन ताः स्त्रियः। ताश्च अयोमय्यो नार्यः कर्मकृताः। ताभिरसौ गृह्यते। गृहीत्वा च ओष्ठात्प्रभृति तथा भुज्यते यथास्य सर्षपफलमात्रप्रमाणमपि नावशिष्टम्। तस्मिन् शरीरे भवति। पुनरपि संभवति, पुनरपि भुज्यते। स कटुकां खरां वेदनामनुभवंस्तस्माद्रागाग्नेर्न निवर्तते। येन ताः स्त्रियस्तेन भूयः स संघावति। न चास्य तत्पीडा तथा बाधते यथा रागाग्निः। अथ ताः स्त्रियो भूयो वज्रमपायोमयप्रज्वलितगात्रास्तं मनुष्यमादाय ज्वालामालाकुलसर्वशरीरास्तं नारकेयं सिकतामुष्टिवद्भिन्दन्ति। पुनरपि संभवतीति पूर्ववत्॥पेयालं॥

स्त्रियो मूलमपायस्य धननाशस्य सर्वथा।

स्त्रीविधेया नरा ये तु कुतस्तेषां भवेत्सुखम्॥ यावत्॥

स्त्री विनाशो विनाशानामिह लोके परत्र च।

तस्मात्स्त्रियो विवर्ज्याः स्युर्यदीच्छेत्सुखमात्मनः॥इति॥



मृषावादमधिकृत्याह- स तैर्यमपुरुषैर्गृह्यते, गृहीत्वा च तन्मुखं विदारयन्ति। तस्माज्जिह्वामपकर्षयन्ति। सा च जिह्वा कर्मशात्पञ्चयोजनशतप्रमाणा भवति। तस्य मृषावादस्य फलेन तस्याश्च सहनिर्गमनकाले ते यमपुरुषा भूमावैनमाह्वयन्ति प्रदीप्तायोमय्याम्। कर्मकृतं च हलसहस्त्रं प्रादुर्भवति प्रदीप्ताग्रसंयुक्तम्। बलद्भिर्बलीवर्दैस्तदस्यान्तर्गतं जिह्वायां वहति। तत्र पूयरूधिरकृमिस्त्राविण्यो नद्यः प्रवहन्ति। पेयालं॥ सा च जिह्वा तथा सुकुमारा यथा देवानामक्षि। यावत्स वेदनातः स्तनति क्रन्दति विक्रोशति। न चास्य तद्दुःखं कश्चिदपनयतीति विस्तरः। तस्यैवं प्रचण्डां वेदनामनुभवतोऽनेकानि वर्षशतसहस्त्राणि सा च जिह्वा कृष्यते। सा कथंचित्तस्य नारकस्य मुखे प्रविशति। स भयविह्वलवदनो येन वा तेन वा निःपलायतेऽङ्गारकर्षूषु दह्ममानो निमज्जन्। तस्यैवं दुःखार्तस्याशरणस्यापरायणस्य पुनरपि यमपुरुषाः प्रादुर्भवन्ति मुद्ररासिपाणयः। ते तं पुरुषं मस्तकात्प्रभृति यावत्पादौ चूर्णयन्तीत्यादि॥



पैशुन्यविपाकस्तु यथैव मृषावादस्य, विशेषस्तु त्रीणि योजनशतानि जिह्वेति। तां यमपुरुषा निस्त्रिंशानादाय प्रदीप्तधारान् जिह्वां निकृन्तन्ति। जम्बुकैश्चान्यस्मिन् प्रदेशे भक्ष्यते। परमकटुकां वेदनां प्रतिवेदयते। स क्रन्दति विक्रोशत्यव्यक्ताक्षरं जिह्वाविरहित इत्यादि॥



पारुष्यविपाकमाह-ते तां जिह्वामास्यं विदार्य गृह्णन्ति। गृहीत्वा निशितधारैः शस्त्रैश्छित्त्वा तस्य भूय एव खादनीयार्थेन मुखे प्रक्षिपन्ति। स च जिघत्सार्दितः क्षुत्क्षामवदनः स्वरुधिरलालापरिस्त्रुतां तामेव स्वजिह्वां भक्षयति। सा च जिह्वा छिन्ना पुनरपि संजायते कर्मवशात्। अथ स भूमौ वेदनार्तः परिवर्तते विचेष्टते क्रदन्ते। तस्यैवं वेदनार्तस्य परिवृत्तनयनतारकस्य दुःखार्तस्य दीनस्यासहायस्यैकाकिनः स्वकृतमुपभुञ्जानस्य यमपुरुषा अनुशासनीगाथां भाषन्ते-



जिह्वाधनोर्विनिर्मुक्तस्तीक्ष्णो वाग्विशिखस्त्वया।

पारुष्यमिति यदृष्टं तस्यैतत्फलमागतम्॥इति विस्तरः॥



संभिन्नप्रलापविपाकमाह-तस्य तत्प्रज्वलितं ताम्रद्रवलेहितं जिह्वां दहति। जिह्वां दग्ध्वा कण्ठं दहति। कण्ठं दग्ध्वा हृदयं दहति। हृदय दग्ध्वा अन्त्राणि दहति। तान्यपि दग्ध्वा पकाशयं दहति। पक्काशयमपि दग्ध्वा अधोभागेन निर्गच्छति॥ यमपुरुषा गाथामाहुः-



पूर्वोत्तराबद्धपदं निरर्थकमसंगतम्।

अबद्धं यत्वया प्रोक्तं तस्यैतत्फलमागतम्॥

या न सत्यवती नित्यं न चाध्ययनतत्परा।

न सा जिह्वा बुधैर्दृष्टा केवलं मांसखण्डिका॥इति विस्तरः॥



अभिध्याविपाकमाह- अथ पश्यति रिक्तं तुच्छमसारकं कर्मकृतं बहु द्रविणं परपरिगृहीतम्। तस्य कर्मचोदितव्यामोहितस्यैवं भवति-ममेदं स्यादिति। ततः स नारकस्तेनैव धावति येन तद् द्रव्यम्। तस्याभिध्याख्यमानसस्याकुशलस्यासेवितभावितभावितबहुलीकृतस्य तत्फलं यदसौ नरके विपरीतं पश्यति। तस्यैवं पश्यतोऽभिध्याबहुलस्य हस्ते शस्त्रं प्रादुर्भवति। स तेन धावति। तेषामप्यन्येषां नारकाणां हस्ते शस्त्राणि प्रादुर्भवन्ति। स तैः सह शस्त्रेण युध्यते यावत्तथा कर्त्यते यथा सर्षपफलमात्रमपि न भवति मांसमस्य शरीरे। तथा अस्थिकङ्कालावशेषः क्रियते॥पेयालं॥ परेषां सर्वं........मम स्यादिति चिन्तितम्। तस्याभिध्यासमुत्थस्य विषस्य फलमागतमिति॥



व्यापादफलमाह-कर्ममयाः सिंहव्याघ्रसर्पाः क्रोधाभिभूताः पुरतस्तिष्ठन्ते। एतेभ्यो भयभीतो येन वा तेन वा निःपंलायते। स कथं शक्नोति पलायितुमशुभस्य कर्मणः? स तैर्गृह्यते। गृहीत्वा च पूर्व तावन्मस्तकाद्भुज्यते यावत्पार्श्चतः सर्पैर्विषदंष्ट्रैः संदश्य संदश्य भक्ष्यते। व्याघ्रैरपि पृष्ठतो भक्ष्यते। पादावपि वह्निना दा[ह्येते]। स यमपुरुषैर्दूरादिषुभिर्विध्यते॥इति विस्तरः॥



