Digital Sanskrit Buddhist Canon

सद्धर्मपरिग्रहो द्वितीयः परिच्छेदः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
सद्धर्मपरिग्रहो द्वितीयः परिच्छेदः।



एवमेषामात्मभावादीनामुत्सृष्टानामपि रक्षा कार्या। कुतः? यस्मात्-

परिभोगाय सत्त्वानामात्मभावादि दीयते।

अरक्षिते कुतो भोगः किं दत्तं यन्न भुज्यते॥५॥

तस्मात्सत्त्वोपभोगार्थमात्मभावादि पालयेत्।



उक्तं हि बोधिसत्त्वप्रातिमोक्षे-परं शारिपुत्र रक्षिष्यामीत्यात्मा रक्षितव्यः। एवंरूपया शारिपुत्र हितैषि[क]तया समन्वागतो बोधिसत्त्वो जीवितहेतोरपि पापं कर्म न करोतीति॥



वीरदत्तपरिपृच्छायामप्याह-शकटमित्र भारोद्वहनार्थ केवलं धर्मबुद्धिना बोढव्यमिति। तथा अक्षयमतिसूत्रेऽपि-कायदुःखतया च न परिखिद्यते सत्त्वावेक्षितयेति॥



तच्चात्मभावादिकं कथं पालयेत्? कल्याणमित्रानुत्स(र्गा)र्जनात्। यथोक्तमार्यगण्डव्यूहे आर्यश्रीसंभवेन-कल्याणमित्रसंधारिताः कुलपुत्र बोधिसत्त्वा न पतन्ति दुर्गतिषु। कल्याणमित्रसमन्वाहृता नातिक्रामन्ति बोधिसत्त्वशिक्षाम्। कल्याणमित्रप्रतिच्छन्ना अभ्युद्गता भवन्ति लोकात्। कल्याणमित्रपर्युपासिता बोधिसत्त्वा असंप्रमोषचारिणो भवन्ति सर्वबोधिसत्त्वचर्यासु। कल्याणमित्रपरिगृहीता बोधिसत्त्वा दुर्धर्षा भवन्ति कर्मक्लेशैः। संबोधकाः कल्याणमित्रा अकरणीयानां संनिवारकाः प्रमादस्थानात्। निष्कासयितारः संसारपुरात्। तस्मात्तर्हि कुलपुत्र एवं मनसिकारात् प्रतिप्रश्रब्धेन कल्याणमित्राण्युपसंक्रमितव्यानि। पृथिवीसमचित्तेन सर्वभारवहना परिणमनतया वज्रसमचित्तेन अनाभेद्याशयतया चक्रवालसमचित्तेन सर्वदुःखासंप्रवेधनतया। लोकदाससमचित्तेन सर्वकर्मसमदानाजुगुप्सनतया। रजोहरणसमचित्तेन मानातिमानविवर्जनतया। यानसमचित्तेन गुरुभारनिर्वहनतया। श्रसमचित्तेनाक्रुध्यनतया। नौसंमचित्तेन गमनागमनापरित्रस्यतनया। सुपुत्रसदृशेन कल्याणमित्रमुखवीक्षणतया। आत्मनि च ते कुलपुत्र आतुरसंज्ञोत्पादयितव्या, कल्याणमित्रेषु च वैद्यसंज्ञा, अनुशासनीषु भैषज्यसंज्ञा, प्रतिपत्तिषु व्याधिनिर्घातनसंज्ञा। आत्मनि च ते कुलपुत्र भीरुसंज्ञोत्पादयितव्या, कल्याणमित्रेषु शूरसंज्ञा, अनुशासनीषु प्रहरणसंज्ञा, प्रतिपत्तिषु शत्रुनिर्घातनसंज्ञा॥ अत्रैव अचलोपासिकाविमोक्षे वर्णितम्-कल्याणमित्रानुशासनीप्रतिपन्नस्य कुलपुत्र बोधिसत्त्वस्य बुद्धा भगवन्तोऽभिराद्धचित्ता भवन्ति। कल्याणमित्रवचनाविलोमस्थायिनो बोधिसत्त्वस्य सर्वज्ञता आसन्नीभवति। कल्याणमित्रवचनाविचिकित्सकस्यासन्नीभवन्ति कल्याणमित्राणि। कल्याणमित्रमनसिकाराविरहितस्य सर्वार्था अभिमुखा भवन्तीति॥ अत एवार्यसुधनः सारध्वजस्य भिक्षोः पादौ शिरसाभिवन्द्य अनिकशतसहस्त्रकृत्वः प्रदक्षिणीकृत्य सारध्वजं भिक्षुमवलोक्य प्रणिपत्य पुनः पुनरवलोकयन् नियतं प्रणिपतन् नमस्यन्नवनमन् मनसि कुर्वन् चिन्तयन् भावयन् परिभावयन्नुदानमुदानयन् हाक्कारं कुर्वन् गुणानभिमुखीकुर्वन्निगमयन् अत्रसन्ननुस्मरन् दृढीकुर्वन्नविजहन् मनसागमयन्नुपनिबध्नन् प्रणिधिं समवसरन् दर्शनमभिलषन् स्वरनिमित्तमुद्गृह्णन् यावत्तस्यान्तिकात्प्रक्रान्तः॥ तथा कल्याणमित्रागतां सर्वज्ञतां संपश्यन्नश्रुमुखो रुदन् यावन्मेघस्य द्रमिडस्यान्तिकात्प्रक्रान्तः॥



