Digital Sanskrit Buddhist Canon

बोधिपथप्रदीपः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Bodhipathapradīpaḥ

बोधिपथप्रदीपः

नमो बोधिसत्त्वाय मञ्जुश्रिये कुमारभूताय।


कालत्रयाखिलजिनांश्च तदीय-धर्मान्

संघान् महादरतया प्रणिपत्य चापि।

बोधिप्रभेण कथितो विशदीकरोमि

शिष्योत्तमेन खलु बोधिपथप्रदीपम्॥१॥



पुरुषास्त्रिविधा ज्ञेया उत्तमाधममध्यमाः।

लिख्यते लक्षणं तेषां स्फुटं प्रत्येकभेदतः॥२॥



उपायेन तु केनापि केवलं संसृतेः सुखम्।

स्वस्यैवार्थे यैहेत ज्ञेयः सो पुरुषोऽधमः॥३॥



पापकर्मनिवृत्तात्मा भवसुखात् पराङ्मुखः।

आत्मनिर्वाणमात्रार्थी यो नरो मध्यमस्तु सः॥४॥



स्वसन्तानगतैर्दुःखैर्दुःखस्यान्यस्य सर्वथा।

सर्वस्य यः क्षयं काङ्क्षेदुत्तमः पुरुषस्तु सः।५।



कांक्षन्तो हि वरां बोधिं सत्त्वानामुत्तमास्तथा।

दर्शितान् गुरुभिस्तेभ्यः सदुपायां प्रचक्ष्महे।६।



संबुद्धचित्रमूर्त्यादिस्तूपसद्धर्मसंमुखः।

पुष्पैधूपैः पदार्थैश्च यथाप्राप्तैः सुपूजयेत्।७।



समन्तभद्रचर्योक्ता पूजा सप्तविधाऽपि च।

बोधिसारस्य पर्यन्तं अवैवर्तिकचित्ततः।८।



सुश्रद्धया त्रिरत्नेभ्यः भूमौ संस्थाप्य जानुनी।

भूत्वा कृताञ्जलिश्चापि त्रिश्चादौ शरणं व्रजेत्।९।



ततः समस्तसत्त्वेषु मैत्रीचित्त पुरस्कृतः।

दुर्गतित्रयाजन्मादिसंक्रान्तिमरणादिभिः।१०।



दृष्ट्वाऽशेषं जगद्दुखं दुःखेन दुखितायाश्च।

दुःखहेतोस्तथा दुःखात् जगतां मुक्तिकांक्षया।११।



बोधिचित्तं समुत्पाद्यमनापायिप्रतिज्ञया।

एवं प्रणिधिचित्तानां उत्पादेतु गुणाश्च ये।१२।



ते गण्डव्यूहसूत्रेषु मैत्रेयेण प्रभाषिताः।

सूत्रस्य तस्य पठनाच्छ्रवणाद् गुरोर्वा

संबोधिचित्तगुणकानि निरन्तकानि।१३।



विज्ञाय तस्य खलु संस्थितिरर्णान।

चित्तं तथा समुदयेत मुहुर्मुहश्च।

वीरदत्तपरीपृच्छासूत्रे पुण्यं प्रदर्शितम्।१४।



यत्तच्श्लोकत्रयेणैव समासेनात्रलिख्यते।

बोधिचित्ताद्धि यत्पुण्यं तच्च रुपि भवेद्यदि।१५।



आकाशधातुं संपूर्य भूयश्चोत्तरि तद्भवेत्।

गङ्गावालिकसंख्यानि बुद्धक्षेत्राणि यो नरः।१६।



दद्यात्सद्रत्न पूर्णानि लोकनाथेभ्य एव हि।

यश्चैकः प्राञ्जलिर्भूत्वा चित्तं बोधाय नामयेत्।१७।



इयं विशेष्यते पूजा यस्यान्तोऽपि न विद्यते।

उत्पाद्यबोधिप्रणिधानचित्तं

नैकप्रयत्नैः परिवर्धितव्यम्।१८।



जन्मान्तरेऽपि स्मरणार्थमस्य

शिक्षा यथोक्ता परिपालनीया।

प्रस्थानचित्ते स्वयमातिरिक्तं

सम्यग्भवेन्न प्रणिधानवृद्धिः।१९।



संबोधिसंवर विवृद्धिकामः

तस्माद् ध्रुवं चैनमवाप्नुयात।

सप्तधाप्रातिमोक्षैश्च सदाऽन्यसंवरान्वितः।२०।



भाग्यं बोधिसत्त्वानां संवरस्य न चान्यथा।

सप्तधा प्रातिमोक्षेषु भाषितेषु तथागतैः।२१।



