Digital Sanskrit Buddhist Canon

भावनाक्रमः प्रथमः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Bhāvanākramaḥ prathamaḥ

आचार्यकमलशीलप्रणीतो

भावनाक्रमः प्रथमः



[महायानसूत्राणां य आदिकर्मिकस्य चर्यानियमः।

तमधिकृत्य संक्षेपाद् भावनाक्रमस्त्वभिधीयते॥



अचिरेण सर्वज्ञतां प्राप्तुकामैः संक्षेपतः करुणा, बोधिचित्तम्, प्रतिपत्तिश्चेति त्रिषु स्थानेषु प्रयतितव्यम्।



बुद्धत्वस्य अशेषधर्महेतुमूलं करुणैवेति ज्ञात्वा साऽऽदावेव भावयितव्या। यथोक्तम् आर्यधर्मसंगीतिसूत्रे-"अथ खल्ववलोकितेश्वरो बोधिसत्त्वो महसत्त्वो भगवन्तमेतदवोचत्-न भगवन् बोधिसत्त्वेन अतिबहुषु धर्मेषु शिक्षितव्यम्। एको धर्मो भगवन् बोधिसत्त्वेन स्वाराधितः सुप्रतिविद्धः कर्तव्यः। तस्य सर्वबुद्धधर्माः करतलगता भवन्ति। कतम एकधर्मः ? यदुत महाकरुणा। महाकरुणया भगवन् बोधिसत्त्वानां सर्वबुद्धधर्माः करतलगता भवन्ति। तद्यथा भगवन् येन राज्ञश्चक्रवर्तिन-श्चक्ररत्नं गच्छति तेन सर्वो बलकायो गच्छति, एवमेव भगवन् येन बोधिसत्त्वस्य महाकरुण गच्छति, तेन सर्वे बुद्धधर्मा गच्छन्ति। तद्यथा भगवन् जीवितेन्द्रिये सति अन्येषामिन्द्रियाणां प्रवृत्तिर्भवति, एवमेव भगवन् महाकरुणायां सत्यामन्येषां बोधिसत्त्वानां] धर्माणां प्रवृत्तिर्भवति।" इति।



आर्याक्षयमतिनिर्देशे चोक्तम्-"पुनरपरम्, भदन्त शारद्वतीपुत्र, बोधिसत्त्वानां महाकरुणाप्यक्षया। तत् कस्य हेतोः ? पूर्वङ्गमत्वात्। तद्यथापि नाम, भदन्त शारद्वतीपुत्र, आश्वासाः [प्रश्वासाः] पुरुषस्य जीवितेन्द्रियस्य पूर्वङ्गमाः, एवमेव महायान-सम्भार-समुदागमाय बोधिसत्त्वस्य महाकरुणा पूर्वङ्गमा" इति विस्तरः। आर्यगयाशीर्षे चोक्तम्-"किमारम्भा, मञ्जुश्रीः, बोधिसत्त्वानां चर्या, किमधिष्ठाना च ? मञ्जुश्रीराह-महाकरुणारम्भा, देवपुत्र, बोधिसत्त्वानां चर्या सत्त्वाधिष्ठाना।" इति विस्तरः।



तथा हि तया प्रेर्यमाणा बोधिसत्त्वाः स्वात्मनिरपेक्षा एकान्तेन परोपकारार्थतया अतिदुष्करदीर्घकालिकेऽपि सम्भारोपार्जनपरिश्रमे प्रवर्तन्ते। तथा चोक्तम् आर्यश्रद्धाबलाधाने-"तत्र [महा] करुणयापि सर्वसत्त्वपरिपाचनार्थं न तत् किञ्चित् सुखोपाधानं यन्न परित्यजति।" इति। अतोऽतिदुष्करे प्रवर्तमानो नचिरेणैव सम्भारान् परिपूर्यावश्यमेव सर्वज्ञपदम् अधिगच्छति। ततो बुद्धधर्माणां करुणैव मूलम्। महाकरुणापरिग्रहादेव बुद्धा भगवन्तोऽधिगम्य सर्वज्ञपदम् अशेषस्य जगतोऽर्थ विकुर्वाणास्तिष्ठन्त इति निर्वाणाप्रतिष्ठाने सैव भगवतां महाकरुणा हेतुः।



सा च दुःखितसत्त्वालम्बनमनस्कारबहुलीकारतो वृद्धिम् (उपयाति)। सर्वे च ते सत्त्वास्त्रिधातुकावचरास्त्रिविधदुःखतया यथोयोगम् अत्यन्त दुःखिता एवेति सर्वेष्वेव सत्त्वेषु भावनीयम्। तथा च ये तावन्नारकास्ते विविधचिरन्तनदीर्घकालिकदाहादिदुःख [नदीषु] निमग्ना एव भगवता वर्णिताः। तथा प्रेता अपि दुःसहतीव्रक्षुत्तृषादिदुःख[अग्नि] पीडाभिसंशोषितमूर्तयस्तीव्रदुःखम् अनुभवन्ति। येन वर्षशतेनाप्यशुचिं खेटपिण्डनं च भोक्तुं न लभन्त इत्यादि वर्णितं भगवता। तिर्यञ्चोऽपि परस्पर [भक्षण] क्रोधवधहिंसादिभिरनेकविधं दुःखमनुभवन्तो दृश्यन्त एव। तथा हि केचिन्नासिकाभेदनताडाणबन्धनादिभिरतन्त्रीकृतशरीराः परितः परिपीडयमानाः कथमप्यनिच्छन्तोऽपि अतिदुर्वहगुरुभारोद्वहनपरिखिन्नवपुषः परिक्लाम्यन्ति, तथारण्येऽपि निवसन्तोऽनपराधाः केचित् क्वचित् [अर्थ] तोऽन्विष्य हन्यन्ते। नित्यं च भयविव्हलमानसस्ततस्ततः पलायमानास्तिष्ठन्तीत्यपरिमितम् एषां दुःखं दृश्यत्त एव। तथा मानुष्येऽपि नारकं दुःखं दृश्यत एव। अत्र ये चौरादयोऽङ्गच्छेदशूलार्पणोद्‍बन्धनादिभिः कार्यन्त एव तेषां नारकमेव दुःखम्। ये च दारिद्रयद्युपहतास्तेषां प्रेतानामिव तत्क्षुत्तर्षाडिभिर्दुःखम्। ये च भृत्यादयः परायत्तीकृतात्मभावाः, ये च बलिभिराक्रम्य पीडयन्ते तेषां तिरश्चामिव ताडनावरोधनादि दुःखम्। तथा पर्येष्टिकृतम् अन्योऽन्यद्रोहोपघातादि कृतं प्रियविप्रयोगाप्रियसंयोगकृतं चाप्रमेयमेषां दुःखम्। ये क्वचिद् ईश्वराः सुखिता इव लप्यन्ते तेऽपि विपर्यवसानसम्पदो विविधकुदृष्टिगहननिमग्ना नारकादिदुःखानुभवहेतुविविध क्लेशकर्माण्युपचिन्वन्तः प्रपातस्थास्तरव इव दुःखहेतौ [अपि] वर्तमानाः परमार्थतो दुःखिता एव।



देवा अपि ये तावत् कामावचरास्तेऽपि तीव्रकामाग्निसन्दीप्तमानसा आक्षिप्तचित्ता इवास्वच्छचेतसः क्षणमपि समाधानं चेतसां न लभन्ते। तेषां प्रशमसुखधनदरिद्राणां कीदृशं नाम तत् सुखम् ? नित्यच्यवनपतनादिभयशोकोपहताः कथं सुखिता नाम ? ये च रूपारूपावचरास्तेऽपि यदि नाम कियत्कालं दुःखदुःखतां व्यतीतास्तथाप्यत्यन्तं कामावचराणाम् अनुशयानाम् अप्रहाणात् तेषां पुनरपि नारकादिविनिपातसम्भवाद् विपरिणामदुःखम् अस्त्येव। सर्वे नाम देवमनुष्याः क्लेशकर्मादिपारतन्त्र्यात् ते संस्कारदुःखतया दुःखिता एव।



तदेवं सकलमेव जगद् दुःखग्निज्वालावलीढम् इत्यवेत्य यथा मम दुःखमप्रियं तथान्येषामप्रियमिति चिन्तयता सर्वेष्वेव सत्त्वेषु कृपा भावनीया। प्रथमं तावद् मित्रपक्षेषु पूर्वोक्ता विविधदुःखानुभवेष्वनुपश्यता भावनीया।



ततः सत्त्वसमतया विशेषमपश्यताऽनादिमति च संसारे न कश्चित् सत्त्वो यो न मे शतशो बन्धुरभूदिति परिचिन्तयता व्यस्तेषु भावनीया। यदा मित्रपक्षेष्विव व्यस्तेषु [अपि] तुल्या करुणा प्रवृत्ता भवति, तदा शत्रुपक्षेऽपि तथैव सत्त्वसमतादिमनसिकारेण भावनीया। यदा च शत्रुपक्षेऽपि मित्रपक्षवत् समप्रवृत्ता भवति, तदा क्रमशो दशसु दिक्षु सर्वसत्त्वेषु [अपि] भावयेत्। यदा च दुःखितबालप्रियेष्विव दुःखोद्धरणेच्छाकारा स्वरसवाहिनी सर्वसत्त्वेषु समप्रवृत्ता कृपा भवति, तदा सा निष्पन्ना भवति महाकरुणाव्यपदेशं च लभते। यथा अक्षयमतिसूत्रे च वर्णितम्। अयं च कृपाभावनाक्रमो भगवताऽभिधर्मसूत्रादौ वर्णितः।



तस्यैवं कृपाभ्यासबलात् सकलसत्त्वाभ्युद्धरणप्रतिज्ञयानुत्तरसम्यक्‍सम्बोधिप्रार्थनाकारम् अयत्नत एव बोधिचित्तमुत्पद्यते। यथोक्तम् आर्यदशधर्मसूत्रे-"सत्त्वान् अत्राणान् अशरणान् अद्वीपान् दृष्ट्वा करुणायै चित्तमुपस्थाप्य यावदनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयति" इति। यदि नाम परसमादापनादिनापि बोधिसत्त्वस्य महासत्त्वस्य बोधिचित्तमुत्पद्यते, तथापि कृपावेगतो यत् स्वयमेव बोधिसत्त्वस्य बोधिचित्तमुत्पद्यते तद् भगवता आर्यतथागतज्ञानमुद्रासमाधौ विशिष्टतरत्वेन वर्णितम्।



तदेतद् ब्नोधिचित्तं प्रतिपत्तिविकलमपि संसारे महाफलं भगवता वर्णितम्। तथा चोक्तं मैत्रेयविमोक्षे-"तद् यथापि नाम, कुलपुत्र, भिन्नमपि वज्ररत्नं सर्वम् अतिविशिष्टं सुवर्णालङ्कारमभिभवति, वज्ररत्ननाम च न विजहाति, सर्वदारिद्रयं च विनिवर्तयति। एवमेव, कुलपुत्र, प्रतिपत्तिभिन्नमपि सर्वज्ञताचित्तोत्पादवज्ररत्नं सर्वश्रावकप्रत्येकबुद्धगुणसुवर्णालङ्कारम् अभिभवति। बोधिचित्तनाम न विजहाति, संसारादारिद्रयं च विनिवर्तयति" इति।



