Digital Sanskrit Buddhist Canon

धर्मभाणकादिरक्षा तृतीयः परिच्छेदः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
धर्मभाणकादिरक्षा तृतीयः परिच्छेदः।



उक्तस्त्रयाणामपि सामान्येन रक्षाद्युपायः। रक्षादयस्तु वाच्याः।

तत्रात्मभावे का रक्षा यदनर्थविवर्जनम्।



तत्रेति सद्धर्मपरिग्रहे वर्तमानस्यात्मभावरक्षा चिन्त्यते यथा परान्न नाशयेत्। इदं च अनर्थविवर्जनमार्यगगनगञ्जसूत्रे सद्धर्मधारणोद्यतैर्बोधिसत्त्वैर्भाषितम्-



वयमुत्सहामो भगवन् निर्वृते द्विपदोत्तमे।

सद्धर्म धारयिष्यामः त्यक्त्वा कायं सजीवितम्॥



लाभसत्कारमुत्सृष्ट्वा सर्वं चोत्सृज्य संस्तवम्।

अनुत्सृष्ट्वा इमं धर्मं बुद्धज्ञाननिदर्शकम्॥



आक्रोशपरिभाषांश्च दुरुक्तवचनानि च।

क्षान्त्या तान्मर्षयिष्यामः सद्धर्मप्रतिसंग्रहात्॥



उच्चग्घनां तर्जनां च अवर्णमयशांसि च।

सर्वांस्तान्मर्षयिष्यामो धारयन्त इमं नयम्॥पेयालं॥



एवंविघे महाघोरे भिक्षुराजान क्षोमणे।

विलोपकाले सत्त्वानां सद्धर्म धारयामहे॥



गम्भीरा ये च सूत्रान्ता विमुक्तिफलसंहिताः।

प्रतीच्छका न भेत्स्यन्ति चित्रामृक्ष्यन्ति ते कथाम्॥पेयालं॥



मैत्रीं तेषु करिष्यामो ये धर्मेष्वप्रतिष्ठिताः।

कारुण्यं च करिष्यामो धारयन्त इमं नयम्॥



दृष्ट्वा दुःशीलसत्त्वांश्च इच्छालोभप्रतिष्ठितान्।

अश्रुपातं करिष्यामो गतिः कान्धस्य भाविता॥



सहसैव च तं दृष्ट्वा सद्धर्मप्रतिबाधकम्।

दूरतो मैत्रमेष्यामो मा नो रुष्येत एव हि॥



रक्षिष्यामो यथाशक्तया वाचाकर्मसु संवृताः।

सहसैनान्न वक्ष्यामः स्वपापेऽस्मिन् प्रतिष्ठितान्॥



दानैस्तथापि सत्कारैः परिपाच्येह तान्नरान्।

यश्चैनांश्चोदयिष्यामो भूतमापापगोचरान्॥



गृहिसंभवसंत्यक्ताः प्रान्तारण्यसुगोचराः।

मृगभूता भविष्यामो अल्पार्था अल्पकृत्यकाः॥पेयालं॥



दान्ताः शान्ताश्च मुक्ताश्च ग्रामेऽस्मिन्नवतीर्य च।

देशयिष्यामहे धर्मं सत्वा ये धर्मतीर्थिकाः॥



सुदूरमपि यास्यामो धर्मकामान्निशम्य च।

धर्मारामरतिप्राप्ता अर्थं कर्तास्म देहिनाम्॥



संमुखं तत्र संदृश्य सत्त्वानां स्खलितं पृथु।

आत्मप्रेक्षा भविष्यामो धर्मसौरत्यस्ंस्थिताः॥



असत्कृताः सत्कृता वा मेरुकल्पाः प्रभूय च।

अनुपलिप्ता लोकेन भेष्यामो लोकनायकाः॥



भिक्षूणां भिन्नवृत्तानां परिवादं निशम्य च।

कर्मस्वका भविष्यामो मैषां कर्म विपच्यताम्॥



वधकान् योजयिष्यन्ति धर्मेष्वेषु हि वर्तताम्।

एते धर्मा न चास्माकं संविद्यन्ते कथंचन॥



अस्माकं श्रमणानां हि न च श्रामणका गुणाः।

भूतां चोदन संश्रुत्य इदं सूत्रं प्रतिक्षिपन्॥



संछिन्नकर्णनासानामादर्शैषां कुतः प्रियः।

चोदनां भूततः श्रुत्वा सद्धर्मं ते क्षिपन्ति तम्॥



ये भिक्षवो भविष्यन्ति सद्धर्मप्रतिग्राहकाः।