मिथ्यादृष्टिफलं पुनरपरिमितम्। पाठस्तु संक्षिप्यते-शस्त्रवर्षतोमरवज्रवर्षाशनिपाषाणवर्षैर्हन्यते। एकादशभिरर्चिस्कन्धै क्षुत्पिपासाग्निना च मुखनिर्गतेन निरन्तरं दह्यत इति॥



काममूलाश्च सर्वानर्था इति तेभ्य एवोद्वेजितव्यम्। यथात्रैवाह-अस्त्यग्निकुण्डो नाम नरकः। तत्र कतरेण कर्मणा सत्त्वा उपपद्यन्ते? येनाश्रमणेन श्रमणप्रतिज्ञेन मातृग्रामस्य नृत्तगीतस्याभरणानां वा शब्दं श्रत्वा अयोनिशेन मनस्कारेणाक्षिप्तबुद्धिना तच्छुत्वा हसितललितक्रीडितान्यशुचि मुक्तम्॥ पेयालं॥ तत्र ते नारका अयोवर्षेण सर्वाङ्गप्रत्यङ्गशश्रुर्ण्यन्ते, अङ्गारवर्षेण च पच्यन्ते, दह्यन्त इत्यादि। एवं पौराणकामास्वादनस्मरणात्पदुमो नाम नरकः पठयते, स्वप्रान्तभूतस्मरणाच्च। तत्र ते नारकाः कुम्भिषु पच्यन्ते। ते द्रोणिष्वयोमयैर्मुसलैर्हन्यन्ते। इति विस्तरः॥



एवमप्सरसः प्रार्थनया ब्रह्मचर्यपरिणामनान्महापदुमो नाम नरक उक्तः। तत्र क्षारनदी तरङ्गिणी नाम प्रवहति। तस्यां नद्यां यान्यस्थीनि ते पाषाणाः। यच्छैवालं ते केशाः। यः पङ्कस्तन्मांसम्। या आपः तत्क्कथितं ताम्रम्। ये मत्स्यास्ते नारका इत्यादि॥ एवं पुरुषस्य पुरुषेण सह मैथुनविप्रतिपत्तेः अप्रमेयाः कारणाविशेषाः पठयन्ते। एवं शिशुभिः सह विप्रतिपत्तेः क्षारनद्यामुह्यमानान् दारकान् पश्यति। ते तं विलपन्ति। स तां नदीमवगाहते तेषु बालकेषु तीव्रस्नेहप्रतिबन्धशोकदुःखवेगात्। एवं गोवडवाजैडकादिषु प्रकृतिसावद्यः काममिथ्याचारः खरतरविपाकः पठयते। तासामेव गोवडवादीनां तप्तायोमयीनां अकुशलनिर्मितानां योनिमार्गेण स तिर्यक्कामसेवी प्रविशति। स तासामुदरे प्रदीप्ताङ्गारनिकरपरिपूर्णे स्विद्यते पच्यते बहूनि वर्षशतसहस्त्राणीति विस्तरेण द्रष्टव्यम्॥



एवमन्यनाशितास्वपि भिक्षुणीषु विप्रतिपन्नानां महानरकयातनाः पठयन्ते। एवं स्वस्त्रीष्वप्ययोनिमार्गेण गच्छतः। एवं प्रसह्यानीतास्वपि परस्त्रीषु, लब्धासु च कन्यासु। एवमुपवासस्थासु, एवं गुरूणां पत्नीषु ज्ञातिशब्दमानितासु च विप्रतिपत्तेः तीव्राश्चापरिमाणाश्च महानरकयातनाः पठयन्ते॥



सप्तमैथुनसंयुक्तसूत्रेऽप्याह-इह ब्राह्मण एकत्यो ब्रह्मचारिणमात्मानं प्रतिजानीते। स नेहैव मातृग्रामेण सार्धं द्वयं समापद्यते, अपि तु मातृग्रामं चक्षुषा रूपं निध्यायन् पश्यति। स तदास्वादयति अध्यवस्यति, अध्यवसाय तिष्ठति। अयमुच्यते ब्राह्मण ब्रह्मचारी संयुक्तो मैथुनेन धर्मेण, न विसंयुक्तः। अपरिशुद्धं ब्रह्मचर्य चरति॥ एवं मातृग्रामेण सार्धं संक्रीडतः संकिलिकिलायमानस्य आस्वादयतः अपरिशुद्धं ब्रह्मचर्यमुक्तम्। एवं मातृग्रामापस्थानमास्वादयतः। एवं तिरःकुडयगतस्य तिरोदुष्यगतस्य वा मातृग्रामस्य नृत्तगीतादिशव्दमास्वादयतो मैथुनसंयोगमित्युक्तम्। एवं पञ्चकामगुणसमर्पितं परमवलोक्यास्वादयतः॥एवं देवादिस्थानेषु ब्रह्मचर्यपरिणामनात्संयुक्तो मैथुनेन धर्मेण न विसंयुक्त इति॥



यतश्चैते कामा एवं स्मरणप्रार्थनाविषयमपि गता एवमनर्थकराः, तेनैव कामापवादकसूत्रेऽभिहितम्-निवारय भिक्षो चित्तं कामेभ्यः। सभयश्चैष मार्गः सप्रतिभयः सकण्टकः सगहनः उन्मार्गः कुमार्गो वेदनापथः असत्पुरुषसंसेवितः। नैष मार्गः सत्पुरुषसंसेवितः। न त्वमेवं चिन्तयसि-कस्मात् अल्पास्वादाः कामा उक्ता भगवता बहुदुःखबहूपद्रवा बहूपायासाः? आदीनवोऽत्र भूयान्। रोगो भिक्षवः काम गण्डः शल्यमघमघमूलमामिषबडिशं मृत्युः। अनित्याः कामास्तुच्छाः। मृषामोषधर्मिणः स्वप्नोपमाः कामाः। किमप्येते बालोल्लापनाः॥ पेयालं॥ यथा मृगाणां बन्धनाय कूटम्, द्विजानां बन्धनाय जालम्, मत्स्यानां बन्धनाय कुपिनम्, मर्कटानां बन्धनाय लेपः, पतङ्गानां बन्धनायाग्निस्कन्धः। एवं कामाः॥ पे॥ कामपर्येषणां चरतो दीर्घरात्रं सिंहानां मुखे परिवर्तितस्यान्तो न प्रज्ञायते। यावद्नोघातकानां गवाशनानां मुखे परिवर्तितस्यान्तो न प्रज्ञायते। यावन्मण्डूकानां सतां सर्पाणां मुखे परिवर्तितस्यान्तो न प्रज्ञायते। दीर्घरात्रं कामान् प्रतिसेवमानानां चोरा इति कृत्वा गृहीतानां शिरश्छिन्नानामन्तो न प्रज्ञायते। पारदारिकाः पारियन्थिका ग्रामघातका जनपदघातका यावद् ग्रन्थिमोचका इति कृत्वा गृहीतानां शिरश्छिन्नानामन्तो न प्रज्ञायते। दुःखं तीब्रं खरं कटुकमनुभूतं रुधिरं प्रस्यन्दितं प्रघरितं यच्चतुर्षु महासमुद्रेषूदकात्प्रभूततरम्॥ पेयालं॥ कायो ह्ययं बह्वादीनवः, अस्थिसंघातः स्नायुसंबुद्धो मांसेनानुलिप्तः चर्मणा पर्यवनद्धः छव्या प्रतिच्छन्नः छिद्रविच्छिद्रः कृमिसंघनिषेवितः सत्त्वानामनर्थकः क्लेशकर्मणां वस्तु। अस्मिन् काये विविधा आबाधा उत्पद्यन्ते। तद्यथा- चक्षूरोगः श्रोत्ररोगो यावदर्शासि पिटको भगन्दरः। पेयालं। कायिकाः संतापाः कायिकं दुःखम्। कायस्य जीर्णता भग्नता कुब्जता। खालित्यं पालित्यं वलिप्रचुरता। इन्द्रियाणां परिपाकः परिभेदः। संस्काराणां पुराणीभावो जर्जरीभावः। यावन्नार्हस्येवमुद्धरन्तं प्रघरन्तं जुगुप्सनीयं कायं प्रतिषेवितुम्। पेयालं। का तव भिक्षो कामाशान्तिः? कश्च त्वां प्रलोभयति? कथं च त्वं प्राहितो मूर्छितोऽध्यावसितोऽध्यवसानमापन्न? यदाहं परिनिर्वृतो भवामि, सद्धर्मश्चान्तर्हितो भवति, त्वं च कामान् प्रतिसेव्य विनिपातगतो भविष्यसि। कदा जरामरणादात्मानं परिमोचयिष्यसि? अलं भिक्षो, निवारय चित्तं कामेभ्यः। अकालः कामपर्येषणायाः। कालोऽयं धर्मपर्येषणायाः॥इति॥