योऽपि पारमितासु सर्वेण सर्वं सर्वथा शिक्षितुम् असमर्थः, तेनापि बोधिचित्तम् उत्पादनीयमेव, उपायपरिग्रहेण महाफलत्वात्। यथा चोक्तम् आर्यराजाववादकसूत्रे-“यास्मात् त्वं महाराज, बहुकृत्यो बहुकरणियः, असहः सर्वेण सर्वं सर्वथा दानपारमितायां शिक्षितुम्, यावत् प्रज्ञापारमितायां शिक्षितुम्। तस्मात्तर्हि त्वं महाराज एवमेव सम्बोधौ छन्दं श्रद्धां प्रार्थनां प्रणिधिं च, गच्छन्नपि तिष्ठन्नपि निषण्णोऽपि शयानोऽपि जाग्रदपि भुञ्जानोऽपि पिबन्नपि, सततसमितम् अनुस्मर, मनसिकुरु भावय। सर्वबुद्धबोधिसत्त्वार्य श्रावकप्रत्येकबुद्धपृथग्जनानाम् आत्मनश्च अतीतानागतप्रत्युत्पन्नानि कुशलमूलानि पिण्डयित्वा, अनुमोदस्व अग्रया अनुमोदनया। अनुमोद्य च सर्वबुद्धबोधिसत्त्वप्रत्येकबुद्धार्यश्रावकाणां पूजाकर्माणि निर्यातय। निर्यात्य च सर्वसत्त्वसाधारणानि कुरु। ततः सर्वसत्त्वानां यावत् सर्वज्ञताप्रतिलम्भाय सर्वबुद्धधर्मपरिपूरणाय दिने त्रैकाल्यम् अनुत्तरायां सम्यक्संबोधौ परिणामय। एवं खलु त्वं महाराज, प्रतिपन्न, सन् राज्यं च कारयिष्यसि, राज्यकृत्यानि च न हापयिस्यसि, [बोधिसम्भारांश्च परिपूरयिष्यासि]"। इत्यादि कमुक्त्वाह-“अथ खलु पुनस्त्वं महाराज, सम्यक्सम्बोधिचित्तकुशलमूलविपाकेन अनेककृत्यो देवेषु उपपन्नोऽभूः। अनेककृत्यो मनुष्येषु उपपन्नोऽभूः। सर्वासु च देवमनुष्योपपत्तिषु आधिपत्यं कारयिष्यसि"। इति विस्तरः।



यत् पुनः प्रतिपत्तिसारं बोधिचित्तं तद् अतितरां विपुलं फलम् इति सिद्धिम्। अत एव आर्यवीरदत्तपरिपृच्छायाम् उक्तम्-



बोधिचित्ताद् वै यत् पुण्यं तच्च रूपि भवेद् यदि।

आकाशधातुं सम्पूर्य भूयश्चोत्तरितं भवेत्॥

गङ्गाबालुकसंख्यानि बुद्धक्षेत्राणि यो नरः।

दद्याद् रत्नप्रपूर्णानि लोकनाथेभ्य एव हि॥

यश्चैकः प्राञ्जलिर्भूत्वा चित्तं बोधाय नामति।

इयं विशिष्यते पूजा यस्या अन्तो न विद्यते॥इति।



यथा आर्यगण्डव्यूहे वर्णितम्-"बोधिचित्तं कुलपुत्र ! बीजभूतं सर्वबुद्धधर्माणाम्" इति विस्तरः। तच्च बोधिचित्तं द्विविधं प्रणीधिचित्तं प्रस्थानचित्तं च। आर्यगण्डव्यूहे वर्णितम्, तथा-"र्दुर्लभास्ते, कुलपुत्र, सत्त्वाः सत्त्वलोके येऽनुत्तरायां सम्यक्‍सम्बोधौ प्रणिदधति इति। ततोऽपि दुर्लभतमास्ते सत्त्वा येऽनुत्तरां सम्यक्सम्बोधिम् अभिसम्प्रस्थिताः" इति। सकलजगतो हिताय बुद्धो भवेयमिति प्रथमतरं प्रार्थनाकारा चेतना तत्प्रणिधिचित्तम्। यतः प्रभृति संवरग्रहणे वर्तमानाः सम्भारेषु दृश्यन्ते तत्प्रस्थानचित्तम्।



संवरश्च विज्ञातप्रतिबलसंवरस्थितात् कल्याणमित्रात् परतो ग्राह्यः। असति प्रतिरूपे ग्राहके बुद्धबोधिसत्त्वान् आमुखीकृत्य यथा मञ्जुश्रीयाऽम्बरराजभूतेन बोधिचित्तमुत्पादितं तथोत्पादनीयः।



एवमुत्पादितबोधिचित्तो बोधिसत्त्वः स्वयमेव दानादि ददाति प्रतिपत्तौ प्रयोक्ष्यते, न हि स्वयमदान्तः परान् दमयतीति मत्त्वा। न चापि विना प्रतिपत्त्या बोधिरवाप्यते। यथोक्तम् आर्यगयाशीर्षे-"प्रतिपत्तिसाराणां बोधिसत्त्वानां बोधिर्नाप्रतिपत्तिसाराणाम्" इति। आर्यसमाधिराजे चोक्तम्-"तस्मात् प्रतिपत्तिसारो भविष्यामि इत्येवं त्वया कुमार, शिक्षितव्यम्। तत् कस्य हेतोः ? प्रतिपत्तिसारस्य हि, कुमार, न दुर्लभा भवत्यनुतरा सम्यक्संबोधिः" इति।



सा च प्रतिपत्तिर्बोधिसत्त्वस्य पारमिताऽप्रमाणसङ्ग्रहवस्त्वादिभेदेन अक्षयमतिरत्नमेघादिसूत्रेषु विस्तरेण वर्णिता। तथा लौकिकशिल्पादिस्थानेष्वपि यावद् बोधिसत्त्वेन शिक्षितव्यम्। किं पुनर्लोकोत्तरेषु ध्यानादिषु। अन्यथा कथं सर्वाकारं सत्त्वार्थं कुर्युः। सा चेयं संक्षेपेण बोधित्त्वस्य प्रज्ञोपायरूपा प्रतिपत्तिर्न प्रज्ञामात्रं नोपायमात्रम्। यथा आर्यविमलकिर्तिनिर्देशे-"प्रज्ञारहित उपाय उपायरहिता च प्रज्ञा बोधिसत्त्वानां बन्धनम्" इत्युक्तम्। उपायसहिता प्रज्ञा प्रज्ञासहिता उपायो मोक्षत्वेन वर्णितः। आर्यगयाशीर्षे चोक्तम्-"द्वाविमौ बोधिसत्त्वानां संक्षिप्तौ मार्गौ। द्वाभ्यां मार्गाभ्यां समन्वागता बोधिसत्त्वा महासत्त्वाः क्षिप्र मनुत्तरां सम्यक्संबोधिम् अभिसम्भोत्स्यन्ते। कतमौ द्वौ, उपायश्च प्रज्ञा च।" इति।



तत्र प्रज्ञापारमितां त्यक्त्वा दानादिपारमितासङ्ग्रहवस्त्वादिकं सर्वमेव क्षेत्रपरिशुद्धिमहाभोग[बहु] परिवारसम्पत्सत्त्वपरिपाकनिर्माणादिकसकलाभ्युदयधर्मसङ्ग्राहकं कुशलम् उपाय उच्यन्ते। प्रज्ञा तु तस्यैव चोपायस्याविपरीतस्वभावपरिच्छेदहेतुः। तया हि सम्यगुपायं विविच्याऽविपर्यस्तो यथावत् स्वपरार्थानुष्ठानाद् विषमिव मन्त्रपरिगृहीतं भुञ्जानो न संक्लिश्यते। तथा चोक्तमत्रैव सुत्रे-"उपायः सङ्ग्रहज्ञानम् प्रज्ञा परिच्छेदज्ञानम्।" इति। आर्यश्रद्धाबलाधाने चोक्तम्-"उपायकौशलं कतमम् ? यत् सङ्ग्रहः सर्वधर्माणां। प्रज्ञा कतमा ? यत् सर्वधर्माणाम् असम्भदेन कौशलम्" इति। एतौ प्रज्ञोपायौ द्वावपि सर्वकालमेव सेवनीयौ भूमिप्रविष्टैरपि न तु प्रज्ञामात्रं नोपायमात्रम्। यतः सर्वास्वेव दशसु भूमिषु बोधिसत्त्वस्य पारमितासमुदाचारः पठितो दधभूमिकादौ "न च परिशेषासु न समुदाचरति" इति वचनात्।



अष्टम्यां च भूमौ बोधिसत्त्वस्य शान्तविहारिणो बुद्धैर्व्युत्त्थानं तद् विरुध्येत। तच्च ततस्तत्र पाठाद् अवगन्तव्यम्। [तथा चोक्तं तत्रैव सूत्रे] "तस्य खलु भो जिनपुत्र, बोधिसत्त्वस्य एवमिमामचलां बोधिसत्त्वभूमिमनुगतस्य पूर्वप्रणिधानबलाधानस्थितस्य बुद्धा भगवन्तस्तस्मिन् धर्ममुखस्त्रोतसि तथागतज्ञानोपसंहारं कुर्वन्ति। एवं चैन ब्रुवन्ति-साधु साधु कुलपुत्र। एषा परमार्थक्षान्तिर्बुद्धधर्मानुगमाय। अपि तु खलु पुनः कुलपुत्र, या अस्माकं दशबलचतुर्वैशारद्यबुद्धधर्मसमृद्दिः, सा तव नास्ति। तस्या बुद्धधर्मसमृद्धेः पर्येषणाय अभियोगं कुरु, वीर्यमारभस्व। एतदेव क्षान्तिमुखं मोन्मोक्षीः। अपि तु खलु पुनः कुलपुत्र, किं चापि त्वयैवं शान्तविमोक्षविहारोऽनुप्राप्तः, इमान् पुनरशान्तानप्रशान्तान् बालपृथग्जनान् नानाक्लेशसमुदाचारप्राप्तान् विविधवितर्कोपहतमानसान् समन्वाहर, अपेक्षस्व। अपि तु खलु पुनः कुलपुत्र, पूर्वप्रणिधानमनुस्मर सत्त्वार्थसंप्रापणं ज्ञानमुखाचिन्त्यतां च। अपि तु खलु पुनः कुलपुत्र, एषा सर्वधर्माणां धर्मता। उत्पादाद्वा तथागतानामनुत्पादाद्वा स्थितैवैषा धर्मता धर्मधातुस्थितिः यदिदं सर्वधर्मशून्यता सर्वधर्मानुपलब्धिः। नैतया तथागता एव केवलं प्रभाव्यन्ते, सर्वश्रावकप्रत्येकबुद्धा अपि ह्येतामविकल्पधर्मतामनुप्राप्नुवन्ति।



अपि तु खलु पुनः कुलपुत्र, प्रेक्षस्व तावत् त्वमस्माकं कायाप्रमाणतां च ज्ञानाप्रमाणतां च बुद्धक्षेत्राप्रमाणतां च ज्ञानाभिनिर्हाराप्रमाणतां च प्रभामण्डलाप्रमाणतां च स्वराङ्गविशुद्धयप्रमाणतां च। तथैव त्वमप्यभिनिर्हारमुत्पादय। अपि तु खलु पुनः कुलपुत्र, एकस्त्वेष आलोको योऽयं सर्वधर्मानिर्विकल्पालोकः। ईदृशास्तु कुलपुत्र, धर्मालोकास्तथागतानामपर्यन्तगता अपर्यन्तकृता अपर्यन्तबद्धाः, येषां संख्या नास्ति, गणना, प्रमाणमुपनिषदौपम्यं नास्ति, तेसामधिगमाय अभिनिर्हारमुत्पादय। अपि तु खलु पुनः कुलपुत्र, प्रेक्षस्व तावद् दशसु दिक्षु अप्रमाणक्षेत्रतां च अप्रमाणसत्त्वतां च अप्रमाणधर्मविभक्तितां च। तत्सर्वमनुगणय। यथावत्तया अभिनिर्हारमुत्पादय। "इति हि भो जिनपुत्र, ते बुद्धा भगवन्त एवं भूम्यनुगतस्य बोधिसत्त्वस्य एवं प्रमुखान्यप्रमेयाण्यसंख्येयानि ज्ञानाभिनिर्हारमुखान्युपसंहरन्ति, यैर्ज्ञानाभिनिर्हारमुखैर्बोधिसत्त्वोऽप्रमाणज्ञानविभक्तितोऽभिनिर्हारकर्माभिनिष्पदयति।' आरोचयामि ते भो जिनपुत्र, प्रतिवेदयामि। ते चेद् बुद्धा भगवन्तस्तं बोधिसत्त्वमेवं सर्वज्ञज्ञानाभिनिर्हारमुखेषु नावतारयेयुस्तदेवास्य परिनिर्वाणं भवेत्सर्वसत्त्वकार्यप्रतिप्रस्रब्धिश्च।" इति विस्तरः।