चेष्टिष्यन्ते तथा तेषां कश्चिद्धर्ममिमं शृणोत्॥



राजानो ग्राहयिष्यन्ति भेत्स्यन्ति च महाजनाः।

बुद्धाधिष्ठानतः सत्त्वा धर्मं श्रोष्यन्तिमं तदा॥



तस्मिन् काले वयं कष्टे त्यक्त्वा कायं सजीवितम्।

सद्धर्मं धारयिष्याम सत्त्वानां हितकारणात्॥इति॥



आर्यसद्धर्मपुण्डरीकेऽप्युक्तम्-



आचारगोचरं रक्षेत् असंसृष्टः शुचिर्भवेत्।

वर्जयेत्संस्तवं नित्यं राजपुत्रेभि राजभिः॥



ये चापि राज्ञां पुरुषाः कुर्यात्तेहि न संस्तवम्।

चण्डालमुष्टिकैः शौण्डैस्तीर्थिकैश्चापि सर्वशः॥



अधिमानीन्न सेवेत विनये चागमे स्थितान्।

अर्हन्तसंमतान् भिक्षून् दुःशीलांश्चैव वर्जयेत्॥



भिक्षुणीं वर्जयेन्नित्यं हास्यसंलापगोचराम्।

उपासिकाश्च वर्जेत प्रकटमनवस्थिताः॥



स्त्रीपण्डकाश्च ये सत्त्वाः संस्तवं तैर्विवर्जयेत्।

कुलेषु चापि वधुकाः कुमार्यश्च विवर्जयेत्॥



न ताः संमोदयेज्जातु कौशल्यं साधु पृच्छितुम्।

संस्तवं च विवर्जेया सौकरौरभ्रिकैः सह॥



स्त्रीपोषकाश्च ये सत्त्वा वर्जयेत्तेहि संस्तवम्।

नटैर्झल्लकमल्लेभिर्ये चान्ये तादृशा जनाः॥



वारमुख्यान्न सेवेत ये चान्ये भोगवृत्तिनः।

प्रतिसंमोदनं तेभिः सर्वशः परिवर्जयेत्॥



यदा च धर्मं देशेया मातृग्रामस्य पण्डितः।

न चैकः प्रविशेत्तत्र नापि हास्यस्थितो भवेत्॥इति॥



अयं चापरोऽनर्थो भवेद्यदिदं मारकर्मोक्तं प्रज्ञापारमितायाम्-

मारः पापीयांस्तस्य बोधिसत्त्वस्याचिरं यानसंप्रस्थितस्यान्तिके बलवत्तरमुद्योगमापत्स्यते॥



अत्रैवाह- पुनरपरमानन्द यस्मिन् समये बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां योगमापद्यते, तस्मिन् समये माराः पापीयांसो बोधिसत्त्वस्य विहेठनमुपसंहरन्ति, भयं संजनयन्ति।उल्कापातान् दिशि दिग्दाहानुत्सृजन्ति संदर्शयन्ति, अप्येव नाम अयं बोधिसत्त्वो महासत्त्वोऽवलीयेत, रोमहर्षो वास्य भवेदिति। येनास्यैकचित्तोत्पादोऽपि क्षीयेतानुत्तरायाः सम्यक्संबोधेरिति। पुनरपरमन्यविज्ञानसंज्ञिनो लिखिष्यन्ति यावत्पर्यवाप्स्यन्ति। न वयमत्रास्वादं लभामहे इत्युत्थायासनात्प्रक्रमिष्यन्ति। एवं विजृम्भमाणा उच्चग्घन्तो यावत्पर्यवाप्स्यन्तीति मारकर्म॥



एवमुत्पत्स्यन्ते जनपदग्रामादिवितर्काः। एवमाचार्योपाध्यायमातापितृमित्रामात्यज्ञातिसालोहितमनसिकाराः।एवं चोरमनसिकाराः। एवं चीवरादिमनसिकाराः। पुनरपरं धर्मभाणकश्छन्दिको भविष्यति इमां गम्भीरां प्रज्ञापारमितां लेखयितुं यावद्वाचयितुं धर्मश्रवणिकश्च किलासी भविष्यति।एवं विपर्ययात्। धर्मभाणकश्च देशान्तरं गन्तुकामो भविष्यन्ति धार्मश्रवणिकाश्च नेति नेयम्। एवं धर्मभाणको महेच्छो भविष्यति धामर्श्रवणिकोऽल्पेच्छ इति नेयम्। संक्षेपाद्धर्मभाणकधार्मश्रवणिकयोर्या काचिद्विधुरता, सर्व तन्मारकर्मेत्युक्तम्॥



