Digital Sanskrit Buddhist Canon

९ प्रज्ञापारमिता नाम नवमः परिच्छेदः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
९ प्रज्ञापारमिता नाम नवमः परिच्छेदः॥



या निर्लेपतया निरुत्तरपदं सर्वप्रपञ्चोज्झिता

प्रज्ञापारमितादिसंवृतिपदैराख्यायतेऽनास्रवा।

यां सम्यक्प्रतिपद्य निर्मलधियो यान्त्युत्तमां निर्वृतिं

तां नत्वा विधिवत् करोमि विवृतिं तस्याः प्रसन्नैः पदैः॥१॥



यत्राचार्यो गुणनिधिरसौ शान्तिदेवः प्रकाशं

वक्तुं शक्तः प्रवचनमहाम्भोधिपारं प्रयातः।

किं तस्यार्थं हतमतिरहं वक्तुमीशस्तथापि

प्रज्ञाभ्यासात्सुकृतमसमं यत्ततोऽस्मि प्रवृत्तः॥२॥



न नाम काचिद्गुणलेशवासना

मतेर्न मेऽस्ति प्रतिभागुणोऽर्जितः।

तथापि सन्मित्रनिषेवणाफलं

यदेव मे तादृशि वाक् प्रसर्पति॥३॥



अथ यो नाम कश्चिद् गोत्रविशेषात् पर्युपासितकल्याणमित्रतया त्रिजगत्पर्यापन्नसमस्तजनदुःखदुःखी सर्वप्राणभृतां निःशेषदुःखसमुद्धरणाशयः स्वसुखनिरपेक्षः तत्प्रशमोपायभूतं बुद्धत्वमेव मन्यमानः तत्प्राप्तिवाञ्छया समुत्पादितबोधिचित्तो महात्मा सौगतपदसाधनोपायभूतसंभारद्वयपरिपूरणार्थं क्रमेण दानादिषु प्रवर्तते। तस्य तथा प्रवर्तमानस्य सम्यक्प्रतिपन्नशमथस्यापि दानादयः प्रज्ञाविकलतया जगदर्थसंपादननिदानं बुद्धत्वं नावहन्तीत्यभिसंधाय अवश्यं संसारदुःखनिर्मोक्शार्थिना प्रज्ञोत्पादनाय यतितव्यम्। यथोक्तम्-



शमथेन विपश्यनासुयुक्तः

[८.४]

इत्यादि। तत्र शमथप्रतिपादनं कृतम्। इदानीं तदनन्तरप्राप्तां विपश्यनां प्रज्ञापरनामधेयां प्रतिपादयन्नाह-

इमं परिकरं सर्वं प्रज्ञार्थं हि मुनिर्जगौ।

तस्मादुत्पादयेत्प्रज्ञां दुःखनिवृत्तिकाङ्क्षया॥१॥



इममिति समनन्तरमिह शास्त्रे लक्षणतः प्रतिपादितं दानादिकमिदंतया प्रत्यक्षतया परामृशति। परिकरमिति परिवारं परिच्छेदम्। संभारमिति यावत्। सर्वमुक्तप्रकारमन्यच्च। प्रज्ञार्थ हि मुनिर्जगाविति संबन्धः। प्रज्ञा यथावस्थितप्रतीत्यसमुत्पन्नवस्तुतत्त्वप्रविचयलक्षणा, सैव अर्थः प्रयोजनं संबोधिहेतुभावोपनायकतया यस्य दानादिलक्षणस्य परिकरस्य स तथा, तमिति। दानपारमितादिषु धर्मप्रविचयस्वभावायाः प्रज्ञायाः प्रधानत्वात्। तथा हि दानं संबुद्धबोधिप्राप्तये प्रथमं कारणम्, पुण्यसंभारान्तर्भूतत्वात्। तच्च शीलालंकृतमेव सुगतिपरंपरां सुखभोगोपकरणसंपन्नामावहदनुत्तरज्ञानप्रतिलम्भहेतुः। क्षान्तिरपि तद्विपक्षभूतप्रतिघप्रतिपक्षतया दानशीलसुकृतमयं संभारमनुपालयन्ती सुगतत्वाधिगतये संप्रवर्तते। एतच्च शुभं दानादित्रितयसंभूतं पुण्यसंभाराख्यं वीर्यमन्तरेण न भवतीति तदपि उभयसंभारकारणतया सर्वावरणप्रहाणाय समुपजायते। समाहितचित्तस्य च यथाभूतपरिज्ञानमुत्पद्यत इति ध्यानपारमितापि अनुत्तरज्ञानहेतुरुपपद्यते। एवमेते दानादयः सत्कृत्य संभृता अपि प्रज्ञामन्तरेण सौगतपदाधिगमहेतवो न भवन्तीति नापि पारमिताव्यपदेशं लभन्ते। प्रज्ञाकृतपरिशुद्धिभाजः पुनः अव्याहतोदारप्रवृत्तितया तदनुकूलमनुवर्तमानाः तद्धेतुभावमधिगच्छन्ति, पारमितानामधेयं च लभन्ते। तथा दातृदेयप्रतिग्राहकादित्रितयानुपलम्भयोगेन प्रज्ञापरिशोधिताः सादरनिरन्तरदीर्घकालमभ्यस्यमानाः प्रकर्षपर्यन्तमुपगच्छन्तः अविद्याप्रवर्तितसकलविकल्पजालमलरहितं क्लेशज्ञेयावरणविनिर्मुक्तमुभयनैरात्म्याधिगमस्वभावं सर्वस्वपरहितसंपदाधारभूतं परमार्थतत्त्वात्मकं तथागतधर्मकायमभिनिर्वर्तयन्तीति प्रज्ञाप्रधाना दानादयो गुणा उच्यन्ते॥



न चैतद्वक्तव्यम्-यदि प्रज्ञा प्रधानं दानादीनाम्, सैव केवला संबोधिसाधनमस्तु, किमपरैर्दानादिभिरिति। तदन्येषामुपयोगस्य वर्णितत्वात्, केवलं नेत्रविकला इव दानादयः प्रज्ञानेतृका एव यथाभिमतां सौगतीं भूमिमभिसरन्तीति प्रज्ञोपनायका उच्यन्ते, न तु प्रज्ञैव केवला सम्यक्संबोधिसाधनम्। तस्माद्दानादिपरिकरः प्रज्ञार्थः इति सिद्धम्॥



सर्वकल्पनाविरहात् समारोपापवादान्तद्वयमौनात् अशैक्षकायवाङ्मनःकर्मलक्षणमौनत्रययोगाद्वा मुनिर्बुद्धो भगवान्। त्रिदुःखतादुःखितसर्वजगत्परित्राणाध्याशयो जगौ जगाद। उक्तवानित्यर्थः। आर्यप्रज्ञापारमितादिसूत्रान्तेषु प्रज्ञार्थमुक्तवान् क्रमेण दानादिपरिकरम्। यथोक्तमार्यशतसाहस्रयां प्रज्ञापारमितायाम्-



तद्यथापि नाम सुभूते सूर्यमण्डलं चन्द्रमण्डलं च चतुर्षु द्वीपेषु कर्म करोति, चतुरश्च द्वीपाननुगच्छति अनुपरिवर्तते, एवमेव सुभूते प्रज्ञापारमिता पञ्चसु पारमितासु कर्म करोति, पञ्च पारमिता अनुगच्छति, अनुपरिवर्तते, प्रज्ञापारमिताविरहितत्वात् पञ्च पारमिताः पारमितानामधेयं न लभन्ते। तद्यथापि नाम सुभूते राजा चक्रवर्ती विरहितः सप्तभी रत्नै श्चक्रवर्तिनामधेयं न लभते, एवमेव सुभूते पञ्च पारमिताः प्रज्ञापारमिताविरहितत्वान्न पारमितानामधेयं लभन्ते। तद्यथापि नाम सुभूते याः काश्चन कुनद्यः, सर्वास्ता येन गङ्गा महानदी तेनानुगच्छन्ति। ता गङ्गया महानद्या सार्धं महासमुद्रमनुगच्छन्ति, एवमेव सुभूते पञ्च पारमिताः प्रज्ञापारमितापरिगृहीता येन सर्वाकारज्ञता तेनानुगच्छन्ति। इति विस्तरः॥



पुनश्चोक्तम्-

इयं कौशिक प्रज्ञापारमिता बोधिसत्त्वानां महासत्त्वानां दानपारमितामभिभवति, शीलपारमितामभिभवति, क्षान्तिपारमितामभिभवति, [वीर्यपारमितामभिभवति,] ध्यानपारमितामभिभवति। तद्यथापि नाम कौशिक जात्यन्धानां शतं वा सहस्रं वा अपरिणायकानामभव्यं मार्गावतरणाय, कुतः पुनर्नगरानुप्रवेशाय, एवमेव कौशिक अचक्षुष्काः पञ्च पारमिता जात्यन्धभूता भवन्ति विना प्रज्ञापारमितया अपरिणायकाः, विना प्रज्ञापारमितया अभव्या बोधिमार्गावतरणाय, कुत एव सर्वाकारज्ञतानगरानुप्रवेशाय। यदा पुनः कौशिक पञ्च पारमिताः प्रज्ञापारमितापरिगृहीता भवन्ति, तदा एताः पञ्च पारमिताः सचक्षुष्का भवन्ति। प्रज्ञापारमितापरिगृहीताश्चैताः पञ्च पारमिताः पारमितानामधेयं लभन्ते॥ इति विस्तरः॥



एवमन्यत्रापि यथासूत्रमवगन्तव्यम्। उक्तं च-

सर्वपारमिताभिस्त्वं निर्मलाभिरनिन्दिते।

चन्द्रलेखेव ताराभिरनुयातासि सर्वदा॥इति॥

[प्रज्ञापारमितास्तव-८]



अथवा-इममिति समनन्तरप्रक्रान्तरूपं शमथात्मकं प्रबन्धम्। परिकरमिति प्रज्ञासमुत्थापकतया तत्कारणसंदोहं पीठिकाबन्धं च। प्रज्ञार्थमिति प्रज्ञैव पूर्वोक्ता अर्थः प्रयोजनं साध्यतया यस्य तम्। शमथपरिशोधितचित्तसंताने प्रज्ञायाः प्रादुर्भावात् सुप्रशोधितक्षेत्रे सस्यनिष्पत्तिवत्। यथोक्तं शिक्शासमुच्चये-



किं पुनरस्य शमथस्य माहात्म्यम् ? यथाभूतज्ञानजननशक्तिः। यस्मात्-

समाहितो यथाभूतं जानातीत्युक्तवान् मुनिः। इति॥

[शिक्षासमुच्चयकारिका-९]



एतदपि धर्मसंगीतावुक्तम्-

समाहितचेतसो यथाभूतदर्शनं भवति। यथाभूतदर्शिनो बोधिसत्त्वस्य सत्त्वेषु महाकरुणा प्रवर्तते। इदं मया समाधिमुखं सर्वसत्त्वानां निष्पादयितव्यम्। स तया महाकरुणया संचोद्यमानोऽधिशीलमधिचित्तमधिप्रज्ञं च शिक्षाः परिपूर्य अनुत्तरां सम्यक्संबोधिमभिसंबुध्यते। इति विस्तरः॥



हिरिति यस्मात् प्रज्ञार्थं दानादिपरिकरं शमथात्मकपरिकरं वा मुनिर्जगौ, तस्मादुत्पादयेत् प्रज्ञामिति योजनीयम्। उत्पादयेदिति निष्पादयेत् साक्षात्कुर्यात् भावयेत सेवयेत् बहुलीकुर्याद्वा॥



सा च प्रज्ञा द्विविधा-हेतुभूता फलभूता च। हेतुभूतापि द्विविधा अधिमुक्तिचरितस्य च भूमिप्रविष्टस्य च बोधिसत्त्वस्य। फलभूता तु सर्वाकारवरोपेता सर्वधर्मशून्यताधिगमस्वभावा अनिमित्तयोगेन। तत्र प्रथमतो हेतुभूता श्रुतचिन्ताभावनामयी क्रमेण अभ्यासाद्भूमिप्रविष्टस्य प्रज्ञां निर्वर्तयति। सा च अपरापरभूमिप्रतिलम्भयोगेन प्रकर्षमभिवर्धयन्ती यावदुभयावरणविगमात् सकलकल्पनाजालविगतबुद्धत्वस्वभावप्रज्ञां निष्पादयति। अत एवाह-दुःखनिवृत्तिकाङ्क्षयेति। दुःखस्य पञ्चगतिसंगृहीतसत्त्वराशिगतस्य स्वात्मगतस्य च सांसारिकस्य जातिव्याधिजरामरणस्वभावस्य प्रियविप्रयोगाप्रियसंप्रयोगपर्येष्यमाणलाभविघात लक्षणस्य, संक्षेपतः पञ्चोपादानस्कन्धात्मकस्य च, निवृत्तिः निर्वाणम् उपशमः। पुनरनुत्पत्तिधर्मकतया आत्यन्तिकसमुच्छेद इत्यर्थः। तस्याः काङ्क्षया अभिलाषेण। छन्देनेति यावत्। तथाहि विपर्याससंज्ञिनोऽसत्सत्त्वसमारोपाभिनिवेशवशादात्मात्मीयग्रहप्रवृत्तेरयोनिशोमनसिकारप्रसूतो रागादिक्लेशगणः समुपजायते, तस्मात् कर्म, ततो जन्म, ततश्च व्याधिजरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाश्च प्रजायन्ते। एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति। तदेवमनुलोमाकारं प्रतीत्यसमुत्पादं सम्यक्प्रज्ञया व्यवलोकयतः, पुनस्तमेव निरात्मकमस्वामिकं मायामरीचिगन्धर्वनगरस्वप्नप्रतिबिम्बादिसमानाकारतया परमार्थतो निःस्वभावं पश्यतो यथाभूतपरिज्ञानात्तद्विपक्षात्मकतया मोहस्वभावमविद्याभवाङ्गं निवर्तते, अविद्यानिरोधात्तत्प्रत्ययाः संस्कारा निरुध्यन्ते। एवं पूर्वपूर्वस्य कारणभूतस्य निरोधादुत्तरोत्तरकार्यभूतस्य निरोधो वेदितव्यः। यावज्जातिनिरोधाज्जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाश्च निरुध्यन्ते। एवमस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवति। तत्र अविद्या तृष्णोपादानं च क्लेशवर्त्मनो व्यवच्छेदः। संस्कारा भवश्च कर्मवर्त्मनो व्यवच्छेदः। परिशिष्टान्यङ्गानि दुःखवर्त्मनो व्यवच्छेदः। पूर्वान्तापरान्तनिरोधो निरोधवर्त्मनो व्यवच्छेदः। एवमेव त्रिवर्त्म निरात्मकम् आत्मात्मीयरहितं संभवति च संभवयोगेन, विभवति च विभवयोगेन, स्वभावान्नडकलापसदृश इति। एतच्च उत्तरत्र विस्तरेण युक्तयागमाभ्यां प्रतिपादयिष्यते॥