ब्रह्मचर्यः श्रेष्ठाः भिक्षुसंवर इष्यते।

शीलाध्यायोक्तविधिना बोधिसत्त्वस्य भूमिषु।२२।



संवरः सद्गुरोर्ग्राह्यः सम्यग्लक्षणयुक्ततः।

यः संवरविधौ दक्षः स्वयं च संवरे स्थितः।२३।



कृपालुः संवरे शक्तः ज्ञातव्यः सद्गुरुस्तु सः।

तत्र यत्नेन न प्राप्तो गुरुश्चैतादृशो यदि।२४।



संवरग्रहणस्यान्यो विधिः तस्मात् समुच्यते।

अम्बरराजभूतेन पूर्वं मन्जुश्रिया यथा॥२५॥



बोधिचित्तं समुत्पादि सुस्पष्टं चात्र लिख्यते।

मञ्जुश्रिबुद्धक्षेत्रालङ्कारसूत्रोक्तिवत् तथा॥२६॥



उत्पादयामि संबोधौ चित्तं नाथस्य संमुखम्।

निमन्त्रये जगत्सर्वं दारिद्यान्मोचितास्मि तत्॥२७॥



व्यापादखिलचित्तं वा ईर्ष्यामात्सर्यमेव व।

अद्याग्रे न करिष्यामि बोधिं प्राप्स्यामि यावता॥२८॥



ब्रह्मचर्य चरिष्यामि कामांस्त्यक्ष्यामि पापकान्।

बुद्धानामानुशिक्षिष्ये शीलसंवर संयमे॥२९॥



नाहं त्वरितरुपेण बोधिं प्राप्तुमिहोत्सहे।

परान्तकोटिं स्थास्यामि सत्त्वस्यैकस्य कारणात्॥३०॥



क्षेत्रं विशोधिष्यामि अप्रमेयमचिन्तिम्।

नामधेयं करिष्यामि दशदिक्षु च विश्रुतम्॥३१॥



कायवाक् कर्मणी चाहं शोधयिष्यामि सर्वशः।

शोधयिष्ये मनस्कर्म कर्तास्मि नाशभम्॥३२॥



स्वकाय चित्तविशुद्धिहेतु,

प्रस्थानचित्तात्मयमस्थितेन।

त्रिशीलशिक्षापरिशियेत चेत्,

त्रिशीलशिक्षासु महादरस्यात्॥३३॥



शुद्धसंबोधिसत्त्वानां तस्मात् संवरसंवृतौ।

यत्नात् संबोधिसंभारः परिपूर्णो भविष्यति॥३४॥



पुण्यज्ञानस्वभावस्य संभारस्य तु पूर्तये।

सर्वबुद्धमतोहेतुरभिज्ञोत्पाद एव हि॥३५॥



पक्षवृद्धिं विना पक्षी खे नोडडेतुं यथा क्षमः।

तथाऽभिज्ञाबलैर्हीनः सत्त्वार्थकरणेऽक्षमः॥३६॥



अभिज्ञस्य दिवारात्रौ यानि पुण्यानि सन्ति वै।

अभिज्ञायाश्च राहित्ये नैव जन्मशतेषु च॥३७॥



शिघ्रं संबोधि-संभारं संपूरयितुमिच्छति।

निरालस्येन यत्नेनाभिज्ञां संसाधयेत्तु सः॥३८॥



शमथसिद्ध्यभावेऽभिज्ञानं न जायते।

अतः शमथसिद्धयर्थं यतितव्यं पुनः पुनः॥३९॥



शमथङ्गप्रहीणत्वे तद्यत्नैर्भावितेऽपि च।

संवत्सरसहस्रैश्च समाधिर्नैव सेत्स्यति॥४०॥



अतः समाधिसंभाराध्यायोक्ताङ्गसमाश्रितः।

कस्मिंश्चित् अलम्बनेऽपि पुण्ये संस्थापयेन्मनः॥४१॥



योगिनःशमथे सिद्धेऽभिज्ञानं चापि सेत्स्यति।

प्रज्ञापारमितायोगं विना नाऽऽवरणक्षयः॥४२॥



क्लेशज्ञेयावृतेस्तस्मात् प्रहाणार्थमशेषतः।

प्रज्ञापारमितां योगी सोपायं भावयेत् सदा॥४३॥



उपायरहिता प्रज्ञाऽप्युपायः प्रज्ञया विना।

यतो बन्ध इति प्रोक्तौ प्रहेयं नोभयं ततः॥४४॥



का प्रज्ञा क उपायश्च शङ्कामिति निरासितुम्।

उपायस्य च प्रज्ञायाः भेदः सम्यक् प्रकाश्यते॥४५॥



प्रज्ञापारमितां त्यक्त्वा दानपारमितादयः।