आर्यगगनगञ्जसूत्रेऽप्युक्तम्- इति हि यावदकुशलधर्मानुवर्तनता, कुशलधर्मोत्सर्गश्च, सर्व तन्मारकर्मेति॥



आर्यसागरमतिसूत्रेऽप्याह,पुनरपरं भगवन् बोधिसत्त्व आरण्यको भवति प्रान्तशय्यासनाभिरतोऽल्पेच्छुः संतुष्टः प्रविविक्तोऽसंसृष्टो गृहस्थप्रव्रजितैः। सोऽल्पार्थतया अल्पकृत्यतया च सुखं विहरति, न च बाहुश्रुत्पपर्येष्टावभियुक्तो भवति, न सत्त्वपरिपाकाय न च धर्मश्रवणे वा धर्म[सां] कथ्ये वा अर्थविनिश्चयकथायां वा वर्तमानायां संक्रमितव्यं मन्यते। न परिपृच्छनजातीयो भवति। न किंकुशलाभियुक्तो भवति। तस्यारण्यवासेन चैकारामरतितया च क्लेशा न समुदाचरन्ति। स पर्युत्थानविष्कम्भणमात्रेण तुष्टिं विन्दति। न चानुशयसमुद्धाताय मार्गं भावयति। स तत्र नात्मार्थाय प्रतिपन्नो भवत्, न परार्थाय। अयं भगवन् बोधिसत्त्वस्यारण्यवासप्रतिसंयुक्तसप्तमो माराङ्कुश इति॥ पेयालं॥ पुनरपरं भगवन् बोधिसत्त्वः कल्याणमित्रप्रतिरूपकाणि पापमित्राणि सेवते, भजते पर्युपास्ते। ये ह्येनं संग्रहवस्तुभ्यो विच्छन्द्य पुण्यसंभारात्सद्धर्मपरिग्रहाद्विच्छन्द्य प्रविवेके नियोजयन्ति। अल्पार्थायाल्पकृत्यतायां नियोजयन्ति। श्रावकप्रत्येकबुद्धप्रतिसंयुक्ताश्चास्मै कथा अभीक्ष्णं देशयन्ति॥ यस्मीश्च समये बोधिसत्त्वो विवेकवासेन महायानेऽभ्युद्गच्छेत्तस्मिन् समये तं बोधिसत्त्वं वैयावृत्यपलिबोधे नियोजयन्ति। वैयाव्रृत्यं बोधिसत्त्वेनावश्यं करणीयम्। यस्मिश्च समये बोधिसत्त्वो वैयावृत्ये संनियोजयितव्यः, तस्मिन् समये विवेके नियोजयन्ति। एव चैनं वदन्ति-आरब्धवीर्यस्य बोधिसत्त्वस्य बोधिर्न कुसीदस्य। सचेत्वमष्टाभिर्नवभिर्वा कल्पैरनुत्तरां सम्यक्संबोधिं नाभिसंभोत्स्यसे, न भूयः शक्यस्यनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम्। तत्र भगवान् बोधिसत्त्वोऽत्यारब्धेन वीर्येण स्थानं खलु पुनरेतद्विद्यते यन्निर्वाणफलं प्राप्नुयात्। अयं भगवन् बोधिसत्त्वस्य कल्याणमित्रप्रतिरूपकेण दशमो माराङ्कुशः॥ येऽपि ततोऽन्ये बोधिसत्त्वयानीयाः पुद्गला माराङ्कुशाविद्वाः प्रत्यवेतेषु धर्मेषु चरन्ति, तैः सार्ध रतिं विन्दति। तथा हि तदनुवर्तका भवन्ति, स हीनसेवी विशेषमनधिगतो हीनगतिं गच्छति, यदुत धन्वगतिं जडैडमूकगतिं यावदेकादशो माराङ्कुश इतिः॥



येन चैवं सांतत्यारब्धवीर्यस्य निर्वेदात्सर्वथा बोधिसत्त्वभाव एव भवति, अत एव रत्नमेघेऽभिहितम्-



