Digital Sanskrit Buddhist Canon

दानपारमिता प्रथमः परिच्छेदः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Dānapāramitā prathamaḥ paricchedaḥ

शन्तिदेवविरचितः

शिक्षासमुच्चयः।



दानपारमिता प्रथमः परिच्छेदः।



यस्याश्रवेण नरकादिमहाप्रताप-

दाहादिदुःखमनुभूतमभूद्भवद्भिः।

तीव्रं पुनः पुनरनन्तमशान्तचित्तै-

स्तच्छ्रोतुमादरमुदारतरं भजध्वम्॥१॥



श्रुत्वा[च यं त्यजति] पापमनुद्धतात्मा

पूर्वार्जितं च विपुलं क्षपयत्यशेषम्।

अप्राप्तपूर्वमपि सौख्यमवाप्नुवन्ति

हानिंसुखाच्च न कदाचिदपि प्रयान्ति॥२॥



संबोधिसत्त्वसुखमुत्तममक्षय ***

***** प्यसमसंपदमाप्नुवन्ति।

तद्धर्मरत्नमतिदुर्लभमद्य लब्धं

लब्धक्षणाः शृणुत सादरमुच्यमानम्॥३॥



आयान्तु च त्रिभुवनैकहितस्य वाक्यं

श्रोतुं प्रसन्नमनसः सुरनागसत्त्वाः।

गन्धर्वयक्षगरुडासुरकिन्नरेन्द्राः

प्रेतादयः श्रवणजाततृषः सहर्षाः॥४॥



सुगतान् ससुतान् सधर्मकायान्

प्रणिपत्यादरतोऽखिलांश्च वन्द्यान्।

सुगतात्मजसंवरावतारं

कथयिष्यामि समुच्चितार्थवाक्यैः॥५॥



न च किंचिदपूर्वमत्र वाच्यं

न च संग्रथनकौशलं ममास्ति।

अत एव न मे परार्थयत्नः

स्वमनो भावयितुं ममेदमिष्टम्॥६॥



मम तावदनेन याति वृद्धिं

कुशलं भावयितुं प्रसादवेगः।

यदि मत्समधातुरेव पश्ये-

दपरोऽप्येनमतोऽपि सार्थकोऽयम्॥७॥



क्षणसंपदियं सुदुर्लभा

प्रतिलब्धा पुरुषार्थसाधनी।

यदि नात्र विचिन्त्यते हितं

पुनरप्येष समागमः कुतः॥८॥



यथोक्तमार्यगण्डव्यूहसूत्रे आर्यजयोष्मायतनविमोक्षे-



दुर्लभा अष्टाक्षणनिवृत्तिः। दुर्लभो मनुष्यप्रतिलम्भः। दुर्लभा क्षणसंपद्विशुद्धिः। दुर्लभो बुद्धोत्पादः। दुर्लभा अविकलेन्द्रियता। दुर्लभो बुद्धधर्मश्रवः। दुर्लभं सत्पुरुषसमवधानम्।

दुर्लभानि भूतकल्याणमित्राणि। दुर्लभो भूतनयानुशासन्युपसंहारः। दुर्लभं सम्यग्जीवितम्। दुर्लभः सद्धर्मे तदनुकूलः प्रयत्नो मनुष्यलोके॥ इति।



तदेवंविधं समागममासाद्य संवृतिपरमार्थतः सुविदितसंसारदुःखस्योपशमनसुखाभिलाषिणो बुद्धगोत्रानुभावात्तु यस्य महासत्त्वस्यैवं प्रत्यवेक्षोत्पद्यते-



यदा मम परेषां च भयं दुःखं च न प्रियम्।

तदात्मनः को विशेषो यत्तं रक्षामि नेतरम्॥१॥



इति। तेन आत्मनः सत्त्वधातोश्च-



दुःखान्तं कर्तुकामेन सुखान्तं गन्तुमिच्छता।

श्रद्धामूलं दृढीकृत्य बोधौ कार्या मतिर्दृढा॥२॥



उक्तं हि रत्नोल्काधारण्याम् -



श्रद्धयमानु जिनान् जिनधर्मान् श्रद्धयते चरि बुद्धसुतानाम्।

बोधि अनुत्तर श्रद्धयमानो जायति चित्त महापुरुषाणाम्॥

श्रद्ध पुरोगत मातृजनेत्री पालिक वर्धिक सर्वगुणानाम्।

काङ्क्षविनोदनि ओघप्रतारणि श्रद्धनिदर्शनि क्षमपुरस्य॥

श्रद्ध अनाविलचित्तप्रसादो मानविवर्जितगौरवमूला।

श्रद्ध निधानधनं चरणाग्रं पाणि यथा शुभसंग्रहमूलम्॥

श्रद्ध प्रमोदकरी परित्यागे श्रद्ध प्रहर्षकरी जिनधर्मे।

श्रद्ध विशेषकरी गुणज्ञाने देशिकप्रापणि बुद्धगतीये॥

इन्द्रियतीक्ष्णप्रभास्वरतायै श्रद्ध बलं अविमर्दनतायै।

निश्रयक्लेश‍अधर्षिकतायै ऐषिक श्रद्ध स्वयंभुगुणानाम्॥

श्रद्ध असंगत सङ्गसुखेषु अक्षणवर्जित एकक्षणाग्रम्।

श्रद्ध अतिक्रमु मारपथस्य दर्शिक उत्तम मोक्षपथस्य॥

बीजमपूतिकु हेतु गुणानां श्रद्ध विरोहणि बोधिद्रुमस्य।

वर्धनि ज्ञानविशेषसुखानां श्रद्ध निदर्शिक सर्वजिनानाम्॥

ये सदश्रद्ध सगौरव बुद्धे ते तु न शील न शिक्ष त्यजन्ति।

ये तु न शील न शिक्ष त्यजन्ती ते गुणवां स्तुत ये गुणवन्तः॥

ये सद श्रद्ध सगौरव धर्मे ते जिनधर्म अतृप्त शृणोन्ती।

ये जिनधर्म अतृप्त शृणोन्ती तेष्वधिमुक्ति अचिन्तियधर्म॥

ये सदश्रद्ध सगौरव संघे ते अविवर्तिक संघप्रसन्नाः।

ये अविवर्तिक संघप्रसन्नास्ते अविवर्तिक श्रद्धबलातः॥

ये अविवर्तिक श्रद्धबलातो इन्द्रिय तीक्ष्ण प्रभास्वर तेषाम्।

इन्द्रिय तीक्ष्ण प्रभास्वर येषां तेहि विवर्जित पापकमित्राः॥

येहि विवर्जित पापकमित्राः धार्मिक मित्र परिग्रह तेषाम्।

धार्मिकमित्र परिग्रह येषां ते विपुलं कुशलोपचिनोन्ति॥

ये विपुलं कुशलोपचिनोन्ती हेतुबलोपगताय महात्मा।

हेतुबलोपगताय महात्मा तेष उदारधिमुक्तिविशेषाः।

येष उदारधिमुक्तिविशेषास्ते सदधिष्ठित सर्वजिनेभिः॥

ये सदधिष्ठित सर्वजिनेभिस्तेषुपपद्यति बोधयि चित्तम्।

येषुपपद्यति बोधयि चित्तं ते अभियुक्त महर्षिगुणेषु॥

ये अभियुक्त महर्षिगुणेषु जात ये बुद्धकुले अनुजाताः।

जात ये बुद्धकुले अनुजातास्ते समयोग‍अयोगविमुक्ताः॥

ये समयोग‍अयोगविमुक्ताः आशयु तेष प्रसादविशुद्धः।

आशयु येष प्रसादविशुद्धः तेष अध्याशयु उत्तम श्रेष्ठः॥

येष अध्याशयु उत्तम श्रेष्ठस्ते सद पारमितासु चरन्ति।

ये सद पारमितासु चरन्ती ते प्रतिपन्न इहो महयाने॥

ये प्रतिपन्न इहो महयाने ते प्रतिपत्तितु पूजयि बुद्धान्।

ये प्रतिपत्तितु पूजयि बुद्धान् तेषु अनुस्मृति बुद्ध अमेद्या॥

येषु अनुस्मृति बुद्ध अमेद्या ते सद पश्यिय चिन्तिय बुद्धान्।

ये सद पश्यिय चिन्तिय बुद्धान् तेष न जातु न तिष्ठति बुद्धः॥

येष न जातु न तिष्ठति बुद्धः तेष न जातु रहायति धर्मः।

येष न जातु रहायति धर्मः ते सदधिष्ठित सर्वजिनेभिः॥

इत्यादि श्रद्धामूलो गुणविस्तरोऽनन्तस्तत्रोक्तः। तत्परिसमाप्य संक्षेपतः पुनराह-

दुर्लभ सत्त्व पृथग्जनकाया ये इमि श्रद्दधि ईदृशि धर्मान्।

ये तु शुभोपचिताः कृतपुण्यास्ते इमि श्रद्दधि हेतुबलेन॥

यो दशक्षेत्ररजोपमसत्वान् कल्पमुपस्थिहि सर्वसुखेन।

नो ततु तादृशु पुण्यविशेषो यादृश श्रद्दधतो इति धर्मान्॥इति।

तथा आर्यदशधर्मसूत्रेऽपि देशितम्-

श्रद्धा हि परमं यानं येन निर्यान्ति नायकाः।

तस्माच्छ्रद्धानुसारित्वं भजेत मतिमान्नरः॥

अश्राद्धस्य मनुष्यस्य शुक्लो धर्मो न रोहति।

बीजानामग्निदग्धानामङ्कुरो हरितो यथा॥इति।

अत एवार्यललितविस्तरसूत्रे प्रतिवेदितम्-श्रद्धायामानन्द योगः करणीयः। इदं तथागतो विज्ञपयतीति॥

तथा सिंहपरिपृच्छायाम्-श्रद्धया क्षणमक्षणं वर्जयति इत्युक्तम्॥

तदेवं श्रद्धामूलं दृढीकृत्य बोधिचित्तं दृढं कर्तव्यं सर्वपुण्यसंग्रहत्वात्। तद्यथार्यसिंह परिपृच्छायां सिंहेन राजकुमारेण भगवान्पृष्टः-

संग्रहः सर्वधर्माणां कर्मणा केन जायते।

प्रियश्च भोति सत्त्वानां यत्र यत्रोपपद्यते॥

भगवानाह-

सर्वसत्त्वप्रमोक्षाय चित्तं बोधाय नामयेत्।

एष संग्रह धर्माणां भवते तेन च प्रियः॥इति।

तथार्यगण्डव्यूहसूत्रेऽपि वर्णितम्-बोधिचित्तं हि कुलपुत्र बीजभूतं सर्वबुद्धधर्माणाम्। क्षेत्रभूतं सर्वजगच्छुक्लधर्मविरोहणतया। धरणिभूतं सर्वलोकप्रतिशरणतया। यावत्पितृभूतं सर्वबोधिसत्त्वरक्षणतया...........पेयालं.....वैश्रवणभूतं सर्वदारिद्र्यसंछेदनतया। चिन्तामणिराजभूतं सर्वार्थसंसाधनतया। भद्रघटभूतं सर्वाभिप्रायपरिपूरणतया। शक्तिभूतं क्लेशशत्रुविजयाय। धर्मभूतं योनिशोमनस्कारसंछेदनतया। खङ्गभूतं क्लेशशिरःप्रपातनया। कुठारभूतं दुःखवृक्षसंछेदनतया। प्रहरणभूतं सर्वोपद्रवपरित्राणतया। बडिशभूतं संसारजलचराभ्युद्धरणतया। वातमण्डलीभूतं सर्वावरणनीवरणतृणविकिरणतया। उद्दानभूतं सर्वबोधिसत्त्वचर्याप्रणिधानसंग्रहणतया। चैत्यभूतं सदेवमानुषासुरस्य लोकस्य। इति हि कुलपुत्र बोधिचित्तमेभिश्चान्यैश्चाप्रमाणैर्गुणविशेषैः समन्वागतमिति॥