उग्रदत्तपरिपृच्छायामप्याह- तेन काममिथ्याचारात्प्रतिविरतेन भविव्यम्। स्वदारतुष्टेन परदारानभिलाषिणा अरक्तनेत्रप्रेक्षिणा निर्विण्णमनसा। एकान्तदुःखाः कामा इत्यभीक्ष्णं मनसिकारप्रयुक्तेन। यदाप्यस्य स्वदारेषु कामवितर्क उत्पद्येत, तदापि तेन स्वदारेष्वशुभानुदर्शिना उत्त्रस्तमनसा क्लेशवशतया कामाः प्रतिसेवितव्याः, न त्वध्यवसानविनिबद्धेन नित्यमनित्यानात्माशुचिसंज्ञिना। एवं चानेन स्मृतिरुपस्थाप्या- तथाहं करिष्यामि यथा संकल्पैरपि कामान्न परिभोक्ष्ये। कः पुनर्वादो द्वीन्द्रियसमापत्त्या वा अनङ्गविज्ञप्त्या वेति॥



पुनरत्रैवाह- बोधिसत्त्वेन स्वभार्याया अन्तिके तिस्त्रः संज्ञा उत्पादयितव्याः। कतमास्तिस्त्रः रतिक्रीडासहायिकैषा नैषा परलोकसहायिका। अन्नपानसहायिकैषा नैषा कर्मविपाकानुभवनसहायिका। सुखसहायिकैषा नैषा दुःखसहायिका॥ यावदपरास्तिस्त्रः-शीलान्तरायसंज्ञा ध्यानान्तरायसंज्ञा प्रज्ञान्तरायसंज्ञा॥ अपरास्तिस्त्रः-चोरसंज्ञा वधकसंज्ञा नरकपालसंज्ञा इति॥



चन्द्रोत्तरादारिकापरिपृच्छायामप्युक्तम्- अथ चन्द्रोत्तरा दारिका समनन्तरं प्रधावन्तं तं महान्तं जनकायं दृष्ट्वा तस्यां वेलायां विहायसान्तरीक्षे तालमात्रमभ्युद्नभ्य स्थित्वा च तं महान्तं जनकायं गाथाभिरध्यभाषत-