इह बोधिसत्त्वः सर्वेर्यापथेषु वीर्यमारभते। तथा चारभते यथा न कायखेदं स जनयति, न चित्तखेदम्। इदमुच्यते बोधिसत्त्वस्य सांतत्यवीर्यमिति। कीदृशं तद्वीर्य येन खेदो न भवति? यदिदमल्पबलस्य गुरुकर्मारम्भोऽतिवेलायां वा अपरिपक्काधिमुक्तेर्वा दुष्करकर्मारम्भस्तद्यथा स्वमांसदानादिः। दत्तश्चानेनात्मभावः। किं त्वकालपरिभोगाद्वारयति। अन्यथा हि तेषामेव सत्त्वानां बोधिसत्त्वखेदेन बोधिचित्तबीजनाशान्महतः फलराशेर्नाशः स्यात्॥



अतश्च गगनगञ्जसूत्रेऽभिहितम्-अकालप्रतिकाङ्क्षणता मारकर्मेति॥



नाप्यकाल इत्यात्मभावत्यागमेव नोत्पाद्यम्। अभ्यासानारम्भाद्धि न कदाचिद्दद्यात्। तस्मादेवं स्मृतिमुपस्थाप्य बोधिचित्तपरिपाचनविरोधिभ्यो मोहात्स्वार्थघातिभ्यः पिशिताशनेभ्यः कर्मकारिभ्यश्चात्मभावो रक्षितव्यः॥

भैषज्यवृक्षस्य सुदर्शनस्य

मूलादिभोगस्य यथैव बीजम्।

दत्वापि संरक्ष्यमकालभोगा-

त्संबुद्धभैषज्यतरोस्तथैव॥

अयं समासतो मारकर्मानर्थः॥



अस्य विसर्जनं रत्नमेघसूत्रे कथितम्-कथं च कुलपुत्र अत्र बोधिसत्त्वो मारकर्मपरिहारोपायकुशलो भवति? इह बोधिसत्त्वोऽकल्याणमित्रं सर्वेण सर्व परिवर्ज[यति]। [अ]प्रतिरूपदेशवासं लोकायतमन्त्रसेवनभावनां लाभसत्कारपूजोपस्थानबहुमानं सर्वेण सर्व परिवर्जयति। ये चान्ये उपक्लेशा बोधिपक्ष्यमार्गान्तरायिकास्तान् सर्वेण सर्व परिवर्जयति। तेषां च प्रतिपक्षं भजते॥



अत्रैव चाकल्याणमित्रलक्षणमुक्तम्-शीलविपन्नपुद्गलविवर्जनतया पापमित्रपरिवर्जना वेदितव्या। एवं दृष्टिविपन्नाचारविपन्नाजीवविपन्नपुद्गलविवर्जनतया। संगणिकारामपुद्गलविवर्जनतया। कुसीदपुद्गलविवर्जनतया। संसाराभिरतपुद्गलविवर्जनतया। बोधिपराङ्मुखपुद्गलपरिवर्जनतया। गृहिसंसर्गविवर्जनतया पापमित्रपरिवर्जना वेदितव्या। तेन च कुलपुत्र एतानि स्थानानि परिवर्जयता न तेषां पुद्गलानामन्तिके दुष्टचित्तमुत्पादयितव्यं न प्रतिघचित्तं नावमन्यनाचित्तमुत्पादयितव्यम्। एवं चानेन चित्तमुपस्थापयितव्यम्। उक्तं हि भगवता-धातुशः सत्त्वाः कामादिधातुमास्त्रवन्ति जायन्ते संस्यन्दन्ते, संसर्गाच्च विनश्यन्ति। तस्मादहं संसर्ग वर्जयिष्यामीति॥



बोधिचित्तसंप्रमोषोऽप्यनर्थः। तस्य च हेतुरुक्तो रत्नकूटे-



चतुर्भिः काश्यप धर्मैः समन्वागतस्य बोधिसत्त्वस्य बोधिचित्तं मुह्यति। कतमैश्चतुर्भिः? आचार्यगुरुदक्षिणीयविसंवादनतया। परेषामकौकृत्ये कौकृत्योपसंहरणतया। महायानसंप्रस्थितानां च सत्त्वानामवर्णायशोकीर्त्यलोकनिश्चारणतया। मायाशाठयेन च परमुपचरति नाध्यायाशयेनेति॥