कथं पुनर्ज्ञायते-पृथग्जनस्यापि बोधिचित्तमुत्पद्यते न वाङ्मात्रमेतदिति?अनेकसूत्रान्तदर्शनात्। यथा तावदार्यविमलकीर्तिनिर्देशे निर्दिष्टम्-सुमेरुसमां सत्कायदृष्टिमुत्पाद्य बोधिचित्तमुत्पद्यते। ततश्च बुद्धधर्मा विरोहन्तीति। रत्नकरण्डसूत्राच्च पृथग्जनोऽपि बोधिसत्त्व इति ज्ञायते। यथोक्तम् -तद्यथापि नाम मञ्जुश्रीः अण्डकोषप्रक्षिप्तोऽपि कलविङ्कपोतो असंभिन्नाण्डः अनिष्क्रान्तः कोषात्कलविङ्करुतमेव मुञ्चति, एवमेव मञ्जुश्रीः अविद्याण्डकोषप्रक्षिप्तोऽपि बोधिसत्त्वो असंभिन्नात्मदृष्टिरनिष्क्रान्तस्त्रैधातुकाद्बुद्धरुतमेव मुञ्चति यदिदं शून्यतानिमित्ताप्रणिहितरुतमेव॥



सर्वधर्माप्रवृत्तिनिर्देशेऽपि कथितम्- जयमतेश्च बोधिसत्त्वस्य पृथिवी विदारमदात्। स कालगतो महानिरयं प्रापतदिति। स हि शून्यतां नाधिमुक्तवान्, शून्यतावादिनि च प्रतिधंकृतवान्॥



नियतानियतावतारमुद्रासूत्रेऽप्याख्यातम्-कतमः पशुरथगतिको बोधिसत्त्वः? तद्यथाकश्चित्पुरुषः पञ्चबुद्धक्षेत्रपरमाणुरजः समान् लोकधातूनभिक्रमितुकामः स्यात्। स पशुरथमभिरुह्य मार्ग प्रतिपद्यते। स चिरेण दीर्घेणाध्वना योजनशतं गच्छेत्। स तत्र महत्या वातमण्डल्या पश्चात् खलु पुनरशीतिं योजनसहस्राणि प्रत्याकृष्य प्रत्युदावर्त्येत। तत्किं शक्नुयात्स पुरुषस्तान् लोकधातून् पशुरथेनातिक्रमितुम्? यावदनभिलाप्यानभिलाप्यैरपि कल्पैरेकमपि लोकधातुमतिक्रमितुम्? आह- नो हीदं भगवन्। भगवानाह- एवमेव मञ्जुश्रीः यः कश्चिद्बोधिचित्तमुत्पाद्य महायानं न धारयति, न पठति, श्रावकयानीयान् सेवते,तैश्च सार्ध संस्तवं करोति, श्रावकयानं च पठति, स्वाध्यायति मीमांसते परिबुध्यते, अर्थांश्च पाठयति यावद्बोधयति, स तेन दन्धप्रज्ञो भवति। सोऽनुत्तरज्ञानमार्गात्प्रत्याकृष्यते प्रत्युदावर्त्यते। यदपि तस्य बोधिसत्त्वस्य बोधिभावनातः प्रज्ञेन्द्रियं प्रज्ञाचक्षुः, तदपि तस्य दन्धीक्रियते प्रतिहन्यते। सोऽयं पशुरथगतिको बोधिसत्त्व इति॥



तदेवमेषा शून्यतानधिमुक्तिर्महायानानभिरतिश्च असंपूर्णाधिमुक्तिचित्तचर्यस्यापि प्रायो न संदृश्यते, प्रागेव अधिमात्राधिमुक्तिचर्यस्य बोधिसत्त्वस्य। स हि रत्नमेघे सर्वबालचरितविपत्तिसमतिक्रान्तः पठयते असंख्येयसमाधिधारणीविमोक्षाभिज्ञाविद्याविक्रीडितोऽनन्तधर्मारामरतिनिरामिषापरान्तकल्पकोटयनाभोगनिर्विकल्पप्रीतिवेगालोकप्रतिलब्धश्च अप्रमेयकल्पकोटीनियुतशतसहस्रपरम महायानप्रस्थानविचित्रभावनासंपूर्णपरार्थप्रतिपत्तिनिर्याणपुण्यज्ञानसंभाराभिनिर्हाराभिनिर्वृत्तिः पूर्वयोगशतसहस्रसमृद्धश्च पठयते। अथैतन्नेयार्थम्। कस्मादन्ये बोधिचित्तोत्पादका अस्यां भूमौ नेष्यन्ते? न चात्र इच्छया किंचिद्विशेषचिन्हं नीतार्थं कर्तुं लभ्यते। अधिमात्राधिमुक्तिचर्याधर्मतावचनाच्च गम्यते। यथा मध्यमृदुप्रकाराप्यधिमुक्तिचर्या अस्त्येवेति॥ अस्य पुनस्तथागतगुह्यसूत्रस्य कोऽभिप्रायः? यदुक्तम्-कस्य भगवन् बोधिचित्तोत्पादः? आह-यस्य महाराज अध्याशयोऽविकोपितः। आह-कस्य भगवन्नध्याशयोऽविकोपितः? आह-यस्य महाराज महाकरुणोत्पादः। आह-कस्य भगवन् महाकरुणोत्पादः? आह-यस्य महाराज सर्वसत्त्वापरित्यागः। आह- कथं भगवन् सत्त्वा अपरित्यक्ता भवन्ति? आह-यदा महाराज आत्मसौख्यं परित्यक्तं भवतीति॥



बोधिचित्तमात्रसंतुष्टानां करुणाभिलाषसंजननार्थमिदमुक्तम्॥ यथा न ते तथागतशासने प्रव्रजिताः, येषां नास्ति त्याग इति। एवमिह अन्यबोधिचित्तनिन्दा द्रष्टव्या, न तु बोधिचित्तमन्यथा नोत्पद्यत एव॥



यथा दशधर्मकसूत्रे देशितम्-इह कुलपुत्र बोधिसत्त्वगोत्रस्थः सन्ननुत्पादितबोधिचित्तः तथागतेन वा तथागतश्रावकेण वा संचोद्यमानः संवेद्यमानः समादाप्यमानोऽनुत्तरायां सम्यक्संबो[धौ] बोधिचित्तमुत्पादयति-इदं प्रथमं कारणं बोधिचित्तोत्पादाय। संबोधेर्वा बोधिचित्तस्य वा अवर्ण भाष्यमाणं श्रुत्वा अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयति-इदं द्वितीयं कारणम्। स सत्वाननाथा[नत्राणा] नशरणानद्वीपान् दृष्ट्वा कारुण्यचित्तमुपस्थाप्य यावदनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयति-इदं तृतीयं कारणं बोधिचित्तोत्पादाय। स तथागतस्य सर्वाकारपरिपूर्णतां दृष्ट्वा प्रीतिमुत्पाद्य अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयति-इदं चतुर्थ कारणमिति॥



तच्च बोधिचित्तं द्विविधम्-बोधिप्रणिधिचित्तं च बोधिप्रस्थानचित्तं च। यथा आर्यगण्डव्यूहसूत्रे भाषितम्-



दुर्लभाः कुलपुत्र ते सत्त्वाः सर्वलोके येऽनुत्तरस्यां सम्यक्संबोधौ चित्तं प्रणिदधति। ततोऽपि दुर्लभतमास्ते सत्त्वा येऽनुत्तरां सम्यक्संबोधिमभिसंप्रस्थिताः॥इति॥



तत्र बोधिप्रणिधिचित्तं मया बुद्धेन भवितव्यमिति चित्तं प्रणिधानादुत्पन्नं भवति।

शूरगमसूत्रेऽपि शाठ्योत्पादितस्यापि बोधिचित्तस्य बुद्धत्वहेतुत्वाभिधानात्। कः पुनर्वादः किंचिदेव कुशलं कृत्वा। यथोक्तं भद्रकल्पिकसूत्रे-घोषदत्तो नाम तथागतो यत्र नक्षत्रराजेन तथागतेन प्रथमं बोधिचित्तमुत्पादितं ताम्बूलपत्रं दत्त्वा गोपालकभूतेन। एवं विद्युत्प्रदीपो नाम तथागतो यत्र यशसा तथागतेन प्रथमं बोधिचित्तमुत्पादितं दशिकां दत्त्वा तन्त्र(न्तु)वायभूतेन। एवमनन्तप्रभो नाम तथागतो यत्रार्चिष्मता तथागतेन प्रथमं बोधिचित्तमुत्पादितं तृणप्रदीपं दत्वा नगरावलम्बकभूतेन। एवं दृढविक्रमो नाम तथागतो यत्र दुष्प्रधर्षेण तथागतेन प्रथमं बोधिचित्तमुत्पादितं दन्तकाष्ठं दत्वा काष्ठहारकभूतेनेत्यादि॥



चर्याविकलेऽपि च बोधिचित्ते नावमन्यना कर्तव्या, तस्याप्यनन्तसंसारसुखप्रसवनत्वात्। यथार्यमैत्रेयविमोक्षे वर्णितम्-तद्यापि नाम कुलपुत्र भित्तमपि वज्ररत्नं सर्वप्रतिविशिष्टं सुवर्णालंकारमभिभवति, वज्ररत्ननाम च न विजहाति, सर्वदारिद्र्यं विनिवर्तयति, एवमेव कुलपुत्र आशयप्रतिपत्तिभिन्नमपि सर्वज्ञताचित्तोत्पादवज्ररत्नं सर्वश्रावकप्रत्येकबुद्धगुणसुवर्णालंकारमभिभवति, बोधिचित्तनाम च न विजहाति, सर्वसंसारदारिद्र्यं विनिवर्तयतीति॥



इतश्च विनापि चर्यया बोधिचित्तमुपकारकमिति ज्ञातव्यम्।येनापरराजाववादकसूत्रे कथितम्-यस्माच्च त्वं महाराज बहुकृत्यो बहुकरणीयः, असहः सर्वेण सर्वः सर्वथा सर्व सर्वदा दानपारमितायां शिक्षितुम् , एवं यावत्प्रज्ञापारमितायां शिक्षितुम्, तस्मात्तहिं त्वं महाराज एवमेव सम्यक्संबोधिछन्दं श्रद्धां...... च प्रणिधिं च गच्छन्नपि तिष्ठन्नपि निषण्णोऽपि शयानोऽपि जाग्रदपि भुञ्जानोऽपि पिबन्नपि सततसमितमनुस्मर, मनसि कुरु, भावय। सर्वबुद्धबोधिसत्त्वप्रत्येकबुद्धार्यश्रावकपृथग्जनानामात्मनश्चातीतानागतप्रत्युत्पन्नानि सर्वकुशलमूलान्यभिसंक्षिप्य तुलयित्वा पिण्डयित्वा अनुमोदस्व, अग्रयानुमोदनया यावदाकाशसमतया निर्वाणसमतया अनुमोदस्व, अनुमोद्य च सर्वबुद्धबोधिसत्त्वप्रत्येकबुद्धार्यश्रावकाणां पूजाकर्मणे निर्यातय। निर्यात्य च सर्वसत्त्वसाधारणानि कुरु। ततः सर्वसत्त्वानां यावत् सर्वज्ञताप्रतिलम्भाय सर्वबुद्धधर्मपरिपूरणाय दिने दिने त्रैकाल्यमनुत्तरायां सम्यक्संबोधौ परिणामय। एवं खलु त्वं महाराज प्रतिपन्नः सन् राज्यं कारयिष्यसि, राज्यकृत्यानि च न हापयिष्यसि, बोधिसंभारांश्च परिपूरयिष्यसीति॥



