Digital Sanskrit Buddhist Canon

भावनाक्रमो द्वितीयः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Bhāvanākramo dvitīyaḥ

भावनाक्रमो द्वितीयः



नमो मञ्जुश्रिये कुमारभूताय।



महायानसूत्रनयानुप्रविश्यमानानां भावनाक्रमः संक्षेपतः कथ्यते।

इह अतीशिघ्रं सर्वज्ञताप्राप्तुकामेन प्रेक्षावता तत्प्रापक-हेतु-प्रत्ययेभ्योऽभियोगः करणीयः।



इत्थमियं सर्वज्ञता तु हेतुं विना भवितुं न युज्यते, सर्वस्यापि सर्वदा सर्वज्ञताभावप्रसङ्गत्वात्। निरपेक्षभावे तु कुत्रापि प्रतिघो न स्याद्, यतो हि सर्वेऽपि सर्वज्ञा एव न भवन्ति। किं तर्हि कस्यचित् कदाचित् किञ्चिन्मात्रंमूतत्वात् सर्वं हि वस्तु हेतुसापेक्षमेव। सर्वज्ञताऽपि कुत्रचित् कदाचित् किञ्चित् संभाव्यते। सर्वस्मिन्नपि काले नास्ति, सर्वस्मिन् स्थाने नास्ति, सर्वमपि नास्ति, तस्मात् सा तु नियतमेव हेतुप्रत्ययसापेक्षा। तद्धेतुप्रत्ययेष्वपि अभ्रान्ता अविकलाश्च सेवितव्याः। भ्रन्तहेत्वनुष्ठाने तु अतिदीर्घकालेनापि न इष्टफल-प्राप्तिः। यथा-शृङ्‍गात् पयोदोहवत्। सकलहेतुसेवनं विनाऽपि न फलोत्पादः। बीजादिषु कस्यचिदपि अभावे अङ्‍कुरादिफलानुत्पादात्। तस्मात् तत्फलकामेनाभ्रान्तसकलं हेतुप्रत्ययं सेवनीयम्।



के हेतुप्रत्ययाः सर्वज्ञताफलस्य इति? उच्यते, मादृशो जात्यन्धसदृशस्तान् दर्शयितुं न शक्नोति, तथापि भगवतैवाभिसंबुद्धय विनेयजनेभ्यो यथोक्तं तथैव मया भगवद्वचनेनैव कथ्यते। भगवांस्तन् अवोचत्-"गुह्याधिपते! तत् सर्वज्ञज्ञानं करुणामूलं बोधिचित्तहेतुकम् उपायपर्यवसानम्" इति। तस्मात् सर्वज्ञतामधिगन्तुकामैः करुणा-बोधिचित्तोपायेषु एतेषु त्रिषु शिक्षितव्यम्।



करुणया प्रेर्यमाणा बोधिसत्त्वाः सर्वसत्त्वाभ्युद्धारणर्थम् अवश्यं प्रतिज्ञास्यन्ति। अतः स्वात्मदृष्टिं निराकृत्य अतिदुष्कराविछिन्न-दीर्घकाल-साधीतपुण्यज्ञानसम्भारेषु आदरेण प्रवृत्तिः। तत्र प्रविश्य परिपूर्ण पुण्यज्ञानसम्भारम् अवश्यं साधयति। सम्भारापरिनिष्पत्तौ सर्वज्ञता करतलगतवद् भविष्यति। तर्हि सर्वज्ञतामूलं तु करुणाया एव भूतत्वात् सा तु प्रथमतरमेव भवनीया। आर्यधर्मसंगीतिसूत्रे-"न भगवन् बोधिसत्त्वेन अतिबहुषु धर्मेषु शिक्षितव्यम्। एको धर्मो भगवन् बोधिसत्त्वेन स्वाराधितः सुप्रतिबिद्धः कर्तव्यः। तस्य सर्वबुद्धधर्माः करतलगता भवन्ति। कतम एकधर्मः ? यदुत महाकरुणा।" इति।



महाकरुणापरिगृहीतत्वाद् भगवन्तो बुद्धाः सकलस्वार्थसम्पत्तिलाभेऽपि सत्त्वधातुपर्यवसानपर्यन्तं तिष्ठन्ति। श्रावकवद् अतिशान्तेऽपि निर्वाणनगरे न प्रविशन्तिं। सत्त्वान् अवलोक्य तच्छान्तनिर्वाणनगरं प्रज्वलदयोगृहवद् दूरं त्यक्तत्वाद् भगवताम् अप्रतिष्ठितनिर्वाणहेतुस्तु सा महाकरुणा एव।



अत्र स करुणाभावनाक्रमः प्रथमप्रवेशादारभ्य अभिधातव्यः। संप्रति उपेक्षाभावनया सर्वसत्त्वेषु अनुरागं द्वेषं च निरस्य समाचित्तता प्रथमं निष्पादयितव्या।



सर्वे सत्त्वाः सुखं कामयन्ते, दुःखं तु न कामयन्ते। अनादिमति च संसारे न कश्चित् सत्त्वो यो नाभूत् शतशो मे बन्धुरिति परिचिन्तय-तश्चात्र को विशेषः स्यात् ? तर्हि कस्मिंश्चिद् अनुरागः कस्मिंश्चिच्च द्वेषो भवेत्, तस्मान् मया सर्वेषु सत्त्वेषु चित्तसमतैव कार्या इति। एवं मनसिकारेण मध्यस्थपक्षत आरभ्य मित्रे शत्रौ चचित्तसमतामेव भावयेत्। ततः सर्वसत्त्वेषु चित्तसमतां साधयित्वा मैत्रीं भावयेत्। मैत्रीजलेन चित्तसंतानं सिंचयित्वा विद्यमानसुवर्णभूमिवत् कृत्वा करुणाबीजवपने सुखेन अतिसुविस्तारो भविष्यति। ततश्चित्तसंतानं मैत्र्या वासयित्वा करुणां भावयेत्।



सा च करुणा सर्वपीडितसत्त्वदुःखावगमेच्छाकाराऽस्ति। लोकत्रयस्य सर्वसत्त्वानां त्रिविधदुःखतया यथायोगम् अत्यन्तदुःखितत्वात् तदर्थ सर्वसत्त्वेषु सा भावनीया। तथा च ये तावन्नाकारकास्ते विविधचिरन्तनदीर्घकालिकदाहादि-दुखेःषु निमग्ना एव भावतो वर्णिताः। तथा प्रेता अपि प्रायो दुःसहतीव्रक्षुत्तृषुदुःखाग्न्यभिसंशोषितमूर्तयो बहुदुःखमनुभवन्ति इति वर्णिताः। तिर्यञ्चोऽपि परस्परभक्षणक्रोधवधहिंसादिभिरनेकविधं दुःखमनुभवन्तो दृश्यन्त एव। मनुष्या अपि कामपर्येषणाकार्पण्याद् अन्योऽन्यद्रोहोपधातकृतं प्रियविप्रयोगाप्रियसंयोगं दारिद्रयाद्युत्पन्नम् अप्रमेयं दुःखमनुभवन्तो दृश्यन्तो।



ये रागादिनाना-संक्लेशपर्यवेष्टितचित्ताः, ये च विविधकुदृष्टिगहननिमग्नास्ते सर्वेऽपि दुःखहेतुत्वात् प्रपतस्था इव अतिदुःखिता एव। देवा अपि सर्वविपरिणामदुःखदुःखिता एव। देवा अपि ये कामवचरास्तेऽपि नित्यच्यवनपतनादिभयश्कोपहताः कथं सुखिता नाम ? संस्कारदु खं तु कर्मक्लेशलक्षणं हेतुपरतन्त्रस्वभावं प्रतिक्षणभङ्‍गुरस्वभावलक्षणं च सकलजगति व्याप्तम्। तस्मात् सकलमेव जगद् दुःखाग्निज्वालान्तरप्रविष्टम् अवेत्य यथा मम दुःखम् अप्रियम् अन्येषामपि तादृशम् इति चिन्तयता। अहो बत ! दुःखिता ममैते प्रियसत्त्वास्तु कथं तद्दुःखमुक्ताः स्युरिति स्वात्मदुःखवत् कृत्वा तन्निवारणेच्छाकारया करुणया समाध्यवस्थायां सर्वचर्यासु वापि सर्वदा सर्वसत्त्वान् भावयेत्। प्रथमं तावद् मित्रपक्षेषु अनुभूतपूर्वोक्तविविधदुःखेषु अनुपश्यता भावनीया।