बोधिसत्त्वप्रतिमोक्षेऽप्युक्तम्-इह शारिपुत्र बोधिसत्त्वो धर्मकामतया नास्ति तल्लोके रत्नं यन्न परित्यजति। नास्ति तत्कायोपस्थानं यन्न करोति। नास्ति तज्जङ्घाप्रेषणं यन्नोत्सहते। नास्ति तद्वाक्कर्म यन्नोत्सहते आचार्योपाध्यायगौरवतया। पेयालं। तत्कस्य हेतोः? बन्धच्छेदायैष धर्मः संवर्तते। जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्यच्छेदायैष धर्मः संवर्तत इति रत्नचित्तमुत्पाद्य, भैषज्यचित्तमुत्पाद्य, सर्वसत्त्वानां ग्लान्यव्युपशमायैष धर्मः संवर्तत इति। एष्टव्यश्चास्माभिः सर्वसत्त्वानां ग्लान्यव्युपशमायैवंरूपो धर्म इति॥



उग्रदत्तपरिपृच्छायामप्युक्तम्-सचेत्पुनर्गृहपते पाठस्वाध्यायार्थिको बोधिसत्त्वः कस्यचिदन्तिकाच्चतुष्पादिकां गाथां शृणुयादुद्दिशेद्वा उद्गृह्णीयाद्दानशीलक्षान्तिवीर्यध्यानप्रज्ञासंप्रयुक्तां बोधिसत्त्वसंभारोपचयं वा, तेन तस्मिन्नाचार्ये धर्मगौरवं करणीयं यावद्भिर्नामपदव्यञ्ज[न].... गाथोद्दिष्टा। यदि तावत् एवंकल्पांस्तस्याचार्यस्योपस्थानपरिचर्यां कुर्यादशठतया सर्वलाभसत्कारपूजया। अद्यापि गृहपते न प्रतिपूरितमाचार्यस्याचर्यगौरवं भवति, कः पुनर्वादो धर्म[गौरवम्]॥