अत्रैव चास्य विपाक उक्तः-स खलु पुनस्त्वं महाराज तस्य सम्यक्संबोधिचित्तकुशलमूलकर्मणो विपाकेन अनेकशतकृत्वो देवेषुपपन्नोऽभूः। अनेकशतकृत्वो मनुष्येषूपपन्नोऽभूः। सर्वासु च देवमनुष्योपपत्तिष्वाधिपत्यमेव कारयसि। न च तावत्तव महाराज तस्य सम्यक्संबोधिचित्तस्य कुशलकर्मण ऊनत्वं वा अपूर्णत्वं वा प्रज्ञायते। अपि च महाराज एकमपि सम्यक्संबोधिचित्तं सर्वसत्त्वोत्तारणारम्बणत्वात् सर्वसत्त्वामोचनारम्बणत्वात् सर्वसत्त्वसमाश्वासनारम्बणत्वात् सर्वसत्त्वपरिनिर्वाणारम्बणत्वादप्रमेयासंख्येयकुशलोपचयम्। कः पुनर्वादो य एवं बहुलीकरोतीति॥



एतच्च बोधिचित्तं रूपकायदर्शनोत्पन्नम्। तत्र पूर्वावदाने पठयते-एवं तावत्प्रणिधिबोधिचित्तं वेदितव्यम्। इदं तु वक्तव्यम् - किमभूमिप्रविष्टस्यापि बोधिसत्त्वसंवराधिकारोऽस्ति न वेति? अस्तीति वेदितव्यम्। आकाशगर्भसूत्रे लाभसत्कारार्थं मूलापत्तिश्रवणात्। दशभूमिकसूत्रे तु प्रथमायां भूमौ दर्शितम्- न च कंचित् सत्कारं कस्यचित्सकाशात्प्रतिकाङ्क्षति अन्यत्र मयैवैषां सर्वसत्त्वानां सर्वोपकरणबाहुल्यमुपनामयितव्यमिति॥ तथा चाह- प्रमुदितायां बोधिसत्त्वभूमौ सुव्यवस्थितो भवत्यचलनयोगेनेति। पुनश्चोक्तम्-तथागतवंशनियतो भवति संबोधिपरायण इति॥



आकशगर्भसूत्रे त्वाह- श्रावकयानमेवास्य न भवति प्रागेव महायानमिति॥ तथार्योग्रपरिपृच्छायां मात्सर्यपर्यवनद्धस्यापि शिक्षापदानि प्रज्ञप्तानि। प्रमुदितायां तु पठयते-

आत्मसंज्ञापगमाच्चास्य आत्मस्नेहो न भवति, कुतः पुनः सर्वोपकरणस्नेह इति। तथा मस्तकादिदानमप्यत्रास्योक्तम्॥



एवमादिसूत्रेषु भूमिप्रविष्टस्यापि शिक्षाप्रज्ञप्तिर्दृश्यते। यत्र तु असामान्येन बोधिसत्त्वमधिकृत्योपदेशः, तत्र अभ्यासायोग्यतया प्रतिवेधवाक्येन वा आदिकर्मिकबोधिसत्त्वेन न शिक्षितव्यं भवेदेतत्। उभयासंभवे तु सर्वत्र शिक्षितव्यम्। तत्राप्येकस्यां शिक्षायां शिक्षणायामशक्तस्येतरशिक्षानभ्यासादनापत्तिः॥ आर्याक्षयमतिसूत्रेऽप्येवमवोचत्-दानकाले शीलोपसंहारस्योपेक्षेति विस्तरः॥



न चात्र शिथिलेन भवितव्यम्, न च शेषासु न समुदागच्छति। यथाबलं यथाभजमानमिति दशभूमिकसूत्रे वचनात्। अयं च संवरः स्त्रीणामपि मृदुक्लेशानां बोध्यभिलाषचित्तानां लभ्यते। उक्तं हि बोधिसत्त्वप्रातिमोक्षे-चतुर्भिः शारिपुत्र धर्मैः समन्वागताः बोधिसत्त्वाः सत्यवादिनो भवन्तीत्यारभ्याह- इह शारिपुत्र कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य आरब्धवीर्यो विहरति कुशलधर्मपर्येषणायेत्यारभ्य सर्व उपदेशः॥



संवरग्रहणं च बोधिसत्त्वशिक्षापदाभ्यासपरमस्य सांवरिकस्यान्तिकात्कर्तव्यम्। एवं ह्यस्य शिक्षातिक्रमे तीव्रमपत्राप्यं गुरुविसंवादनभयं चोत्पद्यते। तत्र च अनाभोगतः प्रेमगौरवसिद्धिरित्येष सामान्यसंवरधर्मः। अत एव बोधिसत्त्वाः तथागतानां पुरतः शिक्षाणामन्यतमशिक्षानिष्पत्तिकामाः समादानं कुर्वन्ति। तस्य च कल्याणमित्रस्याभावे दशदिगवस्थितबुद्धबोधिसत्त्वाभिमुखीभावभावनया संवरो ग्राह्यः संवरमात्मबलं च तुलयित्वा। अन्यथा तु सर्वबुद्धबोधिसत्त्वाः सदेवकश्च लोको विसंवादितः स्यात्। सद्धर्मस्मृत्युपस्थानसूत्रे हि किंचिन्मात्रं चिन्तयित्वापि अददतः प्रेतगतिरुक्ता प्रतिज्ञातं च - अददतो नरकगतिः, किं पुनरनुत्तरमर्थमखिलस्य जगतः प्रतिज्ञाय असंपादयतः। अत एवोक्तं धर्मसंगीतिसूत्रे-सत्यगुरुकेण कुलपुत्र बोधिसत्त्वेन भवितव्यम्। सत्यसंगीतिः कुलपुत्र धर्मसंगीतिः। तत्र कुलपुत्र कतमत्सत्यं यद्बोधिसत्त्वोऽनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य तच्चितं जीवितहेतोरपि न परित्यजति,न सत्त्वेषु विप्रतिपद्यते? इदं बोधिसत्त्वस्य सत्यम्- यत्पुनर्बोधिसत्त्वोऽनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य पश्चात्तच्चितं परित्यजति, सत्त्वेषु विप्रतिपद्यते, अयं बोधिसत्त्वस्य प्रतिक्रष्टो मृषावाद इति। आर्यसागरमतिसूत्रेऽपि देशितम्-स्याद्यथापि नाम सागरमते राजा वा राजमात्रो वा सर्वनागरकं जनं श्वोभक्तेनोपनिमन्त्र्योपेक्षको भवेत्, नान्नपानं समुदानयेत्, सत्यं सर्वजनकायं विसंवादयेत्। तत्र तेऽन्नपानभोजनमलभमाना उच्चग्घन्तः प्रक्रामेयुः। एवमेव सागरमते यो बोधिसत्त्वः सर्वसत्त्वानाश्वास्य अतीर्णतारणायामुक्तमोचनायानाश्चस्ताश्वासनाय यावन्न बाहुश्रुत्येऽभियोगं करोति, नापि ततोऽन्येषु बोधिपक्ष्यकुशलमूलेषु धर्मेषु, अयं बोधिसत्त्वो विसंवादयति सदेवकं लोकम्। एवं च तं पूर्वबुद्धर्शिन्यो देवता उच्चग्घन्ति विवादयन्ति। दुर्लभास्ते यज्ञस्वामिनो ये महायज्ञं प्रतिज्ञायोत्तारयन्ति। तस्मात्तर्हि सागरमते न सा बोधिसत्त्वेन वाग्भाषितव्या यया सदेवमानुषासुरं लोकं विसंवादयेत्। पुनरपरं सागरमते बोधिसत्त्वः केनचिदेवाधीष्टो भवति धर्मेष्वर्थकरणीयेषु। तत्र बोधिसत्त्वेन वाग्भाषिता भवति यावदात्मपरित्यागोऽपि बोधिसत्त्वेन कर्तव्यो भवेत्। तत्र न पुनः स सत्त्वो विसंवादयितव्य इति॥



तस्मात्स्बलानुरूपेण एकमपि कुशलमूलं समादाय रक्षितव्यम्। यथोक्तमार्यक्षितिगर्भसूत्रे- एभिर्दशमिः कुशलैः कर्मपथैर्बुद्धत्वम्। न पुनर्योऽन्तश एकमपि यावज्जीवं कुशलं कर्मपथं न रक्षति, अथ न पुनरेवं वदति- अहं महायानिकोऽहं चानुत्तरां सम्यक्संबोधि पर्येषामीति, स पुद्गलः परमकुहको महामृषावादिकः सर्वेषां बुद्धानां भगवतां पुरतो विसंवादको लोकस्योच्छेदवादी। स मूढः कालं कुरुते,विनिपातगामी भवतीति॥ यावत्कालं च शक्नोति तावत्कालं कुशलं समादाय वर्तितव्यम्।



एतच्च भैषज्यगुरुवैडूर्यप्रभसूत्रे द्रष्टव्यम् -यस्तु महासत्त्व एवं श्रुत्वापि बोधिसत्त्वचर्यादुष्करतामपि प्रज्ञयावगाह्योत्सहत एव सकलदुःखितजनपरित्राणधुरमववोढुम्, तेन वन्दनपूजनपापदेशनपुण्यानुमोदनबुद्धाध्येषणयाचनबोधिपरिणामनं कृत्वा कल्याणमित्रमध्येष्य तदुक्तानुवादेन स्वयं वा वक्तव्यम्- समन्वाहर आचार्य अहमेवं नामेत्युक्त्वा। यथा आर्यमञ्जुश्रीबुद्धक्षेत्रगुणव्यूहालंकारसूत्रे भगवता मञ्जुश्रिया पूर्वजन्मावदाने चर्योपेतं बोधिचित्तमुत्पादितं तथोत्पादयितव्यम्। एवं हि तेनोक्तम्-



यावती प्रथमा कोटिः संसारस्यान्तवर्जिता।

तावत्सत्त्वहितार्थाय चरिष्याम्यमितां चरिम्॥



उत्पादयामि संबोधौ चित्तं नाथस्य संमुखम्।

निमन्त्रये जगत्सर्वं दारिद्र्यान्मोचितास्मि तत्॥



व्यापादखिलचित्तं वा ईर्ष्यामात्सर्यमेव वा।

अद्याग्रे न करिष्यामि बोधिं प्राप्स्यामि यावता।

ब्रह्मचर्यं चरिष्यामि कामांस्त्यक्ष्यामि पापकान्।



बुद्धानामनुशिक्षिष्ये शीलसंवरसंयमे।

नाहं त्वरितरूपेण बोधिं प्राप्तुमिहोत्सहे॥



परान्तकोटिं स्थास्यामि सत्त्वस्यैकस्य कारणात्।

क्षेत्रं विशोधयिष्यामि अप्रमेयमचिन्तियम्॥

नामधेयं करिष्यामि दशदिक्षु च विश्रुतम्।

कायवाक्कर्मणी चाहं शोधयिष्यामि सर्वशः।

शोधयिष्ये मनस्कर्म कर्म कर्तास्मि नाशुभम्॥इति॥



न चात्र सार्वकालिकात्संवरग्रहणाज्जन्मान्तरापत्तिशङ्का कर्तव्या, अत्रैव सूत्रेऽक्षोभ्यप्रणिधानानुज्ञानादेवं ह्युक्तम्। यथा तेनाक्षोभ्येण तथागतेन पूर्वं बोधिसत्त्वभूतेनैवं वाग्भाषिताविसंवादिता मे बुद्धा भगवन्तो भवेयुर्यदि सर्वस्यां जातौ न प्रव्रजेयमिति।

एका जातिः प्रयत्नेन संशोध्या विबुधात्मना।

अन्यास्तु जातीराबोधेः सैव संशोधयिष्यति॥



इत्युक्तेः॥ एवं शारिपुत्र बोधिसत्त्वेनाक्षोभ्यस्य तथागतस्यानुशिक्षितव्यम्। एवं शिक्षमाणः शारिपुत्र बोधिसत्त्वो महासत्त्वः सर्वस्यां जातौ प्रव्रजति, उत्पादाद्वा तथागतानामनुत्पादाद्वा अवश्यं गृहावासान्निष्क्रामति। तत्कस्य हेतोः? परमो ह्ययं शारिपुत्र लाभो यदुत गृहावासान्निष्क्रमणमिति। यावत्। भार्यापुत्रदुहितृतृष्णा चास्य न भवतीति। यथा जन्मान्तरेष्वयं दोषो न भवति, तथात्रैव वक्ष्यमाणमित्यास्तां तावदेतत्॥