कायं ममेक्षध्वमिमं मनोज्ञं सुवर्णवर्णं ज्वलनप्रकाशम्।

न रक्तचित्तस्य हि मानुषस्य प्रज्ञायते शोभनकं शरीरम्॥

ये त्वग्निकर्षूपमसंप्रदीप्तान् त्यजन्ति कामान् विषयेष्वगृद्धाः।

षडिन्द्रियैः संवरसंवृताश्च ते ब्रह्मचर्यं च चरन्ति शुद्धम्।

दृष्ट्वा च दारान् हि परस्य ये वै कुर्वन्ति माताभगिनीति संज्ञाम्।

प्रासादिकास्ते हि सुदर्शनीया भवन्ति नित्यं परमं मनोज्ञाः॥

स्फुटामिमां वेत्थ पुरीं समन्ताद् यो रोमकूपान् मम चातिगन्धः।

न रागाचित्तेन मयार्जितोऽयं फलं तु दानस्य दमस्य चेदम्॥

न मे समुत्पद्यति रागचित्तं मा वीतरागासु जनीष्व रागम्।

साक्षी ममायं पुरतो मुनीन्द्रः सत्यं यथा वेद्मि न जातु मिथ्या॥

यूयं च पूर्वं पितरो ममास अहं च युष्माकमभूज्जनित्री।

भ्राता स्वसा चापि पिता बभूव को रागचित्तं जनयेज्जनन्याम्॥

प्रधातिताः प्राकू च ममाथ सर्वे अहं विशस्ता च पुरा भवद्भिः।

सर्वे अमित्रा वधकाः परस्य कथं तु वा जायति रागचित्तम्॥

न रूपवन्तो हि भवन्ति रागात् न रक्तचित्ताः सुगतिं ब्रजन्ति।

न निर्वृतिं यान्ति च रक्तचित्ता रागो हि तस्मात्परिवर्जनीयः॥

कामस्य हेतोर्निरयं पतन्ति प्रेतास्तिरश्चोऽथ भवन्ति रागात्।

कुम्भाण्डयक्षा असुराः पिशाचा भवन्ति ये रागपरीत्तचित्ताः॥

काणाश्च खञ्जाश्च विजिह्वकाश्च विरूण्काश्चैव भवन्ति रागात्।

भवन्ति नानाविधदोषभाजश्चरन्ति ये कामचरीं जघन्याम्॥

यच्चक्रवर्तित्वमवाप्नुवन्ति भवन्ति शक्रास्त्रिदशेश्वराश्च।

ब्रह्मण ईशा वशवर्तिनश्च तद् ब्रह्मचर्य विपुलं चरित्वा॥

जात्यन्धभावा बधिरा विसंज्ञा श्वसूकरोष्ट्राः खरवानराश्च।

हस्त्यश्वगोव्याघ्रपतङ्गभक्षा भवन्ति नित्यं खलु कामलोलाः।

क्षितीश्वराश्चैव भवन्त्युदग्राः सुश्रेष्ठिनो वै गृहपत्यमात्याः।

सुखसौमनस्येन च यान्ति वृद्धिं ये ब्रह्मचर्य विपुलं चरन्ति॥

कभल्लितापानथ धूमगारान् बन्धांस्तथा ताडनतर्जनांश्च।

छेदं शिरःकर्णकराक्षिनासाः पादस्य चार्च्छन्ति हि कामदासाः॥इति॥



उदयनवत्सराजपरिपृच्छायां च विवर्णिताः कामाः-



दृष्ट्वा व्रणं धावति मक्षिका यथा

दृष्ट्वाशुचिं धावति गर्दभो यथा।

श्वानश्च शूना इव मांसकारणात्

तथैव धावन्त्यबुधाः स्त्रिये रताः॥

अविद्यापिधिता बालास्तमःस्कन्धेन आबृताः।

स्त्रीषु सक्तास्तथा मूढा अमेध्य इव वायसाः॥

मारस्य गोचरो ह्येष प्रस्थिता येन दुर्गतिः।

आस्वादसंज्ञिनो गृद्धा मीढस्थाने यथा क्रिमिः॥

कीटकुम्भो यथा चित्रो यत्र यत्रैव दृश्यते।

पूर्णो मूत्रपुरीषेण दृतिर्वा वातपूरिता॥

सिङ्घाणककफा लालाः श्लेष्मणि क्लिन्नमस्तकाः।

दौर्गन्ध्यं स्त्रवते कायाद्बालानां तद्यथा मधु॥

अस्थिपूर्ण मुखद्वारं मांसचर्मादिभिश्चितम्।

गण्डभूतो ह्ययं कायः कुत्सितो ह्यामगन्धिकः॥

नानाप्राणिभिः संपूर्णो मुखगण्डो यथा भवेत्।

एवमेव ह्ययं कायो विष्ठाद्यशुचिभाजनम्॥

अत्यान्त्राकुशं ह्युदरं सयकृत् फुत्फुसाकुलम्।

वृक्कौ विलोहितं पित्तं मस्तलुङ्गास्थिमज्जकम्॥

अशीतिं क्रिमिकुलसहस्त्राणि यानि तिष्ठन्ति अन्तरे।

अथ बाला न पश्यन्ति मोहजालेन आवृताः॥

नवव्रणमुखैः प्रस्त्रवन्त्यशुचिं पूतिगन्धिकम्।

बाला निमित्त गृह्णन्ति वचने दर्शनेऽपि च।

उक्ताः पश्चान्न जानन्ति यो देशः सर्वकुत्सितः॥

उच्चारगोचरा बालाः खेटसिङ्वाणभोजिनः।

जुगुप्सनीये रज्यन्ते व्रणं दृष्ट्वेव मक्षिकाः॥

कक्षास्वाधरते स्वेदो गन्धो वायति कुत्सितः।

कुर्वन्ति दुष्कृतं कर्म येन गच्छन्ति दुर्गतिम्॥

हीनान् कामान्निषेवन्तो हीनान् धर्मान्निवेव्य च।

गत्वा अवीचिं दुष्प्रज्ञा दुःखां विन्दन्ति वेदनाम्।

उच्चार इव दुर्गन्धाः स्त्रियो बुद्धैः प्रकीर्तिताः।

तस्माद्धीनस्य हीनाभिः स्त्रीभिर्भवति संगतिः॥

उच्चारभस्त्रां यो गृह्य बालो वासं निगच्छति॥

यादृशं कुरुते कर्म तादृशं लभते फलम्॥इति॥



तथा अत्रैवाह-



तदेवंरूपैर्दुःखपर्येषितैर्भोगैः स्वजीविकार्थमुपसंहृतैर्न प्रभवन्ति श्रमणब्राह्मणेभ्यो दानं दातुं कृपणवनीपकपाचकेभ्यो वशीकृताः स्त्रीभिः स्त्रीनिर्जिताः स्त्रीनिगृहीताः स्त्रीदासाः। तेनैव स्त्रीप्रेम्णा तस्या एव पोषणाय न शक्रुवन्ति दानं दातुं शीलं च समादातुम्। स तत्र रक्तः समानः स्त्रीपरिभाषितानि सहते, तर्जनावलोकननिर्भर्त्सनामपि सहते। स मातृग्रामेण तर्जितः पुरुषः संसीदति, विषीदति, सुखं चास्या अवलोकयति। कामहेतोः कामनिदानं च वशगतो भवति। अयं महाराज कामलोलुपस्य पुरुषस्योच्चारसुखपरमस्याशुचौ रतस्यासंप्रजन्यचारिणो दोषः। पेयालं।

श्रुत्वेदृशं तु संवेगं न तेषां भवति निर्वृतिः।

भूयः कुर्वन्ति संसर्ग स्त्रीभिः सार्धं प्रमोदिताः॥

दुःखकामान्निषेवन्ते भाषन्ते च जुगुप्सिताः।

धर्मं श्रुत्वार्थसंमूढा भाषन्ते च सुभाषितम्।

स्त्रीगतं चास्य तच्चित्तं बिडालस्येव मूषिके॥

मूहूर्तं भवति संवेगः श्रुत्वाथ जिनभाषितम्।

पुनः कुप्यति रागोऽस्य विषं हालाहलं यथा॥

सूकरस्येव उत्त्रासो मुहूर्तमनुवर्तते।

दृष्ट्वा वै अथ उच्चारं गृद्धतां जनयत्यसौ॥

एवं सुखार्थिनो बालाः प्रहाय जिनशासनम्।

हीनान् कामान्निषेवन्ते येन गच्छन्ति दुर्गतिम्॥

रक्ताः प्रमत्ताः कामेषु कृत्वा कर्म सुपापकम्।

शीलवत्तां विसंवाद्य पश्चाद्गच्छन्ति दुर्गतिम्॥

यस्येदृशं धर्मनयं विदित्वा

स्त्रीपु प्रसादः पुरुषस्य नो भवेत्।

विशोधितः स्वर्गपथोऽस्य नित्यं

न दुर्लभा तस्य वराग्रबोधिः॥

लब्ध्वा क्षणं हि स प्राज्ञो धर्मं श्रुत्वा च ईदृशम्।

सर्वान् कामान् विवर्ज्येह प्रव्रज्यां निष्क्रमेद्बुधः॥इति॥



प्रशान्तविनिश्चयप्रातिहार्यसूत्रेऽप्यपरोऽनर्थ उक्तः-यः कश्चिन्मञ्जुश्रीः कुलपुत्रो वा कुलदुहिता वा जाम्बूद्वीपकान् सर्वसत्त्वाञ्जीविताद् व्यपरोप्य सर्वस्वं हरेत्, यो वा अन्यो मञ्जुश्रीः कुलपुत्रो वा कुलदुहिता वा बोधिसत्त्वस्यैककुशलचित्तस्यान्तरायं कुर्यात्, अन्तशास्तिर्यग्योनिगतस्याप्येकालोपदानसहगतस्य कुशलमूलस्यान्तरायं कुर्यात्, अयं ततोऽसंख्येयतरं पापं प्रसवति।तत्कस्य हेतोः? बुद्धोत्पादसंजनकानां सकुशलमूलानामन्तरायः स्थितो भवति। यः कश्चिन्मञ्जुश्रीः परकुलेषु बोधिसत्त्वस्येर्ष्यामात्सर्यं कुर्यात्, तस्य तस्मिन् समये ततोनिदानं त्रीणि भयानि प्रतिकाङ्क्षितव्यानि। कतमानि त्रीणि? नरकोपपत्तिभयं जात्यन्धभयं प्रत्यन्तजन्मोपपत्तिभयं चेति॥

पुनराह-

यस्तस्य कुर्यात्पुरुषोऽप्रियं वा भूतं ह्यभूतं च वदेदवर्णम्।

परूषं वदेत्त्क्रुद्धमना पि यस्तं क्षोमं च कुर्यात्पुनरस्य योऽपि॥

आत्मभावेन महता नरकेषु स दुर्मतिः।

उत्पद्यते विपन्नात्मा दुःखां स वेत्ति वेदनाम्॥

योजनानां शतं पञ्च जायतेऽस्य समुच्छ्रयः।

कोटीपरिवृतः शश्वद् भक्ष्यते च शुना भृशम्॥

पञ्च मूर्धसहस्त्राणि भवन्त्यस्यापवादिनः।

जिह्वानां च शताः पञ्च भवन्त्येकैकमूर्धनि॥

एकैकस्यां च जिह्वायां शताः पञ्च ज्वलन्मुखाः।

लाङ्गलानां वहन्त्यस्य वाचं भाषित्व पापिकाम्।

प्रतापने च पच्यन्ते तीव्रदुःखानलाकुले।

उत्पीडां बोधिसत्त्वानां ये कुर्वन्ति असंगताः॥

तिर्यग्योनिः सनरका न तेषां भोति दुर्लभा॥

कल्पकोटिसहस्त्राणि शतानि नियुतानि च॥

ततश्चयुता घोरविषा भोन्ति सर्पाः सुदारुणाः।

क्षुत्पिपासाभिभूताश्च कुर्वते कर्म दारुणम्।

लब्ध्वापि भोजनपानं तृप्तिं नैवाधिगच्छति॥

ततश्च्युतो मनुष्येषु स यद्युपपद्यते।

जात्यन्धो भोति दुर्मेधा दुष्टचेता असंवृतः॥

आर्यानाराधिकां वाचमुक्त्वा दुर्भाषितं नरः।

मनुष्येभ्यश्चयुतश्चापि पुनर्गच्छति दुर्गतिम्॥

कल्पकोटिसहस्त्रेषु जातं बुद्धं न पश्यति॥



पुनरत्रैवाह-यावन्ति मञ्जुश्रीर्बोधिसत्त्वो बोधिसत्त्वस्यान्तिके प्रतिघचित्तान्युत्पादयति अवमन्यनाचित्तानि वा, तावतः कल्पान् संनाहः संनद्धव्यः - वस्तव्यं मया महानरकेष्विति। न मञ्जुश्रीर्बोधिसत्त्वोऽन्येन कर्मणा शक्यो विनिपातयितुमन्यत्र बोधिसत्त्वापवादादेव। तद्यथा मञ्जुश्रीर्वज्रमणिरत्नं नान्येन काष्ठेन लोष्ठेन वा शक्यं मेत्तुमन्यत्र वज्रात्, एवमेव मञ्जुश्रीर्बोधिसत्त्वोऽन्येन कर्मणा न शक्यो विनिपातयितुमन्यत्र बोधिसत्त्वापवादादेवेति॥



