Digital Sanskrit Buddhist Canon

भावनाक्रमस्तृतीयः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Bhāvanākramastṛtīyaḥ

भावनाक्रमस्तृतीयः



महायानसूत्रान्तनयप्रवृत्तानां संक्षेपतो भावनाक्रमः कथ्यते। तत्र यद्यपि बोधिसत्त्वानामपरिमितोऽप्रमाणादिभेदेने भगवता समधिरुपदिष्टः, तथापि शमथविपश्यनाभ्यां सर्वे समाधयो व्याप्ता इति। स एव शमथविपश्यनायुगनद्धवाही मार्गस्तावत् कथ्यते। उक्तं च भगवता-



निमित्तबन्धनाज् जन्तुरथो दोष्ठुलबन्धनात्।

विपश्यनां भावयित्वा शमथं च विमुच्यते॥ इति।



तस्मात् सकलावरण-प्रहाणार्थिन शमथविपश्यने सेवनीये। शमथबलेन स्वालम्बने चित्तम् अप्रकम्प्यं भवति निवातस्थितप्रदीपवत्। विपश्यनया यथावद् धर्मतत्त्वावगमात् सम्यग्ज्ञानालोकः समुत्पद्यते, ततः सकलम् आवरणं प्रहीयते, अन्धकारवद् आलोकोदयात्।



अत एव भगवता चत्वार्यालम्बनवस्तूनि योगिनां निर्दिष्टानि। निर्विकल्पप्रतिबिम्बकम्, सविकल्पप्रतिबिम्बकम्, वस्तुपर्यन्तता, कार्यपरिनिष्पत्तिश्च। तत्र शमथेन यत् सर्वधर्मप्रतिबिम्बकं बुद्धादिरूपं चाधिमुच्यालम्ब्यते तेन निर्विकल्पप्रतिबिम्बकम् उच्यते। तत्र भूतार्थनिरूपणाविकल्पाभावान् निर्विकल्पकम् उच्यते। यथाश्रुतोद्‍गृहीतानाञ्च धर्माणां प्रतिबिम्बकम् अधिमुच्यालम्ब्यत इति कृत्वा प्रतिबिम्बकम् उच्यते। तद् एव प्रतिबिम्बकं यदा विपश्यनया विचारयति योगी तत्त्वाधिगमार्थं तदा सविकल्पप्रतिबिम्बकम् उच्यते, तत्त्वनिरूपणविकल्पस्य विपश्यनालक्षणस्य तत्र समुद्‍भवात्। तस्यैव च प्रतिबिम्बस्य स्वभावं निरूपयन् योगी दर्पणान्तर्गतस्वमुख-प्रतिबिम्बप्रत्यवेक्षणेन स्वमुखगतवैरूप्याणां विनिश्चयवत्, सर्वधर्माणां यथावत् स्वभावावगमात्। यदा वस्तु पर्यन्ततालक्षणां तथतां प्रतिबिध्यति, तदा वस्तुपर्यन्ततावगमात् प्रथमायां भूमौ वस्तुपर्यन्ततालम्बनम् उच्यते। ततो भावनामार्गेण परिशिष्टासु भूमिष्वोषधिरसायनोपयोगाद् इव क्रमेण विशुद्धतरतमक्षणोदयाद् आश्रयपरावृत्तौ सत्याम्, आवरण-प्रहाणलक्षण-कार्यपरिसमाप्तिर्यदा भवति तदा बुद्धभूमौ तद् एव ज्ञानं कार्यपरिनिष्पत्त्यालम्बनम् उच्यते।



तद् एवम् अनेन किं दर्शितं भवति ? शमथविपश्यनाभ्यां समस्तवस्तुपर्यन्तताधिगमो भवति। तेन चावरणप्रहाणलक्षणा कार्यपरिनिष्पत्तिरवाप्यते। तद् एव च बुद्धत्वम्। अतो बुद्धत्वाधिगमार्थिना शमथविपश्यने सेवनीये। यस्तु ते न सेवते तस्य नैव वस्तुपर्यन्तताधिगमो नापि कार्यपरिनिष्पत्तिरिति। तत्र शमथश्चित्तैकाग्रता। विपश्यना भूतप्रत्यवेक्षेति संक्षेपाद् आर्यरत्नमेघादौ भगवता शमथविपश्यनयोर्लक्षणम् उक्तम्। तत्र योगिना शीलविशुद्धयादौ शमथविपश्यनासंभारे स्थितेन सर्वसत्त्वेषु महाकरुणाम् उत्पाद्य, समुत्पादित-बोधिचित्तेन श्रुतचिन्ताभावनायां प्रयोक्तव्यम्।



तत्र प्रथमं तावद् योगी भावना-काले सर्वम् इतिकरणियं परिसमाप्य कृतमूत्रपुरीषः कण्टक-स्वरादिरहिते मनोऽनुकूले प्रदेशे स्थित्वा मया सर्वसत्त्वा बोधिमण्डे निष्पादयितव्या इति विनिश्चयन्, सकलजगदभ्युद्धरणाशयो महाकरुणाम् आमुखीकृत्य, दशदिगवस्थितान् सर्वबुद्धबोधिसत्त्वान् पञ्चाङ्गेन प्रणिपत्याग्रतो बुद्धबोधिसत्त्वान् पीठादौ स्थापयित्वा अन्यत्र वा यथावत् तेभ्यश्च यथारुचि पूजास्तवनं कृत्वा स्वपापं प्रदेश्य, सकलस्द्य जगतः पुण्यम् अनुमोद्य, मृदुतरसुखासने वैरोचनभट्टारकबद्धपर्यङ्केण अर्धपर्येङ्केण वा निषद्य नात्युन्मीलिते नातिनिमीलिते नासिकाग्रविन्यस्ते चक्षुषी कृत्वा, नातिनम्रं नातिस्तब्धम् ऋजुकायं प्रणिधायान्तर्मुखावर्जितस्मृतिरुपविशेत्। ततः स्कन्धौ समौ स्थापयेत्। शिरो नोन्नतं नावनतम् एकपार्श्वे निश्चलं स्थापयितव्यम्। किं तर्हि नाभिप्रगुणा नासिका स्थापयितव्या। दन्तोष्ठं मृदु स्थापनीयम्। जिव्हा चोपरि दन्तमूले स्थापनीया। आश्वासप्रश्वासास्तु न सशब्दा नापि श्थूला नापि त्वरिताः करणीयाः। किं त्वसंलक्षयमाणां मन्दं मन्दमनाभोगेन यथा प्रविशेयुर्निर्गच्छेयुर्वा तथा करणियम्।



तत्र प्रथमं तावद् योगी यथादृष्टश्रुते तथागतविग्रहे चित्तं स्थापयित्वा शमथं निष्पादयेत्। तञ्च तथागतविग्रहम् उत्तप्तकनकावदातं लक्षणानुव्यञ्जनालंकृतं पर्षन्मण्डलमध्यगतं नानाविधैरुपायैः सत्त्वार्थं कुर्वन्तं प्राबन्धिकेन मनसिकारेण तद्‍गुणाभिलाषं समुपादाय लयौद्धत्यादीन् व्युपशमय्य तावद् ध्यायेद् यावत् स्फुटतरं पुरोऽवस्थितमिव तं पश्येत्। ततः तस्य तथागतविग्रहप्रतिबिम्बकस्यागतिगतिं निरूपयतो विपश्यनां भावयति। ततश्चैवंविधं विचिन्तयेत्। यथेदं तथागतविग्रहप्रतिबिम्बकं न कुतश्चिद् आगतं नापि क्वचिद् गमिष्यति तिष्ठदपि स्वभावशून्यम् आत्मात्मीयरहितं तथा एव सर्वधर्माः स्वभावशून्या आगतिगतिरहिताः प्रतिबिम्बोपमाः, भावादिरूपरहिता इति विचार्योपरतविचारेण निर्जल्पैकरसे मनसा तत्त्वं भावयन् यावदिच्छं तिष्ठेत्। अयं च समाधिः प्रत्युत्पन्नबुद्धसंमुखावस्थितसमाधिर्निर्दिष्टः। अस्य चानुशंसा विस्तरतस्तत्रैव सुत्रे बोधयितव्या।