ततः सत्त्वसमतयाविशेषमपश्यता 'सर्वे सत्त्वास्तु मे बन्धुभूता एव' इति परिचिन्तयता मध्यमपक्षेषु भवनीया। यदा तत्र मित्रपक्षेष्विव सा करुणा तुल्या प्रवृत्ता भवति तदा दशसु दिक्षु सर्वसत्त्वेषु भावयेत्। यदा दुःखितप्रियशिशोः मातृवत् स्वात्मनोऽतिप्रियं दुःखत उद्दरणेच्छाकारा स्वरसवाहिनीं सर्वसत्त्वेषु समप्रवृत्ता कृपा भवति तदा सा निष्पन्ना भवति, महाकरुणाव्यपदेशं च लभते।



प्रथमं तावद् मित्रपक्षे कृता मैत्रीभावना सुखसंयोगेच्छाकारा भवति, क्रमशः व्यस्तेषु शत्रुषु चापि भावनीया। तथाऽभ्यस्ता च सा करुणा क्रमशः सकलसत्त्वाभ्युद्धरणेच्छां स्वरसेन एव उत्पादयति।



अतो मूलकरुणां भावयित्वा बोधिचित्तं भावयेत्। तद् बोधिचित्तं तु द्विविधम्-संवृतं परमार्थ च। तत्र संवृतं तु करुणया सकलसत्त्वाभ्युद्धरणं प्रतिज्ञाय 'जगद्धिताय बुद्धो भवेयम्' इति, अनुत्तरसम्यक्‍सम्बोधिच्छाकारः प्रथमश्चित्तोत्पादः। तथापि शीलपरिवर्तप्रदर्शित-विधिवद् बोधिसत्त्वः संवरस्थितान्यविद्वत्सु चित्तमुत्पादयेत्।



तथा संवृतबोधिचित्तमुत्पाद्य परमार्थबोधिचित्तोत्पादार्थं प्रयतितव्यम्। तच्च परमार्थगोचरम्, विमलम्, अचलम्, निर्वातप्रदीपप्रवाहवन्निष्कम्पम्। तत्सिद्धिस्तु सततं सत्कृत्य दीर्घकालं शमथविपश्यनायोगभावनाकरणाद् भविष्यति। आर्यसंधिनिर्मोचने यथा "मैत्रेय ! श्रावकाणां बोधिसत्त्वानां तथागतानां वा येऽपि सर्वेऽपि लौकिकलोकोत्तरकुशलधर्माः शमथविपश्यनाफला वेदितव्या इति।" तद्‍द्वयोः सर्वसमाधिसंगृहीतत्वात् सर्वयोगिभिः सदा अवश्यं शमथविपश्यने सेवनीये। तत्रैव आर्यसंधिनिर्मोचने भगवता उक्तम्, तद्यथा-"मया श्रावकाणां बोधिसत्त्वानां तथागतानां विविधसमाधयो दर्शिताः, ते सर्वे शमथविपश्यनासंगृहीता वेदितव्याः" इति।



केवलं शमथमात्रभावनया न योगिनाम् आवरणप्रहाणम्, क्लेशविक्रान्तिमात्रमेव तावत्। प्रज्ञालोकाभावेऽनुशयहान्यसंभवाद् अनुशयसंहारो न भविष्यति। तस्मात् तत्रैव आर्यसंधिनिर्मोचने उक्तम् "ध्यानेन हि क्लेशानां विक्रान्तिः। प्रज्ञया तु अनुशयं संप्रतिहन्ति इति"।



आर्यसमाधिराजसूत्रेऽपि-



किं चापि भावेय्य समाधिलोके

न चो विभावेय्य स आत्मसंज्ञाम्।

पुनः प्रकुप्यन्ति किलेशु तस्य

यथोद्रकस्येह समाधिभावना।



नैरात्म्यधर्मान् यदि प्रत्यवेक्षते

तान् प्रत्यवेक्ष्य यदि भावयेत्।

स हेतु निर्वाणफलस्य प्राप्तये

यो अन्यहेतुर्न स भोति शान्तये॥ इति उक्तम्।



बोधिसत्त्वपिटकेऽपि-"ये बोधिसत्त्वपिटकस्य एतद्धर्मपर्यायाश्रवणे, आर्यविनयधर्मश्रवणं च विना समाधिमात्रेण संतोषग्रहणे तु अहंकारवशाद् अभिमाने पतिताः जन्मजरारोगमरणशोकपरिदेवनादुःखदौर्मनस्यकोपापरिमुक्ताः। षड्‍गतिसंसारापरिमुक्ताः दुःखस्कन्धतोऽपि अपरिमुक्ताः। तान् संधाय तथागतेन एवम् उक्तम्-परस्माद् अनुकूलश्रोता तु जरामरणमुक्तो भविष्यति" इति।



तस्मात् सकलावरणं विहाय विशुद्धज्ञानोद्‍भवकामेन शमथे स्थित्वा प्रज्ञा भावनीया। एवम् आर्यरत्नकूटेऽपि भाषितम्-



शीलं प्रतिष्ठाय समाधिलाभः

समाधिलाभाच्च हि प्रज्ञाभावना।

प्रज्ञाया ज्ञानं भवति विशुद्धं

विशुद्धज्ञानस्य हि शीलसम्पत्॥इति।



आर्यमहायानश्रद्धाभावनासूत्रेऽपि उक्तम्-"कुलपुत्र ! प्रज्ञायाम् अनुपस्थितौ बोधिसत्त्वानां महायानश्रद्धा महायाने कथमपि उत्पत्स्यते (इति) अहं न वक्ष्यामि। कुलपुत्र ! अनेन पर्यायेणापि एवं बोधिसत्त्वानां या काचिद् महायानश्रद्धा महायाने उत्पत्स्यते सा सर्वा तु अविक्षिप्तचित्तेन धर्मार्थसंचिन्तनात् समुत्पन्ना वेदितव्या।"



शमथं विना विपश्यनामात्रेण योगिचित्तं विषयेषु विक्षिप्यते, वायुमध्यस्थितप्रदीपवच्च स्थिरं न भवति। अतो ज्ञानालोकोऽतिस्फुटो न भवति। तस्माद् उभयं समं सेवितव्यम्। अतः आर्यमहापरिनिर्वाणसूत्रेऽपि उक्तम्- "श्रावकैस्तु तथागतगोत्रं न दृश्यते। समाधेरधिकत्वात् प्रज्ञायाश्च अल्पत्वात् बोधिसत्त्वास्तु पश्यन्ति, किन्तु अस्फुटम्, प्रज्ञातिरेकात् समाधेश्चाल्पत्वात्। तथागतस्तु सर्वम् अवलोकयति शमथविपश्यनासमानयुक्तत्वाद् " इति। शमथबलेन च वायुना अक्षोभ्यप्रदीपवद् विकल्पवायुभिश्चित्तं न कम्पते। विपश्यनया तु सकलकुदृष्टिमलप्रहाणत्वाद् अन्यैरभेद्या। चन्द्रप्रदीपसुत्रे यथा-