तदेवं प्रज्ञया स्वप्नमायादिस्वभावं संस्कृतं प्रत्यवेक्षमाणस्य सर्वधर्माणां निःस्वभावतया प्रतिपत्तेः परमार्थाधिगमात् सवासननिःशेषदोषराशिविनिवृत्तिर्भवतीति सर्वदुःखोपशमहेतुः प्रज्ञा उपपद्यते॥



यथा च युक्त्यागमाभ्यां विचारयतः अविपरीतवस्तुतत्त्वप्रविचयः समुपजायते, तदुपदर्शयितुं सत्यद्वयव्यवस्थामाह संवृतिरित्यादि-



संवृतिः परमार्थश्च सत्यद्वयमिदं मतम्।

बुद्धेरगोचरस्तत्त्वं बुद्धिः संवृतिरुच्यते॥२॥



संव्रियते आव्रियते यथाभूतपरिज्ञानं स्वभावावरणादावृतप्रकाशनाच्च अनयेति संवृतिः। अविद्या मोहो विपर्यास इति पर्यायाः। अविद्या हि असत्पदार्थस्वरूपारोपिका स्वभावदर्शनावरणात्मिका च सती संवृतिरुपपद्यते। यदुक्तमार्यशालिस्तम्बसूत्रे-



पुनरपरम्-तत्त्वेऽप्रतिपत्तिः मिथ्याप्रतिपत्तिः, अज्ञानमविद्या। इति। उक्तं च-

अभूतं ख्यापयत्यर्थं भूतमावृत्य वर्तते।

अविद्या जायमानैव कामलातङ्कवृत्तिवत्॥इति।



तदुपदर्शितं च प्रतीत्यसमुत्पन्नं वस्तुरूपं संवृतिरुच्यते। तदेव लोकसंवृतिसत्यमित्यमिधीयते लोकस्यैव संवृत्या तत् सत्यमिति कृत्वा। यदुक्तम्-



मोहः स्वभावावरणादि संवृतिः

सत्यं तया ख्याति यदेव कृत्रिमम्।

जगाद तत्संवृतिसत्यमित्यसौ

मुनिः पदार्थं कृतकं च संवृतिम्॥इति।

[म. अ. ६.२८]



सा च संवृतिर्द्विविधा लोकत एव, तथ्यसंवृतिर्मिथ्यासंवृतिश्चेति। तथा हि किंचित् प्रतीत्यजातं नीलादिकं वस्तुरूपमदोषवदिन्द्रियैरूपलब्धं लोकत एव सत्यम्, मायामरीचिप्रतिबिम्बाद्विषु प्रतीत्य समुपजातमपि दोषवदिन्द्रियोपलब्धं यथास्वं तीर्थिकसिद्धान्तपरिकल्पितं च लोकत एव मिथ्या। तदुक्तम्-



विनोपघातेन यदिन्द्रियाणां

षण्णामपि ग्राह्यमवैति लोकः।

सत्यं हि तल्लोकत एवं शेषं

विकल्पितं लोकत एव मिथ्या॥इति।

[म. अ. ६.२५]



एतत्तदुभयमपि सम्यग्दृशामार्याणां मृषा, परमार्थदशायां संवृतिसत्यालीकत्वात्। एतत् समनन्तरमेव उपपत्त्या प्रतिपादयिष्यामः। तस्मादविद्यावतां वस्तुस्वभावो न प्रतिभासते इति॥



परमः उत्तमः अर्थः परमार्थः, अकृत्रिमं वस्तुरूपम्, यदधिगमात् सर्वावृतिवासनानु संधिक्लेशप्रहाणं भवति। सर्वधर्माणां निःस्वभावता, शून्यता, तथता, भूतकोटिः, धर्मधातुरित्यादिपर्यायाः। सर्वस्य हि प्रतीत्यसमुत्पन्नस्य पदार्थस्य निःस्वभावता पारमार्थिकं रूपम्, यथाप्रतिभासं सांवृतस्यानुपपन्नत्वात्। तथा हि-न तावत् यथापरिदृश्यमानरूपेण सत्स्वभावो भावः, तस्य उत्तरकालमनवस्थानात्, स्वभावस्य च सर्वदा अनागन्तुकतया अविचलितरूपत्वात्। यो हि यस्य स्वभावः, स कथं कदाचिदपि निवर्तेत ? अन्यथा तस्य स्वभावताहानिप्रसङ्गान्निःस्वभावतैव स्यात्। नापि स उत्पद्यमानः सत्स्वभावरूपेण कुतश्चिदागच्छति, निरुध्यमानो वा क्वचित् संनिचयं गच्छति, अपि तु हेतुप्रत्ययसामग्रीं प्रतीत्य मायावदुत्पद्यते, तद्वैकल्यतो निरुध्यते च। हेतुप्रत्ययसामग्रीं प्रतीत्य जातस्य परायत्तात्मलाभस्यप्रतिबिम्बस्येव कुतः सत्स्वभावता ? न च कस्यचित् पदार्थस्य परमार्थतो हेतुप्रत्ययसामग्रीतः समुत्पत्तिः संभवति, तस्या अपि अपरसामग्रीजनितात्मतया परायत्तात्मलाभाया निःस्वभावत्वात्। एवमन्यस्याः पूर्वपूर्वायाः स्वस्वकारणसामग्रीजन्यतया निःस्वभावता द्रष्टव्या। इत्थं कारणानुरूपं कार्यमिच्छता कथं निःस्वभावात् सस्वभावस्योत्पत्तिरभ्युपेतव्या ? यद्वक्ष्यति-



मायया निर्मितं यच्च हेतुभिर्यच्च निर्मितम्।

आयाति तत्कुतः कुत्र याति चेति निरूप्यताम्॥

यदन्यसंनिधानेन दृष्टं न तदभावतः।

प्रतिबिम्बसमे तस्मिन् कृत्रिमे सत्यता कथम्॥इति।



उक्तं च-

यः प्रत्ययैर्जायति स ह्यजातो

न तस्य उत्पादु सभावतोऽस्ति।

यः प्रत्ययाधीनु स शून्य उक्तो

यः शून्यतां जानति सोऽप्रमत्तः॥इति।

[अनवतप्तह्रदापसंक्रमणसूत्रम्]

इति शून्येभ्य एव शून्या धर्माः प्रभवन्ति धर्मेभ्य इति॥



न च स्वपरोभयरूपहेतुनिबन्धनमहेतुनिबन्धनं वा भावस्य जन्म अतिपेशलमुपपद्यते। तथा हि आत्मस्वरूपं भावानां स्वजन्मनिमित्तं भवेत्, निष्पन्नमनिष्पन्नं वा भवेत्। न तावन्निष्पन्नस्य सतः स्वात्मनि कारणता, तस्य सर्वात्मना स्वयं निष्पन्नत्वात् क्व पुनरस्य व्यापारोऽस्तु ? उत्पाद्यस्य पुनरस्यानिष्पन्नस्यान्यस्य स्वभावस्याभावात्, एकस्य चास्य निरंशत्वात्। न च पश्चादुत्पद्यमानस्यापरस्य तत्स्वभावता युक्ता, तन्निष्पत्तावनिष्पन्नस्य तत्स्वभावत्वाभावात्। इति न स्वात्मनो निष्पन्नात् कस्यचिदुत्पत्तिरस्ति। न चापि स्वत‍उत्पत्तिपक्षे प्राङ्निष्पन्नं स्वरूपमितरेतराश्रयदोषसङ्गात् कस्यचित् संभवति। नापि तदनिष्पन्नस्वभावमाकाशकुशेशयसंकाशमशेषसामर्थ्यशून्यं स्वनिष्पत्तौ हेतुभावमुपगन्तुमर्हति, अन्यथा खरविषाणस्यापि स्वस्वभावजनकत्वप्रसङ्गात्॥



नापि परत इति पक्षः, आदित्यादपि अन्धकारस्य, सर्वस्माद्वा सर्वस्य उत्पत्तिप्रसङ्गात्, जनकाजनकाभिमतयोर्विवक्षितकार्यापेक्षया परत्वाविशेषात्। जन्यजनकैकत्वैकसंततिप्रतिनियमोऽपि अनुत्पन्ने कार्ये काल्पनिकतया वस्तुतो न संगच्छते। न च अनागतावस्थितधर्मापेक्षया कार्यादिव्यवहारो वास्तवः, अर्थस्वभावसद्भावस्य निरूपयिष्यमाणत्वात्। नापि बीजावस्थासु विद्यमानाङ्कुरापेक्षया बीजस्य परत्वमकाल्पनिकमस्ति, कारणे कार्यास्तित्वस्य निषेत्स्यमानत्वात्। यत्र परिदृश्यमानमेव रूपं विचारतो नावतिष्ठते, तत्र अनागतादिषु संभावितस्य का चिन्ता ?





नापि उभयत इति पक्षः, प्रत्येकपक्षोक्तसमुदितदोषप्रसङ्गात्, कार्यानुत्पतौ च उभयरूपस्य हेतोः परमार्थतोऽभावात्। उत्पत्तौ वा न किंचिज्जनयितव्यमस्तीति कुत्र उभयरूपस्य हेतोर्व्यापारः स्यात्?



नापि अहेतुत इति विकल्पः, यतो नायं प्रसज्यप्रतिषेधात्मतया अहेतुत इति युज्यते। अहेतुकत्वे हि भावानां देशकालनियमाभावप्रसङ्गः स्यात्, नित्यं सत्त्वासत्त्वप्रसङ्गो वा। उपेयार्थिनां प्रतिनियतोपायानुष्ठानं च न स्यात्। प्रधानेश्वरादीनां कारणस्य प्रतिषेत्स्यमानत्वात्। तन्न अहेतुतो भावाः स्वभावं प्रतिलभन्ते॥



तस्मान्न स्वपरोभयरूपहेतुभ्य उत्पद्यन्ते सत्स्वभावा भावाः। तदुक्तम्-



न स्वतो नापि परतो न द्वाभ्यां नाप्यहेतुतः।

उत्पन्ना जातु विद्यन्ते भावाः क्वचन केचन॥इति।

[म. शा.१.३]



एकानेकस्वभावविचारणयापि सर्वभावानां स्वभावविकलत्वान्न सत्स्वभावत्वम्। तस्मात् स्वप्नमायाप्रतिबिम्बादिवत् इदंप्रत्ययतामात्रमेव अविचारमनोहरमस्तु। किमिह सर्वदुःखहेतुना भावाभिनिवेशेन प्रयोजनम्? अतः इदमर्थस्य तत्त्वम्-

निःस्वभावा अमी भावास्तत्त्वतः स्वपरोदिताः।

एकानेकस्वभावेन वियोगात्प्रतिबिम्बवत्॥

[मध्यमकालंकारकारिका-१]



एवं निःस्वभावतैव सर्वभावानां निजं पारमार्थिकं रूपमवतिष्ठते। तदेव प्रधानपुरुषार्थतया परमार्थः उत्कृष्टं प्रयोजनमभिधीयते॥



अत्रापि नाभिनिवेष्टव्यम्। अन्यथा भावाभिनिवेशो वा शून्यताभिनिवेशो वेति न कश्चिद्विशेषः, उभयोरपि कल्पनात्मकतया सांवृतत्वात्। न च अभावस्य कल्पितस्वभावतया किंचित् स्वरूपमस्ति। न च भावनिवृत्तिरूपोऽभावः, निवृत्तेर्निःस्वभावत्वात्। यदि च भावस्यैव कश्चित् स्वभावः स्यात्, तदा तत्प्रतिषेधात्मा अभावोऽपि स्यात्। भावस्य तु स्वभावो नास्तीति प्रतिपादितमेव। अतो न भावनिवृत्तिरूपः अभावो नाम कश्चित्। न च भावाभावयोरुक्तक्रमेण असत्त्वे प्रतिपादिते तदुभयसंकीर्णात्मता संभवति उभयप्रतिषेधस्वभावता वा, भावविकल्पस्यैव सकलविकल्पनिबन्धनत्वात्। तस्मिन्निराकृते सर्व एव अमी एकप्रहारेण निरस्ता भवन्तीति। तस्मात्-