एतावता प्रकारेण सर्वधर्मसंग्रहो भवति, तत्र चित्तम् उपनिबध्य लयौद्धत्यादिप्रशमेन शमथं निष्पादयेत्। रूप्यरूपिभेदेन च संक्षेपात् सर्वधर्मसंग्रहः। तत्र रूपस्कन्धसंगृहीता रूपिणः। वेदनादिस्कन्धस्वभावा अरूपिणः। तत्र बाला भावादिग्रहाभिनिवेशाद् विपर्यस्तधियः संसारे परिभ्रमन्ति। तेषां विपर्यासापनयनाय, तेषु च महाकरुणाम् आमुखीकृत्य, निष्पन्नशमथो योगी तत्त्वाधिगमाय ततो विपश्यनां भावयेत्। भूतप्रत्यवेक्षणा च विपश्यनोच्यते। भुतं पुनः पुद्‍गलधर्मनैरात्म्यम्।



तत्र पुद्‍गलनैरात्म्यं या स्कन्धानामात्मात्मीयरहितता। धर्मनैरात्म्यं या तेषामेव मायोपमता। तत्रैवं योगी निरूपयेत्। न तावद् रूपादिव्यतिरिक्तः पुद्‍गलोऽस्ति। तस्या प्रतिभासनात्। रूपादिष्वेवाहमिति प्रत्ययोत्पत्तिश्च। न चापि रूपादिस्कन्धस्वभावः पुद्‍गलः। तेषां रूपादीनामनित्यानेकस्वभावत्वात्। पुद्‍गलस्य च नित्यैकरूपेण परैरुपकल्पितत्वात्। नापि तत्त्वान्यत्वाभ्याम् अनभिलाप्यपुद्‍गलस्य वस्तुत्वं युक्तम्। वस्तुसतः प्रकारान्तराभावात्। तस्माद् अलीकविभ्रम एवायं लोकस्य यदुताहं ममेति निश्चयं प्रतिपन्नस्य। ततो रूपिणोऽपि धर्मान् धर्मनैरात्म्याधिगमाय विचारयेत्-किम् एते चित्तव्यतिरेकेण परमार्थसन्तः स्थिताः आहोस्विच्चित्तमेव रूपादिनिर्भासं स्वप्नावस्थायां प्रतिभासवत् प्रतिभासत इति। स तान् परमाणुशो निरूपयन्, परमाणूंश्च भागशः प्रत्यवेक्षमाणो नोपलभते। तथा चानुपलभमानस्तेषु अस्तिनास्तित्वविकल्पान् निवर्तयति।



चित्तमात्रञ्च त्रैधातुकम् अवतरति नान्यथा। अथ चोक्तं लङ्कावतारे-



अणुशो विभजति द्रव्यं न चैव रूपं विकल्पयेत्।

चित्तमात्रव्यवस्थानं कुदृष्ट्‍या न प्रसीदति॥इति।



तस्यैवं भवति चित्तमेवानादिकालिकवितथरूपाद्यभिनिवेशवशात् स्वप्नोपलभ्यमानरूपादिप्रतिभासवद् बालानां बहिः विच्छिन्नमिव रूपादिप्रतिभासं ख्याति। तस्माच्चित्तमात्रमेव त्रैधातुकम्। स एवं चित्तमेव सकलधर्मप्रज्ञप्तिं निश्चित्य तत्र प्रत्यवेक्ष्य च सर्वधर्माणां स्वभावः प्रत्यवेक्षितो भवतीति चित्तस्वभावमपि प्रत्यवेक्षते। स एवं विचारयति, चित्तमपि परमार्थतो मायावद् अनुत्पन्नम्। यद हि अलीकस्वभावरूपाद्याकारोपग्रहेण चित्तमेव चित्राकारं प्रतिभासते, तदाऽस्यापि रूपादिवत् तदव्यतिरेकात् सत्यत्वं कुत्र भवेत् ? यथा चित्राकारतया रूपादयो नैकानेकस्वभावास्तथा चित्तमपि तदव्यतिरेकेण नैकानेकस्वभावम्। नापि चित्तमुत्पाद्यमानं कुतश्चिद् आगच्छति। नापि निरुध्ययानं क्वचिद् गच्छति। नापि स्वपरोभयतः परमार्थेनास्योत्पादो युक्तः। तस्मान् मायोपममेव चित्तम्। यथा चित्तमेवं सर्वधर्मा मायावत् परमार्थतोऽनुत्पन्नाः।



येनापि चित्तेन प्रत्यवेक्षते योगी तस्यापि स्वभावं परीक्षमाणो नोपलभते। तद् एवं यत्र यत्रालम्बने योगिनश्चित्तं प्रसरेत् तस्य तस्य स्वभावं परीक्षमाणो [तत् स्वभावमपि नोपलभते] ऽसौ यद नोपलभते तदा सर्वमेव वस्तु विचार्य कदलीस्कन्धवद् असारमवगम्य, ततश्चित्तं विवर्तयति। ततो भावादिविकल्पोपरतौ सर्वप्रपञ्चविगतम् आनिमित्तं योगं प्रतिलभते। तथा चोक्तम् आर्यरत्नमेघे-"स एवम् अपक्षालकुशलः सर्वप्रपञ्चविगमाय शून्यताभावनाया योगमापद्‍यते। स शून्यताभावनाबहुलो येषु येषु स्थानेषु चित्तं प्रसरति चित्तमभिरमते तानि तानि स्थानानि स्वभावतः परिगवेषमाणः शून्यं प्रतिविध्यति [यत् चित्तं तदपि परीक्षमाणं शून्यं प्रतिविध्यति] येनापि चित्तेन परीक्षते तद् अपि स्वभावतः परिगवेष्यमाणं शून्यं प्रतिविध्यति। स एवम् उपपरीक्षमाणो निर्निमित्ततायां योगमापद्यते।" तद् एव अनेनैवं दर्शितं भवति। यस्तु नोपपरीक्षते तस्य नास्ति निर्निमित्ततायां प्रवेश इति।



स एवं धर्माणां स्वभावमुपपरीक्षमाणो यद नोपलभते, तदास्तीति न विकल्पयति नास्तीति न विकल्पयति। योऽसौ नास्तीति कल्प्यते तस्य बुद्धौ सर्वदैवाप्रतिभासनात्। यदि हि भावः कदाचिद् दृष्टो भवेत्, तदा तस्य प्रतिषेधान् नास्तीति कल्पयेत्। यदा कालत्रयेऽपि योगिना प्रज्ञया निरूपयता भावो नोपलब्धः तदा कस्य प्रतिषेधान् नास्तीति कल्पयेत्। एवमन्ये विकल्पास्तस्य तदानीं न सन्ति एव, भावाभावविकल्पाभ्यां सर्वस्य विकल्पस्य व्याप्तत्वात्। एवं व्यापकाभावाद् ब्याप्यस्याप्यभावः। एवं सति निष्प्रपञ्चनिर्विकल्पतामवतीर्णो भवति, रूपादिषु चानिश्रितो भवति। प्रज्ञया च निरूपयतः सकलवस्तुस्वभावानुपलम्भात् प्रज्ञोत्तरध्यायी भवति। स एवं पुद्‍गलधर्मनैरात्म्यमयं तत्त्वमवतीर्णः, अपरस्य परीक्षणीयस्य चाभावाद्, उपरतविचारेण निर्विकल्पैकरसेन मनसा स्वरसवाहिना, अनभिसंस्कारतः तद् एव तत्त्वं स्फुटतरम् अवधारयन् योगी तिष्ठेत। तत्र च स्थितश्चित्तबन्धं न विक्षिपेत्।