तदेवं समात्तसंवरस्य सामान्यमापत्तिलक्षणमुच्यते, येनापत्तिलक्षणेन युक्त वस्तु स्वयमप्युत्प्रेक्ष्य परिहरेत्, न चापत्तिप्रतिरूपकेष्वनापत्तिप्रतिरूपकेषु च संमुह्येत। बोधिसत्त्वः सर्वसत्त्वानां वर्तमानानागतसर्वदुःखदौर्मनस्योपशमाय वर्तमानानागतसुखसौमनस्योत्पादाय च निःशाठयतः कायवाङ्मनःपराक्रमैः प्रयत्नं करोति। यदि तु (त)त्प्रत्ययसामग्रीं नान्वेषते, तदन्तरायप्रतिकाराय न घटते , अल्पदुःखदौर्मनस्यं बहुदुःखदौर्मनस्यप्रतिकारभूतं नोत्पादयति, महार्थसिद्धयर्थं चाल्पार्थहानिं न करोति, क्षणमप्युपेक्षते, सापत्तिको भवति। संक्षेपतोऽनापत्तिः स्वशत्तयविषयेषु कार्येषु तत्र निष्फलतया शिक्षया प्रज्ञप्त्यभावात्। प्रकृतिसावद्यतया त्वन्यद्गृह्यत एव। यत्र स्वशत्तयगोचरेऽपि त्यागसामर्थ्यादापत्तिः स्यात्, तन्न चिन्त्यम्। सामान्यपापदेशनान्तर्भावात्तु ततो मुक्तिः॥



एतत्समासतो बोधिसत्त्वशिक्षाशरीरम्। विस्तरतस्त्वप्रमाणकल्पापर्यवसाननिर्देशम्।

अथवा संक्षेपतो द्वे बोधिसत्त्वस्यापत्ती। यथा शक्तियुक्तायुक्तमसमीक्ष्यारभते, न निवर्तते उपेक्षते वा, सापत्तिको भवति। निरूप्य यथार्हमतिक्रामति अन्तशश्चण्डालदासेनापि चोदितः, सापत्तिको भवति। कुतः ? एतदध्याशयसंचोदनसूत्रे वचनात्- अपि तु मैत्रेय चतुर्भिः कारणैः प्रतिभानं सर्वबुद्धभाषितम्। कतमैश्चतुर्भिः ? इह मैत्रेय प्रतिभानं सत्योपसंहितं भवति, नासत्योपसंहितम्।

धर्मोपसंहितं भवति, नाधर्मोपसंहितम्। क्लेशहायकं भवति, न क्लेशविवर्धकम्। निर्वाणगुणानुशंससंदर्शकं भवति, न संसार[गुणा] नुशंससंदर्शकम्। एभिश्चतुर्भिः। पेयालं। यस्य कस्यचिन्मैत्रैय एभिश्चतुर्भिः कारणैः प्रतिभानं प्रतिभाति प्रतिभास्यति वा, तत्र श्राद्धैः कुलपुत्रैः कुलदुहितृभिर्वा बुद्धसंज्ञोत्पादयितव्या शास्तृसंज्ञां कृत्वा। स धर्मः श्रोतव्यः। तत्कस्य हेतोः? यत्किंचिन्मैत्रेय सुभाषितं सर्वं तद्बुद्धभाषितम्। तत्र मैत्रेय य इमानि प्रतिभानानि प्रतिक्षिपेत्-नैतानि बुद्धभाषितानीति, तेषु च अगौरवमुत्पादयेत्पुद्गलविद्वेषेण, तेन सर्वबुद्धभाषितं प्रतिभानं प्रतिक्षिप्तं भवति। धर्म प्रतिक्षिप्य धर्मव्यसनसंवर्तनीयेन कर्मणा अपायगामी भवति॥



यः पुनरेतदभ्यासार्थं व्युत्पादितमिच्छति, तेनात्र शिक्षासमुच्चये तावच्चर्यामुखमात्रशिक्षणार्थमभियोगः करणीयः, शिक्षारम्भस्यैव महाफलत्वात्। यथोक्तं प्रशान्तविनिश्चयप्रातिहार्यसूत्रेयश्च मञ्जुश्रीर्बोधिसत्त्वो गङ्गानदीवालिकासमेभ्यो बुद्धेभ्यः प्रत्येकं सर्वेभ्यो गङ्गानदीवालुकासमानि बुद्धक्षेत्राणि वशिराजमहामणिरत्नप्रतिपूर्णानि कृत्वा दद्यात्, एवं ददत् गङ्गानदीवालिकासमान् कल्पान् दानं दद्याद्, यो वा अन्यो मञ्जुश्रीर्बोधिसत्त्व इमानेवंरूपान् धर्मान् श्रुत्वा एकान्तेन गत्वा चित्तेनाभिनिरूपयेत्, इमेष्वेंवरूपेषु धर्मेषु शिक्षिष्यामीति, सोऽशिक्षितोऽपि मञ्जुश्रीर्बोधिसत्त्वोऽस्यां शिक्षायां छन्दिकोऽ(धिक)तरं पुण्यं प्रसवति। न त्वेव तद्दानमयं पुण्यक्रियावस्त्विति॥



तस्मादेवमनुशंसदर्शिना बोधिसत्त्वेन न कथंचिन्निवर्तितव्यम्। यथात्रैवाह-तत्र मञ्जुश्रीर्ये त्रिसाहस्रमहासाहस्रलोकधातुपरमाणुरजःसमाः सत्त्वास्तेषामेकैकः सत्त्वो राजा भवेज्जम्बूद्वीपाधिपतिः, ते सर्व एवं घोषयेयुः-यो महायानमुद्रग्रहीष्यति, धारयिष्यति, वाचयिष्यति, पर्यवाप्स्यति, प्रवर्तयिष्यति, तस्य नखच्छेदेन मासं पञ्चपलिकेन दिवसेनावतारयिष्यामः, तं चैतेनोपक्रमेण जीविताद् व्यपरोपयिष्याम इति। सचेन्मञ्जुश्रीर्बोधिसत्त्व एवमुच्यमाने नो त्रस्यति न संत्रासमाप्स्यते अन्तश एकचित्तोत्पादेनापि न बिभेति न बिषीदति न विचिकित्सते, उत्तरि च सद्धर्मपरिग्रहार्थमभियुज्यते, पाठस्वाध्यायाभियुक्तो विहरति, अयं मञ्जुश्रीर्बोधिसत्त्वश्चित्तशूरो दानशूरः शीलशूरः क्षान्तिशूरः वीर्यशूरः ध्यानशूरः प्रज्ञाशूरः समाधिशूरः इति वक्तव्यः। सचेन्मञ्जुश्रीर्बोधिसत्त्वः तेषां वधकपुरुषाणां न कुप्यति न रुष्यति न खिलदोषचित्तमुत्पादयति, स मञ्जुश्रीर्बोधिसत्त्वो ब्रह्मसम इन्द्रसमोऽकम्प्य इति॥



इतश्चाद्यकाले-

शिक्षादरो महायानात्

महाफलविपाकः। तथाहि चन्द्रप्रदीपसूत्रे-

बुद्धान कोटीनयुतानुपस्थिहेदन्नेन पानेन प्रसन्नचित्तः।

छत्रैः पताकामि च दीपमालैः कल्पान कोटयो यथ गङ्गवालिकाः॥

यश्चैव सद्धर्म प्रलुज्यमाने निरुध्यमाने सुगतस्य शासने।

रात्रिंदिवं एक चरेय शिक्षाम् इदं ततः पुण्यविशिष्टं भोति॥

तस्मात्कर्तव्योऽत्रादरः॥



उक्तानि च सूत्रान्तेषु बोधिसत्त्वशिक्षापदानि। यथोक्तमार्यरत्नमेघे - कथं च कुलपुत्र बोधिसत्त्वा बोधिसत्त्वशिक्षासंवरसंवृता भवन्ति? इह बोधिसत्त्वः एवं विचारयति-न प्रातिमोक्षसंवरमात्रकेण मया शक्यमनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम्। किं तर्हि यानीमानि तथागतेन तेषु तेषु सूत्रान्तेषु बोधिसत्त्वसमुदाचारा बोधिसत्त्वशिक्षापदानि प्रज्ञप्तानि, तेषु तेषु मया शिक्षितव्यमिति विस्तरः। तस्मादस्मद्विधेन मन्दबुद्धिना दुर्विज्ञेयो विस्तरोक्तत्वात्-



बोधिसत्त्वस्य संवरः।

ततः किं युक्तम्?

मर्मस्थानान्यतो विद्याद्येनानापत्तिको भवेत्॥३॥



कतमानि च तानि मर्मस्थानानि, यानि हि सूत्रान्तेषु महायानभिरतानामर्थायोक्तानि?

यदुत-

आत्मभावस्य भोगानां त्र्यध्ववृत्तेः शुभस्य च।

उत्सर्गः सर्वसत्त्वेभ्यस्तद्रक्षा शुद्धिवर्धनम्॥४॥



एष बोधिसत्त्वसंवरसंग्रहः, यत्र बोधिसत्त्वानामभ्यासविश्रामेऽप्यापत्तयो व्यवस्थाप्यन्ते॥

यथोक्तं बोधिसत्त्वप्रातिमोक्षे - यो बोधिसत्त्वेन मार्गः परिगृहीतः सर्वसत्त्वानां कृतेन दुःखक्षयगामी, सचेद्वोधिसत्त्वस्य तं मार्गं परिगृह्यावस्थितस्यापि कल्पकोटेरत्ययेनैकं सुखचित्तमुत्पद्येत अन्तशो निषद्याचित्तमपि, तत्र बोधिसत्त्वेनैवं चित्तमुत्पादयितव्यम्- सर्वसत्त्वानामात्ययिंक परिगृह्यैतदपि मे वर्जयन्निषीदामीति परिगृह्येत्। तमपि मञ्जुश्रीराह-पञ्चेमानि देवपुत्र आनन्तयाणि यैरानन्तर्यैः समन्वागता बोधिसत्त्वाः क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ते। कतमानि पञ्च? यदा देवपुत्र बोधिसत्त्वोऽध्याशयत्यनुत्तरायां सम्यक्संबोधौ चित्तमुत्पाद्य नान्तरा श्रावकप्रत्येकबुद्धभूमौ चित्तमुत्पादयति, इदं देवपुत्र प्रथममानन्तर्यम्। सर्वस्वपरित्यागितायां चित्तमुत्पाद्य नान्तरा मात्सर्यचित्तेन सार्धं संन्यसति, इदं देवपुत्र द्वितीयमानन्तर्यम्। सर्वसत्त्वा मया त्रातव्या इत्येवं चित्तमुत्पाद्य नान्तरा सीदति,इदं देवपुत्र तृतीयमानन्तर्यम्। अनुत्पन्नानिरुद्धान् सर्वधर्मानवभोत्स्य इत्येवं चित्तमुत्पाद्य नान्तरा दृष्टिगतेषु प्रपतति, इदं देवपुत्र चतुर्थमानन्तर्यम्। एकक्षणसमायुक्तया प्रज्ञया सर्वधर्मानवभोत्स्य इत्येवं चित्तमुत्पाद्य नान्तरा तिष्ठति, न विष्ठीवति अप्राप्तायां सर्वज्ञतायाम्, इदं देवपुत्र पञ्चममानन्तर्यमिति॥



तस्मादेवमात्मभावभोगपुण्यानामविरतमुत्सर्गरक्षाशुद्धिवृद्धयो यथायोगं भावनीयाः॥ तत्र तावदुत्सर्गार्थं परिग्रहदोषभावनाद्वारेण वैराग्यमुत्पादयेत्, त्यागानुशंसांश्च भावयेत्। यथा तावच्चन्द्रप्रदीपसूत्रे -