न सन्नासन्न सदसन्न चाप्यनुभयात्मकम्।

किंचिदभिनिवेशविषयतया मन्तव्यम्। तदुक्तमार्यप्रज्ञापारमितायाम्-



सुभूतिराह-इहायुष्मन् शारद्वतीपुत्र बोधिसत्त्वयानिकः कुलपुत्रो वा कुलदुहिता वा अनुपायकुशलो रूपं शून्यमिति प्रजानाति, सङ्गः। वेदनां शून्यामिति संजानाति, सङ्गः। संज्ञां शून्यामिति संजानाति, सङ्गः। संस्कारान् शून्यानिति संजानाति, सङ्गः। विज्ञानं शून्यमिति संजानाति, सङ्गः। एवं चक्षुः श्रोत्रं घ्राणं जिव्हा कायो मनः, यावत् सर्वधर्मशून्यतां शून्यामिति संजानाति, सङ्गः। इति विस्तरः॥



उक्तं च-

सर्वसंकल्पहानाय शून्यतामृतदेशना।

यस्य(यश्च) तस्यामपि ग्राहस्त्वयासाववसादितः॥इति।

[चतुःस्तव-निरुपम-२१]

न सन्नासन्न सदसन्न चाप्यनुभयात्मकम्।

चतुष्कोटिविनिर्मुक्तं तत्त्वं माध्यमिका विदुः॥इति।



एवं चतुष्कोटिविनिर्मुक्तमादिशान्तमनुत्पन्नानिरुद्धानुच्छेदाशाश्वतादिस्वभावतया निष्प्रपञ्चत्वादाकाशवदासङ्गानामनास्पदमशेषं विश्वमुत्पश्याम इति॥



सत्यद्वयमिदं मतमिति। किं तत् ? संवृतिः परमार्थश्चेति पश्चाद्योजनीयम्। भूतमियं ब्राह्मणी, आवपनमियं मुष्टिकेति यथा। संवृतिरेकं सत्यमविपरीतम्, परमार्थश्च अपरं सत्यमिति। चकारः सत्यतामात्रेण तुल्यबलतां समुच्चिनोति। तत्र संवृतिसत्यमवितथं रूपं लोकस्य, परमार्थसत्यं च सत्यमविसंवादकं तत्त्वमार्याणामिति विशेषः। इत्थं विशेषोपदर्शनार्थोऽपि युक्तश्चकारः॥



एतदुक्तं भवति-सर्व एव अमी आध्यात्मिका बाह्याश्च भावाः स्वभावद्वयमाबिभ्रतः समुपजायन्ते यदुत सांवृतं पारमार्थिकं च। तत्रैकमविद्यातिमिरावृतबुद्धिलोचनानामभूतार्थदर्शिनां पृथग्जनानां मृषादर्शनविषयतया समादर्शितात्मसत्ताकम्। अन्यत् प्रविचयाञ्जनशलाकोद्धातिताविद्यापटलसम्यग्ज्ञाननयनानां तत्त्वविदामार्याणां सम्यग्दर्शनविषयतया उपस्थितस्वरूपम्। तदेतत् स्वभावद्वयं सर्वे पदार्था धारयन्ति। अनयोश्च स्वभावयोर्मृषादृशां बालिशानां यो विषयः, तत् संवृतिसत्यम्। यश्च सम्यग्दृशामधिगततत्त्वानां विषयः, तत् परमार्थसत्यमिति व्यवस्था शास्त्रविदाम्। यदाह-



सम्यग्मृषादर्शनलब्धभावं

रूपद्वयं बिभ्रति सर्वभावाः।

सम्यग्दृशां यो विषयः स तत्त्वं

मृषादृशां संवृतिसत्यमुक्तम्॥इति॥

[म. अ.६.२३]



इति द्वयोः समुदायो द्वयमिति युज्यते। मतमिति संमतमभिमतम्। केषाम् ? प्रहीणावरणधियां बुद्धानां भगवताम्, तन्मार्गानुयायिनामार्यश्रावकप्रत्येकबुद्धबोधिसत्त्वानां च। इदमेव सत्यद्वयं नान्यत् सत्यमस्तीति अवधारणार्थोऽपि युज्यते चकारः। तदुक्तम्-

द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना।

लोकसंवृतिसत्यं च सत्यं च परमार्थतः॥इति।

[म. शा.-२४.८]



पितापुत्रसमागमे चोक्तम्-

सत्य इमे दुवि लोकविदूनां

दिष्ट स्वयं अश्रुणित्व परेषाम्।

संवृति या च तथा परमार्थो

सत्यु न सिध्यति किं च तृतीयु॥इति।



ननु चत्वारि आर्यसत्यानि दुःखसमुदयनिरोधमार्गलक्षणानि अभिधर्मे कथितानि भगवता, तत् कथं द्वे एव सत्ये इति ? सत्यम्, किं तर्हि वैनेयजनाशयानुशयवशादेते द्वे एव चत्वारि कृत्वा कथितानि (कथिते ?), अमीषां द्वयोरेवान्तर्भावात्। तथा हि दुःखसमुदयमार्गसत्यानि संवृतिस्वभावतया संवृतिसत्येऽन्तर्भवन्ति, निरोधसत्यं तु परमार्थसत्ये, इति न कश्चिद्विरोधः॥



स्यादेतत्-संवृतिरविद्योपदर्शितात्मतया अभूतसमारोपस्वरूपत्वाद्विचारात् शतशो विशीर्यमाणापि कथं सत्यमिति। एतदपि सत्यम्। किं तु लोकाध्यवसायतः संवृतिसत्यमित्युच्यते। लोक एव हि संवृतिसत्यमिह प्रतिपन्नः। तदनुवृत्त्या भगवद्भिरपि तथैव अनपेक्षिततत्त्वार्थिभिः संवृतिसत्यमुच्यते। अत एव लोकसंवृतिसत्यं चेति शास्त्रेऽपि विशेष उक्त आचार्यपादैः। वस्तुतस्तु परमार्थ एव एकं सत्यम्, अतो न काचित् क्षतिरिति। यथोक्तं भगवता-



एकमेव भिक्षवः परमं सत्यं यदुत अप्रमोषधर्म निर्वाणम्, सर्वसंस्काराश्च मृषा मोषधर्माणः॥इति॥



सत्यद्वयमिदमुक्तम्। तत्र अविद्योपप्लुतचेतसां तत्स्वभावतया संवृतिसत्यमिति प्रतीतम्। परमार्थसत्यं तु न ज्ञायते कीदृक् किंस्वभावं किंलक्षणमिति। अतो वक्तव्यं तत्स्वरूपमित्याह बुद्धेरगोचरस्तत्त्वमिति। बुद्धेः सर्वज्ञानानाम्, समतिक्रान्तसर्वज्ञानविषयत्वादगोचरः अविषयः। केनचित् प्रकारेण तत् सर्वबुद्धिविषयीकर्तुं न शक्यते इति यावत्। इति कथं तत्स्वरूपं प्रतिपादयितुं शक्यम् ? तथा हि सर्वप्रपञ्चविनिर्मुक्तस्वभावं परमार्थसत्यतत्त्वम्, अतः सर्वोपाधिशून्यत्वात् कथं कयाचित् कल्पनया पश्येत् ? कल्पनासमतिक्रान्तस्वरूपं च शब्दानामविषयः। विकल्पजन्मानो हि शब्दा विकल्पधियामविषये न प्रवर्तितुमुत्सहन्ते। तस्मात् सकलविकल्पाभिलापविकलत्वादनारोपितमसांवृतमनभिलाप्यं परमार्थतत्त्वं कथमिव प्रतिपादयितुं शक्यते ? तथापि भाजनश्रोतृजनानुग्रहार्थं परिकल्पमुपादाय संवृत्या निदर्शनोपदर्शनेन किंचिदभिधीयते॥



यथा तिमिरप्रभावात् तैमिरिकः सर्वमाकाशदेशं केशोण्डुकमण्डितमितस्ततो मुखं विक्षिपन्नपि पश्यति। तथा कुर्वन्तमवेक्ष्य अतैमिरिकः किमयं करोतीति तत्समीपमुपसृत्य तदुपलब्धकेशप्रणिहितलोचनोऽपि न केशाकृतिमुपलभते, नापि तत्केशाधिकरणान् भावाभावादिविशेषान् परिकल्पयति। यदा पुनरसौ तैमिरिकः अतैमिरिकाय स्वाभिप्रायं प्रकाशयति-केशानिह पश्यामीति, तदा तद्विकल्पापसारणाय तस्मै यथाभूतमसौ ब्रवीति-नात्र केशाः सन्तीति। तैमिरिकोपलब्धानुरोधेन प्रतिषेधपरमेव वचनमाह। न च तेन तथा प्रतिपादयतापि कस्यचित् प्रतिषेधः कृतो भवति विधानं वा। तच्च केशानां तत्त्वं यदतैमिरिकः पश्यति, तन्न तैमिरिकः॥



एवमविद्यातिमिरोपघातादतत्त्वदृशो बालाः यदेतत् स्कन्धधात्वायतनादिस्वरूपमुपलभन्ते, तदेषां सांवृतं रूपम्। तानेव स्कन्धादीन् येन स्वभावेन निरस्तसमस्ताविद्यावासना बुद्धा भगवन्तः पश्यन्ति अतैमिरिकोपलब्धकेशदर्शनन्यायेन, तदेषां परमार्थसत्यमिति। यदाह शास्त्रवित्-



विकल्पितं यत्तिमिरप्रभावात्

केशादिरूपं वितथं तदेव।

येनात्मना पश्यति शुद्धदृष्टि-

स्तत्तत्त्वमित्येवमिहाप्यवेहि॥इति।



इति परमार्थतोऽवाच्यमपि परमार्थतत्त्वं दृष्टान्तद्वारेण संवृतिमुपादाय कथंचित् कथितम्। न तु तदशेषसांवृतव्यवहारविरहितस्वभावं वस्तुतो वक्तुं शक्यते इति।

यदुक्तम्-

अनक्षरस्य धर्मस्य श्रुतिः का देशना च का।

श्रूयते देश्यते चार्थः समारोपादनक्षरः॥इति।



तस्माद्वयवहारसत्ये एव स्थित्वा परमार्थो देश्यते। परमार्थदेशनावगमाच्च परमार्थाधिगमो भवति, तस्यास्तदुपायत्वात्। यदुक्तं शास्त्रे-

व्यवहारमनागम्य परमार्थो न देश्यते।

परमार्थमनागम्य निर्वाणं नाधिगम्यते॥इति।

[म. शा.-२४.१०]



एवं परमार्थदेशनोपायभूता संवृतिः, परमार्थाधिगमश्च उपेयभूत इति। अन्यथा तस्य देशयितुमशक्यत्वात्। ननु च तथाविधमपि तथाविधबुद्धिविषयः परमार्थतः किं न भवतीत्यत्राह-बुद्धिः संवृतिरुच्यते इति। सर्वा हि बुद्धिः आलम्बननिरालम्बनतया विकल्पस्वभावा, विकल्पश्च सर्व एव अविद्यास्वभावः, अवस्तुग्राहित्वात्। यदाह-

विकल्पः स्वयमेवायमविद्यारूपतां गतः। इति



अविद्या च संवृतिः। इति नैव काचिद् बुद्धिः पारमार्थिकरूपग्राहिणी परमार्थतो युज्यते। अन्यथा सांवृतबुद्धिग्राह्यतया परमार्थरूपतैव तस्य हीयेत, परमार्थस्य वस्तुतः सांवृतज्ञानाविषयत्वात्। तत्र चेदमुक्तं भगवता आर्यसत्यद्वयावतारे-



यदि हि देवपुत्र परमार्थतः परमार्थसत्यं कायवाङ्यनसां विषयतामुपगच्छेत्, न तत् परमार्थसत्यमिति संख्यां गच्छेत्, संवृतिसत्यमेव तद्भवेत्। अपि तु देवपुत्र परमार्थसत्यं सर्वव्यवहारसमतिक्रान्तम्, निर्विशेषम्, असमुत्पन्नमनिरुद्धम्, अभिधेयाभिधानज्ञेयज्ञानविगतम्, यावत् सर्वाकारवरोपेतसर्वज्ञज्ञानविषयभावसमतिक्रान्तं परमार्थसत्यमिति विस्तरः॥



अत एव तदविषयः सर्वकल्पनानां यद्भावाभावस्वपरभावसत्यासत्यशाश्वतोच्छेदनित्यानित्यसुखदुःखशुच्यशुच्यात्मानात्मशून्याशून्यलक्ष्यलक्षणैकत्वान्यत्वोत्पादनिरोधादयो विशेषास्तत्त्वस्य न संभवन्ति, अमीषां सांवृतधर्मत्वात्। एतदुक्तं भगवता पितापुत्रसमागमे-



एतावच्चैव ज्ञेयम्-यदुत संवृतिः परमार्थश्च। तच्च भगवता शून्यतः सुदृष्टं सुविदितं सुसाक्षात्कृतम्। तेन सर्वज्ञ इत्युच्यते। तत्र संवृतिर्लोकप्रचारतस्तथागतेन दृष्टा। यः पुनः परमार्थः, सोऽनभिलाप्यः, अनाज्ञेयः, अपरिज्ञेयः, अविज्ञेयः, अदेशितः, अप्रकाशितः, यावदक्रियः, अकरणः, यावन्न लाभो नालभो न सुखं न दुःखं न यशो नायशो न रूपं नारूपमित्यादि॥



इति प्रत्यस्तमितसमस्तसांवृतवस्तुविशेषमशेषोपाधिविविक्तमुक्तमनन्तवस्तुविस्तरव्यापिज्ञानालोकावभासितान्तरात्मना भगवता परमार्थसत्यमिति। तदेतदार्याणामेव स्वसंविदित स्वभावतया प्रत्यात्मवेद्यम्। अतस्तदेवात्र प्रमाणम्। संवृतिसत्यं तु लोकव्यवहारमाश्रित्य प्रकाशितम्। तदेवं यथावद्विभागतः सत्यद्वयपरिज्ञानादविपरीतो धर्मप्रविचय उपजायते॥



