Digital Sanskrit Buddhist Canon

महायानपथसाधनसङ्ग्रहः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Mahāyānapathasādhanasaṅgrahaḥ
महायानपथसाधनसङ्ग्रहः



नमः सर्वबुद्धबोधिसत्त्वेभ्यः



सर्वातीताद्यबुद्धानां जनकत्वात् पितरौ तथा।

भक्त्या साधनधर्माश्च वाक्चित्ताभ्यां मुदा नतः॥१॥



अचिन्त्यां महतीं बोधिं जिघृक्षुश्चेदनुत्तराम्।

बोधेः साधननिष्ठत्वात् साधनं सारतो भजेत्॥२॥



स च त्रिशरणं गत्त्वा निवार्य सकलाशुभान्।

अधिशीलं भजेच्छुद्धं बोधिचित्तस्य वाहनम्॥३॥



आश्रित्य कशया भूयस् ताडयन् मरणस्मृतेः।

भवमार्ग महाभीतिं क्रामेतैनं च सत्वरम्॥४॥



अभयबुद्धभूप्राप्तः प्रणिधानपदे स्थितः।

सत्त्वसंवरमाधाय षट् च पारमितादिकाः॥५॥



सत्त्वचर्याश्चरेत्तद्वत् तत्प्रज्ञोपायसङ्ग्रहम्।

शिक्षेतास्थितनिर्वाणं तत्सारो द्विविधस्तथा॥६॥



रागद्रर्यरहितो नित्यं पावकार्थी तथाऽरणिम्।

भावयेत् सततं भक्त्या बुद्धः शीघ्रं ततो भवेत्॥७॥



परार्थ मणिवन्नित्यम् अनाभोगं करोति सः।

महायानस्य शिक्षेयुः धन्याः साधनसङ्ग्रहम्॥८॥



चित्तं सुधालवैः रक्तं बुद्धय्शुद्धौ च दुःस्पृशम्।

एतत्सङ्ग्रहपुण्येन जगद् यातु महापथम्॥९॥



बुद्धभूमिमहं चाप्त्वा भवेयं लोकनायकः॥१० अ ब॥



'अतिसंक्षिप्तमहायानपथसाधनं' महाचार्यदीपङ्करश्रीज्ञानविरचितं समाप्तम्॥



भारतस्य तेनैव उपाध्याय-पण्डितेन लोकचक्षुषा भिक्षुणा कल्याणमतिना (द्गे वहि ब्लो ग्रोस्) च अनूद्य निर्णीतम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project