यच्च आर्यविमलकीर्तिनिर्देशे गयाशीर्षे चोक्तं तदपि पूर्वोक्तं विरुध्यते, एवं सामान्येनैव तत्राभिधानात्। यत् सर्वधर्मसङ्ग्रहवैपुल्ये चोक्तं तदपि विरुध्यते। एव। तत्रोक्तम्-"सूक्ष्मं हि मञ्जुश्रीः, सद्धर्मप्रतिक्षेपकर्मावरणम्। यो हि कश्चिन्मञ्जुश्रीः, तथागतभाषिते धर्म एकस्मिन् शोभनसंज्ञाम् उत्पादयति। एकस्मिन्नशोभसंज्ञाम् उत्पादयति। स सद्धर्मं प्रतिक्षिपति। तेन सद्धर्मं प्रतिक्षिपता तथागतोऽभ्याख्यातो भवति" इति विस्तरम् उक्त्वा आह-"योऽयं मैत्रेय, षट्पारमितासमुदागमो बोधिसत्त्वानां बोधाय तं ते मोहपुरुषा एवं वक्ष्यन्ति। प्रज्ञापारमितायामेव बोधिसत्त्वेन शिक्षितव्यम्, किं शेषाभिः पारमिताभिरिति। तेऽन्या मुपायपारमितां दूषयितव्यां मन्यन्ते। तत् किं मन्यसे, अजित ! दुष्प्रज्ञः स काशिराजोऽभूद् येन कपोतार्थ श्येनाय स्वमांसानि दत्तानि ? मैत्रेय आह, नो हीदम्, भगवन्। भगवानाह-यानि मया मैत्रेय, बोधिसत्त्वचर्यां चरता षट्पारमितासंयुक्तानि कुशलमूलान्युपचितानि। अपकृतं नु तैः कुशलमूलैः ? मैत्रेय आह-नो हीदं भगवन्। भगवान् आह, त्वं तावद् अजित, दानापारमितायां षष्टिं कल्पान् समुदागतः। यावत् प्रज्ञापारमितायां षष्टिं कल्पान् समुदागतः, तत् ते मोहपुरुषा एवं वक्ष्यन्ति-एकनयेनैव बोधिर्यदुत शून्यतानयेन" इति विस्तरः। वैरोचनाभिसम्बोधौ चोक्तम्-'तदेतत् सर्वज्ञज्ञानं करुणामूलं बोधिचित्तहेतुकम् उपायपर्यवसानम्" इति। तस्मादुभयं सर्वकालमेव बोधिसत्त्वेन सेवनीयम्।



एवं हि भगवताम् अप्रतिष्ठितनिर्वाणं सिध्यति। तथा हि दानादेरूपायस्य रूपकायक्षेत्रपरिवारादिमहाभोगताफलसम्पत्परिग्रहाद् भगवतां न निर्वाणेऽवस्थानम्। प्रज्ञया च सकलविपर्यासप्रहाणाद् न संसारेऽवस्थानं विपर्यासमूलत्वात् संसारस्य। अन्या च प्रज्ञोपायस्वरूपया प्रतिपदा समारोपापवादान्तविवर्जनेन मध्यमा प्रतिपद् उद्‍भाविता। प्रज्ञया समारोपान्तस्य वर्जनाद् उपायेनापवादान्तस्य वर्जनात्। अत एव आर्यधर्मसङ्गीतावुक्तम्-"लक्षणानुव्यञ्जनरूपकायपरिनिष्पादनाभिरतश्च भवति, न धर्मकायाभिसमयमात्राभिरतः" इति। पुनरुक्तम्-"प्रज्ञोपायजनितस्तथागतानां परप्रत्ययतः संभवोऽनुगन्तव्यः" इति।



यत् पुनरुक्तम्-"कोलोपमं धर्मपर्यायम् आजानद्‍भिर्धर्मा एव प्रहातव्याः, प्राग् एवाधर्माः" इति। तद् विपरीताभिनिवेशप्रहाणतः प्रहातव्या इत्यभिप्रायादुक्तम्, न तु प्रयोजनसम्पदनार्थमपि नाश्रयणियम्। तथा चोक्तम्-"धर्मः प्रग्रहीतव्यो नोद्ग्रहीतव्यः" इति। नोन्मार्गेण प्रग्रहीतव्य इत्यर्थः। यच्चापि क्वचिद् दानादि सांसारिकफलत्वेन वर्णितं तत् प्रज्ञारहितानां दानादीनां पूर्वम् उक्तं तावन्मात्रकुशलमूलसन्तुष्टांश्चाधिकृत्योत्तर कुशलमूले प्रोत्साहनार्थम्। अन्यथा [आर्य-] विमलकीर्तिनीर्देशः [आदि पूर्वोक्तः] सर्व एव विरुध्यते। तस्मात्तु द्वावपि प्रज्ञोपायौ सेवनीयाविति स्थितम्।



तत्र प्रज्ञापरिगृहीता दानादयः पारमिताव्यपदेशं लभन्ते नान्यथेति। अतो दानदिपरिशुद्धये समाधानम् आस्थाय प्रज्ञोपादानार्थं यत्नं कुर्वीत।



तत्र प्रथमं तावत् श्रुतमयी प्रज्ञोत्पादनीया। तया हि तावद् आगमार्थम् अवधारयति। ततश्चिन्तामय्या प्रज्ञयानीतनेयार्थं निर्वेधयति। ततस्तया निश्चित्य भूतमर्थं भावयेन्नाभूतम्। अन्यथा हि विपरीतस्यापि भवानाद् विचिकित्सायाश्चाव्यपगमात् सम्यग्ज्ञानोदयो न स्यात्। ततश्च व्यर्थैव भावना स्यात्। यथा तीर्तीकानाम्। उक्तं च भगवता समाधिराजे-



नैरात्म्यधर्मान् यदि प्रत्यवेक्षते

तान् प्रत्यवेक्ष्य यदि भावयेत्।

स हेतुर्निर्वाणफलस्य प्राप्तये

यो अन्यहेतुर्न स भोति शान्तये॥ इति।



तस्माच्चिन्तामय्या प्रज्ञया युक्तयागमाभ्यां प्रत्यवेक्ष्य भूतमेव वस्तुस्वरूपं भावनीयम्। वस्तूनां स्वरूपं च परमार्थतोऽनुत्पाद एवागमतो युक्तितश्च निश्चितम्।



तत्रागमतो यथोक्तम् आर्यधर्मसङ्गीतौ-"अनुत्पादः सत्यमसत्यम् अन्ये धर्माः" इति। एतच्च परमार्थानुकूलत्वाद् अनुत्पादः सत्यमित्युक्तम्। परमार्थतस्तु नोत्पादो नाप्यनुत्पादः, तस्य् सर्व्यवहारातीतत्वात्। पुनश्चात्रैव चोक्तम्-"उत्पादनिरोधाभिनिविष्टः कुलपुत्र, लोकसन्निवेशः, तस्मात् तथागतो महाकारुणिको लोकस्योत्त्रासपदपरिहाराथं व्यवहारवशाद् उक्तवान्, उत्पद्यते निरुध्यते चेति न चात्र कस्यचिद् धर्मस्योत्पादः" इति। अर्यबुद्धसङ्गीतौ चोक्तम्-"कतमा योनिशः पृच्छा, कतमा योनिः ? आह अनुत्पादो योनिः, तस्य पृच्छा योनिशः पृच्छ"। पुनरत्रैवोक्तम्-"चकारमुखः सर्वधर्माश्च्युत्युत्पत्तिविगताः। अभावमुखाः सर्वधर्माः, स्वभावशून्यताम् उपादाय" इति। आर्यसत्यद्वयविभागे चानुत्पादसमतया सर्वधर्माणां समता भवति। प्रज्ञापारमितायां चोक्तम्-"रूपं सुभूते, रूपस्वभावेन शून्यम्, यावद् विज्ञानं विज्ञानस्वभावेन शून्यमिति स्वलक्षणशून्यताम् उपादाय" इति। हस्तिकक्ष्ये चोक्तम्-



न कश्चिल्लभ्यते भावो यस्योत्पादस्य संभवः।

असंभवेषु धर्मेषु बालः सम्भवमिच्छति॥ इति।



पितापुत्रसमागमे चोक्तम्-"सर्व एते धर्माः सर्वे समास्त्रैकाल्यसमतया। अतीतेऽध्वनि सर्वधर्माः स्वभावरहिता यावत् प्रत्युत्पन्नेऽध्वनि" इति। एवं तवद् आगमतः प्रत्यवेक्षणीयम्। युक्त्या हि स्थिरीकृतस्या-गमार्थस्यान्यैरपोहितम् अशक्यत्वात्। अतो युक्त्यापि प्रत्यवेक्षनीयम्।



तत्र संक्षेपतो युक्तिरुच्यते। उत्पादो भावानामहेतुको वा स्यात् सहेतुको वा। न तावद् अहेतुकः कादाचित्कत्वदर्शनात्। कारणानपेक्षा हि विशेषाभावाद् उत्पादकालवत् सदा सर्वत्रैव च भावाः किं न भवेयुः। अभावकालाद् अविशेषाद् वा उत्पादकालेऽपि नैव भवेयुः। एवं तावन्न निर्हेतुको युक्तः। नापि सहेतुकः। तथा हि यस्तावदीश्वरादिस्तीर्थिकैर्नित्यो हेतुः कल्पितस्ततो भावा न जायन्ते क्रमेणोत्पाददर्शनात्। न त्वविकलकारणस्य [फलस्य] क्रमेणोत्पादो युक्तो निरपेक्षत्वात्। नापीश्वरादेः स्वयं समर्थस्य परापेक्षाः। नित्यत्वेन परैरनुपकार्यत्वात्। अनुपकारिणि चापेक्षाऽयोगात्। अत एवेश्वरादीनां सर्वसामर्थ्यशून्यत्वाद् वन्ध्यापूत्रादिवद् निःस्वभावत्वमेव। अर्थक्रियासमर्थत्वाद् वस्तुनः। तेषां क्वचिदपि कार्ये न क्रमेण सामर्थ्यं यथा विचारितम्। नापि यौगपद्येन, तथा हि सर्वकार्यं सकृद् उत्पाद्योक्तरकालेऽपि यद्युत्पत्तिसमर्थ एवासौ तदा पुनरपि समर्थस्वभावानुवृत्तौ पूर्ववत् कार्योत्पत्तिप्रसङ्गः। अननुवृत्तौ वा पूर्वस्वभावपरित्यागाद् अनित्यत्वप्रसङ्गः।