अस्य विवर्जनमत्रोक्तम्-चतुर्भिः काश्यप धर्मैः समन्वागतस्य बोधिसत्त्वस्य सर्वासु जातिषु जातमात्रस्य बोधिचित्तमामुखीभवति। न चान्तरा मुह्यति यावद्बोधिमण्डनिषदनात्। कतमैश्चतुर्भिः?यदुत जीवितहेतोरपि संप्रजानन् मृषावादं न प्रभाषते। अन्तशो हास्यप्रेक्षिकयापि अध्याशयेन च सर्वसत्त्वानामन्तिके तिष्ठत्यपगतमायाशाठयतया। सर्वबोधिसत्त्वेषु च शास्तृसंज्ञामुत्पादयति। चतुर्दिशं च तेषां वर्ण निश्वारयति। यांश्च सत्वान् परिपाचयति, तान् सर्वाननुत्तरायां सम्यक्संबोधौ समादापयति प्रादेशिकयानास्पृहणतया। एभिः काश्यप चतुर्भिरिति॥



सिंहपरिपृच्छायामप्याह-



न जातु धर्मदानस्य अन्तरायं करोति यः।

तेनासौ लभते क्षिप्रं लोकनाथेहि संगमम्।

तथा जातिस्मरा [दू] धर्मदानाज्जानीष्वैवं कुमारक॥ इति॥



तथात्रैव-



बोधिचित्तं न रिञ्चति तेन सर्वासु जातिषु।

स्वप्नान्तरेऽपि तच्चितं किं पुनर्यदि जाग्रतः॥



आह-



येषु विरतिस्थानेषु ग्रामेषु नगरेपु वा।

समादायेति बोधाय तेन चित्तं न रिञ्चति॥



आर्यमञ्जुश्रीबुद्धक्षेत्रगुणव्यूहालंकारसूत्रेऽप्याह-चतुर्भिधर्मैः समन्वागतो बोधिसत्त्वः प्रणिधानान्न चलति॥ पेयालं॥ निहतमानश्च भवति, ईर्ष्यामात्सर्यपरिवर्जकश्च भवति, परसंपदं च दृष्ट्वा नात्तमना भवतीति॥



इदमेव पात्रबोधिचित्तस्य स्फुटतरमसंप्रमोषकारणं यत्तत्रैव रत्नकूटेऽभिहितम्-सर्वेर्यापथेषु बोधिचित्तपरिकर्मणतया बोधिचित्तपूर्वगमतया चेति॥

तथा हि चन्द्रप्रदीसूत्रे पाठः -

आरोचयामि प्रतिवेदयामि वो

यथा यथा बहुलु वितर्कयेन्नरः।

तथा तथा भवति तन्निम्नचित्तः

तेही वितर्केहि तन्निश्रितेहि॥इति॥



अवसादोऽप्यनर्थः। एतद्वर्जनं च रत्नमेघे दृष्टम् -इह बोधिसत्त्वो नैवं चित्तमुत्पादयतिदुष्प्रापा बोधिर्मनुष्यभूतेन सता। इदं च मे वीर्य परीत्तं च। कुसीदोऽहम्। बोधिश्चादीप्तशिरश्चैलोपमेन बहून् कल्पान् बहूनि कल्पशतानि बहूनि कल्पसहस्त्राणि समुदानेतव्या। तन्नाहमुत्सह ईदृशं भारमुद्वोदुम्॥ किं तर्हि बोधिसत्त्वेनैवं चित्तमुत्पादयितव्यम्-येऽपि तेऽभिसंबुद्धास्तथागता अर्हन्तः सम्यक्संबुद्धाः, ये चाभिसंबुध्यन्ते, ये वा अभिसंभोत्स्यन्ते, तेऽपीदृशेनैव नयेन ईदृश्या प्रतिपदा। ईदृशेनैव वीर्येणाभिसंबुद्धा अभिसंबुध्यन्तेऽभिसंभोत्स्यन्ते च। यावन्न ते तथागतभूता एवाभिसंबुद्धाः। अहमपि तथा तथा घटिष्ये तथा तथा व्यायंस्ये सर्वसत्त्वसाधारणेन वीर्येण सर्वसत्त्वारम्बणेन वीर्येण यथाहमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्य इति॥



पुनरपरोऽनर्थो रत्नकूटे दृष्टः-अपरिपाचितेषु सत्त्वेषु विश्वासो बोधिसत्त्वस्य स्खलितम्, अभाजनीभूतेषु सत्त्वेषूदारबुद्धधमसंप्रकाशनात् बोधिसत्त्वस्य स्खलितम्, उदाराधिमुक्तिकेषु सत्त्वेषु हीनयानसंप्रकाशना(द्) बोधिसत्त्वस्य स्खलितमिति। सम्यक्स्मृत्युपस्थितेषु शीलवत्सु कल्याणधर्मेषु प्रतिविमानना दुःशीलपापधर्मसंग्रहा बोधिसत्त्वस्य स्खलितमिति॥