यदान्तरा चित्तं बहिर्धा विक्षिप्तं पश्येत् तदा तत्स्वभावप्रत्येवेक्षणेन विक्षेपं प्रशमय्य, पुनस्तत्रैव चित्तमुपर्युपरि प्रेरयेत्। यदा तु तत्रानभिरतं चित्तं पश्येत्, तदा समाधेर्गुणदर्शनाद् अभिरतिं तत्र थावयेत्। विक्षेपे च दोषदर्शनाद् अरतिं प्रशमयेत्। अथ स्त्यानमिद्धाभिभवाद् यद प्रचारतया लीनं चित्तं पश्येत्, लयाभिशङ्कितं वा तदा प्रमोद्यवस्तु बुद्धरूपादिकमालोकसंज्ञां वा मनसिकृत्य लयमुपशमयेत्, ततस्तद् एव तत्त्वं दृढतरं गृण्हीयात्। यदा तु जात्यन्धवद् अन्धकारप्रविष्टपुरुषवद् विनिमीलिताक्षवत् स्फुटतरं तत्त्वं नावधारयेद् योगी, तदा तस्य लीनं चित्तं वेदितव्यं विपश्यनारहितं च। अथ यथा पूर्वानुभूतविषयस्पृहया चित्तमन्तरा समुद्धतं पश्येद्, औद्धत्याभिशङ्कितं वा, तदानित्यतादि संवेगवस्तुमनसिकाराद् औद्धत्यं शमयेत्। ततः पुनः तत्रैव तत्त्वे चित्तानभिसंस्कारवाहितायां यत्नं कुर्वीत। यदा च विक्षिप्तपुरुषवद् वानरवद् वाऽनवस्थितवृत्ति चित्तं भवेत्, तद् औद्धत्यं बोद्धव्यं शमथरहितं च। अथ यदा लयौद्धत्याभ्यां विविक्ततया समप्रवृत्तं स्वरसवाहि स्फुटतरं तत्रैव तत्त्वे चित्तम् उत्पाद्‍यते तदाभोगशिथिलीकरणाद् उपेक्षणियम्। तदा च शमथविपश्यनायुगनद्धवाही मार्गोनिष्पन्नो वेदितव्यः।



यदा च विपश्यना भावयेत् प्रज्ञातिरिक्ततरा भावयेत्, तदा शमथस्याल्पत्वात् प्रवातस्थितप्रदिपवत् प्रचलत्वाच्चित्तस्य न स्फुटतरं तत्त्वदर्शनं भवेत्। अतस्तदा शमथो भावयितव्यः। शमथस्याभ्याधिक्ये मिद्धावष्टबधपुरुषस्येव स्फुटतरं तत्त्वदर्शनं न स्यात्। तस्मात् तदा प्रज्ञा भावयितव्या। यदा समप्रवृत्ते द्वे अपि भवतो युगनद्धवाहिबलीवर्दद्वयवत् तदानभिसंस्कारेणैव तावत् स्थातव्यं यावत् कायचित्तपीडा न भवेत्।



संक्षेपतः सर्वस्यैव समाधेः षड् दोषा भवन्ति। कौसीद्यम्, आलम्बनसंप्रमोषः, लयः, औद्धत्यम्, अनाभोगः, आभोगश्चेति। एषां प्रतिपक्षेणाष्टौ प्रहाणसंस्कारा भावनीयाः। श्रद्धा, छन्दः, व्यायामः, प्रस्रब्धिः, स्मृतिः, संप्रजन्यम्, चेतना, उपेक्षा चेति। तत्राद्याश्चत्वारः कौसीद्यप्रतिपक्षाः। तथाहि-समाधिगुणेष्वभिसंप्रत्ययलक्षणया श्रद्धया योगिनोऽभिलाषः समुत्पद्यते। ततोऽभिलाषवान् वीर्यमारभते। ततो वीर्यारम्भणात् कायचित्तयोः कर्मण्यतां भावयति। ततः प्रस्रब्धकायचेतसः कौसीद्यं व्यावर्तते। ततः [श्रद्धादयः कौसीद्यप्रहाणाय भवन्ति] तदर्थ ते भावनीयाः। स्मृतिरालम्बन-संप्रमोषस्य प्रतिपक्षः। संप्रजन्यं लयौद्धत्ययोः प्रतिपक्षः। तयोस्तेन समुपेक्ष्य परिवर्जनात्। लयौद्धत्याप्रशमनकाले तु अनाभोगदोषः ततस्तत्प्रतिपक्षेण चेतना भावनीया। लयौद्धत्यप्रशमे सति, यदा प्रशमबाहि चित्तं भवेत्, तदाभोगदोषः। तस्य प्रतिपक्षस्तदानीम् उपेक्षा भावनीया। यदि समप्रवृत्ते चित्ते आभोगः क्रियते, तदा चित्तं विक्षिप्यते। लीनेऽपि चित्ते सति यद्याभोगो न क्रियते, तदा विपश्यनारहितत्वाद्, अन्धपुरुषवच्चित्तं लीनं स्यात्। तस्मात् लीनचित्तं निगृण्हीयाद्, उद्धतं प्रशमयेत्, पुनः समाप्राप्तम् उपेक्षेत।



ततो यावदिच्छ योगी तावद् अनभिसंस्कारेणैव तत्त्वं भावयंस्तिष्ठेत्। सत्यां तु कायादिपीडायां पुनः पुनरन्तरा सकलमेव लोकं व्यवलोक्यमायाजल चन्द्रोपमप्रतिभासं [वत] अवतरेत्। तथ चोक्तम् अविकल्पप्रवेशे-लोकोत्तरेण ज्ञानेनाकाशसमतलान् सर्वधर्मान्पश्यति। पृष्ठलब्धेन पुनर्मायामरीचिस्वप्नो दकचन्द्रोपमान् पश्यतीति। तद् एवं मायोपमं जगद् अवगम्य, सत्त्वेषु महाकरुणाम् आमुखीकृत्यैवम् अनुविचिन्तयेत्। एवंविधं धर्मगाम्भोर्यम् अनवगच्छन्तोऽमी बालबुद्धय आदिशान्तेष्वेव धर्मेषु भावादिसमारोपविपर्यस्ता विविधकर्मक्लेशान् उपचिन्वन्ति। ततः संसारे परिभ्रमन्ति, ततोऽहं करिष्यामि यथैतान् एवंविधं धर्मागाम्भीर्यम् अवबोधयेयम् इति, ततो विश्रम्य पुनरपि तथैव सर्वधर्मनिराभासं समाधिमवतरेत्। चित्तखेदे सति, तथैव विश्रम्य पुनरवतरेत्। एवम् अनेन क्रमेण घटिकाम् [अर्थप्रहरम्] एकप्रहरं वा यावन्तं कालं शक्नोति तावन्तं कालं तिष्ठेत्।