तस्मान्न नित्यं नाम किञ्चिद् वस्तु विद्यते। अत एवोक्तं भगवता-“असत्समारोपः पुनर्महामते ! आकाशनिरोधनिर्वाण [आदि] अकृतकभावाभिनिवेशसमारोपः" इति। तस्मान्न नित्याद् एषामुत्पादो युक्तः। नाप्यनित्यात्तत्रातीतानागतयोरवस्तुत्वान्न् तावत्ततो जन्म युक्तम् अहेतुकत्वप्रसङ्गात्। नापि वर्तमानात्, समानासमानकालयोस्तत उत्पादायोगात्। तथा हि न तावत् समानकालं कारणं स्वभाववत् कार्यस्यापि तत्समानकालभावितया निष्पन्नत्वात्। नापि भिन्नकालम्, कालन्तरव्यवधानेनोत्पादेऽतीतादेरेवोत्पत्तिप्रसङ्गात्। अव्यवधानेनाप्युत्पादे सर्वात्माना यद्यव्यवधाणं तदैकस्मिन्नेव क्षणे सर्वक्षणानाम् अनुप्रवेशात् कल्पस्य क्षणमात्रताप्रसङ्गः। यथा परमाणोः सर्वात्मना संयोगो पिण्डस्याणुमात्रताप्रसङ्गः। अथैकदेशन, तदा क्षणस्य सावयवत्वप्रसङ्गः। स्वतोऽपि नोत्पद्यन्ते, निर्हेतुकपक्षेणैवास्य पक्षस्य सङ्गृहीतत्वात् स्वात्मनि च कारित्रविरोधात्। नाप्युभयतः उभयपक्षभाविदोषद्वय [सङ्ग्रह] प्रसङ्गात्।



तस्मात् परमार्थतोऽनुत्पन्ना एवामी भावाः। संवृत्या तूत्पादस्य विद्यमानत्वान्नागमादिविरोधः। तथा चोक्तं भगवता-



भावा विद्यन्ति संवृत्या परमार्थे न भावकाः।

निःस्वभावेषु या भ्रान्तिस्तत्सत्यं संवृतिर्भवेत्॥इति।



इयं च युक्तिर्भगवतोऽभिप्रेता शालिस्तम्बादौ। स्वतः परत उभाभ्याम् अहेतोश्च जन्मनिषेधात्।



अथवा एवं युक्त्या विचारयेत्। द्विविधा भावा रूपिणोऽरूपिणश्च। तत्रापि तावद् रूपिणो घतादयस्तेऽणुशो विभिन्नरूपत्वाद् नैकस्वभावाः। अणूनां पूर्वापरस्थितानां पूर्वादिदिग्भागत्वेन विभिद्यमानानाम् असिद्धावप्यणुसंचयात्मकत्वे नानेकस्वभावो युक्तः, न चैकानेकस्वभावव्यतिरेकेणापरः कश्चिद् भावस्वभावोऽस्तीति निःस्वभावा एवामी परमार्थतः स्वप्नाद्युपलब्धरूपादिवद् रूपिणो भवाः। एतच्च भगवतैव चोक्तम् आर्यलङ्कावतारे-"गोविषाणां पुनर्महामते, अणुशोऽपि विभिद्यमानं नावतिष्ठते। पुनरप्यणवोऽपि भिद्यमाना अणुत्वलक्षणेन नावतिष्ठन्ते" इति।



ये चारुपिणस्तेऽपि तथैव विचार्युमाणा निःस्वभावा एव। तथाहि, बाह्यस्य नीलादेरर्थस्याभावात् सामर्थ्यत एव विज्ञानादयोऽरूपिणः स्कन्धा निलादिरूपेण प्रतिभासन्त इत्यभ्युपेयम्। उक्तं च भगवता-



“बहिर्धा नास्ति वैरूपं स्वचित्तं दृश्यते बहिः।" इति।



ततश्च नीलादिचित्राकारनिर्भासतया ग्राह्यग्राहकाकारनिर्भासतया नैकस्वभावा अमी युक्ताः। न चैकस्यानेकरूपता युक्तिमती, एकानेकविरोधात्। एकस्य कस्यचित् स्वभावस्यासिद्धावनेकरूपताऽप्ययुक्तिमती, एकसमूहरूपत्वाद् अनेकस्य।



अथवा तत्रालीका एवामी रूपादय आकाराः प्रतिभासन्त इत्युब्युपगम्यते, तदा विज्ञानम् अप्यलीकं प्राप्नोति। विज्ञानस्य तत्स्वरूपाव्यतिरेकात्। न हि स्वयं प्रकाशमानरूपताव्यतिरेकेणान्यद् विज्ञानस्य रूपमस्ति। स्वयं च न निर्भासन्ते रूपादयः। तेषां च विज्ञानस्वरूपापन्नानाम् अलीकत्वे सर्वमेव विज्ञानम् अलीकम् अभ्युपेतं स्यात्। तस्माद् "मायोपमं च विज्ञानम्" इत्युक्तं भगवता।



तस्माद् एकानेकस्वभावशून्यत्वेन परमार्थतोऽलीका एवामी सर्वभावा इति निश्चितमेतत्। अयं चार्थ उक्तो भगवता लङ्कावतारे-



यथैव दर्पणे रूपम् एकत्वान्यत्ववर्जितम्।

दृश्यते न च तत्रास्ति तथा भावेषु भवता॥इति।



एकत्वान्यत्ववर्जितम् इति, एकत्वान्यत्वरहितम् इत्यर्थः। पुनश्चोक्तम्-



बुद्धया विविच्यमानानां स्वभावो नावधार्यते।

अतो निरभिलाप्यस्ते निःस्वभावाश्च दर्शिताः॥ इति।



तदेवं चिन्तामय्या प्रज्ञया निश्चित्य भूतमर्थ तस्य प्रत्यक्षीकरणाय भावनामयीं प्रज्ञाम् उत्पादयेत्। "बहुश्रुतादिमात्रकेणा नार्थः प्रत्यक्षो भवतीति निवेदितम् आर्यरत्नमेघादिषु। अनुभवश्च प्रतिपत्तृणाम्, न चापि स्फुटतरज्ञानालोकोदयम् अन्तरेण सम्यगावरणतमोऽपहीयते। भावनाबहुलीकारतश्चाभूतेऽप्यर्थे स्फुटरज्ञानम् उत्पद्यते। यथा अशुभादिपृथ्वीकृत्स्नादिसमापन्नानां [ज्ञानोद्‍भवत्वे] किम्पुनर्भूते। तथा च भावनायाः परिस्फुटज्ञानफलत्वेन साफल्यमुक्तम् आर्यसमाधिराजे-



आरोचयामि प्रतिवेदयामि वो

यथा यथा बहु च वितर्कयेन्नरः।

तथा तथा भवति तन्निमित्तचित्त-

स्तेहि वितर्केहि तन्निश्रितेहि॥ इति विस्तरः।



तस्मात् तत्त्वं साक्षात्कर्तुकामो भावनायां प्रवर्तते।



तत्र प्रथमतरं तावद् योगिना शमथो निष्पादनीयश्चित्तस्थिरीकरणाय। सलिलवच्चञ्चलत्वाच्चित्तस्य, न शमथमाधारमन्तेरण स्थितिरस्ति। न चासमाहितेन चेतसा यथाभुतं शक्यते ज्ञातुम्। उक्तं हि भगवता-"समाहितचित्तो यथाभूतं प्रजानाति" इति। शमथो लाभादिकामनानिरपेक्षस्य सम्यक्प्रवृत्तौ स्थिरस्य दुःखाद्यधिवासनशिलस्यारब्धवीर्यस्य शीघ्रतरं सम्पद्यते। अत एव आर्यसंधिनिर्वोचनादौ दानादय उत्तरोत्तरत्वेन वर्णिताः।



तदेवं शीलादिशमथसम्भारेषु स्थितो मनोऽनुकूलदेशे सर्वबुद्धबोधिसत्त्वेषु प्रणामादिकं कृत्वा पापदेशनां पुण्यानुमोदनां विधाय सकलजगदभ्युद्धरणाशयो महाकरुणाम् एवाभिमुखीकृत्य कायम् ऋजुं प्रणिधाय सुखासनोपविष्टः पर्यङ्कमाभुज्य समाधिमभिनिष्पादयेत्।



तत्र प्रथमं तावद् यद् वस्तु विचारयितव्यं यावता प्रकारेण सङ्क्षेपतः सकलवस्तुसङ्ग्रहो भवति तत्र चित्तं बध्नीयत्। सङ्क्षिप्तं पुनर्वस्तु रूप्यरूपिभेदेन द्विध भवति। एतच्चादिकर्मिकस्य विक्षेपदोषपरिहारार्थ संक्षिप्तं तावद् युक्तम् आलम्बयितुम्। यदा तु जितमनस्कारो भवति तदा स्कन्धधात्वादिभेदेन विशोध्य विस्तरशोऽप्यालम्बत एव। तथा सन्धिनिर्मोचनादौ योगिनाम् अष्टादशप्रकारशून्यतालम्बनादिभेदेन नानाप्रकारम् आलम्बनम् उक्तम्।



अत्रैव भगवता सत्त्वानुग्रहाद् रूप्यरूप्यादिभेदेन संक्षेपमध्यविस्तारैः वस्तुभेदोऽभिधर्मादौ निर्दिष्टः। तच्च वस्तु अध्यारोपापवादपरिहाराय स्कन्धधात्वादिसङ्ग्रहतो गणयेत्। ततो निश्चित्य सर्वं वस्तुसङ्ग्रहं तत्रैव पुनश्चित्तं प्रबन्धेन प्रेरयेत्।



यद त्वन्तरा रागादिना चित्तं बहिर्विक्षिपेत् तदावगम्य विक्षेपताम् अशुभादिभावनया विक्षेपम् उपशाम्य पुनस्तत्रैवोपर्युपरि चित्तं प्रेरयेत्। अशुभदिभावनाक्रमस्तु ग्रन्थविस्तरभयान्न लिखितः। यदा तु चित्तं तत्रानभिरतं पश्येत्, तद समाधेर्गुणदर्शनतोऽभिरतिं तत्र भावयेत्। विक्षेपदोषदर्शनाद् अरतिं प्रशमयेत्। अथ यदा स्त्यानमिद्धाभिभवाद् आलम्बनग्रहणाप्रकटतयालीनं चित्तं भवति तदा लोकसंज्ञाभावनया प्रामोद्यवस्तुबुद्धादिगुणमनसिकारात् [वा] लयं उपशाम्य पुनस्तदेवालम्बनं दृढतरं गृण्हीयात्।



अथ यदा पूर्वहसितरमिताद्यनुस्मरतोऽन्तरा चित्तम् उद्धतं पश्येत्, तदाऽनित्यतादिसंवेगमनसिकाराद् औद्धत्यं प्रशमयेत्, ततः पुनस्तत्रैवालम्बने चित्तस्यानभिसंस्कारवाहितायं यत्नं कुर्वीत। अथ यदा लयौद्धत्यभ्यां विविक्ततया समप्रवृत्तं स्वरसवाहिचित्तं पश्येत् तदाभोगशिथीलीकरणाद् उपेक्षते। यदा तु समप्रवृत्ते सत्याभोगः क्रियते, तदा चित्तं विक्षिपेत्।



यदा तु तत्रालम्बनेऽनभिसंस्कारवाहि यावदिच्छं चित्तं प्रवृत्तं भवति, तदा शमथो निष्पन्नो वेदितव्यः। एतच्च सर्वशमथानां सामान्यलक्षणम्, चित्तैकग्रतामात्रस्वभावत्वात्। शमथस्य। आलम्बनं तु तस्यानियतमेव। अयं च शमथमार्गो भगवता आर्यप्रज्ञापारमितादौ निर्दिष्टः। यद् आह-"तत्र चित्तं स्थापयति, संस्थापयति, अवस्थापयति, उपस्थापयति, दमयति, शमयति, व्युपशमयति, एकोतीकरोति, समादधाति" इति नवपदैः।