अनधिमुक्तिरप्यनर्थः। यथोक्तं राष्ट्रपालसूत्रे-



यस्यधिमुक्ति न विद्यति बुद्धे धर्मगणे च न तस्यधिमुक्तिः।

शिक्षव्रतेषु न तस्यधिमुक्तिः पापमतेस्त्रिरपायमुखस्य॥

स इतश्च्युतो मनुजेषु कर्मवशादबुधो हि विमूढः।

नरकेष्वथ तिर्यगतीषु प्रेतगतीषु च विन्दति दुःखम्॥ इति॥



अस्य विसर्जनं रत्नकूटेऽभिहितं दृष्टम्-येषु चास्य गम्भीरेषु बुद्धिर्नावहगाहते, तत्र तथागत एव साक्षीति कृत्वा न प्रतिक्षिपति। तथागत एवं जानीते, नाहं जाने। अनन्ता बुद्धबोधिर्नानाधिमुक्तिकतया तथागतानां सत्त्वेषु धर्मदेशना प्रवर्तत इति॥



वैयावृत्यवर्तमानेनानर्थविवर्जनकुशलेन भवितव्यम्। बोधिसत्त्वप्रातिमोक्षे हि सहधार्मिके धर्मश्रवणे, तथागतपूजायां च वैयावृत्यमुपदिष्टम्। तत्र या वृत्तिः, सा रत्नराशिसूत्रादागता। तत्र वैयावृत्यकरेण भिक्षुणा सर्वभिक्षुसंघस्य चित्तमभिराधयितव्यम्। तत्र ये भिक्षव आरण्यकाः प्रान्तशय्यासनिकास्तेषां वैयावृत्यकरेण भिक्षुणा सर्वेण सर्व न कर्मसमुत्थानं दातव्यम्। यदि पुनरारण्यकस्य भिक्षोः संघपर्यापन्नं शैक्षकं कर्म प्राप्नुयात,एतेन वैयावृत्यकरेण भिक्षुणा आत्मनैव तत्कर्तव्यम्। अन्यतरो वा भिक्षुरध्येष्यो न पुनः स आरण्यको भिक्षुरुत्पीडयितव्यः। तत्र यो भिक्षुः पिण्डचारिको भवति, तस्य तेन वैयावृत्यकरेण भिक्षुण प्रणीतभोजनेषु संविभागः कर्तव्यः। तत्र काश्यप यो भिक्षुर्योगाचारी भवति, तस्य तेन वैयावृत्यकरेण भिक्षुणा आनुलोमिकान्युपकरणान्युपसंहर्तव्यानि,ग्लानप्रत्ययभैषज्यपरिष्काराश्च। यस्मिश्च प्रदेशे स योगाचारी भिक्षुः प्रतिवसति, तस्मिन् प्रदेशे नोच्चशब्दः कर्तव्यः। रक्षितव्यो वैयावृत्यकरेण भिक्षुणा योगाचारी भिक्षुः। शय्यासनोपस्तम्भनास्य कर्तव्या। प्रणीतानि च संप्रियाणि योगाचारभूम्यनुकूलानि खादनीयभोजनीयान्युपनामयितव्यानि॥ पे॥ ये भिक्षवो बाहुश्रुत्येऽभियुक्ता भवन्ति, तेषामुत्साहो दातव्यः। यावत्तेऽपि रक्षितव्याः। ये धार्मकथिका भिक्षवो भविष्यन्ति, तेषां प्रतीहारधर्मता कर्तव्या। यावद्धार्मश्रवणिकाश्चोद्योजयितव्याः। पर्षन्मण्डलं परिसंस्थापयितव्यम्। सांकथ्यमण्डलं विशोधयितव्यं यावत्साधुकारबहुलेन चास्य भवितव्यम्। पेयालं। न क्कचिद्वस्तुनि ऐश्वर्यसंज्ञोत्पादयितव्या। कियत्परीत्तमपि कार्यं