आर्यश्रद्धाबलाधानावतारमुद्रासूत्रेऽप्याह-यः कश्चिन्मञ्जुश्रीः कुलपुत्रो वा कुलदुहिता वा दशसु दिक्षु सर्वलोकधातुषु सर्वसत्त्वान्धकारेषु बन्धने क्रुद्धः प्रवेशयेत्, यश्चान्यः कुलपुत्रो वा कुलदुहिता वा बोधिसत्त्वे क्रुद्धः पराङ्मुखं तिष्ठेत्, नैनं दुरात्मानं पश्यामीति, अयं ततोऽसंख्येयतरं पापं प्रसवति॥



अत्रैवोक्तम्-यः कश्चिन्मञ्जुश्रीः सर्वजाम्बूद्वीपकानां सत्त्वानां सर्वस्वं हरेत्, यश्चान्यो यादृशं तादृशं बोधिसत्त्वं गर्हेत्, अयं ततोऽसंख्येयतरं पापं प्रसवति॥



अत्रैवोक्तम्-यः कश्चिन्मञ्जुश्रीः कुलपुत्रो वा कुलदुहिता वा गङ्गानदीवालिकासमान् स्तूपान् विनिपातयेद्दहेत वा, यश्चान्यः कुलपुत्रो वा कुलदुहिता वा महायानाधिमुक्तस्य बोधिसत्त्वस्य व्यापादखिलक्रोधचित्तमुत्पाद्य क्रोशयेत्परिभाषयेत्, अयं ततोऽसंख्येयतरं पापं प्रसवति। तत्कस्माद्धेतोः? बोधिसत्त्वनिर्याता हि बुद्धा भगवन्तः, बुद्धनिर्याताश्च स्तूपाः सर्वसुखोपधानानि च सर्वदेवनिकायाश्च। बोधिसत्त्वमसत्कृत्य सर्वबुद्धा असत्कृता भवन्ति। बोधिसत्त्वं सत्कृत्य सर्वबुद्धाः सत्कृता भवन्ति। सर्वबुद्धाननुत्तरया पूजया पूजयितुकामेन बोधिसत्त्वाः पूजयितव्याः॥



एतत्पूजाविपाकश्च प्रशान्तविनिश्चयप्रातिहार्यसूत्रेऽभिहितः-

यस्त्वेषां कुरुते रक्षां धार्मिकीं धर्मवादिनाम्।

हित्वा स दुर्गतीः सर्वाः शक्रो भवति देवराट्।

ब्रह्मापि यामस्तुषितो वशवर्ती पुनः पुनः॥

मनुष्येषूपपन्नश्च चक्रवर्ती स जायते।

श्रेष्ठी गृहपतिश्चापि भवत्याढयो महाधनः।

प्रज्ञास्मृतिभ्यां संयुक्तः सुखितो निरुपद्रवः॥इति॥



अथ कतमं बोधिसत्त्वमधिकृत्येयं कारापकारचिन्ता? पृथग्जनमेव॥ यथोक्तं श्रद्धाबलाधानावतारमुद्रासूत्रे-यः कश्चिन्मञ्जुश्रीः कुलपुत्रो वा कुलदुहिता वा सर्वलोकधातुरजोपमानां सत्त्वानां दिवसे दिवसे दिव्यं शतरसमाहारं ददत्, दिव्यानि च वस्त्राणि, एवं ददत् गङ्गानदीबालिकासमान् कल्पसमुद्रान् दानं दद्यात्, यश्चान्यः कुलपुत्रो वा कुलदुहिता वा एकस्योपासकस्यानन्यशास्तुर्दशकुशलकर्मपथसमवनगतस्यैकदिवसमेकमाहारं दद्यात् बुद्धस्यायं भगवतः शिक्षायां शिक्षित इति समारोपं कृत्वा, अयं ततोऽसंख्येयतरं पुण्यं प्रसवति॥ यः कश्चिन्मञ्जुश्रीः कुलपुत्रो वा कुहदुहिता वा सर्वलोकधातुरजोपमानां दशकुशलकर्मपथसमन्वागतानामुपासकानां दिवसे दिवसे दिव्यं शतरसमाहारं दद्यात्, दिव्यानि च वस्त्राणि, एवं ददत् गङ्गानदीवालिकासमान् कल्पान् दद्यात्। यश्चान्यः कुलपुत्रो वा कुलदुहिता वा एकस्य भिक्षोरेकदिवसमाहारं दद्यात्, अयं ततोऽसंख्येतरं पुण्यं प्रसवतीति॥



नियतानियतावतारमुद्रासूत्रेऽप्याह-सचेन्मञ्जुश्रीर्दशसु दिक्षु सर्वलोकधातुषु सर्वसत्त्वा उत्पाटिताक्षा भवेयुः परिकल्पमुपादाय। अथ कश्चिदेव कुलपुत्रो वा कुलदुहिता वा तेषां सर्वसत्त्वानां मैत्रचित्तस्तान्यक्षीणि जनयेत् परिकल्पमुपादाय। यो वान्यो मञ्जुश्रीः कुलपुत्रो वा कुलदुहिता वा महायानाधिमुक्तं बोधिसत्त्वं प्रसन्नचित्तः पश्येत्, अयं ततोऽसंख्येयतरं पुण्यं प्रसवति॥ यः कश्चिन्मञ्जुश्रीः कुलपुत्रो वा कुलदुहिता वा दशसु दिक्षु सर्वसत्त्वान् बन्धनागारप्रविष्टान् बन्धनागारान्मोचयित्वा चक्रवर्तिसुखे स्थापयेद् ब्रह्मत्वसुखे वा, यो वान्यो मञ्जुश्रीः कुलपुत्रो वा कुलदुहिता वा महायानाधिमुक्तस्य प्रसन्नचित्तो दर्शनाभिलाषी भवेद्वर्णं चास्योदाहरेत्, अयं ततोऽसंख्येयतरं पुण्यं प्रसवतीति॥