तत्र स्थापयति, आलम्बनेन बध्नाति। संस्थापयति, तत्रैवालम्बने प्रबन्धेन प्रवर्तयति। अवस्थापयति, विक्षेपम् अवगम्य तं परिहरति। उपस्थापयति, विक्षेपं परिहृत्य उपर्युपरि पुनस्तत्रैवालम्बने स्थापयति। दमयति, रतिमुत्पादयति। शमयति, अरतिं व्युपशामयति विक्षेपदोषदर्शनात्। व्युपशमयति, स्त्यानमिद्धादीन् व्युत्थितान् व्युपशमयति। एकोतीकरोति, आलम्बनेऽनभिसंस्कारवाहितायं यत्नं करोति। समादधाति, समप्राप्तं चित्तम् उपेक्षते समन्वाहरतीत्यर्थः। एष चैषां पदानाम् अर्थः पूर्वाचार्यैः मैत्रेयेण च व्याख्यातः।



संक्षेपेण सर्वसैव समाधेः षड् दोषा भवन्ति। कौषिद्यम् आलम्बनसंप्रमोषः, लयौद्धत्यम्, अनाभोगः, आभोगतेति। तेषां प्रतिपक्षेणाष्टौ प्रहाणसंस्कारा भवनीयाः। तद् यथा-श्रद्धा, छन्दः, व्यायामः प्रश्रब्धिः, स्मृतिः, सम्प्रजन्यम्, चेतना, उपेक्षा चेति। तत्राद्याश्चत्वारः कौसीद्यस्य प्रतिपक्षाः। तथाहि-समाधेर्गुणेष्वभिसम्प्रत्ययलक्षणया श्रद्धया तत्र योगिनोऽभिलाष उत्पद्यते। ततोऽभिलाषाद् वीर्यमरभेत। तद्‍वीर्यबलेन कायचित्तकर्मण्यताम् आसादयति। ततः प्रश्रब्धकायचेतसः कौसीद्यम् आवर्तते। अतः श्रद्धादयः कौसीद्यप्रहाणाय भावनीयाः। स्मृतिरालम्बनसम्प्रमोषस्य प्रतिपक्षः। सम्प्रजन्यं लयौद्धत्ययोः प्रतिपक्षः। तेन लयौद्धत्ययोः सम्यगुपंलक्षणात्। लयौद्धत्याप्रशमनकाले त्वनाभोगदोषः तत्प्रतिपक्षेण च चेतना भावनीया। लयौद्धत्यप्रशमे सति यदा चित्तं प्रशमवाहि तदाऽऽभोगदोषः, तत्प्रतिपक्षस्तदानीमुपेक्षा भावनीया।



एभिरष्टाभिः प्रहाणसंस्कारैः समन्वागतः समाधिः परमकर्मण्यो भवति। ऋद्धयादीन् गुणान् निष्पादयति। अत एवोक्तं सूत्र-"[अष्ट] प्रहाण [संस्कार] समन्वागतः ऋद्धिपादं भावयति" इति। एषा च चित्तैकाग्रता उत्तरोत्तरकर्मण्यतासम्प्रयोगाद् आलम्बनादिगुणविशेषयोगाच्च ध्यानारूपिसमापत्तिः विमोक्षादिव्यपदेशं लभते।



तथा हि यदोपेक्षावेदनासम्प्रयुक्ता सवितर्कसविचारा सा भवति, तदाऽनागम्या उच्यते [प्रथमध्यानप्रयोगचित्तत्वात्]। यदा च कामतृष्णया पापधर्मैश्च] विविक्ता भवति [वितर्कविचार] प्रीतिसुखाध्यात्मसम्प्रसादैः सम्प्रयुक्ता भवति, तदा प्रथमं ध्यानम् उच्यते। अत एव प्रथमध्यानं वितर्कमात्ररहितं ध्यानान्तरमुच्यते। यदा वितर्कविचाररहिता प्रथमध्यानभूमितृष्णया विविक्ता च भवति। प्रीतिसुखाध्यात्मसम्प्रसादैः सम्प्रयुक्ता भवति, तदा द्वितीयं ध्यानमुच्यते। यदा तु द्वितीयध्यानभूमितृष्णया विविक्ता भवति, सुखोपेक्षास्मृतिसम्प्रजन्यसम्प्रयुक्ता भवति, तदा तृतीयं ध्यानम् उच्यते। यदा तृतीयध्यानभूमितृष्णया विविक्ता भवति। अदुःखासुखा उपेक्षास्मृत्यभिसम्प्रयुक्ता भवति, तदा चतुर्थं ध्यानमुच्यते। एवम् अरूप्यसमापत्तिविमोक्षाभिभवायतनादिष्वालम्बनाकारादिभेदेन योज्यम्।



तदेवमालम्बने चित्तं स्थिरीकृत्य प्रज्ञया विवेचयेत्। यतो ज्ञानालोकोत्पादात् सम्मोहबीजस्यात्यन्तप्रहाणं भवति। अन्यथा हि तीर्थिकानामिव समाधिमात्रेण क्लेशप्रहाणं न स्यात्। यथोक्तं सुत्रे-



किञ्चापि भावयेत् समाधिमेतं

न चो बिभावेय्य सा आत्मसंज्ञाम्।

पुनः प्रकुप्यति किलेषु तस्य

यथोद्रकस्येह समाधिभावना॥इति।



तत्रायम् आर्यलङ्कावतारे संक्षेपात् प्रज्ञाभावनाक्रमो निर्दिष्टः-



चित्तमात्रं समारुह्य बाह्यमर्थं न कल्पयेत्।

तथतालम्बने स्थित्वा चित्तमात्रमतिक्रमेत्॥

चित्तमात्रमतिक्रम्य निराभासमतिक्रमेत्।

निराभासस्थितो योगी महायानं स पश्यति॥

अनाभोगगतिः शान्ता प्रणिधानैर्विशोधिता।

ज्ञानं निरात्मकं श्रेष्ठं निराभासे न पश्यति॥इति।



तत्रायमर्थः-प्रथमं योगी ये रूपिणो धर्मा बाह्यार्थतया परैः परिकल्पितास्तेषु तावद् विचारयेत्। किमेते विज्ञानाद् अन्ये, आहोस्विद् विज्ञानमेवैतत् तथा प्रतिभासते, यथा स्वप्नावस्थायामिति। तत्र विज्ञानाद् बहिः परमाणुशो विचारयेत्। परमाणूंश्च भागशः प्रत्यवेक्ष-माणो योगी तान् अर्थान्न समनुपश्यति। तस्यासमनुपश्यत एवं भवति चित्तमात्रमेवैतत् सर्वं न पुनर्बाह्योऽर्था विपद्यते। तदेवम्-



"चित्तमात्रं समारुह्य बाह्यमर्थं न कल्पयेत्।"



रूपिधर्मविकल्पांस्त्यजेद् इत्यर्थः।



तेषाम् उपलब्धिलक्षणप्राप्तानां विचारयेद् अनुपलब्धेः। एवं रूपिणो धर्मान् विभाव्यारुपिणो विभावयेत्। तत्र यच्चित्तमात्रं तदप्यसति ग्राह्ये ग्राहको न युक्तो ग्राहकस्य ग्राह्यपेक्षत्वद् ततश्चित्तं ग्राह्यग्राहकविविक्तम् अद्वयमेव चित्तमिति विचारयेद् अद्वयलक्षणे-



"तथतालम्बने स्थित्वा तदपि चित्तमात्रम् अतिक्रमेत्।"



ग्रहकमाकारमतिक्रमेत। द्वयनिराभास एव अद्वयज्ञाने तिष्ठेदित्यर्थः।



एवं चित्तमात्रमतिक्रम्य तदपि द्वयनिराभसं यज्ज्ञानं तदतिक्रमेत। स्वतः परतो भावानां जन्मानुपपत्तेः ग्राह्यग्राहकयोश्चालीकत्वे तदव्यतिरेकात् तस्यापि सत्यत्वमयुक्तमिति विचारयेत्। तत्राप्यद्वयज्ञाने वस्तुत्वाभिनिवेशं त्यजेत्, अद्वयज्ञाननिराभास एव ज्ञाने तिष्ठेदित्यर्थः। एवं सति सर्वधर्मनिःस्वभावताप्रतिपत्तौ स्थितो भवति। तत्र स्थितस्य परमतत्त्वप्रवेशात् निर्विकल्पसमाधिप्रवेशः।



तथा चाद्वयज्ञाननिराभासे ज्ञाने यदा स्थितो योगी तदा परमतत्त्वे स्थितत्वात्, महायानं स पश्यति। एतदेव तत् महायानम् उच्यते यत् परमतत्त्वदर्शनम्। एतदेव तत् परमतत्त्वदर्शनं यत् सर्वधर्मान् प्रज्ञाचक्षुषा निरूपयतः सम्यग्ज्ञानावलोके सत्यदर्शनम्। तथा चोक्तं सुत्रे-"कतमं परमार्थदर्शनम् ? सर्वधर्माणाम् अदर्शनम्।" इति।



अत्रेदृशमेवादर्शनमभिप्रेतं न तु निमीलिताक्षजात्यन्धानामिव प्रत्ययवैकल्याद् अमनसिकारतो वा यददर्शनम्।



ततो भावाभिनिवेशदिविपर्यासवासनाया अप्रहीणत्वाद् असंज्ञिसमापत्त्यादिव्युत्थितस्येव पुनरपि भावाभिनिवेशमूलस्य रागादिक्लेशगणस्योत्पत्तेरमुक्त एव योगी भवेत्। भावाभिनिवेशमूलो रागादिः आर्यसत्यद्वयनिर्देशादौ वर्णितः। यत्पुनरुक्तम् अविकल्पप्रवेशधारण्याम्-"अमनसिकारतो रूपादिनिमित्तं वर्जयति" इति। तत्रापि प्रज्ञया निरूपयतो योऽनुपलम्भः स तत्रामनसिकारोऽभिप्रेतो न मनसिकाराभावमात्रम्। न ह्यसंज्ञिसमापत्त्यादिरिव अनादिकालिको रूपाद्यभिनिवेशो मनसिकारपरिवर्जनमात्रात् प्रहीयते।



संशया प्रहाणे तु न पूर्वोपलब्धेषु च रूपादिष्वभिनिवेशमनसिकारपरिवर्जनं शक्यं कर्तुम् अग्न्यपरिवर्जने दाहापरिवर्जनवत्। तथामी रूपादिमिथ्याविकल्पाः कण्टकादिवदुत्कील्य न हस्तेन चेतसोऽपनेतव्याः। किं तर्हि संशयबीजापगमात्। तच्च संशयबीजं योगिनः समाध्यालोके सति प्रज्ञाचक्षुषा निरूपयतस्तेसां रूपादीनां पूर्वोपलब्धानाम् उपलब्धिलक्षणप्राप्तानाम् अनुपलम्भाद्, रज्जोः सर्पज्ञानवद्, अपगच्छति नान्यथा। तथा संशयबीजापगमाद् रूपादिनिमित्तमनसिकारः शक्यते वर्जयितुं नान्यथा। अन्यथा ह्यसति समाध्यालोके प्रज्ञाचक्षुषाप्यनवलोके यथा अन्धकूपावस्थितपुरुषस्यावचरकगतघाटादिष्विव योगिनो रूपादिष्वस्तित्वसंशयो नैव निवर्तेत। तदनिवृत्त्या चा प्रहीणतिमिरदोषस्येव योऽयुक्तोऽलीकरूपाद्यभिनिवेशः प्रवर्तेत न केनापि निवर्त्येत।