तत इच्छया समाधेः उत्थातुं पर्यङ्कम् अभित्त्वैवम् अनुविचिन्तयेत्। यदि नामामी धर्माः सर्व एव परमार्थतोऽनुत्पन्नास्तथापि मायवत् प्रतिनियतविविधहेतुप्रत्ययसामग्रीवशेन विचित्रा एवाविचाररमणीयाः प्रवर्तन्ते, तेन नोच्छेददृष्टिप्रसङ्गः। नाप्यपवादान्तस्य, यतश्च प्रज्ञया विचार्यमाणा नोपलभ्यन्ते, तेन न शाश्वतदृष्टिप्रसङ्गो नापि समारोपान्तस्य। तत्र ये प्रज्ञाचक्षुर्विकलतया विपर्यस्तमतया आत्माभिनिविष्टा विविधानि कर्माणि कुर्वन्ति ते संसारे परिभ्रमन्ति। ये पुनरेकान्तेन संसारविमुखा महाकारुण्यविकलतया च न [सत्त्वार्थं] दानादिपारमिताः परिपूरयन्ति आत्मानं दमयन्ति ते सत्त्वा उपायविकलतया श्रावकप्रत्येकबुद्धबोधौ पतन्ति।



ये तु अस्वभावं जगद् अवगम्य महाकारुण्यबलेन सकलजगदभ्युद्धरणकृतनिश्चया मायाकारवद् अविपर्यस्तधियो विपुलपुण्यज्ञानसंभारं समुपायन्ति ते तथागतं पदं प्राप्यासंसारमशेषस्य जगतः सर्वाकारं हितसुखानि संपादयन्तः तिष्ठन्ति। ते च ज्ञान [सम्भार] बलेन [समस्त] क्लेशप्रहाणान् न संसारे पतन्ति सर्वसत्त्वापेक्षया च समुपार्जितविपुलाप्रमेयपुण्यसंभारवशेन न निर्वाणे पतन्ति, सर्वसत्त्वोपजीव्याश्च भवन्ति। तस्मान् मया सकलसत्त्वहितसुखाधानार्थिनाऽप्रतिष्ठितनिर्वाणम् अधिगन्तुकामेन विपुलपुण्यज्ञान-संभारोपार्जनेऽभियोगः [सदा] करणियः। तथा चोक्तम् आर्यतथागतगुह्यसुत्रे-"ज्ञानसम्भारः सर्वक्लेशप्रहाणाय संवर्तते। पुण्यसम्भारः सर्वसत्त्वोपजीवितायै संवर्तते। तस्मात् तर्हि भगवन् बोधिसत्त्वेन महासत्त्वेन पुण्यसम्भारे ज्ञानसंभारे च सर्वदाऽभियोगः करणीयः" इति। आर्यतथागतोत्पत्तिसंभसूत्रे चोक्तम्-"स खलु पुनरेष तथागतानां संभवो नैकेन कारणेन भवति। तत् कस्य हेतोः ? समुदागतैस्तावद् भो जिनपुत्राप्रमेयशतसहस्रदशकारणैस्तथागताः समुदागच्छन्ति। कतमैर्दशभिर्यदुताप्रमेयपुण्यज्ञानसम्भारातृप्तिसमुदागमकारणेनेति" विस्तर। आर्यविमलकीर्तिनिर्देशे चोक्तम्-"शतपुण्यनिर्जाताः सर्वकुशलधर्मनिर्जाता अप्रमाणकुशलमूलकर्मनिर्जाताः कायास्तथागतस्येति" विस्तरः।



तद् एवं कृत्वा शनैः पर्यङ्कं भित्त्वा दशदिग्व्यवस्थितान् सर्वबुद्धबोधिसत्त्वान् प्रणिपत्य तेभ्यश्च पूजास्तोत्रोपहारं कृत्वार्यभद्रचर्यादिप्रणिधानं प्रनिदधीत। ततः शून्यताकरुणागर्भानुत्तरसंबोधिपरिणामितसकलदानादिपुण्यसंभारोपार्जनाभियुक्तो भवेत्।



यस्तु मन्यते, चित्तविकल्पसमुत्थापितशुभाशुभकर्मवशेन सत्त्वाः स्वर्गादिकर्म फलमनुभवन्तः संसारे संसरन्ति। ये पुनर्न किञ्चिच्चिन्तयन्ति नापि किञ्चित् कर्म कुर्वन्ति ते परिमुच्यन्ते संसारात्। तस्मान्न किञ्चिच्चिन्तयितव्यम्। नापि दानादिकुशलचर्या कर्तव्या। केवलं मूर्खजनमधिकृत्य दानादिकुशलचर्या निर्दिष्टेति। तेन सकलमहायानं प्रतिक्षिप्तं भवेत्। महायानमूलत्वाच्च सर्वयानानां तत्प्रतिक्षेपेण सर्वम् एव यानं प्रतिक्षिप्तं स्यात्। तथा हि 'न किञ्चिच्चिन्तयितव्यमिति' ब्रुवत भुतप्रत्यवेक्षालक्षणा प्रज्ञा प्रतिक्षिप्ता भवेत्। भूतप्रत्यवेक्षा-मूलत्वात् सम्यग्‍ज्ञानस्य तत्प्रतिक्षेपा ल्लोकोत्तरापि प्रज्ञा प्रतिक्षिप्ता भवेत्। तत्प्रतिक्षेपात् सर्वाकारज्ञता प्रतिक्षिप्ता भवेत्। नापि दानादिचर्या कर्तव्येति वदता चोपायो दानादिः स्फुटतरमेव प्रतिक्षिप्तः।



एतावद् एव च संक्षिप्तं महायानं यदुत प्रज्ञोपायश्च। यथोक्तम् आर्यगयाशीर्षे-"द्वाविमौ बोधिसत्त्वानां संक्षिप्तौ मार्गौ। कतमौ द्वौ ? यदुत प्रज्ञा चोपायश्च। " आर्यतथागतगुह्यसूत्रे चोक्तम्-"इमौ च प्रज्ञोपायौ बोधिसत्त्वानां सर्वपारमितासंग्रहाय संवर्तेते" इति। ततश्च महायानं प्रतिक्षिपता महत् कर्मावरणं कृतं स्यात्। तस्माद् [महायानं प्रतिक्षिपतः, अल्पश्रुतस्य, आत्मदृष्टिं परामृशतः,] अस्यानुपासितविद्वज्जनस्यानवधारित-तथागत-प्रवचननीतेः स्वयं विनष्टस्य परान् अपि नाशयतो युक्त्यागमदूषितत्वात्, विषसंसृष्टवचनं सविषभोजनमिव आत्मकामेन धीमता दूरत एव परिहर्तव्यम्।