अकम्पियः शमथबलेन भोति शैलोपमो भोति विपश्यनाय।



इत्युक्तम्। अतः उभयेन योगकरणं स्थितम्।



तत्र आदौ संप्रति तेन योगिना सुखं शीघ्रं च शमथ-विपश्यनासिद्धये शमथविपश्यनासम्भारः सेवनीयः। तत्र शमथसंभारः कतमः? अनुकूलदेशवासः, अल्पेच्छता, सन्तुष्टिः, क्रियाबाहुल्यपरिहारः, शीलविशुद्धिः इच्छादिविकल्पपरित्यागश्च।



तत्र पञ्चगुणयुक्तो हि देशोऽनुकूलो ज्ञातव्यः। वस्त्रभोजनादेः अकृच्छ्रेण प्राप्तित्वात् सुलब्धः, दुर्जनशत्र्वाद्यनवस्थितत्वात् सुस्थानम्, नीरोगभूमित्वात् सुभूमिः, मित्रशीलवत्समदृष्टित्वात् सन्मित्रम्, दिवा बहुजनापूरितत्वाद् रात्रौ अल्पशब्दत्वाच्च स्युयुक्तम्। अल्पेच्छता कतमा ? चीबरादेरौत्कृष्टमस्य आधिक्यस्य वा अनध्यवसनम्। संतुष्टिः कतमा ? अबरमात्रचिवराडिलाभेन यः सदा सन्तोषः। क्रियाबाहुल्यपरिहारः कतमः ? क्रयविक्रयादिदुष्कर्मपरिहारः, गृहस्थ-प्रव्रजितान्यतमातिसंस्तुतिपरिहरः, ओषधिनिर्माणनक्षत्रगणानादिपरिहारश्च।



शीलविशुद्धिः कतमा ? संवरद्वयेऽपि प्रकृति-प्रतिक्षेपसावद्यशिक्षापदाभङ्गता, प्रमादभङ्‍गेऽपि शीघ्रातिशीघ्रं पश्चात्तापेन यथाधर्माचरणम्। श्रावकसंवरे पाराजिकप्रतिविधानेऽयोग्यं कथनं यदस्ति तस्मिन्नपि पश्चात्तापः, पश्चाच्च अकरण-मनसिकारः। यच्चित्तेन यत्कर्मं कृतम्, तच्चित्ते निःस्वभावताप्रतिसंख्यानद् सर्वधर्मनिःस्वभावताभावनात्वात् तत्छीलविशुद्धिरेव वक्तव्या। तत्तु आर्याजातशत्रुकौकृत्यविनोदनाद् अवबोद्धव्यम्। तस्मात् कौकृत्याभावं कृत्वा भावनायाम् अभियोगः कर्त्तव्यः।



कामेष्वपि इह जन्मान्तरे च भाविनो विविधदोषान् मनसिकृत्य तेषु विकल्पः परिहर्त्तव्यः। एतावता संसारभावः प्रियोऽप्रियो वापि तत्सर्वं तु विनाशधर्मि अस्थिरं च। निश्चयेन तत्सर्वस्मिन् मयि च अचिरं वियोगे भावे सति मम तस्मिन् कथम् अध्यवसितादिर्भवेद् इति भावनया सर्वे विकल्पाः परिहर्त्तव्याः।



विपश्यना-सम्भारः कतमः? सत्पुरुषाश्रयः, बहुश्रुतपर्येषणा, योनिशोमनसिकारश्च। तत्र कीदृशं सत्पुरुषम् आश्रयेद् इति चेत्-यो बहुश्रुतः प्रसन्नवाक्, कारुणिको निर्वित्सहश्च। तत्र बहुश्रुतपर्येष्टिः कतमा ? यत् सादरं भगवद्द्वादशाङ्गधर्मप्रवचननेयार्थनीतार्थातिश्रवणम्। इत्थम् आर्यसंधिनिर्मोचने-"यथेच्छम् आर्याख्यानाश्रवणं हि विपश्यनाविघ्नः" इति उक्तम्। तत्रैव "विपश्यना च श्रवणमननाभ्यामुत्पन्नविशुद्धदृष्टिहेतोरूत्पद्यते।" इत्युक्तम्। आर्यानारायणपरिपृच्छायाम् अपि-"श्रुतिमति प्रज्ञाप्रदुर्भवति। प्रज्ञावतः क्लेशाः प्रशाम्यन्ति।" इत्युक्तम्।



योनिशोमनसिकारः कतमः ? यस्य नीतार्थसूत्रनेयार्थसूत्रादिसुनिर्णयस्तादृशे बोधिसत्त्वे निःशङ्के सति भावनायाम् ऐकान्तिकनिश्चयो भविष्यति। अन्यथा संशयान्दोलितयानस्थितस्तु शृङ्गाटकमध्यगतमनुष्यवत् कुत्रापि ऐकान्तिकनिश्चयो न भविष्यति।



योगिना तु सदा मत्स्यमांसादि परिहृत्य अप्रतिकूलं भोजनं नियतमात्रकं भोक्तव्यम्। तथा तेन साञ्चितसकलशमथविपश्यनासम्भारेणबोधिसत्त्वेन भावनायां प्रवेष्टव्यम्।



तत्र प्रथमं तावद् योगी भावनाकाले सर्वम् इतिकरणीयं परिसमाप्यं कृतमूत्रपुरीषः कण्टकस्वरादिरहिते मनोऽनूकूले प्रदेशे स्थित्वा मया सर्वसत्त्वा बोधिमण्डे निष्पादयितव्या इति विनिश्चयन्, सकलजगदभ्युद्धरणाशयो महाकरुणाम् आमुखीकृत्य दशदिगवस्थितान् सर्वबुद्धभोधिसत्त्वान् पञ्चाङ्गेन प्रणिपत्याग्रतो बुद्धबोधिसत्त्वन् पटादौ स्थापयित्वा अन्यत्र वा यथावत् तेभ्यश्च यथारुचि पूजास्तवनं कृत्वा स्वपापं प्रदेश्य, सकलस्य जगतः पुण्यम् अनुमोद्य, मृदुतरसुखासने वैरोचनभट्टारकबद्धपर्यङ्केन अर्धपर्यङ्केन वा निष्पाद्य नात्युन्मूलिते नातिनिमीलिते नासिकाग्रविन्यस्ते चक्षुषी कृत्वा, नातिनम्रं नातिस्तब्धम् ऋजुकायं प्रणिधायान्तर्मुखावर्जितस्मृतिरुपविशेत्। ततः स्कन्धौ समौ स्थापयेत्। शिरो नोन्नतम् नावनतं एक-पार्श्वे निश्चलं स्थापयितव्यम्। किं तर्हि नाभिप्रगुणा नासिका स्थापयितव्या। दन्तोष्ठं मृदु स्थापनीयम्। जिव्हा चोपरिदन्तमूले स्थापनीया। आश्वास्प्रश्वासास्तु न सशब्दा नापि स्थूला नापि त्वरिताः करणीयाः। किं त्वसंलक्ष्यमाणा मन्दं मन्दमनाभोगेन यथा प्रविशेयुर्निर्गच्छेयुर्वा तथा करणियम्।



तत्र प्रथमं तावत् शमथो निस्पादयितव्यः, बाह्यविषयविक्षेपशान्तेः आन्तरालम्बने सततं स्वरसवाहि प्रीतिप्रस्रब्धिवच्चित्त एव स्थितिस्तु शमथ इति उच्यते। तस्यैव शमथस्यालम्बनकाले यस्तत्त्व-विचारः सा विपश्यना। आर्यरत्नमेघे यथा-"शमथश्चित्तैकाग्रता। विपश्यना भूतप्रत्यवेक्षेति" उक्तम्।