सर्वे हि कुशलाः धर्माः उपायाः जिनभाषिताः॥४६॥



उपायाभ्यासवश्यात्मा यो हि प्रज्ञां विभावयेत्।

शीघ्रं स लभते बोधिं न नैरात्म्यैकभावनात्॥४७॥



स्कन्धायतनधातूनामनुत्पादावबोधिनाम्।

स्वभावशून्यताज्ञानं प्रज्ञेति परिकीर्तिता॥४८॥



सदुत्पत्तिरयुक्तास्ति असच्चापि खपुष्पवत्।

द्वयोर्दोषप्रसङ्गत्वात् उद्भावो न द्वयोरपि॥४९॥



अनुत्पन्नः स्वतो भावो परतो नोभयोरपि।

अहेतुतेश्च नो तस्मात् निःस्वभावः स्वरुपतः॥५०॥



अथवा सर्वधर्माणां चैकानेकविचारणे।

स्वरुपाऽप्राप्यमाणत्वात् निःस्वभावत्वनिश्चयः॥५१॥



शून्यतासप्तौ युक्तौ मूलमध्यमकादिषु।

सिद्धो भावस्वभावस्तु शून्यतायां भाषितः॥५२॥



ग्रन्थस्य गौरवो यस्मात् अत्र तस्मान्न विस्तरः।

सिद्धसिद्धान्तमात्रैकं भावनार्थं प्रभाषितम्॥५३॥



तस्मादशेषधर्माणां स्वभावनामलाभतः।

नैरात्म्यभावना या हि सा प्रज्ञायास्तु भावना॥५४॥



प्रज्ञया सर्वधर्मणां यत्स्वभावो न दृष्टवत्।

युक्तया परिक्ष्य तां प्रज्ञां सोऽविकल्पेन भावयेत्॥५५॥



भवो विकल्पोभूतोऽयं तद्विकल्पात्मकस्ततः।

सर्वकल्पपरित्यागः निवार्णः परमोऽस्ति हि॥५६॥



एवमप्युक्तं भगवता--

महाऽविद्या विकल्पो हि संसारार्णवपातकः।

निर्विकल्पसमाधिस्थेऽविकल्पो भासते खवत्॥५७॥



अविकल्पप्रवेशधारण्यामपि उत्तम्--

चिन्तितेनिर्विकल्पेऽस्मिन् सद्धर्मे जिनपुत्रकैः।

विकल्पं दुर्गमं तीर्त्वाऽविकल्पो प्राप्स्यते क्रमात्॥५८॥



निश्चयीयागमयुक्तिभ्यां स्वभाव रहितान् तथा।

सर्वान् धर्मानुत्पन्नानविकल्पं भावयेत्॥५९॥



भावयन्निदमेवेत्थं प्राप्योष्णत्वादिकं क्रमात्।

लभते प्रमुदित्वादिं बुद्धबोधिर्न लम्बिता॥६०॥



साधितैर्मन्त्रशक्तया हि शान्तिविस्तरकर्मभिः।

भद्रकुम्भादिसिद्धाष्टमहासिद्धिबलेन च॥६१॥



अभीष्टा बोधिसंभारपरिपूर्तिः सुखेन चेत्।

क्रियाचर्यादि तन्त्रोकम् गुह्याचरणभिष्यते॥६२॥



तदाऽऽचार्यभिषेकार्थ महारत्नादिदानतः।

सद्गुरुं प्रीणयेद् भक्तया सर्वाज्ञादिपालनैः॥६३॥



प्रसन्ने च गुरौ भूते पूर्णाचार्याभिषेकतः।

सर्वपापविशुद्धात्मा सिद्धिभागी भविष्यति॥६४॥



आदिबुद्धमहातन्त्रे प्रयत्नेन निषेधतः।

गुह्यप्रज्ञाभिषेकस्तु न ग्रह्या ब्रह्मचारिणा॥६५॥



सोऽभिषेको गृहीतश्चेत् ब्रह्यचर्यतपः स्थितैः।

निषिद्धाचरणत्वात् तत्तपः सम्वरक्षयः॥६६॥



जायन्ते व्रतिनस्तस्य पाराजिकविपत्तयः।

सः पतेद्दुर्गतौ नूनं सिद्धिर्नैव कदाचन॥६७॥



सर्वतन्त्रश्रुतौ भाष्ये होमयज्ञादिकर्मासु।

लब्धाचार्याभिषेकश्च तत्त्वविद नैव दुष्यति॥६८॥



दीपङ्करश्रिया बोधिपथः प्रोक्तः समासतः।

दृष्ट्वा सूत्रादिधर्मोक्तिं बोधिप्रभनिवेदनात्॥६९॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project