तथा क्षितिगर्भसूत्रेऽप्याह-यः पुनर्भदन्त भगवन् क्षत्रियकल्याणो वा अमात्यकल्याणो वा भट्टकल्याणो वा श्रमणकल्याणो वा ब्राह्मणकल्याणो वा परं रक्षति, आत्मानं रक्षति, परलोकं रक्षति। भगवच्छासने पात्रभूतमपात्रभूतं वा यावन्मुण्डं काषायखण्डप्रावृतं परिरक्षति श्रोष्यति पूजयिष्यति, श्रावककथां एवं प्रत्येकबुद्धकथां श्रोष्यति पूजयिष्यति महायानकथां च, महायानसंप्रस्थितान् पुद्गलान् शीलवतो गुणाढयान् युक्तमुक्तप्रतिभानान्, तैः सार्धं रमति क्रीडति परिपृच्छति परिप्रश्नयति, तेषां श्रोतव्यं कर्तव्यं मन्यते। पेयालं। कियन्तं भगवन् पापं क्षपयिष्यति? भगवानाह- तद्यथापि नाम कुलपुत्र कश्चित्पुरुष उत्पद्यते, यः सर्वं जम्बूद्वीपं सप्तरत्नपरिपूर्णं कृत्वा तिष्ठतां बुद्धानां भगवतां दानं दद्यात्, तथैव मध्याह्नसमये तथैव सायाह्नसमये दानं दद्यात्, अनेन पर्यायेण वर्षशतसहस्त्रमेवंरूपं दानं दद्यात्, तत्किं मन्यसे कुलपुत्र अपि नु स पुरुषो बहु पुण्यं प्रसवेत्? आह- बहु भदन्त भगवन् स पुरुषः पुण्यस्कन्धं प्रसवेदप्रमेयमसंख्येयम्। न तस्य पुण्यस्कन्धस्य केनचिच्छक्यं प्रमाणमुद्रहीतुमन्यत्र तथागतेन॥ भगवानाह- यस्तु कुलपुत्र क्षत्रियकल्याणो वा यावद्यथा पूर्वोक्तम्। पेयालं। स बहुतरं पुण्यं प्रसवति। यावद्विपुलतरमप्रमाणतरमसंख्येयतरं पुण्यस्कन्धं प्रसवति। यो मम पश्चिमायां पञ्चशत्यां वर्तमानायां सद्धर्मनेत्रीं रक्षाति, स रक्षत्यात्मानम्, रक्षाति परांश्च, रक्षति परलोकम्, रक्षति मम शासनम्, श्रावकान् पात्रभूतानपात्रभूतान् वा यावन्मुण्डान् काषायवस्त्रप्रावृतानपि रक्षति, न विहेठयति। यावत् स्वकं राष्ट्रं परराष्ट्रं च वर्धयति। अपायान् क्षपयति। सुरालयं च प्रापयति, चिरं चायुः पालयति। स्वक्लेशांश्च परक्लेशांश्च काषयति। संबोधिमार्गे षट्पारमिताश्चोपस्तम्भयति। सर्वापायाञ्जहाति। न चिरं संसारे संसरति। नित्यं कल्याणमित्रैर्बुद्धैश्च भगवद्भिर्बोधिसत्त्वैश्च महासत्त्वैश्च सार्ध समवधानगतो भवति। सततं कल्याणमित्राविरहितो न चिरेण यथाभिप्रायेषु बुद्धक्षेत्रेष्वनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते॥ अथ तावदेव सर्वदेवेन्द्राः सपरिवारा यावत्पिशाचेन्द्राः सपरिवारा उत्थायासनाद् येन भगवान् तेनाञ्जलिं प्रणम्यैवमाहुः- ये ते भदन्त भगवन् एतर्ह्मनागतेऽध्वनि यावत्पश्चिमायां पञ्चशत्यां क्षत्रियकल्याणा भवन्ति यावदृहपतिकल्याणाः। पेयालं। एवं सद्धर्मरक्षका एवं त्रिरत्नवंशज्वालयितारः। पेयालं वयमपि सर्वे सपरिवारास्तं क्षत्रियकल्याणं यावदृहपतिकल्याणं दशभिराकारै रक्षिष्यामः परिपालयिष्यामो वर्धयिष्यामः। कतमैर्दशभिः? आयुश्चास्य वर्धयिष्यामः, आयुरन्तरायं च धर्मेण निवारयिष्यामः, आरोग्यं च परिवारं च धनस्कन्धं च उपभोगपरिभोगं च ऐश्वर्यं च यशः कल्याणमित्राणि प्रज्ञासंपदं च वर्धापयिष्यामः। एभिर्दशभिरिति विस्तरः॥



एवमभूमिप्रविष्टेष्वेवायं विपाकविस्तरो द्रष्टव्यः॥ अवलोकनासूत्रेऽपि-



संबोधौ चित्तमुत्पाद्य हितार्थं सर्वप्राणिनाम्।

यः स्तूपं लोकनाथस्य करोतीह प्रदक्षिणम्॥



इत्याद्यनुशंसविस्तरमुक्त्वा आह-



यस्त्वेषां बुद्धपुत्राणां नरः कुर्वीत अप्रियम्।

देवान् मनुष्यान् वर्जित्वा नरकं तस्य गोचरम्॥



इति विस्तरः पूर्ववत्॥



न चात्र विशेषहेतुः कश्चिदुपदर्शयितुं शक्यत इत्यलं विकल्पेन॥



कर्मावरणविशुद्धिसूत्रेऽप्यावरणशब्देनानर्थ उक्तः-आवरणं मञ्जुश्रीरुच्यते रागः, आवरण द्वेषः, आवरणं मोहः, आवरणं दानम्, आवरणं शीलक्षान्तिवीर्यध्यानप्रज्ञा आवरणम्। पेयालं। तत्कस्य हेतोः? बालपृथग्जना मञ्जुश्रीर्दानं ददाना मत्सरिणामन्तिकेऽप्रसादं कुर्वन्ति। ते तेनाप्रसादेन प्रतिघचित्तमुत्पादयन्ति। प्रतिघखिलदोपेण महानरकेषूपद्यन्ते। शीलं रक्षन्तो दुःशीलान् कुत्सयन्ति परिभाषन्ति। ते तेषामवर्ण च भाषन्ति। ते तेषां दोषं श्रुत्वा बहुजनस्याप्रसादं कुर्वन्ति। ते तेनाप्रसादेन दुर्गतिगामिनो भवन्ति। ते क्षान्तिं भावयन्तः क्षान्तिमदेनात्मानमुत्कर्षयन्ति प्रमाद्यन्ति- वयं क्षान्तिवादिनः। इमे पुनरन्ये व्यापन्नचित्ताः। तेषां क्षान्तिमदमत्तानां प्रमादमूलकानि दुःखान्युत्पद्यन्ते। वीर्यमारभमाणा आत्मानमुत्कर्षयन्ति, परान् पंसयन्ति-कुसीदा इमे भिक्षवो विहरन्त्यनभियुक्ताः श्रद्धादेयं परिभुञ्जानाः। नैतेऽर्हन्ति पानीयस्थालकमपि। ते तेन वीर्यारम्भेण आत्मानमुत्कर्षयन्ति, परं च पंसयन्ति। तानहं बालानिति वदामि। ते ध्यानं समापद्यमानास्तत्र ध्यानसमापत्तौ स्पृहामुत्पादयन्ति। तेषामेवं भवति- वयं समाधिविहारिणः, इमेऽन्ये भिक्षवो विक्षिप्तचित्ता विहरन्ति। कुतस्ते बुद्धा भविष्यन्तीति विस्तरः॥



सर्वधर्माप्रवृत्तिनिर्देशेऽप्याह- बोधिसत्त्व आपत्या चोदयति, दूरीभवति बोधिः, कर्मावरणं च परिगृह्णाति। ईर्ष्यया चोदयति,दूरीभवति बोधिः। ईर्यापथेन चोदयति, दूरीभवति बोधिः। सचिद्बोधिसत्वस्यान्तिके हीनसंज्ञामुत्पादयति आत्मनि चोदारसंज्ञाम्, क्षिणोत्यात्मानं कर्मावरणं च गृह्णाति। इष्टबोधिसत्वेन बोधिसत्वमववदता अनुशासता वा शास्तृसंज्ञामुपस्थाप्य अववदितव्योऽनुशासितव्यः। बोधिसत्त्वेन बोधिसत्वस्यान्तिके न परिभवचित्तमुत्पादयितव्यम्, सचेदस्यापरित्यक्ता बोधिः॥ न देवपुत्र बोधिसत्त्वः क्कचिदेव कुशलमूलानि समुच्छिनति, यथा द्वितीयबोधिसत्त्वमागम्येति॥ अनुत्पादितबोधिचित्तेऽपि तावद्बोधिभव्ये सत्त्वेऽवमन्यना प्रतिषिद्धा, किं पुनरुदितबोधिचित्ते॥