तस्मात् समाधिहस्तेन मनः सन्धाय सूक्ष्मतरप्रज्ञाशस्त्रेण तत्र चेतसि रूपादिमिथ्याविकल्पबीजम् उद्धरेत्। एवम् सत्युत्खातमूला इव तरवो भूमेर्निर्मूलतया मिथ्याविकल्पाः पुनश्चेतसि न विरोहन्ति। अत एवावरणप्रहाणाय शमथविपश्यनायुगनद्धवाही मार्गो भगवता निर्दिष्टः, तयोः अविकल्पसम्यग्ज्ञाने हेतुत्वात्। तथा चोक्तम्-



शीलं प्रतिष्ठाय समाधिलाभाः

समाधिलाभाच्च हि प्रज्ञाभावना।

प्रज्ञया ज्ञानं भवति विशुद्धं

विशुद्धज्ञानस्य हि शीलसम्पत्॥इति।



तथा हि यदा शमथेनालम्बने चित्तं स्थिरीकृतं भवति तदा प्रज्ञया विचारयतः सम्यग्ज्ञानालोक उत्पद्यते, तदान्धकारमिवालोके प्रकाशयति आवरणम् अपहीयते। अत एवानयोश्चक्षुरालोकयोरिव सम्यग्ज्ञानोत्पादं प्रत्यन्योऽन्यानुगुण्येनावस्थितत्वान्नालोकान्धकारवत् परस्परविरोधः। न हि समाधिरन्धकारस्वभावः। किं तर्हि चित्तैकाग्रतालक्षणः। स च समाहितो यथाभूतं प्रजानातीति वचनादेकान्तेन प्रज्ञानुकूल एव भवति, न तु विरुद्धस्तस्मात् स्यात् समाहितस्य प्रज्ञया निरूपयतः सर्वधर्माणामनुपलम्भः। स एव परमोऽनुपलम्भः। सा च तादृशी योगिनामवस्थानलक्षणा गतिरनाभोगा, ततः परं दृष्टव्यस्याभावात्। शान्तेति भावाभावादिविकल्पलक्षणस्य प्रपञ्चस्योपशमात्।



तथा हि यदा प्रज्ञया निरूपयन् न किञ्चिद् भावस्वभावम् उपलभते योगी, तदाऽस्य नैव भावविकल्पो भवत्। अभावविकल्पोऽपि तस्य नास्त्येव। यदि भावः कदाचिद् दृष्टो भवति, एवं सति तन्निषेधेनाभावविकल्पः प्रवर्तते। यदा तु कालत्रयेऽपि भावो योगिना प्रज्ञाचक्षुषा निरूपयता नोपलब्धः, तदा कथं तस्य प्रतिषेधेनाभावविकल्पं कुर्वीत। एवमन्येऽपि विकल्पास्तदा तस्य न समुत्पद्यन्त एव भावाभावविकल्पाभ्यां सर्वविकल्पस्य व्याप्तत्वात्। व्यापकाभावे च व्याप्यस्यासम्भवात्। अयमसौ परमनिर्विकल्पो योगः। तत्र स्थितस्य योगिनः सर्वविकल्पानाम् अस्तंगमात् सम्यक् क्लेशावरणं ज्ञेयावरणं च प्रहीयते। तथा हि क्लेशावरणस्यानुत्पन्नानिरुद्धभावेषु भावादिविपर्यासो मूलं कारणम् आर्यसत्यद्वयनिर्देशादौ वर्णितं भगवता।



अनेन च योगाभ्यासेन सर्वभावादिविकल्पानां प्रहाणात् सकलभावादिविपर्यासस्याविद्यास्वभावस्य क्लेशावरणमूलस्य प्रहाणम्। ततो मूलोच्छेदात् क्लेशवरणं सम्यक् प्रहीयते। तथा चोक्तं सत्यद्वयनिर्देशे-"कथं मञ्जुश्रीः, क्लेशा विनयं गच्छन्ति, कथं क्लेशाः परिज्ञाता भवन्ति ? मञ्जुश्रीराह-परमार्थतोऽत्यन्ताजातानुत्पन्नाभावेषु सर्वधर्मेषु संवृत्यासद्‍विपर्यासः। तस्माद् असद्विपर्यासात् सङ्कल्पविकल्पः। तस्मात् संकल्पविकल्पाद् अयोनिशो मनसिकारः। तस्माद् अयोनिशो मनसिकाराद् आत्मसमारोपः। तस्माद् आत्मसमारोपाद् दृष्टिपर्युत्थानम्। तस्माद् दृष्टिपर्युत्थानात् क्लेशाः प्रवर्तन्ते। यः पुनः देवपुत्र ! परमार्थतोऽत्यन्ताजातानुत्पन्नाभावान् सर्वधर्मान् प्रजानाति, स परमार्थतोऽविपर्यस्तः। यश्च परमार्थतोऽविपर्यस्तः सोऽविकल्पः। यश्चाविकल्पः स योनिशः प्रयुक्तः। यश्च योनिशः प्रयुक्तः तस्यात्मसमारोपो न भवति। यस्यात्मसमारोपो न भवति तस्य दृष्टिपर्युत्थानं न भवति। यावत् परमार्थतो निर्वाणदृष्टिसर्व दृष्टिपर्युत्थानम् अपि न भवति। तस्यैवम् अनुत्पादविहारिणः क्लेशा अत्यन्तं विनीता द्रष्टव्याः। अयम् उच्यते क्लेशविनयः। यदा, देवपुत्र ! क्लेशान् निराभासेन ज्ञानेन परमार्थतोऽत्यन्तशून्यान् अत्यन्ताभावान् अत्यन्तनिर्निमित्तात् प्रजानाति, तदा देवपुत्र ! क्लेशाः परिज्ञाता भवन्ति। तत्र यथापि नाम, देवपुत्र ! य आशीविषस्य गोत्रं प्रजानाति। स तस्याशीविषस्य विषं शमयति। एवमेव देवपुत्र ! य क्लेशानां गोत्रं प्रजानाति तस्य क्लेशाः प्रशाम्यन्ति। देवपुत्र आह-कतमन् मञ्जुश्रीः ! क्लेशानां गोत्रम्। आह-यावद् एषा परमार्थतोऽत्यन्ताजातानुत्पन्नाभावेषु सर्वधर्मेषु कल्पना इदं क्लेशानां गोत्रम्" इति विस्तरः।
भावादिविपर्यासेन च सकलविपर्यासस्य व्याप्तत्वात्। तत्प्रहाणे सकलविपर्यासप्रहाणाद् ज्ञेयावरणम् अप्यनेन सम्यक् प्रहीयते, विपर्यासलक्षणत्वाद् आवरणस्य। ज्ञेयावरणे च प्रहीणे प्रतिबन्धाभावाद् रविकिरणवद् अपगतमेघाद्यावरणे नभसि सर्वत्राव्याहतो योगि प्रत्यक्षो ज्ञानालोकः प्रवर्तते। तथा हि वस्तुस्वभावप्रकाशरूपं विज्ञानम्। तच्च संनिहितम् अपि वस्तु प्रतिबन्धसद्‍भावान्न प्रकाशयति। प्रतिबन्धाभावे तु सति, अचिन्त्यशक्तिविशेषलाभात् किमिति सकलम् एव वस्तु यथावद् न प्रकाशयेत्। अतः संवृतिपरमार्थरूपेण सकलस्य वस्तुनो यथावत् परिज्ञानात् सर्वज्ञत्वम् अवाप्यते। अतोऽयम् एवावरणप्रहाणो सर्वज्ञत्वाधिगमे च परमो मार्गः।



यस्तु श्रावकादीनां मार्गस्तेन विपर्यासाप्रहाणान् न सम्यग् आवरणद्वयं प्रहीयते। तथा चोक्तम् आर्यलङ्कावतारे-"अन्ये तु कारणाधीनान् सर्वधर्मान् दृष्ट्वाऽनिर्वाणेऽपि निर्वाणम् इति बुद्धयो भवन्ति। धर्मनैरात्म्यादर्शनाद् नास्ति महामते ! मोक्ष एषाम्। महामते, श्रावकयानिकाभिसमयगोत्रस्यानिर्याणे निर्याणबुद्धिः। अत्र महामते, कुदृष्टिव्यावर्तना योगः करणीयः" इति। अत एव चान्येन मार्गेण मोक्षाभावाद् एकम् एव यानम् उक्तं भगवता।



केवलम् [बालेन बालस्य] अवतारणाभिसन्धिना श्रावकादिमार्गो देशितः। तथा हि सकन्ध मात्रमेवैतत्, न त्वात्मास्तीति भावयन् श्रावकः पुद्गलनैरात्म्यम् अवतरति, विज्ञप्तिमात्रं त्रैधातुकमिति भावयन् विज्ञानवादिबाह्यार्थनैरात्म्यमवतरति। अनेन त्वस्यद्वयज्ञानस्य नैरात्म्यप्रवेशात् परमतत्त्वप्रविष्टो भवति। न तु विज्ञप्तिमात्रताप्रवेश एव तत्त्वप्रवेशः। यथोक्तं प्राक्। उक्तं च आर्यलोकोत्तरपरिवर्ते "पुनरपरं भो जिनपुत्र ! चित्तमात्रं त्रैधातुकम् अवतरति, तच्च चित्तम् अनन्तमध्यतयाऽवतरति" इति। अन्तयोरुत्पादभङ्गलक्षणयोः स्थितिलक्षणस्य च मध्यस्याभावाद् अनन्तमध्यचित्तम्। तस्माद् अद्वयज्ञानप्रवेश एव तत्त्वप्रवेशः।



सा चेयं योगिनाम् अवस्था कुतो विशोधिता ? इत्याह-



"प्रणिधानैर्विशोधिता" इति। महाकरुणया यत् सर्वसत्त्वार्थकरणाय बोधिसत्त्वेन प्रणिहितम्, ततः प्रणिधानबलाद् उत्तरोत्तरदानादिकुशलाभ्यासात् सा तथा विशुद्धा जात, येन सर्वधर्मनिःस्वभावताज्ञानेऽपि सकलसत्त्वापेक्षा न व्यावर्तते यावत् संसार एव अननुलिप्ताः संसारदोषैरवतिष्ठन्त इति। कथं पुनरनाभोगा शान्तेत्यत्र कारणमाह-



ज्ञानं निरात्मकं श्रेष्ठं निराभासेन पश्यति। इति।



यस्माद् यद् अद्वयलक्षणं ज्ञानम् अद्वयवादिनां श्रेष्ठं परमार्थेनाभिमतं तदपि निरात्मकं निःस्वभावम् अद्वयनिराभासेन ज्ञानेन पश्यति योगी। अतोऽपरस्य द्रष्टव्यस्याभावाद् अनाभोगा, सर्वविकल्पाभावत् शान्तेति।



अत्रेदानीं कोऽसौ योगी विद्यते, यः पश्यतीति चेत् ? न परमार्थतः कश्चिद् आत्मादिः स्वतन्त्रोऽस्ति, योगी नापि कश्चित् पश्यति। किन्तु संवृत्या यथा रूपादीविषयाकारज्ञानोत्पादमात्रेण विज्ञानमेव लोके तथा तथा व्यवह्रियते देवदत्तो यज्ञदत्तं ज्ञानेन पश्यतीति न तु कश्चिद् आत्मादिरस्ति। तथाऽत्रापि ज्ञानमेवाद्वयज्ञाननिराभासम् उत्पद्यमानं तथा व्यपदिश्यते निराभासेन ज्ञानेन पश्यतिति। न हि सर्वधर्माणां परमार्थतो निःस्वभावत्वेऽपि संवृत्या योगिज्ञानम् अन्यद् वा पृथग्ज्ञानं नेष्टम्। तथा चोक्तम् आर्यसत्यद्वयनिर्देशे-"परमार्थतोऽत्यन्ताभावश्च संवृत्त्या च मार्ग भावयति" इति।