प्रज्ञापारमितायामष्टसाहस्त्रिकायामप्युक्तम्-कल्याणमित्रेषु च त्वया कुलपुत्र तीव्रं गौरवमुत्पादयितव्यम्, प्रेम च करणीयम्। अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्व एवंरूपैर्गुणैर्गौरवमनसिकारैर्गच्छन्ननुपूर्वेणान्यतमनगरमनुप्राप्तम्। तत्र तस्यान्तरापणमध्यगतस्यैतदभूत्यन्न्वहमिममात्मभावं विक्रीय अनेन मूल्येन धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य सत्कारं कुर्याम्। दीर्घरात्रं हि ममात्मभावसहस्त्राणि भग्नानि क्षीणानि विक्रीतानि। पुनरपरिमाणे संसारेऽपरिमाणानि यानि मया कामहेतोः कामनिदानमनुभूतानि। न पुनरेवंरूपाणां धर्माणां कृतशः, एवंरूपाणां वा सत्त्वानां सत्काराय। अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वोऽन्तरापणमध्यगतः शब्दमुदीरयामास, घोषमनुश्रावयामास- कः पुरुषेणार्थिकः, कः पुरुषेणार्थिकः, कः पुरुषेणार्थिक इति। पेयालं। अथ खलु मारः पापीयान् ब्राम्हणगृहपतिकांस्तथा समुपस्थापयामास यथा तं घोषं नाश्रौषुः। यदा आत्मनः क्रायकं न लभते, तदैकान्तं गत्वा प्रारोदीत्, अश्रूणि च प्रावर्तयत्, एवं चावदत्- अहो बतास्माकं दुर्लभा लाभा ये वयमात्मभावस्यापि क्रेतारं न लभामहे। अथ खलु शक्रो देवानामिन्द्रो माणवकरूपेण यावत्सदाप्ररुदितं बोधिसत्त्वं महासत्त्वमेतदवोचत्-किं त्वं कुलपुत्र दीनमना उत्कण्ठितमानसोऽश्रूणि प्रवर्तयमानः स्थितः? सदाप्ररुदित एवमाह- अहं माणवक धर्मकामतया इममात्मभावं विक्रीय धर्मपूजां कर्तुकामः। सोऽहमस्य क्रायकं न लभे। पेयालं। अथ खलु स माणवकः सदाप्ररुदितं बोधिसत्त्वं महासत्त्वमेतदवोचत्- न मम कुलपुत्र पुरुषेण कृत्यम्। अपि तु खलु पुनः पितुर्मे यज्ञो यष्टव्यः। तत्र मे पुरुषस्य हृदयेन कृत्यं लोहितेन चास्थिमज्जया च। तद्दास्यसि त्वं क्रयेण?अथ खलु सदाप्ररुदितस्यैतदभूत्- लाभा मे सुलब्धाः, परिनिष्पन्नं चात्मानं जाने प्रज्ञापारमितोपायकौशल्येषु, यन्मयात्मनः क्रायको लब्धो हृदयस्य रुधिरस्य चास्थिमञ्जायाश्च। स हृष्टचित्तः कल्यचित्तः प्रमुदित्तचित्तस्तं माणवकमेतदवोचत्दास्यामि माणवक येन ते इत आत्मभावादर्थः। यावत्सदाप्ररुदितो बोधिसत्त्वो महासत्त्वस्तीक्ष्णं शस्त्रं गृहीत्वा दक्षिणं बाहुं विध्वा लोहितं [निस्त्रावयति स्म ] दक्षिणं चोरुं विध्वा निर्मासं च कृत्वा अस्थि मेत्तुं कुडयमूलमुपसंक्रामति॥



अथ खल्वन्यतरा श्रेष्ठिदारिका उपरिप्रासादतलगता अद्राक्षीत् सदाप्ररुदितं बोधिसत्त्वम्। यावत्सा श्रेष्ठिदारिका येन सदाप्ररुदितो बोधिसत्त्वस्तेनोपसंक्रम्यैतदवोचत्-किं नु खलु त्वं कुलपुत्र एवंरूपामात्मनः कारणां कारयसीति? यावत्सा दरिका पूजाप्रयोजनं श्रुत्वा पुनराह-का पुनस्ते कुलपुत्र ततो गुणजातिर्निष्पत्स्यते? स तामेतदवोचत्-स दारिके कुलपुत्रो मम प्रज्ञापारमितामुपायकौशल्यं चोपदेक्ष्यति। तत्र वयं शिक्षिष्यामः। तत्र वयं शिक्षमाणाः सर्वसत्त्वानां प्रतिशरणं भविष्यामः। पेयालं। अथ खलु सा श्रेष्ठिदारिका सदाप्ररुदितं बोधिसत्वमेतदवोचत्-आश्चर्य कुलपुत्र। यावदुदाराः प्रणीतश्चामी त्वया धर्माः परिकीर्तिताः। एकैकस्यापि कुलपुत्र एवंरूपस्य धर्मस्यार्थाय गङ्गानदीवालिकोपमानपि कल्पानेवमात्मभावाः परित्यक्तव्या भवेयुः। तथोदाराः प्रणीताश्चामी त्वया धर्माः परिकीर्तिताः। अपि तु खलु कुलपुत्र येन येन कृत्य तत्ते दास्यामि सुवर्ण वा मणिं वा मुक्तां वा वैडूर्य वा यावत् येन त्वं तं धर्मोद्गतं बोधिसत्त्वं सत्करिष्यसि। यावद्विस्तरेण तया दारिकया पञ्चशतपरिवारया सार्धं तस्य धर्मोद्गतस्य संक्रमणं कर्तव्यम्॥