आर्यसंधिनिर्मोचनेऽपि-"भगवन् कथं शमथपरिगवेषणं विपश्यनाकौशलं चास्ति ? उच्यते। मैत्रेय ! मया धर्मोपचारो व्यवस्थापितः। तद्यथा-ये सूत्रगेयव्याकरण-गाथा-उदान-निदान-अवदान-इतिवृत्तक-जातक-वैपुल्य-अद्‍भूतधर्म-उपदेश-वर्गाः बोधिसत्त्वेभ्य आख्यातास्ते बोधिसत्त्वैः संश्रुत्य संधार्य, पाठमभ्यस्य, मनसा सम्परीक्ष्य, दृष्ट्‍या सुप्रतिविद्धय स एकाकी विविक्तस्थः, अन्तः प्रतिसंलीनः, यथासुचिन्तितान् तानेव धर्मान् मनसिकृत्य, येन चित्तेन मनसिकारस्तच्चिताभ्यन्तरं सततं मनसिकारेण मनसिकारः। तथा प्रविश्य तत्र बहुशः स्थितः तस्यां कायप्रस्रब्धिचित्तप्रस्रब्धिसम्भवश्च योऽस्ति स तु शमथ इति। तर्हि बोधिसत्त्वः शमथपरिगवेषणं करोति। तेन कायप्रस्रब्धिः, चित्तप्रस्रब्धिश्च। ते प्राप्य तत्रैव स्थितः, चित्तविक्षेपं विहाय यथा चिन्तितधर्मः तेषामेव अभ्यन्तरे समाधिगोचरप्रतिबिम्बं प्रत्यवेक्षते, अधिमुच्यते, तादृक् समाधिगोचरप्रतिबिम्बम्, तज्ज्ञेयर्थे विविच्यते प्रविवेचनं परिकल्पनं पर्यवेक्षणं क्षान्तिः, कामो विशिष्टैव्भागो दर्शनम्, अधिगमश्च योऽस्ति, सा तु विपश्यना इति, तथा च बोधिसत्त्वविपश्यना कौशलम् इत्युक्तम्।"



तत्र शमथाभिनिर्हारकामो योगी प्रथमं तावत् सूत्रगेयादिसकलप्रवचनं तु तथतापरायणम्, तथताप्रग्भारम्, तथताप्रवणम इति सर्वं संग्राह्य तत्र चित्तम् उपस्थापयेत्। एतावता कियदाकारेण सर्वधर्मसंग्रहभुते स्कन्धादौ तत्र चित्तम् उपस्थापयेत्। एतावता यथादृष्ट-यथाश्रुतबुद्धप्रतिमायां चित्तं स्थापितव्यम्। आर्यसमाधिराजे यथा-



सुवर्णवर्णेन समुच्छ्रयेण

समन्तप्रासादिकु लोकनाथः।

यस्यात्र आलम्बनि चित्तु वर्तते

समाहितः सोच्यति बोधिसत्त्व॥इति उक्तम्।



तथा यत्र इच्छालम्बनं तस्मिन् चित्तं स्थापयित्वा तत्रैव उपर्युपरि सततं चित्तं स्थापयेत्। तत्र उपस्थाप्य चित्तम् ईदृशमेवं परीक्षेत। 'किम् आलम्बनं सुगृण्हाति लीयते वा अथवा बाह्यविषयव्यसेकाद् विक्षिप्यते’ इति परीक्षितव्यम्। तत्र यदि स्त्यानमिद्धाभिभवाद् चित्तं लीनं वा लयाभिशङ्का दर्शने तत्काले प्रमोद्य वस्तुनि बुद्धप्रतिमादौ वा अलोकसंज्ञामनसिकरः कर्तव्यः। अथ लयम् उपशाम्य यथापि तत्रैव आलम्बने चित्तालम्बनम् अतिस्फुटदर्शनं भवति तथा करणियम्।



यदा तु जात्यन्धवद् अन्धकारप्रविष्टपुरुषवद् वा विनिमीलिताक्षवद् वा चित्तम् आलम्बनं अतिस्फुटरं न पश्यति तदा लीनं वेदितव्यम्। यदा बाह्यरूपादौ तेषां गुणकल्पनया धावनेन, अन्यमनसिकारेण वा पूर्वानुभूतविषयेच्छया चित्तौद्धत्यं वा औद्धत्यशङ्कादर्शनं वा तदा सर्वे संस्कारा अनित्या दुःखादिमनोसंवेगवस्तु मनसि कर्त्तव्यम्। ततः विक्षेपशान्तिं कृत्वा स्मृतिसम्प्रजन्यरज्जुना मनोनागः तदालम्बनस्तम्भे एव बन्धितव्यः। यदा लयौद्धत्ये न भवतः तदालम्बेन चित्तप्रशमवहितां पश्येत्, तदा आभोगशिथिलिकरणाद् उपेक्षया तत्काले यावदिच्छं तिष्ठेत्। इत्थं भावितशमथस्य तच्छरीरस्य चित्तस्य च प्रश्रब्धिर्भविष्यति। यथेच्छालम्बने चित्तं स्ववशे भविष्यति। तदा शमथो निष्पन्नो वेदितव्यः।



ततः शमथं निष्पाद्य विपश्यनां भावयेत्। ईदृशं च मन्तव्यम् भगवतः सर्ववचनं तु सुभषितम्, साक्षात् परम्परया वा तत्त्वप्रत्यक्षव्यञजनं तत्त्वपरायणमेव च। तत्त्वज्ञाने आलोकोभ्दवात् तमोनिरासवत् सर्वदृष्टिजालवियोगो भविष्यति। शमथमात्रेण ज्ञानशुद्धिर्न भविष्यति, आवरण-तमोनिरासश्चापि न भविष्यति। प्रज्ञया च तत्त्वसम्यग्भावनायां ज्ञानविशुद्धिर्भविष्यति। प्रज्ञया एव तत्त्वमवगम्यते प्रज्ञयैव आवरणं सम्यक् प्रहीयते। तस्मान्मया शमथे स्थित्वा प्रज्ञया तत्त्वं पर्येषितव्यम्। शमथमात्रेण संतोषो न करणीय इति विचारणीयम्।



कीदृशं च तत्त्वम् इति चेत् ? यत् परमार्थतः सर्ववस्तुपुद्गल धर्मात्मशून्यम्, तत्प्रज्ञापरिमितया अधिगम्यते न चान्यथा। आर्यसंधिनिर्मोचने यथोक्तम् "भगवन् ! कया पारमितया बोधिसत्त्वः धर्मनिःस्वभावतां गृण्हीयात् ? अवलोकितेश्वर ! प्रज्ञापारमितया गृह्यते।" इति। तस्मात् शमथे स्थित्वा प्रज्ञां भावयेत्।



तत्रैवं योगी विचारयेत्, 'पुद्‍गलः न स्कन्धधात्वायतनव्यतिरिक्त उपलभ्यते। न चापि पुद्‍गलः स्कन्धादिस्वभवः। ते स्कन्धादयस्तु अनित्याः, अनेकस्वभावत्वात् पुद्‍गलस्य च नित्यैकरूपेण परैरुपकल्पितत्वात्। नापि तत्त्वान्यत्वाभ्याम् अनभिलाप्यपुद्‍गलस्य वस्तुत्वं युक्तम्। वस्तुसतः प्रकारान्तराभावात्। तस्मात् तद्यथा भ्रम एव अयं लोकस्य यदुताहं मेमेति विचारितव्यम्।



धर्मनैरात्म्यमपि एवं भवनीयम्। धर्म इति संक्षेपतः पञ्चस्कन्धो द्वादशायतनम्, अष्टादशधातवश्च। तत्र ये च स्कन्धायतनधातुरूपिणः, न ते परमार्थतः चित्ताकारव्यतिरिक्ताः। तत्परमाणुशो विभागे परमाणवोऽपि भागशः स्वभावताप्रत्यवेक्षमाणाः स्वभावनिश्चयग्रहणाभावात्। तस्माद् अनादिकालिकवितथरूपाद्यभिनिवेशवशात् स्वप्नोपलभ्यमानरूपादिप्रतिभासवद् बालानां चित्तमेव बहिः विच्छिन्नमिव रूपादिप्रतिभासं ख्याति। परमार्थतस्तत्र रूपादिस्तु न चित्ताकारव्यतिरिक्त इति विचारयेत्। तद् एवं त्रैधातुकमिदं तु चित्तमात्रमिति चिन्तयेत्। स एवं चित्तमेव सकलधर्मप्रज्ञप्तिं निश्चित्य तत्र प्रत्यवेक्ष्य च सर्वधर्माणां स्वभावः प्रत्यवेक्षितो भवतीति चित्तस्वभावमपि प्रत्यवेक्षते। स एवं विचारयति।