एवं संवृतिपरमार्थभेदेन द्विविधं सत्यं व्यवस्थाप्य तदधिकृतश्च लोकोऽपि द्विविध एवेत्युपदर्शयन्नाह-तत्र लोके इत्यादि-

तत्र लोको द्विधा दृष्टो योगी प्राकृतकस्तथा।

तत्र प्राकृतको लोको योगिलोकेन बाध्यते॥३॥



तत्र तयोः संवृत्तिपरमार्थसत्ययोरधिकृतः व्यवस्थितः। तत्सत्यप्रतिपत्तेति यावत्। लोको जनः। द्विधा द्विप्रकारः संवृतिपरमार्थसत्यवेदी। लोक इति समुदायवचनम्, तेन राशिद्वयमित्यर्थः। दृष्ट इति प्रतिपन्नः, युक्तेरागमाच्च। कथं कृत्वा द्विधेत्याह-योगी प्राकृतकस्तथेति। योगः समाधिः सर्वधर्मानुपलम्भलक्षणः, सोऽस्यास्तीति योगी लोक इत्येकः प्रकारो राशिः। तथा प्रकृतिः संसारप्रवृत्तेः कारणमविद्या तृष्णा, तस्या जात इति प्राकृतः। प्राकृत एव प्राकृतको लोक इति द्वितीयः। तत्र योगी प्रधानतत्त्वमविपरीतं पश्यति, प्राकृतकश्च विपर्यस्तं वस्तुतत्त्वं पश्यति भ्रान्तत्वात्॥



स्यादेतत्-उभयोरपि यथास्वं तत्त्वदर्शित्वात् कतरः पुनरनयोर्भ्रान्तिमानस्तु य एवान्यतरेण बाध्यते ? कः पुनरनयोः केन बाध्यत इत्याह-तत्रेत्यादि। तत्रेति सप्तम्या समुदायनिर्देशः, निर्धारणे च सप्तमी। तत्र तयोर्योगिप्राकृतकयोर्लोकयोर्मध्ये प्राकृतको लोकः प्राकृतकत्वजात्या समुदायान्निर्धार्यते, निर्धार्य च बाध्यते, इति बाधनं विधीयते। केनेत्यपेक्षायामाह-योगिलोकेनेति। योगी एव लोकः योगिलोकः, तेन बाध्यते इति विपर्यस्तमतिर्व्यवस्थाप्यते। कथम् ? धीविशेषेणेति योजनीयम्। न तु योगी प्राकृतकेन बाध्यते॥



इदमिहाभिमतम्-यथा विभ्रमाहितसद्भावं तिमिरोपहतचक्षुषः असद्भूतकेशोण्डुकादिदर्शिनो ज्ञानं यथावस्थितवस्तुतत्त्वग्राहिणोऽतैमिरिकज्ञानेन बाध्यते, न तथा तैमिरिकज्ञानेन अतैमिरिकज्ञानं बाध्यते, एवमविद्यामलतिमिरदूषितबुद्धिचक्षुषो विपरीतवस्तुस्वरूपग्राहिणः प्राकृतकस्य ज्ञानं प्रज्ञासलिलक्षालितविगतमलानास्रवज्ञानचक्षुषः भावनिजतत्त्ववेदिनः योगिलोकस्य ज्ञानेन बाध्यते, न पुनरितरज्ञानेन योगिज्ञानमिति। तथा चोक्तम्-



न बाधते ज्ञानमतैमिराणां

यथोपलब्धं तिमिरेक्षणानाम्।

तथामलज्ञानतिरस्कृतानां

धियास्ति बाधा न धियोऽमलायाः॥इति॥

[म. अ.-६. २७]

तस्मात् प्राकृतकज्ञानमेव भ्रान्तमिति बाध्यते॥



अथ किं प्राकृता एव बाध्यन्ते योगिभिः, उत योगिनोऽपीत्याह-बाध्यन्त इत्यादि-

बाध्यन्ते धीविशेषेण योगिनोऽप्युत्तरोत्तरैः।



योगिनोऽपि योगिभिरपरापरैर्बाध्यन्ते। न केवलं प्राकृतका इत्यपिशब्दार्थः। किंभूतैः ? उत्तरोत्तरैः। उत्तरे च उत्तरे च उत्तरोत्तराः, तैः। तारतम्यभेदावस्थितगुणविशेषप्रतिलम्भोत्कर्षप्राप्तैः। अधिकाधिकैरित्यर्थः। तदपेक्षया अपचितगुणा अधराधरे बाध्यन्ते, ज्ञानमाहात्म्यादिभिरभिभूयन्ते। कथम् ? धीविशेषेणेति। धियो ज्ञानस्य प्रज्ञाया विशेषः तत्तदावरणविगमात् प्रकर्षः, तेन। उपलक्षणं चैतत्। ध्यानसमाधिसमापत्त्यादिविशेषेणापि। तथा हि-प्रमुदिताख्यप्रथमभूमिलाभिनो बोधिसत्त्वस्य ज्ञानादिगुणापेक्षया तदुत्तरविमलाभिधानद्वितीयभूमिलाभिनो बोधिसत्त्वस्य ज्ञानप्रभावादयो गुणा विशिष्यन्ते। एवमन्येषामपि उत्तरोत्तरभूमिलाभिनां वेदितव्यम्। तथा प्रथमध्यानादिलाभिनामपि उत्तरोत्तरैर्बाधनं योजनीम्, यावत् सास्रवाणामनास्रवैरिति॥



स्यादेतत्-सत्यपि योगिनां धियो विशेषे प्राकृतज्ञानं भ्रान्तमिति कथमवगमयितुं शक्यत इत्याह दृष्टान्तेनोभयेष्टेनेति-

दृष्टान्तेनोभयेष्टेन कार्यार्थमविचारतः॥४॥



उभयेषां योगिप्राकृतकानामिष्टः अभिमतः, तेन दृष्टान्तेन निदर्शनेन। य एष सूत्रेषु भगवता मायामरीचिगन्धर्वनगरप्रतिबिम्बादिरुक्तो दृष्टान्तः, स च उभयेषामपि निःस्वभावतया प्रसिद्धः। तत्साधर्म्येण सर्वधर्माणां निःस्वभावत्वप्रतिपादनात्। तथा हि -ये तावत् सर्वजनप्रतिपन्नस्वरूपा रूपादयः, ते योगिनामेव परमार्थसत्याधिगमान्निःस्वभावतया सिद्धाः। ये पुनरिमे स्वप्नमायादिषु उपलब्धाः, ते प्राकृतकानामपि। अतस्तत्र उभयोरपि विप्रतिपत्तेरभावात् दृष्टान्तधर्मता न विहन्यते। येषां तु मीमांसकादीनां देशकालान्यथात्मकं वस्तु एव तत्तथा प्रतिभासते इति मतम्, तेऽन्यत्र निराकृता इति न तन्मतमिह निरस्यते। ये तु स्वयूथ्याः चित्तमेव वस्तुसत् स्वप्नादिषु तथा प्रतिभासते इति मन्यन्ते, तेऽपि यथावसरमग्रतः[९.१७-१८] स्वसंवेदननिराकरणान्निराकरिष्यन्ते। युक्तिसिद्धमपि उभयसिद्धमेव। अतस्तेन दृष्टान्तेन विपरीतवस्तुस्वरूपग्राहितया प्राकृतकज्ञानं भ्रान्तमिति व्यवस्थाप्यते। एवं योगिनामपि यथासंभवं वक्तव्यम्॥



ननु यदि निःस्वभावाः सर्वभावा इति वस्तुतत्त्वम्, कथं तर्हि सर्वसत्त्वसमुद्धरणाशयेन दानादिषु संभारपरिपूरणार्थं तत्त्ववेदिनामपि बोधिसत्त्वानां प्रवृत्तिः? तेषामपि निःस्वभावत्वात्, इत्यत आह-कार्यार्थमविचारतः इति। कार्यं साध्यम्, उपादेयम्। फलमुच्यते। तदर्थं तन्निमित्तम्। अविचारतः अविचारेणैव तद्धेतौ प्रवर्तनात्। तथाभूतेष्वपि तत्र इदंप्रत्ययतानियमस्य विद्यमानत्वात् न हेतुफलभावस्य विरोधः। एतदुक्तं भवति-यद्यपि मायादिस्वभावतया निःस्वभावा दानादयः, तथापि त्रिकोटिपरिशुद्ध्या सादरादियोगेन अभ्यस्यमानाः तथाभूता अपि परमार्थाधिगमाय हेतुभावमापद्यन्ते, तेषां तदुपायत्वात्, प्रतीत्यसमुत्पादस्य च अचिन्त्यत्वात्। एतादृशादेव हेतोरेतादृशं फलमधिगम्यते, तस्य तदुपेयत्वात्। तदुक्तम्-



उपायभूतं व्यवहारसत्य-

मुपेयभूतं परमार्थसत्यम्।इति।

[म. अ.-६.८०]



अवश्यं चैतदेवम्। अन्यथा मार्गाभ्यासतः समलावस्थाया निर्मलावस्था, सविकल्पावस्थाया निर्विकल्पावस्था कथमुत्पद्येत ? तस्याः परमार्थतस्तत्स्वभावत्वात्। अन्यत्रापि समानमेतत्। सर्वधर्माणां परमार्थतो निःस्वभावत्वात् हेत्वनुरूपं च सर्वत्र फलमिष्यते। अतः सांवृतादपि निःस्वभावाद्धेतोः निःस्वभावताधिगम एव फलम्, कथमन्यथा संस्कृतादपि मार्गादंसंस्कृतं निर्वाणमवाप्येत ? इति दानादयो वस्तुतो निःस्वभावा अपि परमार्थतत्त्वाधिगमाय सर्वसत्त्वेषु करुणायमानैर्बोधिसत्त्वैरुपादीयन्ते, अन्यथा परमार्थाधिगमायोगात्। ततो दानादिषु प्रवृत्तिरनिवारिता। एवमिष्टानिष्टफलप्राप्तिपरिहारार्थिनां कुशलाकुशलयोः प्रवृत्तिनिवृत्ती वक्तव्ये। एतत् पुनः पश्चाद्वयक्तीकरिष्यते॥



स्यादेतत्-यदेतन्मायादिसमानस्वभावं वस्तुरूपं योगिनः प्रतिपद्यन्ते, तदेव यदि प्राकृतकोऽपि जनः प्रतिपद्यते, क्व तर्हि विप्रतिपत्तिरस्तीत्याह लोकेनेत्यादि-



लोकेन भावा दृश्यन्ते कल्प्यन्ते चापि तत्त्वतः।

न तु मायावदित्यत्र विवादो योगिलोकयोः॥५॥



लोकेन प्राकृतकजनेन। हेतुप्रत्ययं प्रतीत्य भवन्ति स्वरूपं लभन्ते इति भावाः। न पुनः पारमार्थिकं रूपं निजमेषामस्ति, इति भावशब्देन निःस्वभावताभिधानं प्रतीयते। सत्स्वरूपेण न केवलं दृश्यन्ते कल्प्यन्ते चापि तत्त्वतः। यथाप्रतीतस्वभावेनैव परमार्थतोऽध्यवसीयन्ते। अभिनिविश्यन्ते इति यावत्। यदेतदस्मत्प्रतीतिगोचरो वस्तुरूपम्, तद्वास्तवमेवे त्यभिमननात्। न तु मायावत्, न तु पुनर्यथा योगिना मायेव मायावत् स्वभावशून्या दृश्यन्ते, परमार्थतस्तथा प्रतीयन्ते, इत्यत्रास्मिन् विवादो विप्रतिपत्तिर्योगिलोकयोः योगिना सह लोकस्येत्यर्थः। तत्प्रतिपन्ने वस्तुत्तत्त्वे लोकस्याप्रतिपत्तेः लोकेन सह वा योगिनः, तत्प्रतिपन्ने योगिना यथार्थताप्रतिषेधात्। अयमभिप्रायः-सर्वभावानां सांवृतं पारमार्थिकं चेति रूपद्वयमस्ति, तत्र यत् सांवृतं तदेव लोकेन प्रतीयते, यत्तु पारमार्थिकं तद् योगिनेत्युक्तम्। यथा मायाकारनिर्मितहस्त्यादिरूपमेव मन्त्रादिसामर्थ्यविभ्रमितलोचनो जनः पश्यति, माया कारस्तु तत्स्वभावादि निजं तत्स्वरूपम्, एवं योगिलोकयोरपि यथायोगं प्रतिपत्तव्यम्॥



अथापि स्यात्-यदेतत् समस्तजनसाधारणमर्थक्रियाक्षमं प्रत्यक्षप्रमाणप्रतीतं वस्तुरूपम्, तत् कथमपह्रोतुं शक्यत इति परस्य हृदयमाशङ्कयाह प्रत्यक्षमपीत्यादि-

प्रत्यक्षमपि रूपादि प्रसिद्धया न प्रमाणतः।



यदपि च प्रत्यक्षमभिधीयते रूपादि। आदिशब्देन शब्दादि वेदनादि गृह्यते। तदपि प्रसिद्धया रूढ्या लोकप्रवादेन न प्रमाणतः। न प्रमाणेनाधिगतं सत् प्रत्यक्षं रूपादीति संबन्धः। सांव्यवहारिकप्रमाणत्वात् प्रत्यक्षादीनाम्, तदधिगतं सांवृतमेव रूपादि। न च लौकिकप्रमाणसमधिगम्यं तात्त्विकं रूपम्, सर्वजनानां तत्त्ववेदित्वप्रसङ्गात्। यदाह-