यथोक्तं शूरंगमसमाधिसुत्रे-तत्र दृढमते कतमदनुत्पादितबोधिचित्तव्याकरणम्? इह दृढमते स पुद्गलः पञ्चनतिके संसारे उपपन्नो भवति। यदि वा निरयेषु यदि वा तिर्यग्योनौ यदि वा यमलोके यदि वा देवेषु यदि वा मनुष्येषु। स च पुद्गलस्तीक्ष्णेन्द्रियो भवति, उदाराधिमुक्तिकः। तमेनं तथागतः प्रजानाति-अयं पुरुषपुद्गलो यावदियद्भिः कल्पकोटीनियुतशतसहस्त्रैरनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयिष्यति। पेयालं। इयद्भिश्चासंख्येयकल्पशतसहस्त्रैर्बोधिमभिसंभोत्स्यते। पेयालं। इदं दृढमते उच्यते बोधिसत्त्वस्यानुत्पादितबोधिचित्तव्याकरणम्। अय खल्वायुष्मान् महाकाश्यपो भगवन्तमेतदवोचत्-अद्याग्रेणास्माभिर्भगवन् सर्वसत्त्वानामन्तिके शास्तृसंज्ञोत्पादयितव्या। तत्कस्य हेतोः? न ह्यस्माकमेतज्ज्ञानं प्रवर्तते कतमस्य बोधिसत्त्वस्य बोधिपरिपाचकानीन्द्रियाणि संविद्यन्ते? कतमस्य न संविद्यन्ते? ततो वयं भगवन्नजानानास्तथारूपेषु हीनसंज्ञामुत्पादयेन। तेन वयं क्षण्येम॥ भगवानाह -साधु साधु काश्यप, सुभाषिता ते इयं वाक्। इदं च मया काश्यप अर्थवशं संपश्यमानेन युष्माकमेवं धर्मो देशितः - मा भिक्षवः पुद्गलेन पुद्गलं प्रविचेतव्यम्, यच्छीत्रं क्षण्यति हि भिक्षवः पुद्गलः पुद्गलं प्रविचिन्वन्। अहं वा पुद्गलं प्रमिगुयां यो वा स्यान्मादृशः। एतेन काश्यप निर्देशेन बोधिसत्त्वेन वा श्रावकेण वा सर्वसत्त्वानामन्तिके शास्तृसंज्ञ्त्पदयितव्या। एतेन कशयप निर्देशेन बोधिसत्त्वेन वा श्रावकेण वा सर्वसत्त्वानामन्तिके शास्तृसंज्ञोत्पादयितव्या। मात्र कश्चिद्बोधिसत्त्वयानिकः पुद्गलो भवेत्। तेन तत्रात्मा रक्षितव्य इति। यस्य तु नियतमेव बोधिप्राप्तिचिह्नमस्ति, तत्र सुतरामवमन्यना रक्षितव्या॥



यथोक्तमार्यसद्धर्मपुण्डरीकसूत्रे-



इष्टामयान्मृत्तिकसंचितान् वा प्रीताश्च कुर्वन्ति जिनस्य स्तूपान्।

उद्दिश्य वा पांशुकराशयो पि अटवीषु दुर्गेषु च कारयन्ति॥

सिकतामया वा पुन कूट कृत्वा ये केचिदुद्दिश्य जिनान स्तूपान्।

कुमारकाः क्रीडिषु तत्र तत्र ते सर्वि बोधाय अभूषि लाभिनः॥यावत्।

ये चित्रभित्तीषु करोन्ति विग्रहान्

परिपूर्णगात्रांञ्छतपुण्यलक्षणान्।

लिखेत्स्वयं चापि लिखापयेद्वा

ते सर्वि बोधाय अभूषि लाभिनः॥

ये चापि केचित्तहि शिक्षमाणाः

क्रीडारतिं चापि विनोदयन्तः।

नखेन काष्ठेन कृतासिविग्रहान्

भित्तीषु पुरुषा चथ कुमारका वा

सर्वे च ते बोधि अभूषि लाभिनः॥ पेयालं॥

वादापित झल्लरियोऽपि येही

जलमण्डका चर्पटमण्डका वा।

सुगतानमुद्दिश्यथ पूजनार्थ

सुगीतं च गीतं मधुरं मनोज्ञम्॥

सर्वे च ते बुद्ध अभूषि लोके

कृत्वान तां बहुविधधातुपूजाम्।

किमल्पकल्पी सुगतान धातुषु

एकं पि वादापिय वाद्यभाण्डम्॥

पुष्पेण चैकेन हि पूजयित्वा



अनुपूर्व द्रक्ष्यन्ति हि बुद्धकोटयः॥

यैश्चाञ्जलिस्तत्र कृतोऽपि स्तूपे

परिपूर्ण एका तलसक्तिका वा।

ओनामितं शीर्प भवेन्मुहूर्तम्

ओनामितं काय तथैकवारम्॥

नमोऽस्तु बुद्धाय कृतैकवारं

येही तदा धातुधरेषु तेषु।

विक्षिप्तचित्तैरपि यैकवारं

ते सर्वि प्राप्ता इममग्रबोधिम्॥

सुगतान तेषां तद तस्मि काले

परिनिर्वृतानामथ तिष्ठतां वा।

ये धर्मनामापि श्रुणिंषु सत्त्वाः

ते सर्वि बोधाय अभूषि लाभिनः॥इति॥

महाकरुणासूत्रेऽप्युक्तम्-

तद्यथा वाडिशिकेन महत्थुदकसरसि मत्स्याकर्षणार्थं सामिषं वडिशं प्रक्षिप्तं भवेत्, समनन्तरप्रक्षिप्तं च मत्स्येन निगीर्ण भवेत्। किं चापि स मत्स्य उदकसरसि भ्रमति, अथ च पुनर्बद्ध एव स वक्तव्यो दृढेन सूत्रेण स्थलगतदण्डसुनिबद्धेन। यत्स बाडिशिक आगत्य तेन सूत्रेलाधवेन जानाति- गृहीतो मत्स्य इति। तमेनं सूत्रादृहीत्वा स्थलगतं करोति यथाकामकरणाय परिभोगाय। एवमेव ये सत्त्वा बुद्धेषु भगवत्सु चित्तं प्रसाद्य कुशलमूलमवरोपयन्ति, अन्तश एकचित्तप्रसादमपि, किं चापि ते सत्त्वा दुष्कृतेन कर्मावरणेनाक्षणेषूपपन्ना भवन्ति, अथ च बुद्धा भगवन्तस्तान् सत्त्वान् बौद्धेन ज्ञानेन संग्रहवस्तुसूत्रेण गृहीत्वा संसारोदकसरस उद्धृत्य निर्वाणस्थले स्थापयन्तीति॥



तस्मादेषु शास्तृषंज्ञा कार्या। वन्दमानाश्च मनसा वन्दितव्याः। भवति हि नवकोऽपि बोधिचित्तबलाद्वन्द्यः। यथा मेघेन द्रमिडेन महाबोधिसत्त्वेनापि सता नवक आर्यसुधनः सर्वशरीरेण प्रणिपत्य वन्दितः। नियतार्थं चेदम्। यथा अध्याशयसंचोदनादिषु सर्वबोधिसत्त्वयानिकपुद्गलनमस्कारोऽनुज्ञातव्यः। सर्वशब्देनात्मनोऽपि ग्रहणात्। कथमेकत्र वन्द्यवन्दकत्वं न विरुध्यते? परस्परं वन्द्यत्वेनैवाम्बनात्। अत एवानास्वादनादपुण्यभावः। किं च बुद्धानामप्येवमिष्यते, मा भूदनवस्था, एकस्य चान्यूनतेति॥