अथ खलु धर्मोद्गतो बोधिसत्त्वो महासत्त्वः उत्थायासनात्स्वकं गृहं प्राविक्षत्। यावत्सप्त वर्षाण्येकसमधिसमापन्न एवाभूत्। सदाप्ररुदितो बोधिसत्त्वो महासत्त्वः सप्त वर्षाणि न कामवितर्कमुत्पादयामास, न व्यापादवितर्कम्, न विहिंसावितर्कमुत्पादयामास, न रसगृद्धिमुत्पादयामास अन्यत्र कदा नाम धर्मोद्गतो बोधिसत्त्वो महासत्त्वो व्युत्थास्यति, यद्वयं धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य धर्मासनं प्रज्ञापयिष्यामो यत्रासौ कुलपुत्रो निषद्य धर्मं देशयिष्यति। तं च पृथिवीप्रदेशं सिक्तं संमृष्टं च करिष्यामो नानापुष्पाभिकीर्णम्। [इति चिन्तयाभास]॥ तान्यपि श्रेष्ठिदारिकाप्रमुखाणि पञ्च दारिकाशतानि सदाप्ररुदितस्य बोधिसत्वस्यानुशिक्षमाणानि द्वाभ्यामेवेर्यापथाभ्यां कालमतिनामयामासुः। अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वो दिव्यं निर्घोषमश्रौषीत्-इतः सप्तमे दिवसे धर्मोद्गतो बोधिसत्त्वो महासत्त्वोऽस्मात्समाघेर्व्युत्थाय मध्ये नगरस्य निषद्य धर्म देशयिष्यतीति। अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वस्तं निर्घोषं श्रुत्वा आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातस्तं पृथिवीप्रदेशं शोधयामास। सार्ध श्रेष्ठिदारिकाप्रमुखैः पञ्चभिर्दारिकाशतैर्धर्मासनं प्रज्ञपयामास सप्तरत्नमयम्। अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्वस्तं पृथिवीप्रदेशं सेक्तुकामश्च न चोदकं समन्तात्पर्येषमाणोऽपि लभते येन तं पृथिवीप्रदेशं सिञ्चेत्। यथापि नाम मारेण पापीयसा तत्सर्वमुदकमन्तर्धापितम्- अप्येव नाम अस्योदकमलभमानस्य चित्तं दुःखितं स्याद्दौर्मनस्यं च भवेच्चित्तस्य वा अन्यथात्वं भवेद्येनास्य कुशलमूलान्तर्धानं भवेन्न वा भ्राजेरन् कुशलमूलानि। अथ खलु सदाप्ररुदितस्य बोधिसत्त्वस्य महासत्त्वस्यैतदभूत् - यत्र्वहमात्मनः कायं विघ्वा इमं प्रदेशं रुधिरेण सिञ्चेयम्। तत्कस्य हेतोः? अयं हि पृथिवीप्रदेश उद्धतरजस्कः। मा रजोधातुरितो धर्मोद्गतस्य बोधिसत्त्वस्य महासत्त्वस्य काये निपततु। किमहमनेनात्मभावेनावश्यं भेदनधर्मिणा कुर्याम्? वरं खलु पुनर्ममायं काय एवंरूपया क्रियया विनश्यतु, न च निःसामर्थ्यक्रियया। कामहेतोः कामनिदानं बहूनि मे आत्मभावसहस्त्राणि पुनः पुनरपरिमाणे संसारे संसरतो भिन्नानि। यदि पुनर्भिद्यन्ते, काममेवंरूपेष्विव धर्मस्थानेषु भिद्यन्ताम्॥