इन्द्रियैरुपलब्धं यत्तत्तत्त्वेन भवेद्यदि।

जातास्तत्त्वविदो बालास्तत्त्वज्ञानेन किं तदा॥इति।

[चतुः ३.१८]



तस्मात् प्रत्यक्षमपि न प्रमाणेनाधिगतम्॥



रूपादि तत्त्वं प्रत्यक्षमपि यदि न प्रमाणाधिगतम्, कथं तत्प्रसिद्धिः ? प्रसिद्धिश्चेत् कथं मृषेत्यत्राह अशुच्यादिष्वित्यादि-

अशुच्यादिषु शुच्यादिप्रसिद्धिरिव सा मृषा॥६॥



यथा च परमार्थतोऽशुचिनि स्त्रीकलेवरादौ तदासक्तिविपर्यस्तचेतसां शुचिबुद्धिरुपजायते। आदिशब्दादनित्यादौ नित्यादिबुद्धिर्गृह्यते। सा च अतस्मिंस्तद्गहान्मृषा। वितथग्राहिणीत्यर्थः। तद्वदियं रूपादावपीत्यविशेषः॥



यदि न प्रत्यक्षप्रमाणात् तत्सिद्धिः, आगमात्तर्हि भविष्यति। तथा हि स्कन्धधात्वायतनादिस्वभावतया भगवता भावाः सूत्रे देशिताः, क्षणिकादिस्वभावतया च। तत्रेदमुक्तं भगवता-



सर्वं सर्वमिति ब्राह्मण यावदेव पञ्च स्कन्धाः, द्वादशायतनानि, अष्टादशः धातवः। इति।

तथा-

क्षणिकाः सर्वसंस्कारा अस्थिराणां कुतः क्रिया।

भूतिर्यैषां क्रिया सैव कारकं सैव चोच्यते॥इति॥



न च मायादिस्वभावानां क्षणिकाक्षणिकादिधर्मताप्रतिपादनमुचितम्, निःस्वभावानां कस्यचित् स्वभावस्याभावात्। तत्कथममी न परमार्थसन्त इत्यत्राह लोकावतारणेत्यादि-



लोकावतारणार्थं च भावा नाथेन देशिताः।

तत्त्वतः क्षणिका नैते संवृत्या चेद्विरुध्यते॥७॥



लोकानां भावाभिनिवेशिनां स्कन्धादिदेशनावैनेयानां सत्त्वानामापाततः शून्यतादेशनानधिकृतानां शून्यतायामवतारणार्थं सुकुमारोपक्रमेण प्रवर्तनाय। चो हेतौ। यस्माद्भावाः स्कन्धायतनादिलक्षणाः, वस्तुतो निःस्वभावत्वेऽपि सर्वधर्माणाम्, नाथेन नरकादिदुःखात् सत्त्वान् परित्रायमाणेन अभ्युदयनिःश्रेयससुखं प्रापयता सत्त्वाशयादिवेदिना बुद्धेन भगवता देशिताः प्रकाशिताः, न तु परमार्थतः। तस्मान्न सूत्रविरोधः। तदुक्तम्-

ममेत्यहमिति प्रोक्तं यथा कार्यवशाज्जिनैः।

तथा कार्यवशात्प्रोक्ताः स्कन्धायतनधातवः॥इति।

[युक्तिषष्टिका]



यदि न परमार्थतो देशिताः, कथं तर्हि ते क्षणिका इत्याह-तत्त्वतः क्षणिका नैते इति। तत्त्वतः परमार्थतः निःस्वभावत्वात् क्षणिका अपि न भवन्ति एते इमे भावाः। क्शणिकादिदेशना वैनेयानां तत्स्वभावताप्रकाशनात्। यदि न तत्त्वतः क्षणिकाः, कथं तर्हि देशनायामपि कथिता इति मनसि निधाय [आह] संवृत्या चेत् [इति]-यदि संवृत्या क्षणिका अभिधीयन्त इत्युच्यते, इत्युत्तरमाशङ्कय दूषयति, तदा विरुध्यते, संवृत्या क्षणिका न परमार्थतः इति विरुध्यते न संगच्छते। अक्षणिकतया प्रतीतेः प्रतीतिविरोधः, सांव्यवहारिभिरक्षणिकत्वप्रतीतेः न क्षणिकत्वं सांवृतं रूपमिति यावत्॥



एतत् सिद्धान्तवादी परिहरति न दोषो योगिसंवृत्येति-

न दोषो योगिसंवृत्या लोकात्ते तत्त्वदर्शिनः।

अन्यथा लोकबाधा स्यादशुचिस्त्रीनिरूपणे॥८॥



नायं प्रतीतिविरोधलक्षणो दोषः। कुतः ? योगिनां पुद्गलनैरात्म्यसमाधिलाभिनां या संवृतिर्व्यवहारः, तया क्षणिकतया प्रतीतेः। अयमभिप्रायः-यदि नाम अर्वाग्दर्शनैः क्षणिकत्वं न प्रतीयते, तथापि योगिव्यवहारगोचरः। योगिव्यवहारोऽपि संवृतिरूपतां न जहाति, बुद्धिः संवृतिरूच्यते [९.२] इति वचनात्। न च प्रतीतिबाधितं बाधितमेव, तथाविधायाः प्रतीतेरप्रमाणत्वात्॥



कुतः पुनरेतत् सांवृतमपि क्षणिकत्वादि योगिन एव पश्यन्ति नार्वाग्दर्शिन इत्याह-लोकात्ते तत्त्वदर्शिन इति। लोकादर्वाचीनदर्शनात् सकाशात् ते योगिनस्तत्त्वदर्शिनः अतीन्द्रियदर्शिनः। हेतुपदमेतत्। यस्मात् तत्त्वदर्शिनस्ते, तस्मात् क्षणिकत्वनैरात्म्यादि लोकाप्रतीतमपि प्रतिपद्यन्ते। अत एव न तेषां लोकप्रतीतिबाधा॥



अवश्यं चैतदङ्गीकर्तव्यमित्याह-अन्यथेत्यादि। अन्यथा यदि चैवं न स्वीक्रियते, तदा भवदभ्युपगतेऽपि लोकबाधा स्यात्। कुत्र ? अशुचिस्त्रीनिरूपणे इति। अशुचिभावनासमये अशुचीति स्त्रियाः कामिन्या निरूपणे विभावनायां लोकबाधा स्यात्, लोकप्रतीतेन विरोधो भवेत्, लोकेन शुचिस्वभावतया स्त्रीशरीरस्याध्यवसानात्। तस्मान्न लोकप्रतीतेन योगिदर्शनबाधेति। अत्र-

यथोपलब्धं तिमिरेक्षणानम्

इत्यादिना उपचयहेतुत्वेन योजनीयम्। इति नागमादपि भावानां परमार्थतः सिद्धिरस्ति। तस्मान्मायास्वप्नादिस्वभावाः सर्वधर्मा इति निश्चितमेतत्॥



स्यादेतत्-यदि सर्वव्यापिनी मायोपमस्वभावता, बुद्धोऽपि तर्हि मायोपमः स्वप्नोपमः स्यात्। उक्तं चैतद् भगवत्याम्-



एवमुक्ते सुभूतिस्तान् देवपुत्रानेतदवोचत्-मायोपमास्ते देवपुत्राः सत्त्वाः। स्वप्नोपमास्ते देवपुत्राः सत्त्वाः। इति हि माया च सत्त्वाश्च अद्वयमेतदद्वैधीकारम्। सर्वधर्मा अपि देवपुत्रा मायोपमाः स्वप्नोपमाः। स्त्रोतआपन्नोऽपि मायोपमः स्वप्नोपमः। स्त्रोतआपत्तिफलमपि मायोपमं स्वप्नोपमम्। एवं सकृदागाम्यपि सकृदागामिफलमपि। अनागाम्यपि अनागामिफलमपि। अर्हन्नपि अर्हत्त्वमपि मायोपमं स्वप्नोपमम्। प्रत्येकबुद्धोऽपि मायोपमः स्वप्नोपमः। प्रत्येकबुद्धत्वमपि मायोपमं स्वप्नोपमम्। सम्यक्संबुद्धोऽपि मायोपमः स्वप्नोपमः। सम्यक्संबुद्धत्वमपि मायोपमं स्वप्नोपमम्। यावत् निर्वाणमपि मायोपमं स्वप्नोपमम्। सचेन्निर्वाणादपि कश्चिद् धर्मो विशिष्टतरः स्यात्, तमप्यहं मायोपमं स्वप्नोपमं वदामि॥



एवं कथं तत्र सत्कारापकारयोः पुण्यपापसमुद्भव इति परस्याभिप्रायमाशङ्कयन्नाह मायोपमादित्यादि-

मायोपमाज्जिनात्पुण्यं सद्भावेऽपि कथं यथा।



यदि भगवानपि मायोपमस्वभावः, तदा मायोपमान्निःस्वभावाज्जिनाद्भगवतः पुण्यं सुकृतं पूजासत्कारपादवन्दनादिभिः कथं यथा कथमिवेति मन्यसे ? उपलक्षणं चैतत्। पापमपि तदपकारे कथमिति द्रष्टव्यम्। न हि मायाकारनिर्मितपुरुषसत्कारापकारयोः पुण्यपापप्रसूतिर्युक्तेति परस्या भिप्रायः। अत्र प्रागुक्तमेवोत्तरम्। तथात्र परमेव परिपृच्छति-सद्भावेऽपि कथं यथेति। सद्भावेऽपि परमार्थसत्यत्वेऽपि भगवतः कथमिव पुण्यम् ? कथं यथेत्युभयत्रापि योजनीयम्। अयमभिप्रायः-यथा कस्यचित् परमार्थसतो जिनात् परमार्थसत् पुण्यमुपजायते, तथा अन्यस्य मायोपमान्मायोपममेवेत्यावयोर्न कश्चिद्विशेषः, इदंप्रत्ययतामात्रस्योभयसाधारणत्वात्। इति यदेवोत्तरं भवताम्, तदेवास्माकमपि, नातिरिच्यते किंचित्। न च युक्तिसिद्धं परमार्थसद् वस्तुस्वरूपं किंचिदस्तीति प्रतिपादितम्॥



भवतु नाम मायोपमादपि जिनात् पुण्यम्। इदं तु कथं समाधीयते इत्याह यदि मायोपम इत्यादि-

यदि मायोपमः सत्त्वः किं पुनर्जायते मृतः॥९॥



अथवा अन्यथावतार्यते-यदि जिनोऽपि मायोपमः, का वार्ता तर्हि सांसारिकेषु सत्त्वेषु ? तेऽपि तथेति ब्रूमः। मायोपमास्ते देवपुत्राः सत्त्वाः इति वचनात्। एवं सति महान् दोषः प्रसज्यते इत्याह-यदीत्यादि। यदि मायोपमो मायास्वभावसमानधर्मः सत्त्वः प्राणी, तदा किं पुनर्जायते मृतः ? किमिति प्रश्ने अक्षमायां वा। किं पुनर्जायते उत्पद्यते ? मृतो निकायसभागतायाश्च्युतः। कारणमत्र वक्तव्यम्, नैतद्युक्तमिति वा। नहि मायापुरुषो विनष्टः पुनरुत्पद्यते। तस्मात् परमार्थसन्तो भावा इत्युपगन्तव्यम्॥



नैतदुपगन्तव्यमित्याह यावदित्यादि-

यावत्प्रत्ययसामग्री तावन्मायापि वर्तते।



यावत्कालं प्रत्ययानां कारणानां मन्त्रौषधादीनां सामग्री समुदायः, समग्राणि कारणानि, तावत्कालं मायापि वर्तते, न अर्वाङ् निवर्तते, नापि ततः परं प्रवर्तते। एवं यावदविद्याकर्मतृष्णास्वभावा सामग्री, तावत् सत्त्वसंतानमायापि वर्तते, इदंप्रत्ययतायत्तवृत्तित्वात्। यदि न परमार्थतः सत्त्वोऽस्ति, कथमासंसारं सत्त्वसंतानः प्रवर्तते, न तु मायावदचिरं निवर्तते ? उक्तमत्र-यावत्प्रत्ययसामग्री तावत् प्रवर्तते, यस्य तु तथा नास्ति, स नानुवर्तते इति। अपि च। न चिरकालावस्थितिः सम्यक्त्वव्यवस्थानिबन्धनमित्याह दीर्घसंतान इत्यादि-



दीर्घसंतानमात्रेण कथं सत्त्वोऽस्ति सत्यतः॥१०॥



दीर्घश्चिरकालावस्थितः संतानः प्रवाहः, स एव केवलस्तन्मात्रं तेन। कथमिति पृच्छति-केन प्रकारेण सत्त्वोऽस्ति विद्यते ? सत्यतः परमार्थतः। एतावांस्तु विशेषः-यस्य हि दीर्घकालावस्थितिहेतुप्रत्ययविशेषोऽस्ति, स दीर्घकालमनुवर्तते। यस्य तु तथा नास्ति, स नानुवर्तते इति। न तु तावता सम्यङ्यिथ्यात्वम्। तस्मान्मायास्वभावत्वेऽपि न पुनर्जन्मासंभवः॥



एवं तर्हि यथा मायापुरुषवधादौ न प्राणातिपातः, तथा तदपरपुरुषवधादावपि न स्यात्, अभिन्नस्वभावत्वात्, इत्यत्राह मायापुरुष इत्यादि-