चित्तमपि परमार्थः सत्यं भवितुम् न युज्यते। यदा हि अलीकस्वभावरूपाद्याकरोपग्रहणे चित्तमेव चित्राकारं प्रतिभासते, तदा सत्यत्वं कुत्र भवेत्। यथा रूपादी अलीकं तथा चित्तमपि तदव्यतिरिक्तत्वाद् अलीकमेव। यथा चित्राकारतया रूपादयो नैकानेकस्वभावाः तथा चित्तमपि तदव्यतिरेकेण अनिकानेकस्वभावम्। तस्मात् मायादिस्वभावोपममेव चित्तम्।



यथा चित्तमेवं सर्वधर्मा अपि मायास्वभावसदृशा एव इति विचारयेत्। तेन तथा प्रज्ञया चित्तस्वभावे प्रत्येवेक्षमाणे परमार्थतः चित्तम् अभ्यन्तरेऽपि नोपलभते, बाह्येऽपि नोपलभते, अनुभयोऽपि नोपलभते, अतीतचित्तमपि नोपलभते, अनागतमपि नोपलभते, प्रत्युत्पन्नमपि नोपलभते। नापि चित्तमुत्पाद्यमानं कुतोऽप्यागच्छति, नापि निरुध्यमानं क्वचिदपि गच्छति। चित्तं तु अग्राह्यम् अनिर्देश्यम्, अरूपम् च। अनिर्देश्यम् अग्रह्यम् अरूपम् च यदस्ति तस्य स्वभावः कीदृशः ? तथा आर्यरत्नकूटे यथोक्तम्-"काश्यप ! चित्तं तु परिगवेष्यमाणं न लभ्यते। यन्न लब्धं तन्न आलम्ब्यते यच्च नालम्ब्यते। तन्नातीतम्, नानागतम्, न च प्रत्युत्पन्नम्।" इति विस्तरः। तद् एवं परीक्ष्यमाणे चित्तस्य आदिं न समनुपस्यति, अन्तं न समनुपश्यति मध्यं न समनुपश्यति।



यथा च चित्तम् अनन्तमध्यं तथा सर्वधर्मानपि अनन्तमध्यम् अवगच्छेत्। तेन तदेवं चित्तम् अनन्तमध्यम् अवगम्य किमपि चित्तस्वभावं नोपलभते। यदपि चित्तं परीक्ष्यते तदपि शून्यं प्रतिविध्यति। तत्प्रतिविध्यमाने चित्तविठपनास्वभावं रूपादिस्वभावमपि न समनुपश्यति। तेन तथा प्रज्ञया सर्वधर्मस्वभावस्य असमनुदर्शनत्वाद् रूपं नित्यम् अनित्यं वा, शून्यम् अशून्यं वा, सास्रवम् अनास्रवं वा, उत्पन्नम् अनुत्पन्नं वा, भावोऽभावो वेती न विकल्पयति। यथा रूपं न विकल्पयति तथा वेदनासंज्ञासंस्कारविज्ञानेष्वपि न विकल्पयति। असिद्‍धे धर्मिणि तस्य विशेषणानामपि असिद्धत्वात्, तत्र कथं विकल्पयेत्। तद् एवं प्रज्ञया परीक्ष्यमाणो यदा योगिना कस्यचिद् वस्तुनः स्वभावपरमार्थनिश्चयो न गृह्यते, तदा निर्विकल्पसमाधौ प्रविशति। सर्वधर्मनिःस्वभावता अपि अवगम्यते।



यः प्रज्ञया वस्तुस्वभावं प्रत्यवेक्ष्य न भावयन्, मनसिकारपरिहारमात्रं भावयति, तस्य विकल्पः कदापि न निवर्तते, न च निःस्वभावतावबोधोऽपि भविष्यति, प्रज्ञालोकाभावात्। एवं सम्यक्प्रत्यवेक्षणात् सम्यग्‍यथावज्ज्ञानाग्निभावेऽरणिमन्थनाग्निवत् कल्पनावृक्षो दह्यते इति भगवता उक्तम्।



तथा उक्तम् आर्यरत्नमेघे-"स एवम् अपक्षालकुशलः सर्वप्रपञ्चविगमाय शून्यताभावनाय योगमापद्‍यते। स शून्यताभावनबहुलो येषु येषु स्थानेषु चित्तं प्रसरति, चित्तमभिरमते, तानि तानि स्थानानि स्वभावतः परिगवेषमाणः शून्यं प्रतिविध्यति। यत् चित्तं तदपि परीक्षमाणः शून्यं प्रतिविध्यति, येनापि चित्तेन परीक्षते तद् अपि स्वभावतः शून्यं परिगवेष्यमाणं प्रतिविध्यति। स एवम् उपपरीक्षमाणो निर्निमित्ततायां योगमापद्यते।" इति भवति। अनेन तु पर्यवेक्षणपूर्वगामितायाः निर्निमित्तताप्रवेशं दर्शयति। मनसिकारपरिहारमात्रम्, प्रज्ञया वस्तुस्वभावतां च अविचार्य, अविकल्पताप्रवेशम् असंभाव्य, अतिस्फुटतरं दर्शयति। तथा तया प्रज्ञया रूपादिवस्तुस्वभावं सम्यग् यथावत् परीक्ष्य ध्यायति, रूपादौ स्थित्वा ध्यानं न करोति। इहलोकपरलोकयोर्मध्ये स्थित्वा ध्यानं न करोति, तद्‍रूपाद्यनुपलम्भात्। तस्माद् अप्रतिष्ठितध्यान इति उच्यते।



प्रज्ञया स्कलवस्तुस्वभावतां प्रतिवीक्ष्य यस्माद् अनुपलम्भं ध्यायति-तस्मात् प्रज्ञोत्तरध्यायी इति उच्यते। आर्यगगनगञ्ज-आर्यरत्नचूडादिषु यथा निर्दिष्टम्।



स एवं पुद्‍गलधर्मनैरात्म्यमयं तत्त्वमवतीर्णः, अपरस्य परीक्षणीयस्य दर्शनीयस्य च अभावाद् उपरतम्, वितर्क-विचार-अनभिलाप्यैकरसेन मनसा स्वरसवाहिना अनभिसंस्कारतस्तत्त्वमेव स्फुटतरं भावयन् तिष्ठेत्। तत्र च स्थितश्चित्तसंतानं न विक्षिपेत्। यदान्तरा रागादीनां चित्तं बहिर्धा विक्षपेत् तदा विक्षेपं विदित्वा शिघ्रम् अशुभभावनादिविक्षेपम् उपशम्य शीघ्रं तथतायां चित्तम् उपर्युपरि प्रवेशयेत्। यदा तु तत्रानभिरतं चित्तं पश्येत्, तदा समाधेर्गुणदर्शनाद् अभिरतिं तत्र भावयेत्। विक्षेपे च दोषदर्शनाद् अरतिं प्रशमयेत्। अथ स्त्यानमिद्धाभिभवाद् यदा स्फुटप्रचारतया लीनं चित्तं पश्येत्, लयाभिशङ्कितं वा तदा पूर्ववत् प्रमोद्यवस्तु मनसिकारेण शीघ्रं लयमुपशमयेत्। पुनः तद् एव तत्त्वालम्बनम् अतिदृढतरं गृण्हीयात्। यदि तदा पूर्वहसितरमितान्यनुस्मृत्य चित्तमन्तरा समृद्धतं पश्येद् औद्धत्याभिशङ्कितं वा तदा अनित्यतादिसंवेगवस्तुमनसिकाराद् विक्षेपं शमयेत्। ततः पुनस्तत्रैव तत्त्वे चित्तानभिसंस्कारवाहितायां यत्नं कुर्वीत।