संघमतेन कर्तव्यं न स्वमतेन, यावन्न सांघिकश्चातुर्दिशसांघिककेन संसृष्टः कर्तव्यः। एवं विपर्ययादेवं स्तौपिकेन सहान्योन्यसंसर्गप्रतिषेधः। यदि चातुर्दिशे संघे वैकल्पं भवेत्सांघिकश्च लाभ उत्सदो भवेत्तेन वैयावृत्यकरेण भिक्षुणा भिक्षुसंघमेकमानसं कृत्वा सांघिकलाभाच्चातुर्दिशसांघिककार्यं कर्तव्यम्। एवं स्तूपेऽपि प्रलुग्नेऽयमेव विधिर्दायकान् दानपतीन् वा समादाप्य प्रतिसंस्कर्तव्य इत्याज्ञा। यदि पुनः काश्यप कियद्बहुरपि स्तौपिको लाभो भवेत्, स वैयावृत्यकरेण न संघे न चातुर्दिशसंघे उपनामयितव्यः। तत्कस्माद्धेतोः? या स्तौपिका अन्तश एकदशापि श्राद्धैः प्रसादबहुलैर्निर्यातिता भवति, सा सदेवकस्य लोकस्य चैत्यम्, कः पुनर्वादो रत्नं वा रत्नसंमतं वा। यच्च स्तूपे चीवरं निर्यातितं भवति, तत्तत्रैव तथागतचैत्ये वातातपवृष्टिभिः परिक्षयं गच्छतु। न पुनः स्तौपिकं चीवरं हिरण्यमूल्येन परिवर्तयितव्यम्। न हि स्तौपिकस्य कश्चिदर्घो नापि स्तूपस्य केनचिद्वैकल्यम्। यो हि कश्चित्काश्यप वैयावृत्यकरो भिक्षू रुष्टचित्तः शीलवतां दक्षिणीयानामैश्वर्यादाज्ञप्तिं ददाति, स तेनाकुशलेन कर्मणा नरकगामी भवतीति। यदि मनुष्यलोकमागच्छति, दासो भवति परकर्मकरो लाभी च भवति खटचपेटप्रचण्डप्रहाराणाम्। पेयालं। द[ण्डक]र्मभयतर्जितं भिक्षुं करोति, अकालप्रेषणमकालज्ञप्तिं ददाति। स तेनाकुशलेन कर्मणा बहुशङ्कुर्नाम प्रत्येकनरकस्तत्रास्योपपत्तिर्भवति। यावत्सहस्त्रविद्धः कायो भवति, आदीप्तः प्रदीप्तः संप्रज्वलितः। पेयालं। योजनशतविस्तारप्रमाणा जिह्वा भवति। तस्य तत्र जिह्वेन्द्रिये बहूनि शङ्कुशतसहस्त्राणि आदीप्तानि अयस्मयानि निखातानि भवन्ति। यो हि कश्चित्काश्यप वैयावृत्यकरो भिक्षुरागतागतं सांधिकं लाभं संनिधिं करोति, न कालानुकालं ददाति, उद्धस्यापयित्वा विहेठयित्वा ददाति, केषांचिन्न ददाति, स तेनाकुशलमूलेन जङ्घा नाम गूथमृत्तिकाप्रेतयोनिस्तत्रास्योपपत्तिर्मवति। तत्र अस्य अन्ये प्रेता भोजनं गृहीत्वा अपदर्शयन्ति। स उद्धस्यमानस्तद्भोजनमनिमिषाभ्यां नेत्राभ्यां पश्यमानः क्षुत्पिपासापरिगतो दुःखां वेदनां वेत्ति, न च वर्षसहस्त्रेणापि तस्य भोजनस्य लाभो भवति। यदपि कदाचित्कार्हिचिद्भोजनं लब्धं भवति, तदुच्चारं भवति, पूयशोणितं वेति॥