मायापुरुषघातादौ चित्ताभावान्न पापकम्।



मायापुरुषस्य घातादौ मारणादौ। आदिशब्देन तस्य अदत्तादि गृह्णतः। समानेऽपि निःस्वभावत्वे चित्तस्य विज्ञानस्य मायापुरुषसंतानेऽभावात् असत्त्वात् न पापकं न अकुशलमुत्पद्यते प्राणातिपातादि। पापमेव पापकम्। स्वार्थे कन्विधानात्। तत्रापि मारणाभिप्रायेण प्रहारं ददतो भवत्येव अशुभम्, न तु प्राणातिपातः। मायापुरुषादन्यत्र कथं प्राणातिपात इति चेदाह चित्तमायेत्यादि-

चित्तमायासमेते तु पापपुण्यसमुद्भवः॥११॥



चित्तमेव माया चित्तमाया, तया समेते युक्ते। मायास्वभावेन चित्तेन संबद्धे इत्यर्थः। तुशब्दः पूर्वस्माद्विशेषार्थः। पुण्यं च पापं च पुण्यपापे, तयोः सुकृतदुष्कृतयोः समुद्भवः समुत्पत्तिः। उपकारापकारयोः इति सामग्रीविशेषात् कार्यविशेषः। यथा सत्यपि गोमयेतरजन्मनोर्वर्तिकयोराकारसाम्ये कारणभेदात् स्वभावभेदः। तथा इहापि नोक्तदोषप्रसङ्गः॥



यदुक्तम्-चित्तमायेति, तत् परो विघटयन्नाह मन्त्रादीनामित्यादि-



मन्त्रादीनामसामर्थ्यान्न मायाचित्तसंभवः।



मन्त्रादीनाम्, आदिशब्दादौषधादीनां चित्तोत्पादं प्रति असामर्थ्यादव्यापारात् न मायाचित्तसंभवः न मायास्वभावं चित्तं संभवति। यथा परव्यामोहनिबन्धनानां मायाकारप्रयुक्तानां मन्त्रादीनां प्रभावेण हस्त्याद्याकारनिर्वृत्तिः, न तथा चित्तस्येति परस्य भावः। एतत् परिहरन्नाह सापि नानाविधेत्यादि-

सापि नानाविधा माया नानाप्रत्ययसंभवा।



अपिशब्दोऽवधारणार्थो भिन्नक्रमश्च। सा माया नानाविधैव नानाप्रकारैव। अत एव नानाप्रत्ययसंभवा नानाप्रत्ययात् अनेकप्रकारकारणात् संभव उत्पादो यस्याः सा तथोक्ता। अयमभिप्रायः-यदि माया मायेति शब्दसाम्यमस्ति, तथापि न तत्कारणस्याप्यभेदः, मायास्वभावत्वेऽपि कार्यस्य नानास्वभावत्वात्। न हि एकस्मिन् कार्ये किंचित् कारणं दृष्टमिति कार्यशब्दसाम्यात् सर्वत्र तदेव प्रकल्पयितुं युज्यते, अपि तु क्वचिदेव कस्यचित् सामर्थ्यम्, शब्दसाम्येऽपि स्वभावभेदात्। एतदेवोपदर्शयन्नाह नैकस्येति-

नैकस्य सर्वसामर्थ्यं प्रत्ययस्यास्ति कुत्रचित्॥१२॥



नैकस्य क्वचिदुपलब्धसामर्थ्यस्य प्रत्ययस्य कारणस्य हेतोः सर्वसामर्थ्यं सर्वस्मिन् कार्ये सामर्थ्यं शक्तिरस्ति संभवति। क्वचिदृष्टमिति कृत्वा कुत्रचिदिति कस्मिंश्चित् समये देशे काले वा दृष्टमिष्टं वा। ततश्च काचिन्माया मन्त्रादिसामर्थ्यप्रतिलब्धस्वभावा, काचित् पुनरनादिसंसारप्रवृत्तमाहात्म्या अविद्यादिप्रभावप्रवर्तिता। तस्मान्न सर्वासु मन्त्रादिसामर्थ्यमिति। एतत् सर्व लोकव्यवहारानुगतं कल्पनानिर्मितं सांवृतं वस्तुतत्त्वमुपादय समुत्थितं न तु परमार्थतः। परमार्थदशायां जननमरणोत्पादनिरोधहेतुफलभावाभावादिकल्पनाया अभावात्, प्रकृतिनिर्वृतत्वात् सर्वधर्माणामिति॥



एतदसहमानः परः पुनरन्यथा प्रसञ्जयन्नाह निर्वृत इति-

निर्वृतः परमार्थेन संवृत्या यदि संसरेत्।



निर्वृतः स्वभावशून्यत्वादुत्पादनिरोधरहितः। परमार्थेन परमार्थसत्यतः प्रकृतिनिर्वाणतया आदिशान्तत्वात्। यदि संवृत्या संवृतिसत्येन काल्पनिकत्वेन संसरेत्, जातिजरामरणयोगी भवेत्, तदा अयं महान् विरोधः स्यादित्याह बुद्धोऽपि संसरेदेवमित्यादि-

बुद्धोऽपि संसरेदेवं ततः किं बोधिचर्यया॥१३॥



एवमभ्युपगम्यमाने बुद्धोऽपि सर्वावरणप्रहाणतो निर्वृतोऽपि संसरेत् जन्मादिभाग् भवेत्। यत एवम्, ततः तस्मात् कारणात् किं बोधिचर्यया ? बोधये बुद्धत्वाय चर्या करचरणशिरःप्रदानाद्यनेकदुष्करशतलक्षणा, तया किम् ? न किंचित् प्रयोजनम्, उक्तक्रमेण वैफल्यात्। सा हि सर्वसांसारिकधर्मनिवृत्तये सर्वगुणसमुच्चयाश्रितबुद्धत्वप्राप्तये च समाश्रीयते, तथापि न सांसारिकधर्मनिवृत्तिश्चेत्, किं तत्समाश्रयेण संसाधितमिति भावः॥



तत् प्रत्युक्तमेव यावत्प्रत्ययसामग्रीत्यादिना, पुनरपि विस्पष्टयन्नाह प्रत्ययानामित्यादि-

प्रत्ययानामनुच्छेदे मायाप्युच्छिद्यते न हि।

प्रत्ययानां तु विच्छेदात्संवृत्यापि न संभवः॥१४॥



प्रत्ययानां कारणानाम्। अनुच्छेदे अविनाशे। हिर्यस्मात्। मायापि न केवलं संसार इति समुच्चये अपिशब्दः। नैवोच्छिद्यते न निवर्तते। प्रत्ययानां कारणानां तु विच्छेदात् निवृत्तेः, संवृत्त्यापि काल्पनिकव्यवहारेणापि न संभवो न संसरणम्। प्रत्ययानां समुच्छेदः पुनस्तत्त्वाभ्यासादविद्यादिनिरोधक्रमेण वेदितव्यः। तद्यथोक्तमार्यशालिस्तम्बसूत्रे-



एवमुक्ते मैत्रेयो बोधिसत्त्वो महासत्त्व आयुष्मन्तं शारिपुत्रमेतदवोचत्-यदुक्तं भगवता धर्मस्वामिना सर्वज्ञेन-यो भिक्षवः प्रतीत्यसमुत्पादं पश्यति, स धर्म पश्यति। यो धर्मं पश्यति, स बुद्धं पश्यति। तत्र कतमः प्रतीत्यसमुत्पादो नाम ? यदिदम्-अविद्याप्रत्ययाः संस्काराः। संस्कारप्रत्ययं विज्ञानम्। विज्ञानप्रत्ययं नामरूपम्। नामरूपप्रत्ययं षडायतनम्। षडायतनप्रत्ययः स्पर्शः। स्पर्शप्रत्यया वेदना। वेदनाप्रत्यया तृष्णा। तृष्णाप्रत्ययमुपादानम्। उपादानप्रत्ययो भवः। भवप्रत्यया जातिः। जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः। एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति। तत्र अविद्यानिरोधात् संस्कारा निरुध्यन्ते। पेयालं। एवमस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवति। अयमुच्यते प्रतीत्यसमुत्पादः। पेयालं। य इमं प्रतीत्यसमुत्पादं सततसमितं निर्जीवं यथावदविपरीतमजातमभूतमसंस्कृतमप्रतिघमनालम्बनं शिवमभयमहार्यमव्युपशमस्वभावं पश्यति, स धर्मं पश्यति। यस्तु एवं सततसमितं यावदव्युपशमस्वभावं धर्मं पश्यति, सोऽनुत्तरं धर्मशरीरं बुद्धं पश्यति। पेयालं। तत्र अविद्या कतमा ? एतेषामेव षण्णां धातूनां या एकसंज्ञा पिण्डसंज्ञा नित्यसंज्ञा ध्रुवसंज्ञा शाश्वतसंज्ञा सुखसंज्ञा आत्मसंज्ञा सत्त्वसंज्ञा जीवसंज्ञा जन्तुसंज्ञा मनुजसंज्ञा मानवसंज्ञा अहंकारममकारसंज्ञा। एवमादि विविधमज्ञानम्, इयमुच्यतेऽविद्या। एवमविद्यायां सत्यां विषयेषु रागद्वेषमोहाः प्रवर्तन्ते। तत्र ये रागद्वेषमोहा विषयेषु, अमी अविद्याप्रत्ययाः संस्कारा इत्युच्यन्ते। वस्तुप्रतिविज्ञप्तिर्विज्ञानम्। चत्वारि महाभूतानि चोपादाय रूपमैकध्यरूपम्। विज्ञानसहजाश्चत्वारोऽरूपिण उपादानस्कन्धा नाम, तन्नामरूपम्। नामरूपसंनिश्रितानि इन्द्रियाणि षडायतनम्। त्रयाणां धर्माणां संनिपातः स्पर्शः। स्पर्शानुभवो वेदना। वेदनाध्यवसानं तृष्णा। तृष्णावैपुल्यमुपादानम्। उपादाननिर्जातं पुनर्भवजनकं कर्म भवः। भवहेतुकः स्कन्धप्रादुर्भावो जातिः। जात्यभिनिर्वृत्तानां स्कन्धानां परिपाको जरा। स्कन्धविनाशो मरणम्। म्रियमाणस्य संमूढस्य साभिष्वङ्गस्य अन्तर्दाहः शोकः। शोकोत्थलपनं परिदेवः। पञ्चविज्ञानसंप्रयुक्तमाघातानुभवनं दुःखम्। दुःखमनसिकारसंप्रयुक्तं मानसं दुःखं दौर्मनस्यम्। ये चान्ये एवमादाय उपक्लेशाः, इमे उपायासा इत्युच्यन्ते॥



तत्र महान्धकारार्थेन अविद्या। अभिसंस्कारार्थेन संस्काराः। विज्ञाननार्थेन विज्ञानम्। मननार्थेन नामरूपम्। आयद्वारार्थेन षडायतनम्। स्पर्शनार्थेन स्पर्शः। अनुभवनार्थेन वेदना। परितर्षणार्थेन तृष्णा। उपादानार्थेन उपादानम्। पुनर्भवजननार्थेन भवः। स्कन्धप्रादुर्भावार्थेन जातिः। स्कन्धपरिपाकार्थेन जरा। विनाशार्थेन मरणम्। शोचनार्थेन शोकः। वचनपरिदेवनार्थेन परिदेवः। कायसंपीडनार्थेन दुःखम्। चित्तसंपीडनार्थेन दौर्मनस्यम्। उपक्लेशार्थेन उपायासाः। इति विस्तरः॥



एवमुपदर्शितप्रत्ययानामनुच्छेदे संसारोऽविकलः प्रवर्तते, द्वादशाङ्गप्रतीत्यसमुत्पादस्यैव संसारत्वात्। यदाहुराचार्यपादाः-



यथाक्षेपं क्रमाद् द्वृद्धः संतानः क्ल्रेशकर्मभिः।

परलोकं पुनर्यातीत्यनादि भवचक्रकम्॥

स प्रतीत्यसमुत्पादो द्वादशाङ्गस्त्रिकाण्डकः।इति।

[अभि. कोश. ३.१९-२०]



प्रत्ययानां पुनरुच्छेदे सर्वथैव संसरणं न स्यात्, कारणवैकल्यात्। ततश्च 'बुद्धोऽपि संसरेदेवम्' इत्येतन्न प्रसज्यते इति॥



एवं तावत् सौत्रान्तिकादिचोद्यमुदस्य योगाचारविप्रतिपत्तिनिराकरणाय तन्मतेन दूषणमुद्भावयन्नाह यदा न भ्रान्तिरपीत्यादि-

यदा न भ्रान्तिरप्यस्ति माया केनोपलभ्यते॥१५॥



यदा सर्वं जगत् मायात्मकतया स्वभावशून्यमुपगतं मध्यमकवादिभिः, मायास्वभावसंवृतिग्राहिणी बुद्धिरपि भवतां नास्ति बाह्यवत्, तदा माया केनोपलभ्यते, केन प्रतीयते तद्गाहकवस्तुसज्ज्ञानमन्तरेण ? नैव केनचिदित्यर्थः। यस्य पुनः स्वचित्तमेव परमार्थसत् बाह्यरूपतया भ्रान्तं तथा प्रतिभासते, न तस्यायं दोष इति भावः॥



एतन्निराकर्तुमाह यदा मायैवेत्यादि-

यदा मायैव ते नास्ति तदा किमुपलभ्यते।



यदा मायैव ग्राह्यतया हस्त्याद्याकारप्रवृत्या तव विज्ञानवादिनो नास्ति, चित्तमात्रं जगदभ्युपगच्छन्तो बहिरर्थाभावात्, तदा किमुपलभ्यते, तदा किमिह प्रतिभासते ? बहिरर्थाभावाद्देशादिविच्छेदेन प्रतिभासो न युक्त इत्यर्थः। अत्र परस्याभिप्रायमाशङ्कयन्नाह चित्तस्यैव स इत्यादि-