तथा ह्यनेन भूतप्रत्यवेक्षां प्रतिक्षिपता धर्मप्रविचयाख्यं प्रधानम् एव बोध्यङ्‍गं प्रतिक्षिप्तं स्यात्। विना च मूतप्रत्यवेक्षया योगिनः कथम् अनादिकालाभ्यस्तरूपादिभावाभिनिवेशस्य चित्तं निर्विकल्पतां प्रविशेत् ? सर्वधर्मेष्वस्मृत्यमनसिकारेण प्रविशतीति चेत्, तद् अयुक्तम्। न हि विना भूतप्रत्यवेक्षयानुभूयमानेष्वपि सर्वधर्मेष्वस्मृतिरमनसिकारो वा शक्यते कर्तुम्। यदि च नामामी धर्मा मयाऽस्मर्तव्या नापि मनसिकर्तव्या इत्येवं भावयन्नस्मृतिमनसिकारौ तेषु भावयेत् तदा सुतराम् एव तेन ते स्मृता मनसिकृताश्च स्युः। अथ स्मृतिमनसिकाराभावमात्रम् अस्मृत्यमनसिकारावभिप्रेतौ, तदा तयोरभावः केन प्रकारेण भवतीति एतद् एव विचार्यते। न चाभावः कारणं युक्तम्, येन ततो [निर्निमित्तामनसिकारात्] निर्विकल्पता भवेत्। [तन्मात्रतोऽविकल्पतायां] संमुर्च्छितस्यापि स्मृतिमनसिकाराभावान् निर्विकल्पताप्रवेशप्रसङ्गः। न च भूतप्रत्यवेक्षां विनाऽन्य उपायोऽस्ति येन प्रकारेणास्मृत्यमनसिकारौ कुर्यात्।



सत्यपि चास्मृत्यमनसिकारसम्भवे, विना भूतप्रत्यवेक्षया निःस्वभावता धर्माणां कथम् अवगता भवेत् ? न हि स्वभावत एवं धर्माः शून्याः स्थिता इत्येवं विना तत्प्रत्यवेक्षया तच्छून्यताप्रतिवेधो भवेत्। नापि विना शून्यताप्रतिवेधेन आवरणप्रहाणं संभवति सर्वत्र सर्वेषां मुक्तिप्रसङ्गात्।



किं च तस्य योगिनो यदि सर्वधर्मेषु मुषितस्मृतितया मूढतया वा स्मृतिमनसिकारौ न प्रवर्तेते, तदाऽत्यन्तमूढः कथम् असौ योगी भवेत्। विना च भूतप्रत्यवेक्षया तत्रास्मृतिम् अमनसिकारं चाभ्यस्तता मोह एवाभ्यस्तो भवेत्। तत एव सम्यग्ज्ञानालोको दूरीकृतः स्यात्। अथासौ न मुषितस्मृतिर्नापि मूढः, तदा कथं तत्रास्मरणम् अमनसिकारं कर्तु शक्नुयाद् विना भूतप्रत्यवेक्षया। न हि स्मरन्नेव न स्मरति, पश्यन् एव न पश्यतीति युक्तम् अभिधातुम्। अस्मृत्यमनसिकाराभ्यासाच्च कथं पूर्वनिवासानुस्मृत्यादि-बुद्धधर्मोदयो भवेत्, विरोधात्, न ह्युष्णविरुद्धं शीतम् आसेवमानस्य उष्णस्पर्शसंवेदनं भवेत्।



किं च समाधिसमापन्नस्य योगिनो यदि मनोविज्ञानम् अस्ति, तदाऽवश्यं तेन किंचिद् आलम्बयितव्यम्। न हि पृथग्जनानां सहसा निरालम्बनं ज्ञानं भवेत्। अथ नास्ति, तदा कथं निःस्वभावता धर्माणामवगता भवेत् ? केन च प्रतिपक्षेण क्लेशावरणं प्रहीयते ? न च चतुर्थध्यानालाभिनः पृथग्जनस्य चित्तनिरोधः संभवति। तस्मात् सद्धर्मे यावस्मृत्यमनसिकारौ पठितौ तौ भूतप्रत्यवेक्षापूर्वाकौ द्रष्टव्यौ। अस्माद् भूतप्रत्यवेक्षयाऽस्मृतिर्मनसिकारश्च शक्यते कर्तुम्, नान्यथा। तथा हि यदा निरूपयन् सम्यक्प्रज्ञया योगी कालत्रये परमार्थतः समुत्पन्नं न कंचिद् धर्म पश्यति, तदा तत्र कथं स्मृतिमनसिकारौ कुर्यात्। यो हि कालत्रयेऽप्यसत्त्वान् नानुभूतः परमार्थतः स कथं स्मर्येत, मनसि वा क्रियेत। ततोऽसौ सर्वप्रपञ्चोपशमं निर्विकल्पं ज्ञानं प्रविष्टो भवेत्। तत्प्रवेशाच्च शून्यतां प्रतिविध्यति तत्प्रतिवेधाच्च प्रहीणसकलकुदृष्टिजालो भवति।



उपाययुक्तः प्रज्ञासेवनतश्च सम्यक् संवृतिपरमार्थसत्यकुशलो भवति। अतोऽनावरणज्ञानलाभात् सर्वान् एव बुद्धधर्मान् अधिगच्छति। तस्मान्न विना भूतप्रत्यवेक्षया सम्यग्ज्ञानोदयो नापि क्लेशावरणप्रहाणाम्। तथा चोक्तं मञ्जुश्रीविकुर्वितसूत्रे-"कथं दारिके बोधिसत्त्वो विजितसंग्रामो भवति? आह, यो मञ्जुश्रीः विचाय विचाय सर्वधर्मान् नोपलभते" इति। तस्माद् विस्फारितज्ञानचक्षुः प्रज्ञाशस्त्रेण क्लेशारीन् निर्जित्य, निर्भयो विहरन् योगी, न तु कातरपुरुष इव विनिमीलिताक्षः। आर्यसमाधिराजेऽप्युक्तम्-



नैरात्म्यधर्मान् यदि प्रत्येवेक्षते

तान् प्रत्यवेक्ष्य यदि भावयेत्।

स हेतु निर्वाणपहलस्य प्राप्तये

योऽन्यहेतुर्न स भोति शान्तये॥इति।



सुत्रसमुच्चये चोक्तम्-"आत्मना विपश्यनायोगम् अनुयुक्तो विहरति परांश्च विपश्यनायां नाभियोजयतीति मारकर्मेति।" विपश्यना च भूतप्रत्यवेक्षास्वभावा आर्यरत्नमेघ-सन्धिनिर्मोचनादौ, आर्यरत्नमेघे च-"विपश्यनां निरूपयतो निःस्वभावताप्रतिवेधद् अनिमित्तप्रवेश उक्तः।" आर्यलङ्कावतारे चोक्तम्-"यस्मात्, महामते, बुद्धया विचार्यमाणानां स्वसामान्यलक्षणं भावानां नावधार्यते। तेनोच्यन्ते निःस्वभावाः सर्वधर्माः" इति। तत्र तत्र सूत्रे या भगवता नानाप्रकारा प्रत्यवेक्षा निर्दिष्टा सा विरुध्यते, यदि भूतप्रत्यवेक्षा न कर्तव्या। तस्माद् एवं युक्तं वक्तुं वयम् अल्पप्रज्ञा अल्पवीर्याश्चन शक्नुमो बाहुश्रुत्यं पर्येषितुमिति। न हि तत्प्रतिक्षेपो युक्तो भगवता बहुधा बाहुश्रुत्यस्य वर्णितत्वात्। तत् पुनर्ब्रह्मपरिपृच्छायाम् उक्तम्-"ये त्वचिन्त्येषु धर्मेषु [चिन्तन] विप्रयुक्ताः तेषाम् अयोनिश इति। तत्रापि ये परमार्थतोऽनुत्पन्नानां धर्माणाम् उत्पादं परिकल्प्यानित्यदुःखदिरूपेण श्रावकादिवच्चिन्तां प्रकुर्वन्ति, तेषां समारोपापवादान्तेन चिन्तां प्रवर्तयताम् अयोनिशः तद् भवतीति तत्प्रतिषेधाय यद् उक्तं न भूतप्रत्यवेक्षायाः स प्रतिषेधः तस्याः सर्वसूत्रेष्वनुज्ञानात्। तथा च तत्रैव ब्रह्मपरिपृच्छायाम् उक्तम्-"चित्तशूरो बोधिसत्त्व आह-यश्चित्तेन सर्वधर्माश्चिन्तयति तत्र चाक्षतोऽनुपहतः स तेनोच्यते बोधिसत्त्वः" इति। तत्रैवोक्तम्-"कथं वीर्यवन्तो भवन्ति, यद सर्वज्ञताचित्तं विचीयमानानोपलभन्ते" इति। पुनः तत्रैवोक्तम्-"मतिमन्तश्च ते भविष्यन्ति योनिशो धर्मान् प्रत्यवेक्षणतयेति"। पुनः तत्रैवोक्तम्-"प्रविचिन्वन्ति ते धर्मान् यथा मायामरीचिकेति"।