अन्यथा श्रावकप्रत्येकबुद्धबोधिसत्त्व [बुद्ध] पृथग्जनादिव्यवस्था कथं भवेत्, किन्तु यस्य संवृत्याऽपि कारणं नास्ति स संवृत्याऽपि नोत्पद्यते। यथा शशविषाणादि। यस्य तु [कारणं] विद्यते स परमार्थतोऽलीकोऽपि समुत्पद्यत एव। यथा-मायाप्रतिबिम्ब [प्रतिध्वनि] आदी। न च मायादेः संवृत्या प्रतीत्यसमुत्पादे परमार्थतो वस्तुत्वप्रसङ्गः, तस्य विचाराक्षमत्वात्। अतः सर्वमेव मायोपमं जगत्। तत्र यथा क्लेशकर्ममायावशात् सत्त्वानां जन्ममाया प्रवर्तेत, तथा योगिनामपि पुण्यज्ञानसम्भारमायावशाद् योगिज्ञानमाया प्रवर्तत एव। तथा चोक्तम् आर्यप्रज्ञापारमितायाम्-"कश्चित् श्रावकनिर्मितः, कश्चित् प्रत्येकबुद्धनिर्मितः, कश्चिद् बोधिसत्त्वनिर्मितः, कश्चित् तथागतनिर्मितः, कश्चित् क्लेशनिर्मितः कश्चित् कर्मनिर्मितः। अनेन सुभूते, पर्यायेण सर्वधर्मा निर्मितोत्पन्नाः" इति। अयं तु विशेषो योगिनां पृथग्जनेभ्यः, ते हि मायाकारवत् तां मायां यथावत् परिज्ञानात् सत्यतो नाभिनिविशन्ते, तेन ते योगिन उच्यन्ते। ये तां बालपृथग्जनवत् कौतूहलं स्त्यत्वेनाभिनिविष्टास्ते विपरीताभिनिवेशद् बाल उच्यन्ते इति सर्वमविरुद्धम्। तथा चोक्तम् आर्यधर्मसङ्गीतौ-



मायाकारो यथा कश्चिन्निर्मित-मोक्षमुद्यतः।

न चास्य निर्मिते सङ्गो ज्ञातपूर्वो यतोऽस्य सः॥

त्रिभवं निर्मितप्रख्यं ज्ञात्वा सम्बोधिपारगः।

संनह्यते जगद्धेतोर्ज्ञातपूर्वं जगत् तथा॥इति।



एवमनेन क्रमेण तत्त्वं भावयेत्।



तत्र च लयौद्धत्यादीन् व्युत्थितान् पूर्ववत् प्रशमयेत्। यदा तु सर्वधर्मनिःस्वभावतालम्बने च लयौद्धत्यादिरहितम् अनभिसंस्कारेण प्रवृत्तं ज्ञानं भवति, तदा शमथविपश्यनायुगनद्धवाही मार्गो निष्पन्नो भवति। तथा यावत् शक्नोति तावद् अधिमुक्तिबलेन अधिमुक्तिचर्याभूमौ स्थितो भावयेत्।



ततो यथेच्छं पर्यङ्कमाभुज्य व्युत्थाय पुनरेवं चिन्तयेत्। यदि नामामी धर्माः परमार्थत एव निःस्वभावा अप्येते संवृत्या स्थिता एव। तथा चोक्तम् आर्यरत्नमेघे-"कथं बोधिसत्त्वो नैरात्म्यकुशलो भवति ? इह कुलपुत्र, बोधिसत्त्वः सम्यक्प्रज्ञया रूपं प्रत्येवक्षते, वेदनां संज्ञां संस्कारान् विज्ञानं प्रत्यवेक्षते। स रूपं प्रत्यवेक्षमाणो रूपस्योत्पादं नोपलभते, विरोधं नोपलभते, समुदयं नोपलभते। एवं वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्योत्पादं नोपलभते, निरोधं नोपलभते, समुदयं नोपलभते। अयं च परमार्थतोऽनुत्पादविहारिण्याः प्रज्ञाया न पुनर्व्यावहारिकेण स्वभावेन" इति विस्तरः। एते च बालबुद्धय एवं निःस्वभावेषु भावेषु विपरीताभिनिवेशात् संसारे परिभ्रमन्तो विविधानि दुःखानि प्रत्यनुभवन्ति। महाकरुणाम् एव आमुखीकृत्य एवमनुविचिन्तयेत्-तथाऽहं करिष्यामि यथा सर्वज्ञत्वं प्राप्य एतेषां धर्मतामवबोधयेयमिति।



ततः सर्वबुद्धबोधिसत्त्वेभ्यः पूजास्तोत्रोपहारं कृत्वा आर्यभद्रचर्याप्रणिधानमभिनिर्हरेत्। ततः शून्यताकरुणागर्भ एव सकलदानादिपुण्यज्ञानसम्भारोपार्जने प्रवर्तते। तथा चोक्तम् आर्यधर्मसंगीतौ-"यथाभूतदर्शिनो बोधिसत्त्वस्य सत्त्वेषु महाकरुणा प्रवर्तते। एवं चास्य भवति-इदं मया समाधिमुखं सर्वधर्मयथाभूतदर्शं च सर्वसत्त्वानां निस्पादयितव्यम्। स तया महाकरुणया संचोद्यमानोऽधिशीलम् अधिचित्तम् अधिप्रज्ञं च शिक्षात्रयं परिपूर्यानुत्तरं सम्यक्सम्बोधिम् अभिसम्बुध्यते" इति।



अयमेव प्रज्ञोपाययुगनद्धबाही बोधिसत्त्वानां मार्गो यत् परमार्थदर्शनेऽपि संवृतिं नोच्छेदयन्ति। संवृतिं चानुच्छेदयन्तो महाकरुणापूर्वङ्गमा अविपर्यस्ता एव सत्त्वार्थक्रियासु प्रवर्तन्ते। उक्तम् आर्यरत्नमेघे-"कथं बोधिसत्त्वो महायानकुशलो भवति। इह बोधिसत्त्वः सर्वासु शिक्षासु शिक्षते, शिक्षामार्गं च नोपलभते। यच्च शिक्षते तदपि नोपलभते। यश्च शिक्ष्यते तमपि नोपलभते। न च तद्धेतुकं तन्निदानं तत्प्रत्ययम् उच्छेददृष्टौ पतति " इति। आर्यधर्मसंगीतौ चोक्तम्-"कतमा बोधिसत्त्वानां प्रतिपत्तिः ? यत् किञ्चिद् बोधिसत्त्वानां कायकर्म, यत् किञ्चिद् वाक्कर्म, यत् किञ्चिन् मनःकर्म, तत् सर्वसत्त्वापेक्षकं प्रवर्तते, महाकरुणापूर्वङ्गमत्वात्। महाकरुणाधिपत्यं सर्वसत्त्वाहितसुखाध्याशयसमुत्थितम्" इति। अयमेवं हिताशयः संज्ञीभवति। सा मया प्रतिपत्तिः प्रतिपत्तव्या सर्वसत्त्वानां हितावहा सुखावहा। तस्य स्कन्धेषु मायावत् प्रत्यवेक्षणा प्रतिपत्तिर्न च स्कन्धपरित्यागं स्पृहयतीति। धातुष्वाशीविषवत् प्रत्यवेक्षणा प्रतिपत्तिर्न च धातुपरित्यागं स्पृहयतीति। आयतनेषु शून्यग्रामवत् प्रत्यवेक्षणाप्रतिपत्तिर्न चायतनपरित्यागं स्पृहयतीति। रूपस्य फेनपिण्डवत् प्रत्यवेक्षणा प्रतिपत्तिर्न च तथागतरूपकायविठपनां जहाति। वेदनाया बुद्‍बुद्‍वत् प्रत्यवेक्षणा प्रतिपत्तिर्न च तथागतध्यानसमाधिसमापत्तिसुखनिष्पदनप्रयोगं नारभते। संज्ञायां मरीचिवत् प्रत्यवेक्षणा प्रतिपत्तिर्न च तथागतज्ञाननिष्पादन अप्रतिपत्तिः। संस्काराणां कदलीवत् प्रत्यवेक्षणा प्रतिपत्तिर्न च बुद्धधर्मसंस्काराणाम् अप्रतिपत्तिः। विज्ञानस्य मायावत् प्रत्यवेक्षणा प्रतिपत्तिर्न च ज्ञानपूर्वङ्गमकायवाङ्मनस्कर्मनिष्पादना प्रतिपत्तिः" इति विस्तरः। एवम् अपर्यन्तेषु सूत्रान्तेषु प्रज्ञोपायरूपा प्रतिपत्तिरनुगन्तव्या।



तत्र यदि नाम लोकोत्तरप्रज्ञावस्थायाम् उपायसेवना न सम्भवति, उपायसेवनाकाले तु बोधिसत्त्वस्य मायाकारवद् अविपर्यस्तत्वात् लोकोत्तरज्ञानात् प्रयोगपृष्ठभावनि यथावद् वस्तुपरमार्थतत्त्वाभिनिवेशनी प्रज्ञासम्भवत्येवेति, भवत्येव प्रज्ञोपाययुगनद्धवाही मार्गः। आर्यक्षयमतिनिर्देशे च ध्यानाक्षयतया प्रज्ञोपाययुगनद्धवाही मार्गोऽनुगन्तव्यः। एवमनेन क्रमेण बोधिसत्त्वस्य प्रज्ञाम् उपायं च सततं सत्कृत्य दीर्घकालाभ्यासेन भावयतो द्वादशावस्थाविशेषा भवन्ति। ता एवावस्था उत्तरोत्तरगुणप्रतिष्ठार्थेन भूमयो व्यवस्थाप्यन्ते। अधिमुक्तिचर्याभूमेर्यावद् बुद्धभूमिरिति।



तत्र यावत् पुद्गलधर्मनैरात्म्यत्वं न साक्षात्करोति, केवलं दृढतराधिमुक्तिः। मारादिभिरप्यभेद्‍यो यदाधिमुक्तिबलेन तत्त्वं भवयति, तदा दृढाधिमुक्तितोऽधिमुक्तिचर्याभूमिर्व्यवस्थाप्यते। अस्यामपि भूमौ वर्तमानो बोधिसत्त्व पृथग्जनोऽपि सर्वबालविपत्तिसमतिक्रान्तोऽसंख्येयसमाधिधारणीविमोक्षाभिज्ञादिगुणान्वित आर्यरत्नमेघे पठ्यते।



अस्या एव च मृदुमध्याधिमात्राधिमात्रतरावस्थाचतुष्टयेन चत्वारि निर्वेधभागीयानि व्यवस्थाप्यन्ते। तथा हि यदा [बाह्यार्थ विभावयता] ईषत्स्पष्टो ज्ञानालोको भवति तदा उष्मगतनामकं निर्वेधभागीयं भवति। स चात्र महायान आलोकलब्धसमाधिरुच्यते। यदा तु स एव ज्ञानलोको मध्यमस्पष्टो भवति, तदा मूर्धनामकनिर्वेधभागीयं भवति, वृद्धालोकश्च समाधिरुच्यते। यदा तु स्पष्टतरो बाह्यार्थानाभासज्ञानालोको जायते, तदा विज्ञप्तिमात्रावस्थानात् क्षान्तिनामकं निर्वेधभागीयं भवति। एकदेशप्रविष्टश्च समाधिरुच्यते। ग्राह्यकारानुपलम्भप्रवेशात्। यदा तु ग्राह्यग्राहकाकाररहितम् अद्वयं ज्ञानं विभावयेत् तदाऽग्रधर्माख्यं निर्वेधभागीयं भवति। आनन्तर्यश्च स समाधिरुच्यते, तदनन्तरमेव तत्त्वप्रवेशात्। अत्र तावद् अधिमुक्तिचर्याभूमि।