चित्तस्यैव स आकारो यद्यप्यन्योऽस्ति तत्त्वतः॥१६॥



उक्तमत्र चित्तमेव बहीरूपतया भ्रान्तं हस्त्याद्याकारं प्रतिभासते इति। उक्तमेव। किं तु यद्यपि चित्तस्यैव ज्ञानस्यैव स इति देशादिविच्छेदेन ग्राह्यतया प्रतिभासमान आकारो निर्भासः, अन्य इत्यपरः आन्तराद् ग्राहकाच्चित्ताकारात्, अस्ति विद्यते, तत्त्वतो वस्तुतः॥



यद्यपीत्यभ्युपगम्योक्तम्, तथापि नैतत् संगच्छत इत्याह चित्तमेव यदा मायेत्यादि-

चित्तमेव यदा माया तदा किं केन दृश्यते।



चित्तमेव विज्ञानमेव वेदकतया स्वीकृतम्, यदा माया नान्या, न हि वेदकचित्तव्यतिरिक्ता काचिदन्या माया नाम, तदात्मतया तस्यास्तथा प्रतिभासोपगमात्, तदा किं केन दृश्यते, किं केन प्रतीयते ? दर्शनमेव हि केवलमस्ति न दृश्यम्। दृश्यमन्तरेण दर्शनमपि न स्यात्, दृश्यापेक्षत्वात्तस्य। अतो न केनचित् किंचित् दृश्येत, इति आन्ध्यमशेषस्य जगतः प्राप्तमिति भावः। ननु स्यादेवैतत् यदि ज्ञानस्य आत्मसंवेदनं न स्यात्, यावता स्वसंवेदनतया स्वरूपं संवेदयत् तदभिन्नं मायादिप्रतिभासमपि वेदयेत्। तथा च सति न काचित् क्षतिः। इति विज्ञानवादिनोऽभिप्रायमाशङ्कयाह-

उक्तं च लोकनाथेन चित्तं चित्तं न पश्यति।



स्वभावशून्यमेव सर्व जगद् यदा युक्तितः प्रतिपादितम्, तदा कः कस्य स्वभावो वस्तुतः इति कस्य केन वेदनं स्यात् ? उक्तं च भगवता-



सर्वधर्माः शून्याः, शून्यतालक्षणं चित्तम्। सर्वधर्मा विविक्ताः, विविक्ततालक्षणं चित्तम्। इति।



किं च। उक्तं च कथितं च लोकनाथेन लोकानां सर्वसत्त्वानां नाथेन शरण्येन बुद्धेन भगवता। किमुक्तम् ? चित्तं चित्तं न पश्यतीति, चित्तं स्वात्मानं न जानाति, सत्यपि वस्तुत्वे स्वात्मनि कारित्रविरोधात्। कथमिव ?

न च्छिनत्ति यथात्मानमसिधारा तथा मनः॥१७॥



यथा सुतीक्ष्णाप्यसिधारा खङ्गधारा तदन्यवदात्मानं स्वकायं न च्छिनत्ति न विघाटयति, स्वात्मनि क्रियाविरोधात्, तथा मनः। असिधारावच्चित्तमपि स्वात्मानं न पश्यतीति योज्यम्। तथा हि न तदेवैकं ज्ञानं वेद्यवेदकवेदनात्मस्वभावत्रयं युक्तम्। एकस्य निरंशस्य त्रिस्वभावतायोगात्। तत्रेदमुक्तमार्यरत्नचूडसूत्रे-



स चित्तं परिगवेषमाणो नाध्यात्मं चित्तं समनुपश्यति। न बहिर्धा चित्तं समनुपश्यति। न स्कधेषु चित्तं समनुपश्यति। न धातुषु चित्तं समनुपश्यति। नायतनेषु चित्तं समनुपश्यति। स चित्तमसमनुपश्यंश्चित्तधारां पर्येषते-कुतश्चित्तस्योत्पत्तिरिति। आलम्बने सति चित्तमुत्पद्यते। तत् किमन्यच्चित्तमन्यदालम्बनम्, अथ यदेवालम्बनं तदेव चित्तम् ? यदि तावदन्यदालम्बनमन्यच्चित्तम्, तद् द्विचित्तता भविष्यति। अथ यदेवालम्बनं तदेव चित्तम्, तत् कथं चित्तं चित्तं पश्यति ? न हि चित्तं चित्तं समनुपश्यति। तद्यथा न तस्यैव असिधारया सैव असिंधारा शक्यते छेत्तुम्, न तेनैव अङ्गुल्यग्रेण तदेव अङ्गुल्यग्रं स्प्रष्टुं शक्यते, एवमेव तेनैव चित्तेन तदेव चित्तं द्रष्टुमिति विस्तरः॥



अत्र चित्तामात्रवादिनः स्वात्मनि क्रियाविरोधं विघटयितुं स्वपक्षप्रसाधनाय दृष्टान्तमुद्भावयन्नाह आत्मभावमित्यादि-

आत्मभावं यथा दीपः संप्रकाशयतीति चेत्।



आत्मभावं स्वस्वरूपं यथा दीपः प्रदीपः संप्रकाशयति द्योतयति। यथा हि किल अन्धकारावृतघटादिवस्तुप्रतिपत्तये प्रदीप उपादीयते, न तथा प्रदीपप्रकाशनाय प्रदीपान्तरम्, अपि तु घटादि प्रकाशयन्नेव आत्मानमपि प्रकाशयति, तथा प्रकृतेऽपि स्वसंवेदने वेदितव्यम्। न चापि क्वचिद्विरोधो दृष्ट इति सर्वत्र योजनीयम्। तस्मात् प्रदीपवदविरोध एवेति चेत्, यद्येवं मन्यसे, तदा नैवं वक्तव्यम्। कुत इत्याह नैवेत्यादि-

नैव प्रकाश्यते दीपो यस्मान्न तमसावृतः॥१८॥



नैव प्रकाश्यते घटादिवन्नैव उद्दयोत्यते दीपः, यस्मान्न तमसावृतः न अन्धकारपिहितः। विद्यमानस्यावरणस्य अपनयनं प्रकाशनम्, ततो युक्तं घटादीनां प्रकाशनम्, तेषां प्राग् विद्यमानत्वात्। नैवं प्रदीपस्य, तस्य प्रागविद्यमानत्वात्। न च अविद्यामानस्य प्रकाशनं युक्तम्, असत्त्वात्। तस्मान्नैव प्रकाश्यते दीपः। इति विसदृशत्वान्न प्रदीपदृष्टान्तात् साध्यसिद्धिः॥



स्यादेतत्-आत्मभावमित्यादिना नैतदभिधीयते यदात्मानं घटवत् तमसावृतं प्रकाशयति दीपः, अपि तु तत्स्वभावं प्रति परनिरपेक्षतामात्रमस्याभिधीयते। एतदेवोपदर्शयन्नाह न हीत्यादि-

न हि स्फटिकवन्नीलं नीलत्वेऽन्यमपेक्षते।

तथा किंचित्परापेक्षमनपेक्षं च दृश्यते॥१९॥



हिरिति यस्मात्। यथा स्फटिकोपलः स्वयमनीलः सन्, नीलत्वे नीलगुणोत्पत्तिनिमित्तमन्यमुपाधिं नीलपत्रादिसंनिधिमपेक्षते, तथा स्वयमेव यद्वस्तु नीलम्, तदपि न नीलत्वेऽन्यमुपाधिमपेक्षते। तथा तेन प्रकारेण किंचिद् घटादिकं परापेक्षं प्रदीपाद्यपेक्षं प्रकाशं दृश्यते, किंचित् पुनः प्रदीपादिकमनपेक्षं च स्वयंप्रकाशात्मकं दृश्यते उपलभ्यते। एतावन्मात्रमेव विवक्षितम्॥



एवं विज्ञानवादिना उपदर्शिते विशेषे सिद्धान्तवादी नीलमेव तावन्नीलत्वे परनिरपेक्षं दृष्टान्तत्वेनोपदर्शितं प्रतिषेधयन्नाह अनीलत्व इत्यादि-

अनीलत्वे न तन्नीलं नीलहेतुर्यथेक्ष्यते।

नीलमेव हि को नीलं कुर्यादात्मानमात्मना॥२०॥





अयमपि न सदृशो दृष्टान्तः, यतो नीलमपि न नीलत्वे स्फटिकवन्निरपेक्षम्, तद्भावं प्रति स्वहेतुप्रत्ययापेक्षत्वात्। कदा पुनरिदमनपेक्षं स्यात् ? यदि तदनीलमेव स्वहेतोरुत्पद्येत। पुनस्तद्भावे परनिरपेक्षं स्वयमेव नीलमात्मानं कुर्यात्। न चैतदस्ति। यतः अनीलत्वे नीलगुणरहितत्वे सति। नेति निषेधयति। तदिति नीलाभिमतं वस्तु। नीलं नीलगुणयुक्तमात्मानं स्वरूपमात्मना स्वयमेव न कुर्यात्, न कर्तुं शक्नोति, पूर्ववत् स्वस्मिन् क्रियाविरोधात्। तस्मान्न नीलस्यापि परानपेक्षता नीलत्वं प्रति स्फटिकवत्। तथा हि स्फटिकोपलोऽपि वस्तुतोऽवस्थितरूप एव उपाधिसंनिधौ न नीलोपरागमनुभवति, अपि तु सर्वस्वोपादानलक्षणात्। नीलोपाधिविशेषहकारिणश्च पूर्वस्वरसनिरोधात् अन्य एव नीलगुणोपरक्तः स्फटिकोपल उत्पद्यते इति सिद्धान्तः। तस्मात् साधारणमनयोस्तद्गुणं प्रति हेतुप्रत्ययाधीनत्वम्। इति प्रकृतेऽपि साध्ये न कश्चिद्विशेषः॥



ननु प्रियमिदमनुष्ठितं प्रियेण यस्मात् जडस्वभावव्यावृत्तात्मतया स्वहेतुप्रत्ययात् उत्पत्तिरेव ज्ञानस्य प्रकाशान्तरनिरपेक्षस्य आत्मप्रकाशता स्वसंवेदनमुच्यते। एतदेव त्वयापि नीलस्वरूपपरामर्षेण समर्थितम्। एतावन्मात्रेण प्रदीपोऽपि दृष्टान्तीकृतः। न पुनरस्माभिः कर्मकर्तृक्रियाभेदेन ज्ञानस्यात्मप्रकाशनमिष्यते। एकस्य सतः कर्मादिस्वभावत्रयस्यायोगात्। तन्न क्रियादिभेदेन दूषणेऽपि किंचिद्दूषितमस्माकं स्यात्, स्वहेतुजनितस्यात्मप्रकाशस्यानुपघातात्। इति नात्मसंवेदने प्रतिपादितदोषप्रसङ्गः। तदुक्तम्-

विज्ञानं जडरूपेभ्यो व्यावृत्तमुपजायते।

इयमेवात्मसंवित्तिरस्य या जडरूपता॥

क्रियाकारकभेदेन न स्वसंवित्तिरस्य तु।

एकस्यानंशरूपस्य त्रैरूप्यानुपपत्तितः॥इति।

[तत्त्वसंग्रह-२०००-१]



अत्रोच्यते-क्रियाकारकभेदेन व्यवहारप्रसिद्धं शब्दार्थमधिगम्य दूषणमुक्तम्, स्वसंवेदनशब्दस्य तदर्थाभिधायकत्वात्। यदि पुनर्दोषभयाल्लोकप्रसिद्धोऽपि शब्दार्थः परित्यज्यते, तदा लोकत एव बाधा भवतो भविष्यति। इत्थमपि न परमार्थतः स्वसंवेदनसिद्धिः। तथा हि हेतुप्रत्ययोपजनितस्य प्रतिबिम्बस्येव निःस्वभावत्वमुक्तम्। तथा च सुतरां न स्वसंवेदनं ज्ञानस्य, तत्त्वतो निजस्वभावाभावात्। न च स्वभावाभावे गगनोत्पलस्य आत्मसंवेदनमुचितम्। न चापि जडस्वभावता मध्यमकवादिनं प्रति परमार्थतः कस्यचित् सिद्धा, येन जडव्यावृत्तमजडं स्वसंवेदनं स्यत्। तस्मादन्यानेव वस्तुवादिनः प्रति युक्तमेतद्वक्तुम्। ततो निःस्वभावतया न कथंचिदपि स्वसंवेदनसिद्धिः। एतत् पुनः पश्चात् स्मृत्युपस्थानोपदर्शनप्रस्तावे [९.२४] विस्तरेणोपदर्शयिष्यामः॥



सांप्रतं प्रदीपस्य स्वयंप्रकाशतामभ्युपगम्य बुद्धेः स्वसंवेदनमयुक्तमिति प्रतिपादयन्नाह दीप इत्यादि-