अध्यवसिता ये बालाः कायेऽस्मिन् पूतिके सम्यक्।

जीविते चञ्चलेऽवश्ये मायास्वप्ननिभोपमे॥

अतिरौद्राणि कर्माणि कृत्वा मोहवशानुगाः।

ते यान्ति नरकान् घोरान् मृत्युयानगताबुधाः।इति॥



तथा अनन्तमुखनिर्हारधारण्यामप्युक्तम्-

ये केचित् सत्त्वा न भवन्ति विग्रहाः परिग्रहस्तत्र निदानमूलम्।

तस्मात्त्यजेद्यत्र भवेत तृष्णा उत्सृष्टतृष्णस्य हि धारणी भवेत्॥इति॥



बोधिसत्त्वप्रातिमोक्षे कथितम् - पुनरपरं शारिपुत्र बोधिसत्त्वः सर्वधर्मेषु परकीयसंज्ञामुत्पादयति। न कंचिद्भावमुपादत्ते। तत्कस्य हेतोः? उपादानं हि भयमिति॥ आर्योग्रदत्तपरिपृच्छायामप्याह-यद्दत्तं तन्न भूयो रक्षितव्यम्। यद् गृहे तद्रक्षितव्यम्। यद्दत्तं तत्तृष्णाक्षयाय। यद्गृहे तत्तृष्णावर्धनम्। यद्दत्तं तदपरिग्रहम्, यद्गृहे तत्सपरिग्रहम्। यद्दत्तं तदभयम्, यद्गृहे तत्सभयम्।

यद्दत्तं तद्बोधिमार्गोपस्तम्भाय, यद्गृहे तन्मारोपस्तम्भाय। यद्दत्तं तदक्षयम्, यद्गृहे तत्क्षपि। यद्दत्तं ततः सुखम्, यद्गृहे, तदारभ्य दुःखम्। यद्दत्तं तत्क्लेशोत्सर्गाय, यद्गृहे तत्क्लेशवर्धनम्। यद्दत्तं तन्महाभोगतायै, यद्गृहे न तन्महाभोगतायै। यद्दत्तं तत्सत्पुरुषकर्म। यद्गृहे तत्कापुरुषकर्म। यद्दत्तं तत्सत्पुरुषचित्तग्रहणाय, यद्गृहे तत्कापुरुषचित्तग्रहणाय। यद्दत्तं तत्सर्वबुद्धप्रशस्तम्, यद्गृहे तद्बालजनप्रशस्तम्॥



यावत्सचेत्पुनरस्य पुत्रेऽतिरिक्ततरं प्रेमोत्पद्यते तथाऽन्येषु सत्त्वेषु, तेन तिसृभिः परिभाषणाभिः स्वचित्तं परिभाषितव्यम्। कतमाभिस्तिसृभिः? सम्यक् [प्र] युक्तस्य समचित्तस्य बोधिसत्वस्य बोधिः। शूनविषमचित्तस्य बोधिः शूनमिथ्याप्रयुक्तस्य। अनानात्वचारिणो बोधिसत्वस्य बोधिर्न नानात्वचारिणः। आभिस्तिसृभिः परिभाषणाभिः स्वचित्तं परिभाष्य मित्रेऽमित्रसंज्ञोत्पादयितव्या- अमित्रंह्येतन्मम, न मित्रम्। योऽहमस्यार्थाय बुद्धप्रज्ञप्तायाः शिक्षाया उद्धरत्वाद्गत्वा अस्मिन् पुत्रेऽतिरिक्ततरं प्रेमोत्पादयामि, न तथान्येषु सत्त्वेषु। तेन तथा तथा चित्तमुत्पादयितव्यं यथा यथास्य सर्वसत्वेषु पुत्रप्रेमानुगता मैत्र्युत्पद्यते। आत्मक्षेमानुगता मैत्र्युत्पद्यते। एवं चानेन योनिशः प्रत्यवेक्षितव्यम्-अन्यत एष आगतः,अन्यतोऽहम्। सर्वसत्त्वा अपि मम पुत्रा अभूवन्। अहं च सर्वसत्त्वानां पुत्रोऽभूवम्। नेह संविद्यते कश्चित्कस्यचि.........परो वा। यावदेवं हि गृहपते गृहिणा बोधिसत्त्वेन न कस्मिंश्चिद्वस्तुनि ममत्वं परिग्रहो वा कर्तव्यः, नाध्यवसानम्, न नियतिः, न तृष्णानुशयः कर्तव्यः। सचेत्पुनर्गृहपते गृहिणं बोधिसत्त्वं याचनक उपसंक्रम्य किंचिदेव वस्तु याचेत, सचेदस्य वस्त्वपरित्यक्तं भवेत्, नैवं चित्तं निध्यापयितव्यम् - यद्यहमेतद्वस्तु परित्यजेयं यदि वा न परित्यजेयम्, अवश्यं ममैतेन वस्तुना विनाभावो भविष्यति। अकामकेन मरणमुपगन्तव्यं भविष्यति। एतच्च वस्तु मां त्यक्ष्यति, अहं चैनं त्यक्ष्यामि। एतच्च वस्तु परित्यज्य अहं आत्तसारः कालं करिष्यामि। एतच्च परित्यक्तं न मे मरणकाले चित्तं पर्यादाय स्थास्यति। एतच्च मे मरणकाले प्रीतिं प्रामोद्यमविप्रतिसारितां च जनयिष्यति। सचेत्पुनरेवमपि समन्वाहरन् न शक्नुयात्तद्वस्तु परित्यक्तुम्, तेन स याचनकश्चतसृभिः संज्ञप्तिभिः संज्ञपयितव्यः। कतमाभिश्चतसृभिः? दुर्बलस्तावदस्म्यपरिपक्ककुशलमूलः, आदिकर्मिको महायाने, न चित्तस्य वशी परित्यागाय, सोपादानदृष्टिकोऽस्मि अहंकारममकारस्थितः। क्षमस्व सत्पुरुष, मा परिताप्सीः। तथाहं करिष्यामि, तथा प्रतिपत्स्ये, तथा वीर्यमारप्स्ये, यथैनं च तवाभिप्रायं परिपूरयिष्यामि सर्वसत्त्वानां चेति। एवं खलु गृहपते तेन याचनकः संज्ञपयितव्यः॥



एतच्च संज्ञपनमुपरि दोषपरिहारायोक्तम्- मा भूद्बोधिसत्त्वस्य तत्राप्रसादो बोधिसत्त्वे वा याचनकस्येति। न तु मात्सर्यमेवं अनवद्यं भवति। कुत्सितं चेदं भगवता बोधिसत्त्वानाम्। यथाह बोधिसत्त्वप्रातिमोक्ष-चत्वार इमे शारिपुत्र धर्मा बोधिसत्त्वानां न संविद्यन्ते। कतमे चत्वारः? शाठ्यं बोधिसत्त्वानां न संविद्यते। मात्सर्य बोधिसत्त्वानां न संविद्यते। ईर्ष्यापैशुन्यं बोधिसत्त्वानां न संविद्यते। नाहं शक्तोऽनुत्तरां सम्यक्संबोधिमभिसंबोद्धुमिति लीन चित्तं बोधिसत्त्वानां न संविद्यते। यस्येमे शारिपुत्र चत्वारो धर्माः संविद्यन्ते, स पण्डितैर्ज्ञातव्यः - कुहको बतायम्, लपको बतायम्, नष्टधर्मो बतायम्, संक्लेशधर्मो बतायम्, लोकाभिषगुरुको बतायम्, भक्तचोलकपरमो बतायमिति॥ तथा - चित्तशूराः खलु पुनः शारिपुत्र बोधिसत्त्वा भवन्ति। यावत्स्वहस्तपरित्यागी भवति, पादपरित्यागी, नासापरित्यागी, शीर्षपरित्यागी, अङ्गप्रत्यङ्गपरित्यागी, पुत्रपरित्यागी, दुहितृपरित्यागी, भार्यापरित्यागी, रतिपरित्यागी, परिवारपरित्यागी, चित्तपरित्यागी, सुखपरित्यागी, गृहपरित्यागी, वस्तुपरित्यागी, देशपरित्यागी, रत्नपरित्यागी, सर्वस्वपरित्यागीति॥



एवं नारायणपरिपृच्छायामप्युक्तम्- न तद्वस्तूपादातव्यं यस्मिन् वस्तुनि नास्य त्यागचित्तमुत्पद्यते। न त्यागबुद्धिः क्रमेत। न स परिग्रहः परिग्रहीतव्यो यस्मिन् परिग्रहे नोत्सर्जनचित्तमुत्पादयेत्, न स परिवार उपादातव्यो यस्मिन् याचनकैर्याच्यमानस्य परिग्रहबुद्धिरुत्पद्यते। न तद्राज्यमुपादातव्यम्, न ते भोगाः, न तद्रत्नमुपादातव्यम्, यावन्न तत्किचिद्वस्तूपादातव्यम्, यस्मिन् वस्तुनि बोधिसत्त्वस्यापरित्यागबुद्धिरुत्पद्यते। अपि तु खलु पुनः कुलपुत्र बोधिसत्त्वेन महासत्त्वेनैवं चित्तमुत्पादयितव्यम्, अयं ममात्मभावः सर्वसत्त्वेभ्यः परित्यक्तः उत्सृष्टः प्रागेव बाह्यानि वस्तूनि। यस्य यस्य सत्त्वस्य येन येन यद्यत्कार्यं भविष्यति, तस्मै तस्मै तद्दास्यामि सत्संविद्यमानम्। हस्तं हस्तार्थिकेभ्यो दास्यामि, पादं पादर्थिकेभ्यो नेत्रं नेत्रार्थिकेभ्यो दास्यामि, मासं मांसार्थिकेभ्यः, शोणितं शोणितार्थिकेभ्यो मज्जानं मज्जार्थिकेभ्योऽङ्गप्रत्यङ्गान्यङ्गप्रत्यङ्गार्थिकेभ्यः, शिरः शिरोर्थिकेभ्यः परित्यक्ष्यामि। कः पुनर्वादो बाह्येषु वस्तुषु यदुत धनधान्यजातरूपरजतरत्नाभरणहयगजरथवाहनग्रामनगरनिगमजनपदराष्ट्रराजधानीपत्तनदासीदासकर्मकरपौरुषेयपुत्रदुहितृपरिवारेषु। अपि तु खलु पुनर्यस्य यस्य येन येन यद्यत्कार्यं भविष्यति, तस्मै तस्मै सत्त्वाय तत्तद्देयम्। संविद्यमानं दास्यामि, अशोचन्नविप्रतिसारी अविपाकप्रतिकाङ्क्षी परित्यक्ष्यामि। अनपेक्षो दास्यामि, सत्त्वानुग्रहाय सत्त्वकारुण्येन सत्त्वानुकम्पया तेषामेव सत्वानां संग्रहाय, यथा मेऽमी सत्त्वाः संगृहीता बोधिप्राप्तस्य धर्मजानकाः स्युरिति। पेयालं। तद्यथापि नाम कुलपुत्र भैषज्यवृक्षस्य मूलतो वा ह्रियमाणस्य, गण्डतः शाखातः त्वक्तः पत्रतो वा ह्रियमाणस्य पुष्पत फलतः सारतो वा ह्रियमाणस्य नैव भवति विकल्पः-मूलतो मे ह्रियते यावत्सारतो मे ह्रियत इति। अपि तु खलु पुनरविकल्प एव हीनमध्योत्कृष्टानां सत्त्वानां व्याधीनपनयति। एकमेव कुलपुत्र बोधिसत्त्वेन महासत्त्वेन अस्मिंश्चातुर्महाभौतिके आत्मभावे भैषज्यसंज्ञोत्पादयितव्या। येषां येषां सत्त्वानां येन येनार्थः, तत्तदेव मे हरन्तु, हस्तं हस्तार्थिनः, पादं पादार्थिन इति पूर्ववत्॥