अथ खलु सदाप्ररुदितो बोधिसत्त्वो महासत्त्व इति प्रतिसंख्याय तीक्ष्णं शस्त्रं गृहीत्वा स्वकायं समन्ततो विध्वा तं पृथिवीप्रदेशं स्वरूधिरेण सर्वमसिञ्चत्। एवं ताभिरपि दारिकाभिः कृतम्। न च सदाप्ररुदितस्य बोधिसत्त्वस्य महासत्त्वस्य तासां वा सर्वासां दारिकाणां चित्तस्यान्यथात्वमभूत्, यत्र मारः पापीयानवतारं लभेतेति॥



अत एवं चतुर्धर्मकसूत्रेऽप्युक्तम्- कल्याणमित्रं भिक्षवो बोधिसत्त्वेन यावज्जीवं न परित्यक्तव्यमपि जीवितहेतोरिति॥

तदेवम्-



कल्याणमित्रानुत्सर्गात्

आत्मभावादीनां रक्षादिकं कार्यम्॥

सूत्राणां च सदेक्षणात्॥६॥



बोधिसत्त्वशिक्षापदानि हि प्रायः सूत्रेष्वेव दृश्यन्ते। तेषु तेषु सूत्रान्तेषु बोधिसत्त्वसमुदाचारा बोधिसत्त्वशिक्षापदानि प्रज्ञप्तानीति वचनात्। तस्मात्तदनीक्षणे मा भूदापत्तिरापन्नस्याप्यज्ञानादविरतिरिति सदा सूत्रदर्शनायादरः कार्यः। तदनेन कल्याणमित्रानुत्सर्गेण सूत्रान्तदर्शनेन च सर्वः सद्धर्मपरिग्रह उक्तो भवति॥



यथोक्तमार्यसागरमतिसूत्रे-याभिरक्षरनिरुक्तिभिः सोऽनभिलाप्यो धर्मः सूच्यते, तासामक्षरनिरुक्तीनां यदाधारणं देशना, यावद् अयमुच्यते सद्धर्मपरिग्रहः। पुनरपरं कुलपुत्र ये ते धर्मभाणका एषामेवंरूपाणां सूत्रान्तानां देशयितारः प्रतिपत्तिसाराश्च, तेषामपि धर्मभाणकानां यत्सेवनं भजनं पर्युपासनमुत्थानमुपस्थानं गौरवं चित्रीकारः शुश्रषा आरक्षा परिग्रहश्चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्कारदानं साधुकारदानं स्वाम्यारक्षा कुशलपक्षरक्षा वर्णभाषणमवर्णप्रतिच्छादनता, अयमपि सद्धर्मपरिग्रहः। पेयालं। पुनरपरं कुलपुत्र या अविवादपरमता, अधर्मे धर्मवादिनां च पुद्गलानां सह धर्मेण निग्रहः, अयमपि सद्धर्मपरिग्रहः। पुनरपरं कुलपुत्र अप्रतिहतसंतानस्य सर्वसत्त्वप्रमोक्षबुद्धेर्निरामिषचित्तस्य परेभ्यो धर्मदानम्, अयमपि सद्धधर्मपरिग्रहः। पुनरपरं कुलपुत्र यो धर्मश्रवणहेतुको वा धर्मदेशनाहेतुको व अन्तश एकक्रमव्यतिहारः, अन्तश एक उच्छ्वासप्रश्वासो वा, अयमपि सद्धर्मपरिग्रहः। पेयालं। प्रह्रुतं बतेदं कुलपुत्र चित्तं विषयेषु। तस्य या निवारणा परिरक्षा एकाग्रीभावो दमः शम उपशमो विनयः, अयमुच्यते सद्धर्मपरिग्रहः। पेयालं। पुनरपरं कुलपुत्र येन धर्मेण योऽधर्मः प्रवर्तते, तस्य धर्मस्यापरिग्रहोऽनुपादानम्, अयमपि सद्धर्मपरिग्रहः। इत्यदि॥