तद् एवं यत्र यत्राचिन्त्यादिप्रपञ्चः श्रूयते, तत्र तत्र श्रुतचिन्तामात्रेणैव तत्त्वाधिगमं ये मन्यन्ते, तेषाम् अभिमानप्रतिषेधेन प्रत्यात्मवेदनीयत्वं धर्माणां प्रतिपादयते। अयोनिशश्च चित्तप्रतिषेधः क्रियत इति बोद्धव्यम्, न भूतप्रत्यवेक्षायाः प्रतिषेधः। अन्यथा बहुतरं युक्त्यागमविरुद्धं स्यात्। यथोक्तं प्राक्। किञ्च यद् एव श्रुतचिन्तामय्या प्रज्ञया विदितं तद् एव भावनामय्या प्रज्ञया भावनीयं नान्यत्। संदिष्ट-धावनभूम्यश्वधावनवत्। तस्मात् भूतप्रत्यवेक्षा कर्तव्या। यदि नामासौ विकल्पस्वभावातथापि योनिशो मनसिकारस्वभावत्वात् ततो भूत निर्विकल्पज्ञानोदय इति कृत्वा तज्ज्ञानार्थिना सा सेवनीया। निर्विकल्पे च भुतज्ञानाग्नौ समुत्पन्ने, सति, काष्ठद्वयनिघर्षसंजातवन्हिना तत्काष्ठद्वयदाहवत् सापि पश्चात् तेनैव दह्यत एवेत्युक्तम् आर्यरत्नकूटे।



यच्चाप्युच्यते-न किंचित् कुशलादिकर्म कर्तव्यम् इति। तत्रैवैवं वदता कर्मक्षयान् मुक्तिरित्याजीवक वादाभ्युपगमो भवेत्। न हि भगवत्प्रवचने कर्मक्षयान् मुक्तिरिष्यते। किं तर्हि, क्लेशक्षयात्। अनादिकालोपचित्तस्य हि कर्मणो न शक्यते क्षयः कर्तु तस्यानन्तत्वात्। अपायादिषु च तत्फलं भुञ्जानस्यापरस्यापि कर्मणः प्रसूतेः क्लेशेषु चाविकलेषु तत्करणतया स्थितेषु कर्मणो निरोद्‍धुम् अशक्यत्वात्। प्रदीपानिरोधे तत्प्रभाया अनिरोधवत्। न चापि तस्य विपश्यनापवादिनः क्लेशक्षयः संभवतीत्युक्त प्राक्। अथ क्लेशक्षयार्थ विपश्यना सेवनीयेति मन्यते, तदा क्लेशक्षयाद् एव मुक्तिः सिध्यतीति कर्मक्षये तर्हि व्यर्थः श्रमः। अकुशलकर्म न कर्तव्यम् इति युक्तमेतत्, कुशलं तु किमिति प्रतिषिध्यते। संसारावाहकत्वात् प्रतिषिध्यत इति चेत्, तदयुक्तम्। यद् एव आत्मादिविपर्याससमुत्थापितम् कुशलं तद् एव संसारावाहकं भवति। न तु बोधिसत्त्वानां महाकरुणासमुत्थापितम् अनुत्तरसंबोधिपरिणामितमपि। तथा आर्यदशभूमके एत एव दशकुशलकर्मपथाः परिणामनादिपरिशुद्धिविशेषेण श्रावकप्रत्येकबुद्धबोधिसत्त्वबुद्धत्ववाहका भवन्तीति निर्दिष्टम्। आर्यरत्नकूटे च, सर्वमहानदीनां महासमुद्रे प्रविष्टानां पयः स्कन्धवद् बोधिसत्त्वानां नानामुखोपचितं कुशलमूलं सर्वज्ञतापरिणामितं सर्वज्ञतैकरसं भवति इति वर्णितम्।



या च बुद्धबोधिसत्त्वानां रूपकायक्षेत्रपरिशुद्धिः प्रभापरिवारमहाभोगतादिसंपत्तिः दानादिपुण्यसम्भारफलसत्त्वेन तत्र तत्र सूत्रे वर्णिता भगवता सापि विरुध्यते। कुशलचर्याप्रतिषेधे च प्रातिमोक्षसंवरादिरपि प्रतिक्षिप्तः स्यात्। ततो व्यर्थमेव तस्य शिरोमुण्डितकाषायधारणादि प्रसज्येत। कुशलकर्माभिसंस्कारवैमुख्ये च सति संसारवैमुख्यं सत्त्वार्थक्रियावैमुख्यं च सेवितं भवेत्। ततो बोधिः तस्य दूरे भवेत्। उक्तं ह्यार्यंसंधिनिर्मोचने-"एकान्तसत्त्वार्थविमुखस्य एकान्तसंस्कारा भिसंस्कारविमुखस्य नानुत्तरासम्यक्‍संबोधिरुक्ता मयेति।" आर्योपालिपरिपृच्छादौ च-"संसारे वैमुख्यं बोधिसत्त्वानां परदौःशील्यमिति वर्णितम्। संसारपरिग्रहः तु परमं शीलम्।" उक्तम् आर्यविमलकीर्तिनिर्देशे च-"उपायाद् भवति संसारगमनं बोधिसत्त्वानां मोक्षः। उपायरहिता च प्रज्ञा बन्धः, प्रज्ञारहितश्चोपायो बन्धः। प्रज्ञासहित उपायो मोक्षः, उपायसहिता प्रज्ञा मोक्षः" इति वर्णितम्। आर्यगगनगञ्जे उक्तम्-"संसारपरिखेदो बोधिसत्त्वानां मारकर्म इति।" सूत्रसमुच्चये च-"असंस्कृतं च प्रत्यवेक्षते संस्कृतैश्च कुशलैः परिखिद्यत इति मारकर्म इति। बोधिमार्ग प्रजानाति पारमितामार्ग च न पर्येषत इति मारकर्मेति।" यत् पुनः तत्रैवोक्तम्-"दानचित्ताभिनिवेशाद् यावत् प्रज्ञाचित्ताभिनिवेशां मारकर्मेति तत्र न दानादिनां सेवाप्रतिषेधः किं त्वहंकारममकारचित्ताभिनिविष्टस्य ग्राह्यग्राहकचित्ताभिनिविष्टस्य चौपलम्भिकस्य यो विपरीताभिनिवेशो दानादौ तस्य प्रतिषेधः। विपरीताभिनिवेशसमुत्त्थापिता हि दानादयोऽपरिशुद्धा भवन्तीति कृत्वा मारकर्मेत्युक्तम्। अन्यथा ध्यानम् अपि न सेवनीयं स्यात्। तथा च कथं मुक्तिः भवेत् ?