आर्याक्षयमतिसूत्रेऽपि देशितम्- अयमेव मया कायः सर्वसत्त्वानां किंकरणीयेषु क्षपयितव्यः। तद्यथापि नाम इमानि बाह्यानि चत्वारि महाभूतानि पृथिवीधातुरब्धातुस्तेजोधातुर्वायुधातुश्च नानासुखैर्नानापर्यायैर्नानारम्बणैर्नानोपकरणैर्नानापरिभोगैः सत्त्वानां नानोपभोगं गच्छन्ति, एवमेव अहमिमं कायं चतुर्महाभूतसमुच्छ्रयं नाना[सुखै]र्नानापर्यायैर्नानारम्बणैर्नानोपकरणैर्नानापरिभोगैर्विस्तरेण सर्वसत्त्वानामुपभोग्यं करिष्यामीति। स इममर्थवशं संपश्यन् कायदुःखतां च प्रत्यवेक्षते, कायदुःखतया च न परिखिद्यते सत्त्वावेक्षयेति॥



आर्यवज्रध्वजसूत्रेऽप्याह- इति हि बोधिसत्त्व आत्मानं सर्वसत्त्वेषु निर्यातयन् सर्वकुशलमूलोपकारित्वेन सर्वसत्त्वानां कुशलमूलैः स [मन्वा]हरन् प्रदीपसममात्मानं सर्वसत्त्वेषूपनयन् सुखसममात्मानं सर्वसत्त्वेष्वधितिष्ठन् धर्मकुक्षिसममात्मानं सर्वजगति संधारयन्, आलोकसममात्मानं सर्वसत्त्वेष्वनुगच्छन्, जगत्प्रतिष्ठापनसममात्मानं संपश्यन्, कुशलमूलप्रत्ययभूतमात्मानं सर्वजगत्यनुगच्छन्, मित्रसममात्मानं सर्वसत्त्वेषु नियोजयमानः, अनुत्तरसुखमार्गसममात्मानं सर्वसत्त्वेषु संदर्शयमानः, अनुत्तरसुखोपधानसममात्मानं सर्वसत्त्वेषु परिशोधमानः, सूर्यसममात्मानं सर्वजगति समीकुर्वाणः, एवंधर्मोपेतमात्मानं सर्वसत्त्वेषु प्रयच्छन्, यथाकामकरणीयवश्यमात्मानं सर्वलोके संपश्यन्, अग्रचैत्या भविष्यामः....सर्वजगत्स्थित्यात्मानं संपश्यन्, समचित्ततां सर्वजगति निष्पादयन्, सर्वोपकरणतीर्थमात्मानं संपश्यन्, सर्वलोकसुखदातारमात्मानं प्रत्यवेक्षमाणः, सर्वजगतो दानपतिमात्मानमधिमुच्यमानः, सर्वलोकज्ञानसममात्मानं कुर्वाणः, बोधिसत्त्वचर्याप्रयुक्तमात्मानं संजनयमानः , यथावादितथाकारित्वेनात्मानं नियोजयमानः, सर्वज्ञतासंनाहसंनद्धमात्मानं प्रत्यवेक्षमाणः, पूर्वनिमन्त्रितं चित्तमनुपालयमानः, प्रतिपत्तौ चात्मानं स्थापयमानः, बोधिसत्त्वत्यागचित्ततां मनसि कुर्वाणः, उद्यानभूतमात्मानं सर्वसत्त्वेषु संपश्यन्, धर्मरतिभूतमात्मानं सर्वलोकेष्वादर्शयमानः, सौमनस्यदातारमात्मानं सर्वसत्त्वानामधितिष्ठन्, अनन्तप्रीतिसंजननमात्मानं सर्वजगतो निर्यातमानः , सर्वशुक्लधर्माय द्वारभूतमात्मानं सर्वलोके संधारयमाणः, बुद्धबोधिदातारमात्मानं सर्वसत्त्वानां प्रणिदधत्, पितृसममात्मानं सर्वप्रजायां नियोजयमानः, सर्वोपकरणावैकल्याधिकरणमात्मानं सर्वसत्त्वधातौ प्रतिष्ठापयमानः। इति हि बोधिसत्त्व आत्मानमुपस्थायकत्वाय ददानः, याचनकेषु नीचमनसिकारचित्तः, भूम्यास्तरणाधिष्ठानचेताः, धरणिसमसर्वदुःखसहनमनसिकारप्रवृत्तः, सर्वसत्त्वोपस्थानाक्लान्तमानसप्रयुक्तः, बालजनदुष्कृतस्थिरः, स्थावराधिवासनजात्यः, अस्थितः, कुशलमूलाभियुक्तः, अप्रयुक्तसर्वलोकधातूपस्थानः, कर्णौ नासा संपरित्यजन् याचनकेभ्य उपसंक्रान्तेभ्यो बोधिसत्त्वचर्योपात्ततथागत कुलकुलीनसंभूतचित्तः सर्वबोधिसत्त्वानुस्मरणविहारप्रसृतः, असारात्सर्वत्रैलोक्यात्स......त्यवेक्षमाणः स्वशरीरानध्यवसितसंतानः, अनिकेतसर्वबुद्धधर्मानुस्मृतिविहारी असाराच्छरीरात्सारादानाभिप्रायः। इति हि बोधिसत्त्वो जिह्वां याचितः समानो......वाचा प्रेमणीयया मैत्र्या उपचारविततया भद्रे सिंहासने राजार्हे निषाद्य तं याचनकमभिभाषते हृष्टः अक्रुष्टचित्तो भूत्वा अक्षतचित्तोऽनुपहतचित्तो महात्मवंशला....[चि]त्तो बुद्धवंशसंभूतचित्तोऽलुलितसंतानचित्तो महास्थामबलाधानोऽनध्यवसितशरीरचित्तोऽनभिनिविष्टवचनचित्तो जानुमण्डलप्रष्ठितकायो भूत्वा स्वकान्मुखाज्जिह्वायाचनकस्य सर्वशरीरमधीनं कृत्वा वाचं प्रमुञ्चन् स्निग्धां मृद्वीं प्रेमणीयां मैत्र्योपचाराम्- गृहाण त्वं मम जिह्वाम्, यथाकामकरणीयां कुरु। तथा कुरु यथा त्वं प्रीतो भवसि प्रीतमानस आत्मना प्रमुदितो हृष्टः प्रीतिसौम[न]स्यजात इति। स शिरः परित्यजन् सर्वधर्माग्रशिरः परमज्ञानमवतरन् सर्वसत्त्वपरित्राणशिरो बोधि....गच्छन् सर्वजगदग्र्यशिरः अनुपमज्ञानमभिलषन् सर्वादिक्छिरः प्राप्तुं ज्ञानराजमधिमुच्यमानोऽनुत्तरसर्वधर्मैश्वर्यशीर्षतां परिपूरयितुकामोऽनन्तयाचनकप्रीतिपरिस्फुटचेताः। इति हि बोधिसत्त्वो हस्तपादान् परित्यजन् याचनकेभ्यः श्रद्धाहस्तप्रयुक्तेनानुग्रहचारित्रेण बोधिसत्त्वसिंहाविक्रमत्यागप्रततपाणिना व्यवसर्गाभिरतेन हस्तपादपरित्यागेन महाप्रतिष्ठानक्रमतलव्यतिहारेण बोधिसत्त्वचर्याध्यवसायेन वेदनानुपहततया दानप्रसादशत्तया विमलचित्तोत्पादसंवरो निष्पर्यवस्थानज्ञानधर्मशरीराछिन्नाभिन्नालुप्तकायसंज्ञः अनीचचित्तः सर्वमारकर्मकल्याणमित्रोपस्तब्धबृंहितचेताः सर्वबोधिसत्त्वसंवर्णितैकत्यागनिर्याणः। इति हि बोधिसत्त्वः स्वशरीरमाक्षिप्य रुधिरमनुप्रयच्छन् याचकेभ्यः प्रहर्षितबोधिचित्तो बोधिसत्त्वचर्याभिलषितचितोऽपर्यात्तवेदितचित्तः सर्वयाचनकाभिलषितचित्तः सर्वप्रतिग्राहकाविद्विष्टचित्तः सर्वबोधिसत्त्वत्यागप्रतिपत्प्रतिपन्नोऽनिवर्त्यया प्रीतिप्रस्त्रब्ध्या स्वशरीरानपेक्षचित्तः स्वशरीराद्रुधिरमनुप्रयच्छन् ज्ञानायतनमहायानप्रसृतचेता महायानाविनष्टमना इष्टमनास्तुष्टमनाः प्रीतमना मुदितमना मैत्र्यमनाः सुखमनाः प्रसन्नमनाः प्रमुदितप्रीतिसौमनस्यजातो मज्जामांसं स्वशरीरात् परित्यजन् याचनकेभ्यः कल्याणत्यागया याचकाभिलषितया वाचा तान् याचकानभिलपन्-गृह्णन्तु भवन्तो मम शरीरान्मज्जामांसं यथाकामकरुणया तुल्यप्रीतिविवर्धनेन त्यागचित्तेन। बोधिसत्त्वविज्ञगणनिषेवितेन सहाकुश[लमू]लेन लोकमलापकर्षितेन प्रवरेणाध्याशयेन। सर्वबोधिसत्त्वसमतोपात्तैर्महादानारम्भैर्मनसाकाङ्क्षितैः सर्वयाचकैरननुताप्यचित्तैर्दानवस्तुभिः अप्रत्यवेक्षितेन कर्मविपाकप्रत्ययेन सर्वलोकधात्वविमुखया सर्वबुद्धक्षेत्रालंकारव्यूहपूजया सर्वजगदभिमुखया करुणापरित्राणतया। सर्वबुद्धबोध्यभिमुखया दशबल.....चारणया अतीतानागतप्रत्युत्पन्नसर्वबोधिसत्वाभिमुखयां एककुशलमूलपरिचर्यया सर्ववैशारद्याभिमुखेनार्षभसिंहनादनदनेन त्र्यध्वाभिमुखेन। सर्वाध्वसमताज्ञानेन.....लोकाभिमुखेनापरान्तकोटीगतकल्पव्यवसायेन बोधिसत्त्वप्रणिधानेन अपरित्रस्यनाभिमुखेनाखेदचित्तोत्पादेन बोधिसत्त्वः स्वहृदयं परित्यजन् याचनकेभ्यो दानवंशशिक्षितचित्तः पारमितानिष्पादनचित्तः सर्वबोधिसत्त्वदानानुद्धतसुप्रतिष्ठितचित्तः अधिष्ठानसर्वयाचनकप्रतिमाननचित्तः, अध्याशयं परिशोधयमानः, सर्वजगत्परि[पाच]ननिदानं महाप्रणिधानं प्रतिपद्यमानः, बोधिसत्त्वचर्यायां संवसमानः, सर्वज्ञतासंभारं संभरमाणः, प्रणिधिमरिञ्चन् सोऽत्र यकृद्वृक्काफुप्फुसं याचकेभ्यः, परित्यजन् याचनकाभिप्रसन्नया दृष्टया प्रसन्नप्रीत्याकारैर्नेत्रैर्बोधिसत्त्वनिर्यातेन प्रेम्णा अव्युत्थितमनसिकारेण त्यागेन असारात्कायात्सुप्रत्यवेक्षितेन सारादानचित्तेन श्मशानपर्यन्तेन कायानुस्मृतिमनसिकारेण वृकशृगालश्वभक्ष्यं शरीरं प्रत्यवेक्षमाणः परभक्तिमनसिकृतया शरीरानित्यतया अपविद्धशरीरेण परभक्तचेतनेन एवं धर्ममनसिकारप्रयुक्तो बोधिसत्त्वस्तान् याचनकाननिमिषं प्रेक्षमाणः एवं चित्तमुत्पादयति-यदि चाहमेतद्याचनकस्यैतच्छरीरादन्त्रयकृद्बुक्काफुप्फुसं दद्याम आयुःक्षपपर्यन्ते। नैषो नित्यः श्मशानपर्यवसान इति। स एवं मनसिकारसंतोषितेन संतानेनैवं धर्मज्ञानेनाशयेन कल्याणमित्रसंज्ञाधिष्ठितेन याचनकदर्शनेन असारात्कायात्सारमादातुकामो धर्मकामतया स्वमांसान्नखं परित्यजन्नेव तत्कुशलमूलं परिणामयतीत्यात्मभावोत्सर्गं कृत्वा॥