अथ यदा लयौद्धत्याभ्यां विविक्ततया समप्रवृत्तं स्वरसवाहिस्फुटतरं तत्रैव तत्त्वे चित्तं उत्पादयते, तदा भोगशिथिलीकरणाद् उपेक्षणियम्। यदि समप्रवृत्ते चित्ते सति आभोगः क्रियते, तदा चित्तं विक्षेप्यते। लीनेऽपि चित्ते सति, यद्याभोगो न क्रियते, तदा अतिलीनत्वाद् विपश्यनारहितं, चित्तं च जात्यन्धवद् भविष्यति। तस्माच्चित्ते लीने सति भोगं कुवीत। समप्रवृत्ते सति भोगं न कुर्वीत। यदा च विपश्यनां भावेयत् प्रज्ञातिरिक्ततरा भवेत्, तदा शमथस्याल्पत्वात् प्रवातस्थित-प्रदीपवत् प्रचलत्वाच्चित्तस्य न स्फुटरं तत्त्वदर्शनं भवेत्। अतस्तदा शमथौ भावयितव्यः। शमथस्याभ्यधिक्येऽपि प्रज्ञा भावयितव्या।



यदा उभयं समप्रवृत्तं तदा अनभिसंस्कारेणैव तावत् स्थातव्यं यावत् कायचित्तपीडा न भवेत्। सत्यां कायादिपीडायां तदन्तरा सकलमेव लोकं मायामरीचिस्वप्नजलचन्द्रोपमप्रतिभासवद् दृष्ट्वा ईदृशं चिन्तनीयम्। अमी सत्त्वास्तु एवं विधधर्मगाम्भिर्यानवबोधतया संसारे संक्लिष्टाः। ततोऽहं करिष्यामि तांस्तां धर्मताम् अवबोधयेयुः, तथा करिष्यामि' इति चिन्तयन् महाकरुणां बोधिचित्ताभिमुखीं कुर्वित। ततो विश्रम्य पुनरपि तथैव सर्वधर्मनिराभासं समाधिमवतरेत्। चित्तेऽतिखेदे सति, तथैव विश्रमेत्। अयं तु शमथविपश्यनायुगनद्धप्रवृत्तिमार्गः सविकल्पनिर्विकल्पप्रतिबिम्बम् आलम्बते।



एवं योगी अनेन क्रमेण घटिकाम् अर्धप्रहरम् एकप्रहरं वा यावत्‍कालेच्छापर्यन्तं तत्त्वं भावयन् तिष्ठेत्। इदं त्वर्थप्रविचयध्यानम् आर्यलङ्कावतारे निर्दिष्टम्। तत इच्छया समाधेरुत्थातुं पर्यङ्कम् अभित्त्वैवम् अनुविचिन्तयेत्, अमी धर्माः सर्वे परमार्थतः निःस्वभावाः सन्तोऽपि संवृतौ व्यवस्थिता एव। तथाऽसति कर्मफलसम्बन्धादयः कथं व्यवस्थिताः स्युः ? भगवता चोक्तम्-



"भावा विद्यन्ति संवृत्या परमार्थे न भावकाः।" इत्युक्तम्।



अमी बालबुद्धयो निःस्वभाववस्तुषु भावादिसमारोपेण विपर्यस्तबुद्धयो भवन्ति। चिरकालं संसारचक्रे परिभ्रमन्ति, ततोऽहं करिष्यामि अनुत्तरपुण्यज्ञानसम्भारं परिपूर्य, ततः सर्वज्ञपदं प्राप्य तान् धर्मताम् अवबोधयेयम्। एवं विचिन्तयेत्। अथ शनैः पर्यङ्कं भित्त्वा दशदिग्व्यवस्थितान् सर्वबुद्धोबोधिसत्त्वान् प्रणिपत्य तेभ्यश्च पूजास्तोत्रोपहारं कृत्वार्यभद्रचर्यादिमहाप्रणिधानं प्रणिदधीत। ततः शून्यताकरुणागर्भसकलदानादिपुण्यसंभारोपार्जनेऽभियोगः करणीयः।



तथा च सति तद्‍ध्यानसर्वाकारवरोपेतशुन्यताभिनिर्हारः स्यात्। आर्यरत्नचूडे यथोक्तम्-"स मैत्रीवर्मसंनद्धो महाकरुणास्थाने स्थित्वा सर्वाकारवरोपेतशून्यताभिनिर्हारध्यानं करोति। तत्र सर्वाकारवरोपेतशून्यता कतमा ? या दानानपगति-शीलानपगति-क्षान्त्यनपगति-वीर्यानपगति-ध्यानानपगति-प्रज्ञनापगति-उपायानपगतीत्यादिविस्तरोक्तिरिति।" बोधिसत्त्वस्तु सर्वसत्त्वपरिपाकं कुर्वीत। क्षेत्रकायबहुपरिवारादिसंपत्तिप्रादुर्भावोपायदानादिकुशलं चावश्यं सेवेत।



असति च तथा बुद्धानाम् क्षेत्रादिसंपत्तिर्योक्ता सा कस्य फलं स्यात्। तस्मात् सर्वाकारवरोपेतं तत्‍सर्वज्ञज्ञानं तु दानाद्युपायेन परिपूर्यमाणत्वाद् भगवान् तत् सर्वज्ञज्ञानम् उपायेन पर्यन्तगतम् इत्यवोचत्। तस्माद् बोधिसत्त्वेन दानाद्युपायोऽपि सेवितव्यो न तु शून्यता एव। आर्यसर्वधर्मवैपुल्ये "योऽयं मैत्रेय ! षट्पारमितासमुदागमो बिधिसत्त्वानां सम्बोधाय तं ते मोहपुरुषा एवं वक्ष्यन्ति, प्रज्ञापारमितायाम् एवं बोधिसत्त्वेन शिक्षितव्यम्, किं शेषाभिः पारमिताभिरिति उच्यन्ते। तेऽन्याः पारमिता दूषयितव्या मंस्यन्ते। तत् किं मन्यसे अजित ! दुष्प्रज्ञः स काशिराजोऽभूद् येन कपोतार्थेन श्येनाय स्वमांसानि दत्तानि ? मैत्रेय आह, नो हीदं भगवन्। भगवान् आह-यानि मया मैत्रेय ! बोधिसत्त्वचर्यां चरता षट्पारमिता-प्रतिसंयुक्तानि कुशलमूलान्युपचितानि, अपकृतं नु तैः कुशलमूलैः ? मैत्रेय आह नो हीदं भगवन्। भगवान् आह-त्वं तावद् अजित ! षष्टिकल्पान दानापारमितायां समुदागतः, षष्टिकल्पान् शीलपारमितायं षष्टिकल्पान् क्षान्तिपारमितायां षष्टिकल्पान् विर्यपारमितायां षष्टिकल्पान् ध्यानपारमितायां षष्टिकल्पान् प्रज्ञापारमितायां समुदागतः। तत् ते मोहपुरुषा एवं वक्ष्यन्ति। एकनयेनैव बोधिर्यदुत शून्यतानयेनेति ते चर्यापरिशुद्धा भवन्तीत्यादि।"



उपायरहिते सति बोधिसत्त्वः प्रज्ञया एव तु श्रावकवत् बुद्धकार्याणि कर्तुं न शक्नोति। उपायसनाथश्च समर्थो भवति। आर्यरत्नकूटे यथोक्तम्-"तद्यथा काश्यप ! अमात्यसंगृहीता राजानः सर्वकार्याणि कुर्वन्ति, एवमेव उपायकौशल्यसंगृहीता बोधिसत्त्वस्य प्रज्ञा सर्वबुद्धकार्याणि करोति।" इति। बोधिसत्त्वानां मार्गदृष्टेरप्यन्या तीर्थिकानां श्रावकाणां च मार्गदृष्टिरप्यन्या। एवं तीर्थिकमार्गदृष्टिस्तु आत्मादौ विपर्यासयुक्तत्वात् सर्वेण सर्वः प्रज्ञारहितो मार्गः। तस्मात् ते मुक्तिं न प्राप्नुवन्ति।