अत एवौपलम्भिकस्य सत्त्वनानात्वसंज्ञाया यद् दानादि तद् अपरिशुद्धम् इति प्रतिपादनाय आर्यगगनगञ्जेऽपि-"सत्त्वनानात्व [विपरीतकर्म] संज्ञिनो दानादि मारकर्मेत्युक्तम्"। यच्चापि [त्रि] स्कन्धपरिणामनायाम् उक्तम्-"सर्वम् एव दान-शील-क्षान्ति-वीर्य-ध्यान-प्रज्ञासमताम् अजानतोपलम्भयति, तेन पर्येष्टितदानेन परामृष्टशीलेन शीलं रक्षितम्। आत्मपरसंज्ञिना क्षान्तिर्भावितेत्यादि तत् प्रतिदेशयामीति।" तत्राप्यौपलम्भिकस्य नानत्वसंज्ञिनो विपरीताभिनिवेशसमुत्थापिता दानादयोऽपि शुद्धा भवन्तीति एतावन्मात्रं प्रतिपादितम्। न तु सर्वथा दानादीनां सेवनप्रतिषेधः। अन्यथा सर्वस्यैव दानादेरविशेषेण प्रतिदेशना कृता स्यात्, नोपलम्भविपर्यासपतितस्यैव। यच्चापि ब्रह्मपरिपृच्छायाम् उक्तम्-"यावती चर्या सर्वा परिकल्प्या। निष्परिकल्प्या च बोधिरित्यादि।" तत्राप्युत्पादादिविकल्पचर्यायाः प्रकृतत्वात् तस्याः परिकल्पत्वमुक्तम्। अनिमित्तविहारे चानभिसंस्कारवाहिनः स्थितस्य बोधिसत्त्वस्य व्याकरणं भवति, नान्यस्येत्येतावन्मात्रं प्रतिपादितम्। सर्वेषां च दानादीनां परमार्थतोऽनुत्पन्नत्वं च परिदीपितम्, न तु चर्या न कर्तव्येत्यभिहितम्।



अन्यथा हि दीपङ्करावदाने ये बुद्धा भगवता पर्युपासिता येषां तु कल्पमपि भगवता भाषमाणेन न शक्यं नामपरिकीर्त्नं कथं तेषां भगवता बोधिसत्त्वावस्थायां चर्याप्रतिषेधो न कृतः। दीपङ्करेणापि तदानीं भगवतश्चर्याप्रतिषेधो न कृत एव। किं तु यदा शान्तानिमित्तविहारेऽष्टम्यां भूमौ स्थितोऽसौ दृष्टस्तदासौ व्याकृतो भगवता, तत्र तस्य चर्या अप्रतिषिद्धा। सा चानिमित्तविहारपरमता बोधिसत्त्वानाम् अष्टाम्यां भूमौ दशभूमिकैर्बुद्धैः प्रतिषिद्धा 'मा भूद् एतद् एव तेषां परिनिर्वाणम्' इति कृत्वा यदि तु सर्वथा चर्या न कर्तव्या भवेत् पूर्वोक्तं सर्व विरुध्येत।



यच्च तत्रैव ब्रह्मपरिपृच्छायाम् उक्तम्-“दानं च ददाति तच्चाविपाकाभिकाङ्क्षी, शीलं च रक्षति तच्चासमारोपितः" इत्यादि। चतुर्भिः ब्रह्म ! धर्मैः समन्वागता बोधिसत्त्वा अवैवर्त्तिका भवन्ति बुद्धधर्मेषु। कतमैश्चतुर्भिः अपरिमितसंसारपरिग्रहेण अपरिमितबुद्धोपस्थानपूजयेत्यादि सर्वं विरुध्येत। नापि मृद्विन्द्रियेणैव चर्या कर्तव्या न तु तीक्ष्णेन्द्रियेणेति युक्तं वक्तुम्। यतः प्रथमां भूमिमुपादाय यावद्‍दशमीभूमिप्रतिष्ठितानां बोधिसत्त्वानां दानादिचर्या उत्पद्यते, न च परिशिष्टासु न समुदाचरतीति वचनात्। नहि भूमिप्रविष्टा अपि मृद्विन्द्रियायुक्ताः। आर्योपलिपरिपृच्छायाम्- "अनुत्पत्तिकधर्मक्षान्तिप्रतिष्ठितेनैव त्यागमहात्यागातित्यागाः कर्तव्याः" इति वर्णितम्। सूत्रसमुच्चये च-"षट्पारमितादिप्रतिपत्तिमान् बोधिसत्त्वस्तथागतर्द्धिगतिकः" इति वर्णितम्। न च तथागतर्द्धिगतेरन्या शीघ्रतरा गतिरस्ति। नापि षट्पारमितादशभूमिव्यतिरेकेणान्यो बोधिसत्त्वानां मार्गोऽस्ति यः शीघ्रतरवाहीस्यात्। क्रमेणैव च चित्तसंततेः कनकशुद्धिवत् शुद्धिर्भवतीति सूत्रे वर्णितम् [आर्यलङ्कावतारदशभूमिकादौ चोक्तं]-तथतायां यदा स्थितो बोधिसत्त्वो भवति, तदा प्रथमायां भूमौ प्रविष्टो भवति। ततः क्रमेणैव पूर्वभूमीः परिशोध्य तथागतभूमिं प्रविशतीति। अतो नास्ति भूमिपारमिताव्यतिरेकेण [युगपत्] बुद्धत्वपुरप्रवेशे अन्यन्मुखं नापि भगवता क्वचित् सूत्रादौ देशितम्।



ध्यान एव षट्पारमितान्तर्गमात् तत्सेवनाद् एव सर्वपारमिताः सेविता भवन्त्यतो न दानादयः [अन्यपारमिताः] पृथक् सेवितव्या इति चेत् तद् अयुक्तम्। एवं हि बुद्‍धे गोमयमण्डलेऽपि षट्पारमितान्तर्गमान् मण्डलकम् एव कर्तव्यं स्यान्न ध्यानाद्‍याः। श्रावकस्यापि निरोधसमाधिसमापन्नस्य निमित्ताद् एव असमुदाचारात् तदा षट्पारमितापरिपूरिप्रसङ्गः। ततश्च न श्रावकेभ्यो बोधिसत्त्वानां भेदः प्रतिपादितो भवेत्। सर्वावस्थायाम् एव तु बोधिसत्त्वेन षट्पारमिताः परिपूरयितव्या इति संदर्शनार्थे एकैकपारमितान्तर्भावः सर्वपारमितानां भगवता सन्दर्शितः। न पुनरेकैव पारमिता सेवनीयेति। तथा चोक्तं सर्वधर्मवैपुल्ये-"योऽप्ययं मैत्रेय ! षट्पारमितासमुदागमो बोधिसत्त्वानां संबोधाय तं ते मोहपुरुषा एवं वक्ष्यन्ति, प्रज्ञापारमितायाम् एवं बोधिसत्त्वेन शिक्षितव्यम्, किं शेषाभिः पारमिताभिरिति। तेऽन्याः पारमिता दूषयितव्या मंस्यन्ते। तत् किं मन्यसे, अजित ! दुष्प्रज्ञः स काशिराजोऽभूत्, येन कपोतार्थेन श्येनाय स्वमांसानि दत्तानि ? मैत्रेय आह-नो हीदं भगवन् ! भगवान् आह-यानि मया मैत्रेय ! बोधिसत्त्वचर्यां चरता षट्पारमिताप्रतिसंयुक्तानि कुशलमूलान्युपचितानि। अपकृतं नु तैः कुशलमूलैः ? मैत्रेय आह, नो हीदं भगवन्, भगवान् आह-त्वं तावद् अजित ! षष्टिकल्पान् दानापारमितायां समुदागतः। एवं यावत् षष्टिकल्पान् प्रज्ञापारमितायां समुदागतः। तत् ते मोहपुरुषा एवं वक्ष्यन्ति। एकनयेनैव बोधिर्यदुत शून्यतानयेनेति ते चर्यापरिशुद्धा भवन्ति" इत्यादि। केवलं शून्याताम् एव सेवमानाः श्रावकवन्निर्वाणे पतन्ति। अतः उपायसहिता प्रज्ञा सेवनीया।