भोगपुण्योत्सर्गोऽप्यत्रैवोक्तः-इति हि बोधिसत्त्वो नानादक्षिणीयप्रतिग्राहकेष्वन्यान्यपुद्गलदिगागतेष्वप्रमेयकृपणवनीपकेषु बोधिसत्त्वश्रवागतेषु बोधिसत्त्वशब्दं श्रुत्वा आगतेषु बोधिसत्त्वप्रत्ययावकाशगतेषु बोधिसत्त्वदानपूर्वं प्रणिधानश्रुतेषु, बोधिसत्त्वप्रणिधानचित्तनिमन्त्रितेषु, सर्वत्यागमनाः साभिलषितेषु तृप्तयाचनकप्रतिमाननाचेतनः, आगतयाचनकक्षमापणचेतनः-मयैव तत्र दिशं गत्वा यूयं प्रतिमानयितव्या अभविष्यत, येन युष्माकमागमनक्लमो न स्यात् - एवं समृद्धप्रणिपातेन क्षमयति सर्वयाचनकान्। क्षमयित्वा स्नापयित्वा विश्रामितशरीरान् कृत्वा तेभ्यो यदृच्छयोपकरणं प्रतिपादयति-यदिदं मणिरथ[न् जम्बु]द्वीपकल्याणकन्यारत्नपरिपूर्णान्, यदिदं सुवर्णरथान् जनपदविशुद्धकन्यारत्नपरिपूर्णान्, यदिदं वैडूर्यरथान् वा अनुकुलगीतवाद्यसंप्रवादितपरिपूर्णान्, एवं स्फटिकरथान्, सुमुखसुवेषधारिस्वलंकृतरूपानप्रतिकूलदर्शनचतुरकन्यारत्नपरिपूर्णानिति॥



तथा अत्रैव देशितम् - मणिरथान् वा ददानः सर्वरत्नजालसंच्छन्नानाजानेयहस्त्युपेतान् सवाहनान् चन्दनरथान् ददानो रत्नचक्ररथ्यप्रयुक्तान् रत्नसिंहासनप्रतिष्ठितान् यावन्नानारत्नछत्रसंछन्नव्यूहान् रत्नवितानविततसंछन्नान् ध्वजपताकालंकृचतुर्दिक्कान् नानागन्धविधूपितसार...गन्धानुलेपानुलिप्तान्, सर्वपुष्पव्यूहावकीर्णान् कन्याशतसहस्ररत्नसूत्रप्रकर्षितान् अभ्रान्तगमनान् अभ्रान्तसमवाहनप्रयुक्तान्, यावदप्रतिकूलमनोज्ञप्रवातगन्धान् सुदुहितृपुत्रवचनोपचारप्रयुक्तान्, विविधगन्धचूर्णसंभृतकृतोपचारानिति॥



पुनरत्रैवाह-आत्मानं च सर्वसत्त्वानां नियातयन्नुपस्थानं वा सर्वबुद्धानामुपाददानो राज्यं वा परित्यजन् पुटभेदकं वा नगरराजधानीं सर्वालंकारभूषितां यथार्हं वा याचनकेषु सर्वपरिवारं परित्यजन् पुत्रदुहितृभार्यां वा ददानो याचनकेभ्यः सर्वगृहं वापसृजन् यावत्सर्वोपभोगपरिभोगान् वा ददानः, एवं पानदानं रसदानमपि बोधिसत्त्वो ददानो विविधान् कल्याणानुदारान् विशुद्धानविकलांस्तिक्ताँल्लवणान् कटुकान् कषायान् नानारसाग्रोपेतान् सुस्निग्धान् विविधरस विधिनोपेतान् धातुक्षोभणसमतास्थापनान् चित्तशरीरबलोपस्तम्भनान् प्रीतिप्रसादप्रामोद्यकल्यताजननान् यावत्सर्वपरोपक्रमप्रतिषेधकान् सर्वव्याधिशमनानारोग्यसंजननान्। एवं वस्त्रदानं पुष्पदानं गन्धदानं विलेपनदानं माल्यदानं शयनदानमावासदानमपाश्रयदानं प्रदीपदानं च। ग्लानप्रत्ययभैषज्यपरिष्कारान् बोधिसत्त्वोऽनुप्रयच्छन् यावन्नानाभाजनानि विविधसंभाराण्यनेककांस्यपात्रीरप्रमेयसंभारोपचिता हिरण्यसुवर्णरूप्यचूर्णपरिपूर्णाः। तानि बुद्धेभ्यो भगवद्भयो ददानः, अचिन्त्यदक्षिणीयाधिमुक्तचेता बोधिसत्वरत्नेभ्यो वा ददानः, कल्याणमित्रसुदुर्लभचित्तोत्पादेन आर्यसंघाय वा ददानः, बुद्धशासनोपस्तम्भाय पुद्गलाय वा ददानः, श्रावकप्रत्येकबुद्धेभ्यो वा आर्यगुणसुप्रसन्नचित्ततया मातापितृभ्यां ददानः, गुरुशुश्रूषोपस्थानचित्ततया आचार्यगुरुदक्षिणीयेभ्यो वा ददानः, तत्र तत्र गुरुसंभाराववादशिक्षणप्रयुक्तः अशनवसनं वा कृपणवनीपकयाचनकेभ्यो ददानः, सर्वसत्त्वाप्रतिहतचक्षुर्मैत्रीपरिभावितचित्ततया। पेयालं। इति हि बोधिसत्त्वो हस्त्याजानेयान् ददानः सप्ताङ्गसुप्रतिष्ठितान् षष्टिहायनान् षड्दन्तोपेतान् पद्मवर्णान् मुखविशुद्धान् सुवर्णालंकारान् हेमजालप्रतिच्छन्नशरीरान् नानारत्नविचित्रालंकारजालशुण्डप्रक्षिप्तव्यूहान् सुवर्णकल्याणान् कल्याण[चारु] दर्शनान् अक्लान्तयोजनसहस्रगमनोपचारान्। अश्वाजानेयान् वा ददानः सुखवाहनसुखशरीरोपेताननुजवसंपन्नांश्चतुर्दिग्गमनाहारजवोपेतानारोहसंपन्नान् दिव्यकल्याणचारुसदृशसर्वविभूषणोपेतान्। स तान् ददानः परित्यजन् गौरवेण गुरुजनेभ्यः कल्याणमित्रमातापितृभ्यः कृपणवनीपकयाचनकेभ्यः सर्वजगत्प्रतिग्राहकेभ्यो मुक्तचित्ततया ददानः, नागृहीतचित्ततयावसृजन् महाकरुणापरिस्फुटेन संतानेन महात्यागपरिमाणबोधिसत्त्वगुणेषु प्रतिपद्यमानोऽभिजातबोधिसत्त्वाध्याशयान् परिशोधयमानो यावत्....इति हि बोधिसत्त्व आसनदानं ददानः परित्यजन् राजभद्रासनानि वैडूर्यपादकानि सिंहप्रतिष्ठितानि सुवर्णसूत्ररत्नजालवितानान्यनेकचीवरस्पर्शोपेतप्रज्ञप्तानि सर्वसारगन्धवासितोपचाराणि विचित्रमणिराजसमुच्छ्रितध्वजान्यनेकरत्नकोटीनियुतशतसहस्रालंकारव्यूहानि हेमजालवितानविततानि सुवर्णकिङ्किणीजालसंघटितमनोज्ञनादनिर्घोषशब्दानि महान्त्यासनान्यभ्युद्रतो[द्विद्व] चक्षुर्दर्शनान्येकच्छत्रमहापृथिव्यनुशासननिष्पदनाभिषिक्तानि। सर्वराज्यैश्वर्याधिपतेयनियतनिषद्याप्रतिहतचक्रशासनानुशासनसर्वराजाधिपतेये प्रवर्तते। एवं यावत्.... इति हि बोधिसत्त्वश्छत्राणि ददानः परित्यजन् महारत्नव्यूहप्रतिमण्डितानि रत्नदण्डानि किङ्किणीजालसंछन्नानि। रत्नसूत्रकर्णकण्ठावलीविनामितवैडूर्यमणिहाराभिप्रलम्बितानि नन्दीघोषमनोज्ञशब्दोपचाराणि हेमजालाभ्यन्तरविशुद्धछदनानि रत्नशलाकालंकारशतसहस्रविततानि रत्नकोषसंधारितान्यगुरुचन्दनान्येकसारवरगन्धकोटीनियुतशतसहस्रविधूपितवासितोपचाराणि जाम्बूनदप्रभास्वरशुद्धानि। तादृशानां छत्राणामनेककोटीनियुतशतसहस्रालंकाराणां तदतिरिक्तानि च असंख्येयकोटीनियुतशतसहस्रालंकाराण्यनपेक्षचित्तो ददानः परित्यजन्नवसृजन्ननुप्रयच्छन् संमुखीभूतेभ्यो वा सत्त्वसारेभ्यो निर्वृतानां वा तथागतानां चैत्यालंकाराय धर्मपर्येष्टये, बोधिसत्त्वकल्याणमित्रेभ्यो वा, अभिजातबोधिसत्त्वधर्मभाणकेभ्यो वा, मातापितृभ्यां वा, संघरत्ने वा, सर्वबुद्धशासने वा , यावत्सर्वप्रतिग्राहकेभ्यः, स एवं तत्कुशलमूलं परिणामयति॥