तत्र धर्मभाणकसेवादिना कल्याणमित्रानुत्सर्ग उक्तः, कल्याणमित्रलक्षणं च। तदेतेन सद्धर्मपरिग्रहेण विना न रक्षा, न शुद्धिर्नवृद्धिः। ततश्च सोऽपि न बोधिसत्त्व इत्यवश्यकार्यः सद्धर्मपरिग्रहः॥



उक्तं हि श्रीमालासिंहनादसूत्रे- यान्यपीमानि भगवन् गङ्गानदीवालिकासमानि बोधिसत्त्वप्रणिधानानि, तान्येकस्मिन् महाप्रणिधाने उपनिक्षिप्तान्यन्तर्गतान्यनुप्रतिष्ठानि यदुत सद्धर्मपरिग्रहे। एवं महाविषयो भगवन् सद्धर्मपरिग्रह इति॥



पुनरत्रैवाह-स्याद्यथापि नाम देवि महाबलवतोऽपि पुरुषस्याल्पोऽपि मर्मणि प्रहारो वेधनीयो भवति बाधाकरश्च, एवमेव देवि मारस्य पापीयसः परीत्तोऽपि सद्धर्मप[रिग्रहो] वेधनीयो भवति, शोकावहः परिदेवकरश्च भवति। नाहं देवि अन्यमेकमपि धर्म कुशलं समनुपश्यामि मारस्य पापीयस एवं वेधनीयं शोकावहं परिदेवकरं च , यथा अयमल्पोऽपि[सद्ध]र्मपरिग्रह इति॥



पुनराह- स्याद्यथापि नाम देवि सुमेरुः पर्वतराजः सर्वान् कुलपर्वतानभिभवन्नभिरोचते च समभिरोचते चोच्चत्वेन विपुलत्वेन च ,एवमेव देवि महायानिकस्य कायजीवितनिरपेक्षस्य न चागृहीतचित्तस्य सद्धर्मपरिग्रहो नवयानसंप्रस्थितानामपि कायजीवितसापेक्षाणां महायानिकानां सर्वान् कुशलान् धर्मानभिभवतीत्यादि॥



तथा आर्यसागरमतिसूत्रेऽप्याह-

परिगृहीतो भवती जिनेभि-

र्देवेभि नागेभि च किन्नरेभिः।

पुण्येन ज्ञानेन परिगृहीतः

सद्धर्मधारित्व तथागतानाम्॥पेयालं॥

स शून्यक्षेत्रेषु न जातु जायते

सर्वत्र जातौ च जिनं स पश्यति।

दृष्ट्वा च तस्मिँल्लभते प्रसादं

सद्धर्मधारित्व तथागतानाम्॥

जातिस्मरो भवति महात्मधर्मा

प्रवज्यलाभी भवते पुनः पुनः।

परिशुद्धचारी प्रतिपत्तिसारः

सद्धर्मधारित्व तथागतानाम्॥पेयालं॥

लाभी च भोती विदु धारणीये

न नश्यते कल्पशतेभि यच्छुभम्।

प्रतिभानवन्तो भवते असक्तः

सद्धर्मधारित्व तथागतानाम्॥

शक्रोऽथ ब्रह्मा तथ लोकपालो

मनुष्यराजा भुवि चक्रवर्ती।

सुखेन सौख्येन स बोधि बुध्यते

सद्धर्मधारित्व तथागतानाम्॥

द्वात्रिंश कायेऽस्य भवन्ति लक्षणा

अनिन्दिताङ्गो भवते विचक्षणः।

न तस्य तृप्तिं लभि प्रेक्षमाणाः

सद्धर्मधारित्व तथागतानाम्॥

न तस्य संमुह्यति बोधिचित्तं

न चोद्भुरः पारमिताचरीषु।

असंगृहीतः कुशलः शतेभिः

सद्धर्मधारित्व तथागतानाम्॥इति॥



शीलपारमितायां सद्धर्मपरिग्रहो नाम द्वितीयः परिच्छेदः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project