अत एवाचार्यनागार्जुनपादैः सूत्रसमुच्चयेऽभिहितम्-"न चोपायकौशलरहितेन बोधिसत्त्वेन गम्भीरधर्मतायामभियोक्तव्यम्" इति। अत्र आर्यविमलकीर्तिनिर्देशादिज्ञापकस्तैरूपन्यस्तः, न चाचार्यनागार्जुनपादीयं वचनम्। युक्तयागमोपेतं त्यक्त्वा भगवद्‍वचनं च परित्यज्य अन्यस्य मूर्खजनस्य वचनं प्रेक्षावता ग्रहीतुम् अयुक्तम्। आर्यरत्नकूटे च-"सकलदानादिकुशलोपेततया सर्वाकारवरोपेतशून्यता सेवनीयेत्युक्तं न तु केवला।" आर्यरत्नकूटे चोक्तम्-तद्यथा काश्यपामात्यसंगृहीता राजानः सर्वकार्याणि कुर्वन्ति एवम् एव उपायकौशल्यसंगृहीता बोधिसत्त्वस्य प्रज्ञा सर्वबुद्धकार्याणि करोति।



अत एव केवलां शून्यतां सेवमानस्य मा भून्निर्वाणप्रवेश इति। भगवता आर्यतथागतगुह्यसूत्रे" चोक्तम्-"नैकान्तनिरालम्बनं चित्तमात्रसेवनं कर्तव्यम् अपि तु उपायकौशल्यम् अपि सेवनीयम् इति प्रदर्शनार्थम् उक्तम्-तद्यथापि नाम, कुलपुत्र ! अग्निरुपादानाद् ज्वलति। अनुपादानः शाम्यति। एवम् एवारम्बणतश्चित्तं ज्वलति, अनारम्बणं शाम्यति। तत्रोपायकुशलो बोधिसत्त्वः प्रज्ञापारमितापरिशुद्धारम्बणोपशमम् अपि जानाति। कुशलमूलारम्बणं च न शाम्यति। क्लेशारम्बणं च नोत्थापयति। पारमितारम्बणं चोत्थापयति। शून्यतारम्बणं च प्रत्यवेक्षते सर्वसत्त्वमहाकरुणारम्बणं च प्रेक्षते इति हि कुलपुत्र ! उपायकुशलः प्रज्ञापारमितापरिशुद्धो बोधिसत्त्वोऽनारम्बने वशितां प्रतिलभते" इति विस्तरम् उक्त्वा पुनश्च वदत्येवं हि-"नास्ति तत् किंचिद् आरम्बणं बोधिसत्त्वस्य यत् सर्वज्ञज्ञानाभिनिर्हाराय न संतिष्ठते। यस्य बोधिसत्त्वस्य सर्वारम्बाणानि बोधिपरिणामितानि, अयं बोधिसत्त्व उपायकुशल सर्वधर्मान् बोध्यनुगतान् पश्यति। तद्यथापि नाम कुलपुत्र, नास्ति तत् त्रिसाहस्रमहासाहस्रे लोकधातौ यत् सत्त्वानाम् उपभोगाय न स्यत्। एवम् एव, कुलपुत्र नास्ति तत् किंचिद् आरम्बणं यद् उपायकुशलो बोधिसत्त्वो बोधाय चोपकारीभूतं न पश्यति" इति विस्तरः। एवम् अनन्तसूत्रान्तेषु बोधिसत्त्वानां प्रज्ञोपायप्रतिपत्तिर्निर्दिष्टा। तत्र यदि नाम स्वयं न शक्यते दानादिद्पुण्यसंभारवीर्यम् आरब्धुं तथापि अन्येषाम् एवम् उपदेशो दातुं न युक्तश्चेति स्वपरद्रोहः कृतः स्यात्।



तद् एवं युक्त्यागमाभ्यां प्रतिपादितं यथा बोधिसत्त्वेनावश्यं भूतप्रत्यवेक्षा कर्तव्या सकलदानादिपुण्यसम्भारश्चोपार्जयितव्यः। ततः प्रेक्षावताल्पश्रुतानाम् आभिमानिकानां वचनं विषम् इवावधूयार्यनागार्जुनादिविद्वज्जनवचनामृतनुगतेन सकलसत्त्वेषु महकारुणाम् उपजनय्य मायाकारवद् अविपर्यस्तेनानुत्तरसंबोधिपरिणामितसकलदानादिकुशलचर्यायाम् अशेषजगदुद्धरणे चाभियुक्त्ने अभावितव्यम्। यथोक्तम् आर्यधर्मसंगीतौ-



मायाकारो यथा कश्चिन् निर्मितं मोक्तुमुद्यतः।

न चास्य निर्मिते सङ्गो ज्ञातपूर्वो यतोऽस्य सः॥

त्रिभवं निर्मितप्रख्यं ज्ञात्वा संबोधिपारगः।

सन्नह्यन्ति जगद्‍धेतोः ज्ञातपूर्वे जगे तथा॥इति तस्यैवं।



प्रज्ञाम् उपायं च सततं सत्कृत्याभ्यस्यतः क्रमेण[चित्तं] संततिपरिपाकाद् उत्तरोत्तरविशुद्धतरतमक्षणोदयाद् भूतार्थभावनाप्रकर्षपर्यन्तगमेन सकलकल्पनाजालरहितं स्फुटतरं धर्मधात्वधिगमं विमलं निश्चलनिवातदीपवल्लोकोत्तरज्ञानम् उत्पद्यते। तदा च वस्तुपर्यन्ततालम्बनम् प्रतिलब्धं भवति। दर्शनमार्गं च प्रविष्टो भवति। प्रथमा च भूमिः प्राप्ता भवति। ततस्तदुत्तरा भूमीः परिशोधयन् क्रमेण कनकवद् अशेषावरणापगमे सति असक्तम् अप्रतिहतं ज्ञानं प्रतिलभ्य बुद्धभूमिम् अशेषगुणाधारां प्राप्तो भवति। कार्यपरिनिष्पत्तिं चालम्बनं प्रतिलभते। तस्माद् बुद्धत्वाधिगमार्थिना मध्यमपद्धतौ तावद् अभियोगः करणीय इति।



प्रकाश्य यत् प्रापि मया शुभम् असमपद्धितम्।

पुण्यमस्तु जनस्तेन प्राप्तो मध्यमपद्धितम्॥

दूरीकृतेर्ष्यादिमला हि सन्तो गुणैरतृप्ताः सलिलैरिवाब्धिः।

विवेच्य गृण्हन्ति सुभाषितानि हंसाः पयो यत्पयसि प्रहृष्टाः॥



पक्षपाताकुलं तस्माद् दूरीकृतं मनो बुधैः।

सर्वमेव ग्रहीतव्यं बालादपि सुभाषितम्॥



आचार्यकमलशीलेन अन्ते निबद्धो भावनाक्रमः समाप्तः।



तृतीयः भावनाक्रमः समाप्तः।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project