संघरक्षितावदानेऽप्यनर्थ उक्तः-यांस्त्वं संघरक्षित सत्त्वानद्राक्षीः कुडयाकारांस्ते भिक्षव आसन्। तैः सांघिकं कुडयं श्लेष्मणा नाशितम्। तस्य कर्मणो विपाकेन कुडयाकाराः संवृत्ताः। यांस्त्वं संघरक्षित सत्त्वानद्राक्षीः स्तम्भाकारांस्ते भिक्षव आसन्। तैः सांघिकस्तम्भः सिंहाणकेन नाशितः। तेन स्तम्भाकाराः संवृत्ताः। यांस्त्वं सत्त्वानद्राक्षीर्वृक्षाकारान् पत्राकारान् फलाकारान्, तेऽपि भिक्षव आसन्। तैरपि सांघिकानि वृक्षपत्रपुष्पफलानि पौद्गलिकपरिभोगेन परिभुक्तानि। तेन ते वृक्षपत्रपुष्पफलाकाराः संवृत्ताः। यांस्त्वं सत्त्वानद्राक्षी रज्ज्वाकारान् संमार्जन्याकारांस्ते भिक्षव आसन्। तैः सांघिका रज्जुसंमार्जन्यः पौद्गलिकपरिभोगेन परिमुक्ताः। तेन रज्ज्वाकाराः संमार्जन्याकाराश्च संवृत्ताः। ये त्वं सत्त्वमद्राक्षीस्तट्टा[प्वा?] कारं स श्रामणेरक आसीत्। स तट्टुकं निर्मादयति। आगन्तुकाश्च भिक्षवोऽभ्यागताः। तैरसौ दृष्टः पृष्टश्च-श्रामणेरक, किमयं संघस्य पानकं भविष्यति? स मात्सर्योपहतचित्तः कथयति-किं न पश्यथ तट्टुकं निर्मादितं पीतं पानकमिति? ते वृत्ता वेलेति नैराश्यमापन्ना हीनदीनवदनाः प्रक्रान्ताः। स तस्य कर्मणो विपाकेन तट्टुकाकारः संवृत्तः॥ यं त्वं सत्त्वमद्राक्षीरुदूखलाकारं सोऽपि भिक्षुरासीत्। तस्य पात्रकर्म प्रत्युपस्थितम्। तत्र चैकः श्रामणेरकोऽर्हन् मुद्गावारे नियुक्तः । स तेनोक्तः- श्रामणेरक, ददस्व मे खलिस्तोकं कुट्टयित्वेति। स कथयति-स्थविर, तिष्ठ तावन्मुहूर्तम्। व्यग्रोऽस्मि। पश्चात्कुट्टयित्वा दास्यामीति। स संजातामर्षः कथयति-श्रामणेरक, यदि मम कल्पेत उद्व(दू)खलं स्पष्टुम्, त्वामेवाहमुद्व(दू)खले प्रक्षिप्य कुट्टयेयम्, प्रागेव खलिस्तोकमिति। स श्रामणेरः संलक्षयति-तीव्रपर्यवस्थानपर्यवस्थितोऽयम्। यद्यहमस्मै प्रतिवचनं दास्यामि, भूयस्या मात्रया प्रकोपमापत्स्यतीति तूष्णीमवस्थितः। यदास्य पर्यवस्थानं विगतं तदोपसंक्रम्य कथयति-स्थविर, जानीषे त्वं कोऽहमिति? स कथयति-जाने त्वां काश्यपस्य सम्यक्संबुद्धस्य प्रव्रजितं श्रामणेरकम्। अहमपि भिक्षुः स्थविरः। श्रामणेरकः कथयति-यद्यप्येवम्, तथापि तु यन्मया प्रव्रजितेन करणीयं तत्कृतम्। किं कृतम्? क्लेशप्रहाणम्। छिन्नसकलबन्धनोऽहं सर्वबन्धनविनिर्मुक्तः। खरं ते वाक्कर्म निश्चारितम्। अत्ययमत्ययतो देशय। अप्येव नाम एतत्कर्म परिक्षयं तनुत्वं पर्यादानं गच्छेदिति। तेन अत्ययमत्ययतो न देशितम्। तेन कर्मणोदूखलाकारः संवृत्तः। यांस्त्वं सत्त्वानद्राक्षीः स्थाल्याकारान्, ते कल्पिकारका आसन् भिक्षूणामुपस्थापकाः। ते भैषज्यानि क्काथयन्तो भिक्षुभिरप्रियमुक्ताः। तैश्चित्तं प्रदूष्य स्थाल्यो भिन्नाः। तेन स्थाल्याकाराः संवृत्ताः। यं त्वं सत्त्वमद्राक्षीर्मध्ये छिन्नं तन्तुना धार्यमाणम्, सोऽपि भिक्षुरासील्लाभी ग्राहिकः। तेन मात्सर्याभिभूतेन लाभः संपरिवर्तितः। यो वार्षिकः स हैमन्तिकः परिणामितः। यस्तु हैमन्तिकः स वार्षिकः परिणामितः। तस्य कर्मणो विपाकेन मध्ये छिन्नस्तन्तुना धार्यमाणो गच्छति॥



॥धर्ममाणकादिरक्षा परिच्छेदस्तृतीयः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project