यथा तावत्प्रथमायामेव परिणामनायां सर्वकुशलमूलप्रस्तावेषूपदिष्टम्, एवं प्रणिधानमुत्पादयति- कथमेतानि कुशलमूलानि सर्वजगदुपजीव्यान्युपकारिभूतानि भवेयुर्विशुद्धधर्मपर्यवसानानि, येन सर्वसत्त्वानामेतैः कुशलमूलैर्नरकापायप्रतिप्रस्रब्धिर्भवति? तैर्यग्योनिकायामलौकिकाद्दुःखस्कन्धान्निवर्तयेयुः? स तानि कुशलमूलानि परिणामयन्नेवं तत्कुशलमूलं परिणामयति-अनेनाहं कुशलमूलेन सर्वसत्त्वानां लयनं भवेयं सर्वदुःखस्कन्धविनिवर्तनाय, सर्वसत्त्वानां त्राणं भवेयं सर्वक्लेशपरिमोचनतया, सर्वसत्त्वानां शरणं भवेयं सर्वभयारक्षणतया, सर्वसत्त्वानां गतिर्भवेयं सर्वभूम्यनुगमनतया, सर्वसत्त्वानां परायणं भवेयमत्यन्तयोगक्षेमप्रतिलम्भतया, सर्वसत्त्वानामालोको भवेयं वितिमिरज्ञानसंदर्शनतया, सर्वसत्त्वानां उल्का भवेयमविद्यातमोन्धकारविनिवर्तनतया, सर्वसत्त्वानां प्रद्योतो भवेयमत्यन्तविशुद्धिप्रतिष्ठापनतया, सर्वसत्त्वानां नायको भवेयमचिन्त्यधर्मनयावतारणतया, सर्वसत्त्वानां परिणायको भवेयमनावरणज्ञानस्कन्धोपनयनतया। पेयालं। तच्चाध्याशयतः परिणामयति न वचनमात्रेण। तच्चोदग्रचित्तः परिणामयति, हृष्टचित्तः परिणामयति प्रसन्नचित्तः परिणामयति, प्रमुदितचित्तः स्निग्धचित्तः परिणामयति, मैत्रचित्तः प्रेमचित्तः अनुग्रहचित्तो हितचित्तः सुखचित्तः परिणामयति। तच्चैवं परिणामयति-इदं मम कुशलमूलं सर्वसत्त्वानां गतिविशुद्धये संवर्तेत, उपपत्तिविशुद्धये संवर्तेत, पुण्यमाहात्म्यविशुद्धये संवर्तेत, अनभिभूततायां संवर्तेत, अपर्यादानतायां संवर्तेत, दुरासदचित्ततायां संवर्तेत, स्मृत्यप्रमोषतायां संवर्तेत, गतिमतिविनिश्चयतायां संवर्तेत, बुद्धयप्रमाणतायां संवर्तेत, कायकर्ममनस्कर्मसर्वगुणा लंकारपरिपूर्या संवर्तेत। अनेन मे कुशलमूलेन ते सर्वसत्त्वाः सर्वबुद्धानारागयेयुः, आरागयित्वा च मा विरागयेयुः। तेषु च बुद्धेषु भगवत्सु प्रसादमभेद्यं प्रतिलभेरन्। तेषां च तथागतानामर्हतां सम्यक्संबुद्धानामन्तिके धर्मदेशनां शृणुयुः। श्रुत्वा च सर्वा विमतीर्विनिवर्तयेपुः। यथाश्रुतं च संघारयेयुः। संघारयन्तश्च प्रतिपत्त्या संपादयेयुः। तांश्च तथागतानाराधयेयुः। चित्तकर्मण्यतां च प्रतिलभेरन्। अनवद्यानि कर्माणि समुदानयेयुः। महत्सु च कुशलमूलेष्वात्मानं प्रतिष्ठापयेयुः। अत्यन्तं च दारिद्र्यं विनिवर्तयेयुः, सप्तधनप्रतिलम्भांश्च परिपूरयेयुः, सर्वबुद्धानां चानुशिक्षयेयुः, कल्याणेन्द्रियप्रतिलम्भं चाधिगच्छेयुः, उदाराधिमुक्तिसमतां च परिनिष्पादयेयुः, सर्वज्ञज्ञाने चावकाशं प्रतिलभेरन्, अप्रतिहतचक्षुष्मत्तां च सर्वजगत्युत्पादयेयुः, लक्षणालंकृततां च कायप्रतिपूरिं प्रतिलभेरन्, सर्वगुणालंकारं च वाक्यविशुद्धिं परिगृह्णीयुः, संवृतेन्द्रियतां दशबलप्रयुक्तां चित्तकल्यतां समुदानयेयुः, अनिश्रितविहारतां च परिपूरयेयुः, येन च सुखोपधानेन सर्वबुद्धाः समन्वागतास्तत्सुखोपधानप्रतिलब्धाः सर्वसत्त्वा भवेयुरिति। यथा षष्ठीपरिणामनोक्तेन विधिना परिणामयति- सर्वसत्त्वा ज्ञानाहाराद्भवन्तु असङ्गप्रयुक्तचेतसः, आहारप्रज्ञातापिनोऽनध्यवसिताहाराः प्रीतिभक्षा निरामिषाहारा यावत् कामतृष्णाविनिवर्तकाः। सर्वसत्त्वाः धर्मरसमेघप्रवर्षका भवन्तु अनुत्तरधर्मरतिप्रीणितसंतानाः। सर्वसत्त्वाः सर्वरसाग्रजिह्वा भवन्तु रसनिमित्ताग्रहीतारः सर्वबुद्धधर्मचिन्तनप्रयुक्ताः अविपन्नयाना अग्रयाना उत्तमयानाः शीघ्रयाना महायानाः। सर्वसत्त्वा अतृप्तदर्शना भवन्तु बुद्धप्रीतिप्रतिलब्धाः। सर्वसत्त्वाः सर्वकल्याणमित्रदर्शनानुपहतसंताना भवन्तु। सर्वसत्त्वा अगदभैषज्यराजोपदर्शना भवन्तु। सर्वसत्त्वाः क्लेशविषविनिवर्तकाः, सर्वसत्त्वा आदित्यमण्डलोद्नतदर्शना भवन्तु सर्वसत्त्वतमस्तिमिरपटलविधमनत्वात्॥



एवमात्मानमुपनिधाय स्वभावनानुकूल्येन पठितव्यम्-सर्वसत्त्वानामभिरुचिरदर्शनतायां परिणामयामि, सौमनस्यदर्शनतायां कल्याणदर्शनतायां परिणामयामि। अभिलषितदर्शनतायां प्रहर्षितदर्शनतायां दौर्मनस्यादर्शनतायां बुद्धदर्शनोपेतायां परिणामयामि॥



सर्वसत्त्वाः शीलगन्धोपेता भवन्तु अनाच्छेद्यशीला बोधिसत्त्वपारमिताशीलाः। सर्वसत्त्वा दानवासिता भवन्तु सर्वत्यागपरित्यागिनः। सर्वसत्त्वाः क्षान्तिवासिता भवन्तु अक्षोभ्यचेतना प्रतिलब्धाः। सर्वसत्त्वा वीर्यवासिता भवन्तु महावीर्ययानसंनद्धाः। सर्वसत्त्वा ध्यानवासिता भवन्तु प्रत्युत्पन्नबुद्धसंमुखीभावस्थिताः समाधिप्रतिलब्धाः। सर्वसत्त्वा बोधिसत्त्वपरिणामनावासिता भवन्तु। सर्वसत्त्वाः सर्वशुक्लधर्मवासिता भवन्तु सर्वाकुशलधर्मप्रहीणाः। सर्वसत्त्वा दिव्यशयनप्रतिलब्धा भवन्तु महाज्ञानाधिगमाय। सर्वसत्त्वा आर्यशयनप्रतिलब्धा भवन्तु निःपृथग्जनबोधिचित्तावासनत्वात्। सर्वसत्त्वाः सुखशयनप्रतिलब्धा भवन्तु। सर्वसंसारावचरदुःखपरिवर्जनत्वात्। सर्वसत्त्वाः क्षेमशयनप्रतिलब्धा भवन्तु धर्मकामस्पर्शोपेताः। सर्वसत्त्वाः परिशुद्धबुद्धक्षेत्रावभासा भवन्तु गुणवाससुप्रयुक्ता आर्यावासनिकेतोच्चलिताः अनुत्तरसर्वबुद्धवासाविरहिताः। सर्वसत्त्वा बुद्धोपनिश्रयविहारिणो भवन्तु। सर्वसत्त्वा अनन्तालोका भवन्तु सर्वबुद्धधर्मेषु। सर्वसत्त्वा अप्रतिहतावभासा भवन्तु सर्वधर्मधात्वेकस्फरणाः। सर्वसत्त्वा आरोग्यशरीरा भवन्तु तथागतकायप्रतिलब्धाः। सर्वसत्त्वा भैषज्यराजोपमा भवन्तु अत्यन्ताकल्पनधर्माणः। सर्वसत्त्वा अप्रतिहतभैषज्यस्तम्भोपमा भवन्तु जगच्चिकित्साप्रतिपन्नाः। सर्वसत्त्वा रोगशल्यनिरुद्धा भवन्तु सर्वज्ञारोग्यप्रतिलब्धाः। सर्वसत्त्वाः सर्वजगद्भैषज्यकुशला भवन्तु यथाशयभैषज्यप्रयोगसंप्रयोक्तारः॥ सर्वसत्त्वेषु सर्वरोगविनिवर्तनाय परिणामयामि। सर्वसत्त्वेष्वपर्यन्तस्थामबलशरीरतायां परिणामयामि। सर्वसत्त्वानां चक्रवालपर्वतानवमर्द्यकायबलोपपत्तये परिणामयामि। सर्वसत्त्वानां सर्वबलोपस्तम्भनातृप्ततायां परिणामयामि॥ सर्वसत्त्वा अप्रमाणभाजना भवन्तु आकाशधातुविपुलाः स्मृतीन्द्रियोपेताः सर्वलौकिकलोकोत्तरभावसंग्रहणाद् ग्रहणस्मृत्यसंप्रमूढाः। सर्वसत्त्वाः कल्याणविशुद्धिभावना भवन्तु अतीतानागतप्रत्युत्पन्नसर्वबुद्धबोध्यभेदप्रसादग्राहिणः। सर्वसत्त्वाः कामंगमा भवन्तु सर्वत्रगामिनीबुद्धभूमिप्रतिलब्धाः। सर्वसत्त्वाः सर्वसत्त्वेष्वप्रतिहतचित्ता भवन्तु। सर्वसत्त्वा अनाभोगसर्वबुद्धक्षेत्रपरिस्फुटगमना भवन्तु एकचित्तक्षणसर्वधर्मविक्रमाः। सर्वसत्त्वा श्रान्ताक्लान्तसर्वलोकधातुगमना भवन्तु अविश्राम्यमानमनोमयकायप्रतिलब्धाः। सर्वसत्त्वाः सुखगमनयुक्ता भवन्तु सर्वबोधिसत्त्वचर्यानुप्रवेशिनः। अनेन कुशलमूलेन सर्वसत्त्वाः कल्याणमित्रात्यागचित्तानुत्सृष्टा भवन्तु कृतज्ञाः कृतानुपालनतया। सर्वसत्त्वाः कल्याणमित्रैः सहैकार्था भवन्तु समागकुशलमूलसंग्रहणतया। सर्वसत्त्वाः कल्याणाशया भवन्तु कल्याणमित्रसंवसनसंपदविहारानुधन्वनतया। सर्वसत्त्वाः कल्याणमित्रकुशलमूलकर्मविपाकविशुद्धा भवन्त्वेकप्रणिधानाः। सर्वसत्त्वा महायानाभिरक्ताः संप्रस्थिता भवन्त्वविष्कम्भितयानसर्वज्ञतापर्यवसानाः। सर्वसत्त्वाः प्रच्छादितकुशलमूला भवन्तु सर्वबुद्धावस्थागोपनप्रतिलब्धाः। सर्वसत्त्वा गुणज्ञानाभिच्छादिता भवन्तु सर्वलोकोपक्लेशव्यपवृत्ताः। सर्वसत्त्वा अच्छिन्नविक्षिप्तशुक्लधर्माणो भवन्त्वविपन्नबुद्धधर्मप्रवाहाः। सर्वसत्त्वाश्छत्रभूता भवन्तु दशबलवितानान्विताः। सर्वसत्त्वा अत्यन्तबोध्यासनप्रतिलब्धा भवन्तु। सर्वसत्त्वा[बुद्धविक्रान्तिसिं] हासनप्रतिलब्धा भवन्तु सर्वजगदवलोकनीया इति॥



आर्यगगनगञ्जसूत्रेऽप्याह-मा भूत्तन्मम कुशलमूलं धर्मज्ञानं कौशल्यं वा यन्न सर्वसत्त्वोपजीव्यं स्यादिति॥



अतीतानागतशुभोत्सर्गस्त्वार्याक्षयमतिसूत्रेऽभिहितः-कुशलानां च चित्तचैतसिकानामनुस्मृतिरनुस्मृत्य च बोधिपरिणामना, इदमतीतकौशल्यम्। योऽनागतानां कुशलमूलानां निध्यप्तिर्बोघेरामुखीकरणसमन्वाहारः, ये मे उत्पत्स्यन्ते कुशलाश्चित्तोत्पादाः, ताननुत्तरायां सम्यक्संबोधौ परिणामयिष्यामीति इदमनागतकौशल्यम्। तदेवं चैतसिकेनाभ्यासेन सर्वत्यागादिमुक्तिं परिपूर्य, त्यागचित्तवेगात्तेन कायप्रयोगेणोत्सृष्टसर्वपरिग्रहः। सर्वपरिग्रहमुलाद्भवदुःखाद्विमुक्तो मुक्त‍इत्युच्यते। अनुत्तरांश्चाप्रमेयासंख्येयान् कल्पान् नानाकारानन्तान् लौकिकलोकोत्तरान् सुखसंपत्प्रवर्षाननुभवति। तेन चात्मभावादिना बडिशामिषेणेव स्वयमनभिगतोपभोगेनाप्याकृष्य परानपि तारयति॥ अत एवोक्तं रत्नमेघे-दानं हि बोधिसत्त्वस्य बोधिरिति॥



शिक्षासमुच्चये दानपारमिता प्रथमः परिच्छेदः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project