श्रावकाणां तु महाकरुणारहितत्वाद् उपायायुकता। तस्मात् ते एकान्तनिर्वाणपरायणाः भवन्ति। बोधिसत्त्वमार्गस्तु प्रज्ञोपाययुक्तो मन्यते। तस्मात् ते अप्रतिष्ठितनिर्वाणपरायणा भवन्ति। बोधिसत्त्वानां मार्गस्तु प्रज्ञोपाययुक्तो मन्यते। तस्मात् ते अप्रतिस्ठितनिर्वाणं प्राप्नुवन्ति। प्रज्ञाबलेन तु संसारे न पतति, उपायबलेन च निर्वाणे न पतति।



तस्माद् आर्यगयाशीर्षे-"द्वाविमौ बोधिसत्त्वानां संक्षिप्तौ मार्गौ। कतमौ द्वौ-यदुत प्रज्ञा चोपायश्च। " इत्याख्यातम्। आर्यश्रीपरमाद्येऽपि उक्तम्- "प्रज्ञापारमिता तु 'माता' अस्ति, उपायकौशल्यं च 'पिता' अस्ति।" आर्यविमलकीर्तिनिर्देशसूत्रेऽपि-"बोधिसत्त्वानां किं बन्धनम् ? का च मुक्तिः ? अनुपायेन भवगतिपरिग्रहो हि बोधिसत्त्वस्य बन्धनम्। उपायेन भवगतिगमनं मुक्तिः। प्रज्ञारहितभावगतिपरिग्रहो बोधिसत्त्वस्य बन्धनम्। प्रज्ञया भवगतिगमनं तु मुक्तिः। उपायेन अपरिगृहीता प्रज्ञा हि बन्धनम्। उपायेन परिगृहिता प्रज्ञा मुक्तिः। प्रज्ञयापरिगृहीतोपायो बन्धनम्। प्रज्ञया गृहीतोपायः मुक्तिः इति" विस्तरेन उक्तम्।



बोधिसत्त्वस्य प्रज्ञामात्रसेवनं तु श्रावकेष्टनिर्वाणपतितत्वाद् बन्धनवद् भविष्यति। अप्रतिष्ठितनिर्वाणेन मुक्तिर्न भविष्यति। तस्मादुपायरहिता प्रज्ञा तु बोधिसत्त्वानां बन्धनमित्युच्यते। तस्माद् वायुपीडितेन अग्निसेवनवद् बोधिसत्त्वेन विपर्यासवायुमात्रप्रहाणत्वात् सोप्याप्रज्ञया शून्यता सेवितव्या, न तु श्रावकवत् साक्षात्करणीया। यथा आर्यदशधर्मसूत्रे चोक्तम्-"कुलपुत्र ! तद्यथा यथा कश्चिन्मनुष्यः अग्निपरिचर्यां करोति, स तदग्निसत्कारं करोति, गुरुं करोति, किन्तु सोऽयमिति मया सोऽग्निः सत्कृत्य, गुरूकृत्य मानितश्च इति कृतेऽपि एष द्वाभ्यां हस्ताभ्यां परिगृहीतव्य इति न चिन्तयति। तत् कस्मादिति चेत् तन्निधान्ने मयि कायिकदुःखं चित्तदौर्मनस्यं वा सम्भाव्यते इति चिन्तनात्। तथैव च बोधिसत्त्वेऽपि निर्वाणाशयोऽप्यस्ति, निर्वाण-प्रत्यक्षं न करोति। तत् कस्य हेतोरिति चेत् ? तन्निधानाद् अहं बोधिं निर्वर्तेयम् इति चिन्तनाद्" इति।



केवलम् उपायमात्रसेवनेऽपि बोधिसत्त्वः पृथग्जनभूमेरनुत्तीर्णत्वाद् अत्यवबद्ध एव भविष्यति। तस्मात् प्रज्ञासहितमुपायं सेवेत। एवं मन्त्रपरिगृहीतविषवद् बोधिसत्त्वक्लेशेऽपि प्रज्ञापरिग्रहबलेन भाविते सति अमृतिकता। पुनः स्वभावेन अभ्युदयफलं दानादि यदस्ति तत्र किमुत वक्तव्यम्। आर्यरत्नकुटे चोक्तं यथा-"तद्यथाऽपि नाम काश्यप ! मन्त्रौषधपरिगृहीतं विषं न विनिपातयति एवमेव बोधिसत्त्वानाम् क्लेशः प्रज्ञापरिगृहितत्वाद् अपि न शक्नोति विनिपातयितुम् इति।"



तस्माद् येन कारणेन बोधिसत्त्व उपायबलेन संसारमनुत्सृजति तस्माद् निर्वाणे न पतति। यस्मात् प्रज्ञाबलेन सकलालम्बनं प्रहीयते तस्मात् संसारे न पतति, तस्माद् अप्रतिष्ठितनिर्वाणबुद्धत्वं प्राप्यते। तस्माद् आर्यगगनगञ्जेऽपि उक्तम्-"तत्प्रज्ञानेन हि सर्वक्लेशाः परिवर्ज्यन्ते। उपायज्ञानेन हि सर्वसत्त्वा न परित्यज्यन्ते।" इति। आर्यसंधिनिर्मोचनेऽपि-"एकान्तसत्त्वार्थविमुखस्य एकान्तसंस्काराभिसंस्कारविमुखस्य नानुत्तरा सम्यक्संबोधिरुक्ता मयेति।" तस्माद् बुद्धत्वप्रातुकामेन प्रज्ञोपायौ उभौ सेवितव्यौ।



तत्र लोकोत्तरप्रज्ञाभावनावसरे, अतिसमाहितावसरे वा दानाद्युपायसेवनासम्भावनायामपि तत्र प्रयोगतत्पृष्ठलब्धप्रज्ञयोः योऽपि भवति, तदा उपायसेवनं भवत्येव। तस्मात् प्रज्ञापायौ युगपत् प्रवर्तेते। पुनरपरं बोधिसत्त्वानाम् अयं हि प्रज्ञोपाययुगनद्धवाहि मार्गः सर्वसत्त्वावलोकितमहाकरुणया परिगृहीतत्वात् लोकोत्तरमार्गः सेव्यते, उत्थानोपायकालेऽपि मायाकारवद् अविपर्यस्तमेव दानादि सेव्यते। आर्याक्षयमतिनिर्देशेऽपि यथोक्तम्-"तत्र को हि बोधिसत्त्वोपायः ? कश्च प्रज्ञाभिनिर्हार इति ? यतः समाधाने सत्त्वावलोकितमहाकरुणावलम्बने चित्तोपस्थापना स एव उपायः। यतः शान्तिप्रशान्तिसमापत्तिः सा तु तत्प्रज्ञा " इति विस्तरः। मारदमनपरिच्छेदेऽपि उक्तम्-"पुनरपरं बोधिसत्त्वानां समुत्कर्षिकप्रयोगस्तु प्रज्ञाज्ञानेन अभियोगं करोति। उपयज्ञानेन सर्वकुशलधर्मसंग्रहोऽपि प्रयुज्यते। प्रज्ञाज्ञानेन नैरात्म्य-असत्त्व-अजीव-अपोष-अपुद्‍गलेषु च प्रयुज्यते। उपायज्ञानेन यः सर्वसत्त्वपरिपाकोऽपि प्रयोज्यः" इति विस्तरः। आर्यधर्मसंगीतिसूत्रेऽपि-