आर्यसर्वधर्मवैपुल्यसंग्रहसूत्रेऽप्यनर्थ उक्तः- सूक्ष्मं हि मञ्जुश्रीः सद्धर्मप्रतिक्षेपकर्मावरणम्। यो हि कश्चिन्मञ्जुश्रीस्तथागतभाषितधर्मे कस्मिंश्चिच्छोभनसंज्ञां करोति, क्कचिदशोभनसंज्ञाम्, स सद्धर्म प्रतिक्षिपति। तेन सद्धर्मं प्रतिक्षिपता तथागतोऽभ्याख्यातो भवति। धर्मः प्रतिक्षिप्तो भवति। संघोऽपवादितो भवति। य एवं वदति- इदं युक्तमिदमयुक्तमिति, स सद्धर्मं प्रतिक्षिपति। न मया पृथक्कश्चिद्धर्मः श्रावकयानसंप्रयुक्तः प्रत्येकबुद्धयानसंप्रयुक्तो महायानसंप्रयुक्तो देशितः। तत्ते मोहपुरुषा इमं मम धर्मं नानाकरिष्यन्ति - इदं श्रावकाणां देशितमिदं प्रत्येकबुद्धानामिदं बोधिसत्त्वानामिति। स नानात्वसंज्ञया सद्धर्म प्रतिक्षिपति- इयं बोधिसत्त्वस्य शिक्षा, इयं बोधिसत्त्वस्याशिक्षेति सद्धर्म प्रतिक्षिपति। धर्ममाणकस्यास्ति प्रतिभानम्, नास्ति प्रतिभानमिति सद्धर्म प्रतिक्षिपति। धर्मं धर्मतया कथयति, सद्धर्म प्रतिक्षिपति। अपगते बुद्धोत्पादे नास्ति धारणीप्रतिलम्भ इति धर्मं प्रतिक्षिपति। नास्ति धर्मभाणकस्य धारणीप्रतिलम्भ इति धर्मं प्रतिक्षिपति। धर्मभाणकस्य चर्यां दूषयति, धर्म प्रतिक्षिपति- धर्मभाणको न प्रतिपत्तिसंपन्न इति धर्म प्रतिक्षिपति। प्रमादेनैनं चोदयति, सद्धर्म प्रतिक्षिपति। ईर्यापथेन चोदयति, सद्धर्म प्रतिक्षिपति। अक्षरचर्यया शीलविपत्त्या चोदयति, धर्मं प्रतिक्षिपति। प्रतिभानेन संपादयतीति धर्मं प्रतिक्षिपति। आलोकोऽस्य धर्माणां न सुविदित इति धर्मं प्रतिक्षिपति। मन्त्रेण मन्त्रमबुध्यमानः प्रतिवदतीति धर्मं प्रतिक्षिपति। अक्षरसंज्ञया तथागतशासनं नावगाहत इति धर्मं प्रतिक्षिपति। सूत्रेण सूत्रं विरोधयतीति धर्मं प्रतिक्षिपति। गाथया गाथां विरोधयतीति धर्म प्रतिक्षिपति। अक्षरसंज्ञया कंचिदधिमुक्तं करोति कंचिन्न करोतीति धर्म प्रतिक्षिपति। धर्मभाणकस्यार्थान्यकथामभिनामयतीति धर्म प्रतिक्षिपति। विचक्षुःकर्मास्य करोति, धर्म प्रतिक्षिपति। संलापयन् वदतीति धर्म प्रतिक्षिपति। इहास्यास्ति चर्या, इहास्य नास्ति चर्येति धर्म प्रतिक्षिपति। इदं सूक्तदमिमसूक्तमिति धर्म प्रतिक्षिपति। अनेन नास्ति चर्येति धर्मं प्रतिक्षिपति। अनेन बुद्धवचनसमय उक्तो नानेन बुद्धवचनसमय उक्त इति धर्मं प्रतिक्षिपति। इति हि मञ्जुश्रीर्यावत्किंचिद्विलोपयति तावद्धर्म प्रतिक्षिपति। धर्मभाणकस्येदं रूपमिति चिन्तयति, वदति भिक्षुवी भिक्षुणी वा उपासको वा उपासिका वा , स सर्वः सद्धर्मं प्रतिक्षिपतीत्यादि॥



अत्रैव चोक्तम्- यस्य कस्यचित्कुलपुत्र तथागतस्य परिनिर्वृतस्य धर्मः प्रतिभाति यथाधिमुक्तानां सत्त्वानां देशयितुम्। तस्यां च पर्षदि यद्येकसत्त्वस्यापि एकरोमहर्षो भवेदेकाश्रुपातो वा, सर्वः स तथागतानुभावेन। तत्र मोहपुरुषा अबोधिसत्त्वा बोधिसत्त्वप्रतिज्ञा बोधिसत्त्वदूषका धर्मस्तैन्यकुहका एवं वक्ष्यन्ति धर्मोपदेशकेभ्यः किमेते न बुध्यन्त इति। पेयालं ये बोधिसत्त्वेष्ववमन्यनां कुर्वन्ति, नाहं तेषां पर्यन्तकृतं निरयं संवदामि। तत्कस्य हेतोः? यो बोधिसत्त्वो धर्मभाणकमपवदति, बुद्धं स विगर्हति, धर्मं स प्रतिक्षिपति, संघं स जुगुप्सति॥ बुद्धे सोऽगौरवो यो धर्मभाणकेऽगौरवः। बुद्धं स न द्रष्टुकामो यो धर्मभाणकमद्रष्टुकामः। बुद्धस्य सोऽवर्णं भाषते, यो धर्मभाणकस्यावर्णं भाषते। बुद्धस्तेन परित्यक्तो भवति यः प्रथमचित्तोत्पादिकेऽपि बोधिसत्त्वे प्रतिघचित्तं करोतीति॥ पेयालं॥ योऽप्ययं मैत्रेय षट्पारमितासमुदागमो बोधिसत्त्वानां संबोधाय, तं मोहपुरुषा एवं वक्षयन्ति- प्रज्ञापारमितायामेव बोधिसत्त्वेन शिक्षितव्यम्, किं शेषाभिः पारमिताभिः? तेऽन्यां पारमितां दूषयितव्यां मन्यन्ते। तत् किं मन्यसेऽजित दुष्प्रज्ञः स काशीराजाभूद् येन कपोतार्थ श्येनाय स्वमांसानि दत्तानि? मैत्रैय आह- नो हीदं भगवन्।भगवानाह- यानि मया मैत्रेय बोधिसत्त्वचर्यां चरता षट्पारमिताप्रतिसंयुक्तानि कुशलमूलान्युपचित्तानि, अपकृतं नु तैः कुशलमूलैः? मैत्रैय आह- नो हीदं भगवन्। भगवानाह- त्वं तावदजित षष्टिं कल्पान् दानपारमितायां षष्टिं शीलपारिमितायां षष्टिं कल्पान् क्षान्तिपारमितायां षष्टिं कल्पान् वीर्यपारमितायां षष्टिं कल्पान् ध्यानपारमितायां षष्टिं कल्पान् प्रज्ञापारमितायां समुदागतः, तत्ते मोहपुरुषा एवं वक्ष्यन्ति- एकनयेनैव बोधिर्यदुत शून्यतानयेनेति। ते चर्यासु परिशुद्धा भविष्यन्तीत्यादि॥



इति शिक्षासमुच्चये चतुर्थः परिच्च्शेदः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project