इतरास्तु भूमयः संक्षेपत एकादशाङ्गपरिपूरिता व्यवस्थाप्यन्ते। तत्र प्रथमा भूमिः प्रथमं पुद्गलधर्मनैरात्म्यतत्त्वाधिगमाङ्गपरिपूरिता व्यवस्थाप्यते। तथा हि यदाऽग्रधर्मानन्तरं प्रथमतरं लोकोत्तरं सर्वप्रपञ्चरहितं सर्वधर्मनिःस्वभावतासाक्षात्कारि स्फुटतरं ज्ञानम् उत्पद्यते, तदा बोधिसत्त्वः सम्यक्त्वन्ययाभावक्रान्तितो दर्शनमार्गोत्पादात् प्रथमां भूमिं प्रविष्टो भवति। अत एवास्यां भूमौ प्रथमतोऽनधिगततत्त्वाधिगमाद् बोधिसत्त्वः प्रमुदितो भवति। तत एषा भूमिः प्रमुदितेत्युच्यते। अत्र च द्वादशोत्तरं दर्शनहेयं क्लेशशतं प्रहीयते।



शेषास्तु भूमयो भावनामार्गस्वभावाः। तासु भावनाहेयास्त्रैधातुकाः षोडश क्लेशाः प्रहीयन्ते। अस्यां च भूमौ बोधिसत्त्वस्य धर्मधातुसमुदागमताप्रबोधात् स्वार्थ इव पराथे प्रवर्तनाद् दानपारमिताऽतिरिक्ततरा भवति। स च बोधिसत्त्वः समधिगततत्त्वोऽपि वा यावन्न् शक्नोति सूक्ष्मापत्तिस्खलितेषु सम्प्रजन्यविहारि भवितुं तावत् प्रथमा भूमिः। यदा तु शक्नोति, तदास्याङ्गस्य परिपूरितो द्वितीया भूमिर्व्यवस्थाप्यते। अत एवास्यां भूमौ सूक्ष्मापत्तिस्खलितसमुदाचारात् शीलपारमिताऽतिरिक्ततरा भवति। सर्वदौश्शील्यमलापगमाद् इयं भूमिर्विमलेत्युच्यते।



स सूक्ष्मापत्तिस्खलितेषु सम्प्रजन्यविहारी भवति। यावन्न शक्नोति सकललौकिकं समाधिं समापत्तुं यथाश्रुतं चार्थम् आधर्त्तुं तावद् द्वितीयैव भूमिः। यदा शक्नोति, तदा तस्याङ्गस्य परिपूरितस्तृतीया भूमिर्व्यवस्थाप्यते। अस्यां च भूमौ बोधिसत्त्वस्य श्रुतधारण्या सर्वलौकिकसमाध्याभिनिर्हारार्थं सर्वदुःखसहनात्, क्षान्तिपारमिताऽतिरिक्ततरा भवति। तेषां समाधीनां लाभाद् इय भूमिरप्रमाणं लोकोत्तरं ज्ञानावभासं करोतीति प्रभाकरीत्युच्यते।



स प्रतिलब्धलौकिकसकलसमाधिरपि यावन्न् शक्नोति यथाप्रतिलब्धैर्बोधिपक्षैर्धर्मैर्बहुलं विहर्तुं सर्वसमापत्तीनां च चित्तम् उपेक्षितुं तावत् तृतीया भूमिः। यदा तु शक्नोति तदा तस्याङ्गस्य परिपूरितश्चतुर्थी भूमिर्व्यवस्थाप्यते। अस्यां भूमौ बोधिसत्त्वस्याभीक्ष्णं कायवाङ्मनोजल्पसमतिक्रमणाय बोधिपक्षैर्धर्मैर्विहरणात्, विर्यपरमिताऽतिरिक्ततराभवति। इयं च सकलक्लेशेन्धनदाहसमर्थस्य बोधिपक्षधर्मार्चिष उद्‍गतत्वाद् अर्चिष्मतीत्युच्यते।



सोऽभीक्ष्णं बोधिपक्षधर्मविहारी भवति। यावन्न शक्नोति सत्यानि भावयन् संसारानभिमुखं निर्वाणाभिमुखं च चेतो व्यावर्तयितुम् उपायसंगृहीतान् बोधिपक्षान् धर्मान् भावयितुम्, तावच्चतुर्थी भूमिः। यदा तु शक्नोति तदाऽस्याङ्गस्य परिपूरितः पञ्चमी भूमिर्व्यवस्थाप्यते। अत एवास्याम् इयम् उपायसंगृहीता बोधिपक्षभावना [परिपूरितेन] सुष्ठु दुःखेन जीयते अभ्यस्यता इति सुदुर्जयेत्युज्यते।



अस्यां चार्यसत्याकारभावनाबहुलीकाराद् ध्यानपारमिता अतिरिक्ततरा भवति। उपयसंगृहीतबोधिपक्षबहुलविहारी च भवति। यावद् न शक्नोति संसारप्रवृत्तिप्रत्यवेक्षणान् निर्वित्सहया चित्तसन्तत्याऽनिमित्तविहारं समापत्तुं तावत् पञ्चमी भूमिः। यदा शक्नोति तदाऽस्याङ्गस्य परिपूरितः षष्ठी भूमिर्व्यवस्थाप्यते। अस्यां च बोधिसत्त्वस्य प्रतीत्यसमुत्पादभावनाविहारात् प्रज्ञापारमिताऽतिरिक्ततरा भवति। अत एव प्रज्ञापारमिताया अतिरिक्ततरत्वात् सर्वबुद्धधर्मेषु अभिमुखोऽस्यां भूमौ वर्तत इति कृत्वा अभिमुखीत्युच्यते।



सोऽनिमित्तविहारलाभी भवति। यावन्न शक्नोति निश्छिद्रम् अनिमित्तविहारं समापत्तुम्, तावत् षष्ठी भूमिः। यदा शक्नोति तदाऽस्याङ्गस्य परिपूरितः सप्तमी भूमिर्व्यवस्थाप्यते। अस्यामपि भूमौ बोधिसत्त्वः सर्वनिमित्तं निर्निमित्तेन प्रतिविध्यति निमित्तकृतव्यवहारं च न विरोधयति। अतोऽस्याम् उपायपारमिताऽतिरिक्ततरा भवति। इयं च भूमिरनाभोगमार्गोपश्लेषात् सुष्ठु दूरङ्गमाद् दूरङ्गमा।



स निश्छिद्रानिमित्ताविहारि भवति। यावन्न शक्नोत्यनाभोगवाहिनम् अनिमित्तविहारं समापत्तुं तावत् सप्तमी भूमिः। यदा शक्नोति तदाऽस्याङ्गस्य परिपूरितोऽष्टमी भूमिर्व्यवस्थाप्यते। अस्यां च भूमौ अनाभोगेन कुशलपक्षयोगात् प्रणिधानपारमिताऽतिरिक्ततरा भवति। अनिमित्ताभोगाप्रकम्प्यत्वाद् इयम् अचलेत्युच्यते।



सोऽनाभोगानिमित्तविहारी च भवति। यावन्न शक्नोति पर्यायनिरुक्त्यादिप्रभेदैः सर्वाकारसर्वधर्मदेशनायां वशीभवितुं तावद् अष्टमी भूमिः। यदा शक्नोति तदाऽस्याङ्गस्य परिपूरितो नवमी भूमिर्व्यवस्थाप्यते। अस्यां च भूमौ बोधिसत्त्वस्य प्रतिसंविद्-विशेषलाभात् प्रज्ञाबलविशेषयोगाद् बलपारमिताऽतिरिक्ततरा भवति। सर्वाकारधर्मदेशनाकौशलतोऽनवद्यमतिविशेषलाभात् साधुमती भूमिरुच्यते।



अस्यां च प्रतिसंविच्चतुष्टयलभी भवति। यावन्न शक्नोति बुद्धक्षेत्रपर्षन्निर्माणादि दर्शयितुं परिपूर्णधर्मसम्भोगं सत्त्वपरिपाकं च कर्तुम्, तावद् नवमी भूमिः। यदा तु शक्नोति तदाऽस्याङ्गस्य परिपूरितो दशमी भूमिर्व्यवस्थाप्यते। अस्यां च निर्माणादिना सत्त्वपरिपाचनाय ज्ञानविशेषयोगाद् बोधिसत्त्वस्य ज्ञानपारमिताऽतिरिक्ततरा भवति। इयं च धर्मदेशनामेघैः अनन्तेषु लोकधातुषु धर्मप्रवर्षणाद् धर्ममेघेत्युच्यते। अपरैरपि स्कन्धपरिशुद्धयादिव्यवस्थापनैः भूमीनां व्यवस्थापनमस्ति, ग्रन्थविस्तरभयान् न लिखितम्।



स प्रतिलब्ध-निर्माणादिवशितोऽपि यावन् न शक्नोति सर्वस्मिन् ज्ञेये सर्वाकारम् असक्तम्। अप्रतिहतं ज्ञानम् उत्पादयितुं तावद् दशमी भूमि। यदा शक्नोति तदाऽस्याङ्गस्य परिपूरितो बुद्धभूमिर्व्यवस्थाप्यते। एतच्च भूमिव्यवस्थापनम् आर्यसंधिनिर्मोचने निर्दिष्टम्। अस्याश्च बुद्धभूमेः सर्वाकारसकलसंपत्प्रकर्ष्डपर्यन्तगमनान्नापरम् उत्कृष्टं स्थानान्तरमस्ति [तस्मात् ततः परं नास्ति भूमिव्यवस्था] इति।



अस्याश्च बुद्धमूमेर्गुणपक्षप्रभेदो बुद्धैरपि न शक्यते सर्वाकारं वक्तुम्। तस्या अप्रमेयत्वात्, कथं पुनः अस्मत्सदृशैः। यथोक्तम् आर्यगण्डव्यूहे-गुणैकदेश-पर्यन्तनाधिगच्छेत्स्वयंभुवः।

निरीक्ष्यमाणो बुद्धोऽपि बुद्धधर्मा ह्यचिन्तियाः॥इति।



एतावत्तु संक्षेपेण वक्तुं शक्यते। [स्वपरार्थसम्पत्तिप्रकर्षपर्यन्तगतः, अशेषदोषापगमनिष्ठां प्राप्य भगवान् बुद्धो धर्मकाये स्थित्वा सम्भोगनिर्माणकायाभ्याम् अनाभोगरूपेण अशेषजगदर्थ कुर्वन् यावत् संसारं विहरति।



तस्मात् प्रेक्षवद्‍भिः सर्वगुणाकरेषु भगवत्सु श्रद्धा उत्पदनीया, तद्‍गुणपरिसाधनार्थं सर्वप्रकारेण प्रयतितव्यम्। त्रिकायदिविभागस्तु ग्रन्थविस्तरभयान्न लिख्यते।



नयस्यानुसारेण सूत्रस्य चाठ

सदुक्त्याऽस्य मार्गस्य जिनपुत्रकाणाम्।

मयानल्पपुण्यं यदाप्तं च तेन

परामेतु बुद्धिं जगन्मन्दमाशु॥



भूपतिश्रीदेवराजवचनेन] कमलशीलेन भावनाक्रमस्य अयं संक्षेपः कृतः।



भावनाक्रमः प्रथमः समाप्तः।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project