मायाकारो यथा कश्चिन्निर्मितं मोक्षमुद्यतः।

न चास्य निर्मिते सङ्गो ज्ञातपूर्वो यतोऽस्य सः॥

त्रिभवं निर्मितप्रख्यं ज्ञात्वा सम्बोधिपारगः।

संनह्यते जगद्धेतोर्ज्ञातपूर्व जगत् तथा॥इति।



बोधिसत्त्वनाम् प्रज्ञोपायविधिरेव साध्यमधिकृत्य तत्प्रयोगसंसारे स्थितोऽपि अस्ति, आशयनिर्वाणे स्थितोऽपि स्याद् इत्युक्तम्।



तादृश्यां शून्यतामहाकरुणागर्भानुत्तरसम्यक्‍संबुद्धौ परिणतदानाद्युपायभावनां कृत्वा, परमार्थबोधिचित्तोत्पादार्थ पूर्ववत् नित्यं काले काले शमथविपश्यनाप्रयोगो यथाशक्ति भावनीयः। आर्यगोचरपरिशुद्धिसूत्रे-सर्वावस्थासु सत्त्वार्थकारिबोधिसत्त्वानामनुशंसा यथा निर्दिष्टा तथा संनिहितस्मृत्या सर्वदा उपायकौशलं भावितव्यम्।



तादृक्‍करुणोपायबोधिचित्तभावकः स इह जन्मनि अवश्यं विशिष्टो भवति। तस्मात् स्वप्ने नित्यं बुद्धबोधिसत्त्वदर्शनं भविष्यति। सुस्वप्नान्तराण्यपि दृश्यन्ते। देवा अपि अनुमोदनाद् रक्षां करिष्यन्ति। प्रतिक्षणमपि विपुलपुण्यज्ञानसम्भारसंचयो भविष्यति। क्लेशावरणदौष्ठुल्यमपि क्षीणं भविष्यति। सर्वदैव सुखसौमनस्यमधिकं भविष्यति। बहुजनप्रियो भविष्यति। शरीरेऽपि रोगग्रस्तो न भविष्यति। परमचित्तकर्मण्यतापि प्राप्ता भविष्यति। तस्माद् अभिज्ञतादिविशिष्टगुणप्राप्तिः।



अथ ऋद्धिबलेन अनन्तलोकधातून् गत्वा भगवतो बुद्धान् पूजयति। तेभ्यः धर्मोऽपि श्रूयते। मरणसमयेऽपि अवश्यमेव बुद्धबोधिसत्त्वदर्शनं भविष्यति। जन्मान्तरेऽपि बुद्धबोधिसत्त्वानपगतदेशविशिष्टगृहे चापि जन्म भविष्यति। तस्माद् अनायासपुण्यज्ञानसम्भारः परिपूरयिष्यते। महाभोगो बहुपरिवारश्च भविष्यति। तीक्ष्णप्रज्ञया बहुजनपरिपाकमपि करिष्यन्ति। सर्वजातिषु जातिस्मरणं भविष्यति। तादृशी अपरिमितानुशंसा सूत्रान्तरेषु संभूता अवगन्तव्या।



तेन तादृक्‍करुणोपायबोधिचित्तानि च नित्यम् आदरेण चिरंभवितानि क्रमशः चित्तसंताने अतिपरिशुद्धक्षणोत्पादेन परिपाकभूतत्वाद् अरणिमन्थनाग्निवत् सम्यगर्थभावनाप्रकर्षपर्यन्तं गमनं भूत्वा लोकोत्तरज्ञानसकलविकल्पजालापगमनं निष्प्रपञ्चधर्मधातुप्रस्फुटावगति, निर्मलनिश्चलनिर्वातस्थितप्रदीपवत् निश्चलप्रमाणभूतः, सर्वधर्मनैरात्म्यस्वभावः तत्त्वसाक्षात्कारी, दर्शनमार्गसंगृहीतः परमार्थबोधिचित्तस्वभाव उत्पद्यते। तदुत्पादाद् वस्तुपर्यन्ततालम्बने प्रविष्टः। तथागतगोत्रे उत्पद्यते, बोधिसत्त्वानपक्षालप्रवृत्तिः, लोकसर्वगतिनिवृत्तिः, बोधिसत्त्वधर्मताधर्मधात्ववबोधस्थितिः, प्राप्तबोधिसत्त्वप्रथमभूमिः इत्यनुशंसा तद्‍विस्तरः दशभूम्यादिषु अवगन्तव्यः। इदं तथतालम्बनध्यानम् आर्यलङ्‍कावतारे निर्दिष्टम्। इदं तु बोधिसत्त्वानाम् निष्प्रपञ्चनिर्विकल्पतायामेव प्रविशति।



अधिमुक्तिभूमौ तु अधिमुक्तिवशात् प्रवृत्तिर्व्यवस्थापिता न तु अभिसंस्कारेण। तज्ज्ञानप्रादुर्भावे तु साक्षात् प्रवेशः। तथा प्रथमभूमिप्रवेशः तदनन्तरं भावनामार्गे लोकोत्तरेण तत्पृष्ठलब्धज्ञानेन द्वाभ्यां च प्रज्ञोपायभावनाक्रमेण भावनाप्रहेयसंचितावरणस्य सूक्ष्मसूक्ष्मतरव्यवदानाद् उत्तरोत्तरविशिष्टगुणप्राप्तये अधोभूमिपरिशोधनेन तथागतज्ञानपर्यन्तं प्रविश्य, सर्वज्ञतासागरम् अवतीर्य, कार्यपरिनिष्पत्त्यालम्बनमपि प्राप्नोति। एवं क्रमेण एव चित्तसंतानपरिशुद्धिः आर्यलङ्कावतारेऽपि उक्ता। आर्यसंधिनिर्वोचनेऽपि यथोक्तम्-"क्रमेणोत्तरोत्तरभूमिसु सुवर्णवत् चित्तं व्यवदाय, अनुत्तरसंयक्संबोधिपर्यन्तम् अभिसंबुध्यति" इति।



सर्वज्ञतासागरप्रवेशे सति चिन्तमणिवत् सकलसत्त्वोपजीविगुणस्कन्धयुक्तः पूर्वप्रणीधानफलसत्कृतः, महाकरुणास्वभावभूतः, अनाभोगनानोपययुक्तः, अपरिमितनिर्माणैरशेषजगत्सर्वार्थाकरः कृतः। अशेषगुणसंपत्तिप्रकर्षपर्यन्तभुतः, सवासनादोषं सकलमलं निराकृत्य, सत्त्वधात्वन्तपर्यन्तविहारी, इति प्रेक्षावान् भगवति बुद्धे सकलगुणाकरे श्रद्धाम् उत्पाद्य तद्‍गुणपरिनिष्पत्त्यर्थं स्वयं सर्वान् प्रयत्नान् कुर्यात्। तस्माद् भगवता एवमुक्तम्-"तदेतत् सर्वज्ञज्ञानं करुणामूलं बोधिचित्तहेतुकम् उपायपर्यवसानम्" इति।



दूरीकृतेर्ष्यादिमला हि सन्तो गुणैरतृप्ताः सलिलैरिवाब्धिः।

विवेच्य गृण्हन्ति सुभाषितानि हंसाः पयो यत्पयांसि प्रहृष्टाः॥

पक्षपाताकुलं तस्माद् दूरीकृतं मनो बुधैः।

सर्वमेव ग्रहीतव्यं बालादपि सुभाषितम्॥

प्रकाश्य यत् प्रापि मया शुभम् असमपद्धितम्।

पुण्यमस्तु जनस्तेन प्राप्तो मध्यमपद्धितम्॥



आचार्यकमलशीलेन मध्ये निबद्धो भावनाक्रमः समाप्तः।

भरतीयोपाध्यायेन प्रज्ञावर्मणा महालोकचक्षुषा वन्द्यज्ञानसेनेन

चानूद्य सुनिर्णितः।



भावनाक्रमः द्वीतीयः समाप्तः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project