दीपः प्रकाशत इति ज्ञात्वा ज्ञानेन कथ्यते।

बुद्धिः प्रकाशत इति ज्ञात्वेदं केन कथ्यते॥२२॥



भवतु वा प्रदीपस्य प्रकाशात्मता, तथापि न बुद्धिसंवेदनसाधनं प्रति सदृशो दृष्टान्त इति समुदायार्थः। दीपः प्रकाशत इति आभासते प्रकाशान्तरनिरपेक्षः स्वयमेव, इति ज्ञात्वा प्रतीत्य ज्ञानेन बुद्ध्या कथ्यते प्रतिपाद्यते, प्रदीपस्य ज्ञानविषयत्वात्। बुद्धिर्ज्ञानं प्रकाशते इति यदुच्यते, तत् पुनः केन ज्ञानेन ज्ञात्वा कथ्यते इति परं पृच्छति। न चात्र किंचिद् बुद्धिप्रतिपत्तिनिबन्धनमस्तीति असंभावनां प्रकाशयति। न तावत् पूर्वज्ञानेन तत्प्रतिपत्तिः, तत्कालमनुत्पत्तेस्तस्यासत्त्वात्। नापि पश्चात्कालभाविना तदानीं क्षणिकतया ग्राह्यस्यातीतत्वात्। न च तत्समानकालभाविना तेन तस्यानुपकारात्। न च अनुपकारकस्य विषयभावः, नाकारणं विषयः इति वचनात्। नापि स्वयम्, तत्रैव विप्रतिपत्तेः। तत् कथं तत्प्रतीतिरिति न विद्मः॥



इत्थं सर्वथा बुद्धेरप्रतिपत्तौ तत्संवेदनमतीव अयुक्तमित्याह प्रकाशा वेत्यादि-

प्रकाशा वाप्रकाशा वा यदा दृष्टा न केनचित्।

वन्ध्यादुहितृलीलेव कथ्यमानापि सा मुधा॥२३॥



प्रकाशा वा प्रकाशात्मिका दीपवत्। अप्रकाशा वा अप्रकाशात्मिका घटादिवत्। परस्परसमुच्चये वाशब्दद्वयम्। बुद्धिः यदा दृष्टा न केनचित्, न प्रतिपन्ना केनचित् प्रतिपन्त्रा स्वयंरूपेण वा। यदेति पदं तदेत्याकर्षति। तदा वन्ध्याया अप्रसवधर्मिण्याः स्त्रिया दुहिता पुत्री, तस्या लीला विलासो ललितं तद्वत्। कथ्यमानापि आख्यायमानापि सा मुधा। सेति बुद्धिः। मुधेति निष्फला। वन्ध्यादुहितुरविद्यमानतया प्रतिपन्नत्वात् तल्लीला सुतरामप्रतिपन्नेत्यभिप्रायः। अथवा। अनुत्पन्नानिरुद्धस्वभावतया वन्ध्यादुहितृस्थानीया बुद्धिः। अप्रतीततत्स्वभावतया तल्लीलावत् स्वसंवित्तिः। तदप्रतीतेः तस्या अपि अप्रतीतिरिति कथ्यमानापि युक्तिरहितेन वचनमात्रेण सा स्वसंवित्तिर्मुधाः, अनुपादेयत्वान्निष्प्रयोजना॥



स्यादेवम्-युक्तिशून्यं वचनमात्रमेतत्। यतः इयमत्र युक्तिरस्तीत्याह यदि नास्तीत्यादि-

यदि नास्ति स्वसंवित्तिर्विज्ञानं स्मर्यते कथम्।



यदि स्वसंवेदनं विज्ञानस्य नास्ति न विद्यते, तदा विज्ञानं स्मर्यते कथम् ? विज्ञानस्य स्वसंवेदनाभावादुत्तरकालं स्मरणं न स्यात्। न हि अननुभूतस्मरणं युक्तम्, अतिप्रसङ्गात्। तस्मादनुभवफलस्य स्मरणस्य उत्तरकालं दर्शनात् ज्ञानसंवेदनमस्तीत्यनुमीयते इति। नैतत् साधनं साधीयः। यतो यदि स्वसंवेदनकार्यतया स्मरणं निश्चितं भवेत्, भवेद् वह्वेर्यथा धूमः स्वसंवेदनस्य कारणं स्मृतिः। न च असिद्धे स्वसंवेदने प्रमाणतः, स्मरणस्य तत्कार्यताग्रहणमस्ति। सर्वथा उभयप्रतिपत्तिनान्तरीयकत्वात् कार्यकारणभावप्रतिपत्तेः। न च चक्षुरादेरिव विज्ञानम्, अदर्शनेऽपि स्मरणं तत्कार्यं सेत्स्यति, चक्षुषो हि व्यतिरेके नीलादिज्ञानाभावतो [व्यतिरेकद्वारेण] तत्कार्यमनुमीयते। स्मृतिस्तु ज्ञानसंवेदनमन्तरेणापि भवतीति प्रतिपादयिष्यामः, इति स्वसंवेदनकार्यतानि श्चयमन्तरेण स्मरणस्य तद्विनाभावान्न संवेदनसिद्धिः। अतः स्मरणमपि ज्ञानत्वात् कथं सिद्धमिति वक्तव्यम्। न च स्वयमसिद्धं लिङ्गं ज्ञापकमन्यस्य। न च स्मरणं स्वसंवेदनस्य प्रत्यक्षतया ग्राहकम्, तस्य तस्मादन्यत्वात्। न च ज्ञानस्य ज्ञानान्तरविषयत्वम्, बहिरर्थवत् संबन्धासिद्धयादिदोषप्रसङ्गात्। अन्यत्वाविशेषात् संतानान्तरभाविनापि स्मरणेन तस्य ग्रहणं स्यात्। अथ तेन पूर्वमननुभूतत्वान्न स्मर्यत इति चेत्, एकसंततिपतितेनापि न पूर्वमनुभूतमिति समानः प्रसङ्गः॥



कार्यकारणभावोऽपि न तस्य नियामको युज्यते, कार्यकारणभावस्यैव परमार्थतोऽभावात्, सत्यपि तस्मिन् सर्वज्ञानानां स्वप्रतिपत्तिनिष्ठतया तद्गहणस्याशक्यत्वात्। यथाव्यवहारमभ्युपगमे काल्पनिकत्वम्, काल्पनिकत्वे च सर्वव्यवहाराणां कल्पनानिर्मितत्वात् सांवृतत्वमिति साधितं नः साध्यम्। इति न स्मृतेः स्वसंवेदनसिद्धिः॥



भवतोऽपि कथं तर्हि स्वसंवेदनाभावे स्मृतिरित्याह अन्यानुभूत इत्यादि-

अन्यानुभूते संबन्धात् स्मृतिराखुविषं यथा॥२४॥



ज्ञानादन्यस्मिन् ग्राह्ये वस्तुनि विषयेऽनुभूते सति ज्ञाने स्मृतिः स्मरणमुपजायते। ननु अन्यस्मिन्ननुभूते अन्यत्र स्मरणे अतिप्रसङ्गः स्यादित्याह-संबन्धादिति। विषयेऽनुभूते तद्विज्ञानस्मरणं संबन्धाद्भवति। विज्ञानं हि तद्गाहकतया तत्संबद्धम्, अतो विज्ञानं स्मर्यते, नान्यत्। सत्यपि संबन्धे अन्यस्मिन्ननुभूते अन्यस्य स्मरणे विप्लुतं स्मरणं स्यादिति चेन्न, पूर्वमनुभूतो विषयः उत्तरकालमनुस्मर्यमाणः स एवानुभवविशिष्टोऽनुस्मर्यते। तद्विशिष्टस्य तस्य ग्रहणात्। ज्ञानमेव च विषयानुभवो नान्य इति विषयानुभवस्मरणात्तत्संबद्धतया ज्ञाने स्मरणमभिधीयते, न तु विषयरहितं ज्ञानमपि केवलमनुस्मर्यते इत्यदोषः॥



ननु कथमिव ज्ञानसंवेदनाहितस्मृतिवासनाबीजमन्तरेण स्मृतिरुत्तरकालं स्यादित्याहआखुविषं यथेति। आखुविषं मूषिकविषं यथा संबन्धात् कालान्तरेण जायते, तथा स्मृतिरपीत्यर्थः। तथा हि मूषिकविषमेकस्मिन् क्षणे शरीरसंक्रान्तं पुनः कालान्तरेण मेघस्तनितमधिगम्य विनापि स्वसंवेदनाहितस्मृतिवासनाबीजमिदंप्रत्ययतामात्रायतवृत्तित्वात् अन्यस्मिन् क्षणे विकृतिमुपयाति, तथा प्रकृतेऽपि न दुष्यतीति भावः॥



पुनरपि विज्ञानवादी ज्ञानसंवेदनसिद्धये प्रकारान्तरमुपदर्शयितुमाह प्रत्ययान्तरेति-

प्रत्ययान्तरयुक्तस्य दर्शनात्स्वं प्रकाशते।



प्रत्ययान्तरं कारणान्तरम् [कालान्तरम् ?]। ईक्षणिकादिविद्या परचित्तादिज्ञानाभिज्ञा च ताभ्यां युक्तस्य तत्सामग्रीसंबद्धस्य चित्तस्य दर्शनात् प्रतिभासनात् विज्ञानस्य खं प्रकाशते स्वरूपं प्रतिभासते। संवेदनमस्तीति यावत्। यदि हि तत् सर्वदा परोक्षरूपं कथं कदाचित् सामग्रीविशेषादुपलभ्येत, ततो यथा सामग्रीविशेषात् परचित्तमुपलभ्यते, तथा समनन्तरालम्बनादिप्रत्ययात् स्वचित्तमप्युपलभ्यते इति भावः। एतदपि न ज्ञानसंवेदनसामर्थ्यमित्याह सिद्धाञ्जनेत्यादि-

सिद्धाञ्जनविधेर्दृष्टो घटो नैवाञ्जनं भवेत्॥२५॥



सिद्धं च तदञ्जनं च, सिद्धस्य वा अञ्जनम्, तस्य विधिः विधानं प्रयोगः, तस्माद् दृष्टः प्रतीतः घटो निधानादि वा नैव अञ्जनं भवति। न च घटादिरञ्जनमेव स्यात्। न यद् यस्मात्प्रतीयते तदेव तद्भवति। एवमीक्षणिकादिविद्यासहकारिणा ज्ञानेन परचित्तं च घटादिवद् दृष्टमिति नैतावता तत्संवेदनं सिद्धं स्यात्। तस्मान्नैतदपि साध्योपयोगि साधनम्। ननु यदि ज्ञानमविदितस्वरूपं स्यात्, अर्थस्यापि प्रतीतिर्न स्यात्। अव्यक्तव्यक्तिकत्वाद् ज्ञानस्य, न हि अर्थस्य व्यक्तिः। तदप्रतीतौ कथमर्थस्य प्रतीतिः ? तथा हि स्वसंवेदनस्य प्रतिषेधात्, अन्येन अन्यस्य ग्रहणायोगाच्च, तद्गहणाभ्युपगमे च उत्तरोत्तरस्य अप्रतीतस्य प्रतीतये ज्ञानान्तरानुसरणेन अनवस्थाप्रसङ्गाच्च न कथंचिदपि अर्थस्य प्रतीतिरिति। तेन यदुक्तम् "अन्यानुभूते" इत्यादि, तदसंगतम्, अर्थस्यानुभवाभावात्॥



सर्वश्चायं दृष्टादिव्यवहारो लोके न स्यादित्याह यथा दृष्टमित्यादि। यदुच्यते दृष्टादिव्यवहारो न स्यादिति, स किं परमार्थतो न स्यात्, संवृत्या वा ? तत्र यदि परमार्थतो न स्यादित्युच्यते, तदा प्रियमिदमस्माकम्। न हि सांवृतस्य परमार्थचिन्तायामवतारोऽस्ति। अथ लोकप्रसिद्धिः, तदा-

यथा दृष्टं श्रुतं ज्ञातं नैवेह प्रतिषिध्यते।



इति। यथा दृष्टमिति चक्षुरादिविज्ञानेन प्रत्यक्षेण प्रतिपन्नम्। श्रुतमिति परपुद्गलादागमाच्च। ज्ञातमिति त्रिरूपलिङ्गजादनुमानान्निश्चितम्। तदेतदिह सर्वं व्यवहारमाश्रित्य नैव प्रतिषिध्यते, नैव वार्यते। यद् यथा लोकतः प्रतीयते, तत् तथैव अविचारितस्वरूपमभ्युपगम्यते लोकप्रसिद्धितः, न तु पुनः परमार्थतः। तेन ज्ञानसंवेदनाभावादर्थानधिगमादयोऽपि दोषाः परमार्थपक्षवादिन इह नावतरन्ति। यदि तत् तथैवाभ्युपगम्यते, किं नाम तर्हि प्रतिषिध्यते इत्याह सत्यत इत्यादि-

सत्यतः कल्पना त्वत्र दुःखहेतुर्निवार्यते॥२६॥



सत्यतः परमार्थतः। कल्पना आरोपः। तुशब्दः पुनरर्थे। सा पुनरत्र विचारे सिद्धान्ते वा। निवार्यते प्रतिषिध्यते। कुतः ? दुःखहेतुरिति। हेतुपदमेतत्। दुःखस्य हेतुः कारणं यस्मात्, तस्मादित्यर्थः। उपादानस्कन्धानां सदसदादिकल्पनाहितप्रवृत्तिहेतुत एव च संसारः। संसारश्च दुःखस्वभावः।



दुःखं समुदयो लोको दृष्टिस्थानं भवश्च ते।

[अभि. कोश-१.८]



इति वचनात्। इति सत्यतः कल्पना दुःखहेतुर्भवति। तस्मादसत्समारोपकल्पनाभिनिवेशप्रतिषेधमात्रमत्राभिप्रेतम्, न तु वास्तवं किंचित् प्रतिषिध्यते इति। तदेवं स्वसंवेदनं ज्ञानस्य न कथंचिदचिदपि युज्यते। तदुक्तम्-



न बोध्यबोधकाकारं चित्तं दृष्टं तथागतैः।

यत्र बोद्धा च बोध्यं च तत्र बोधिर्न विद्यते॥इति।



यत्तु क्वचिद् भगवता चित्तमात्रतास्तित्वमुक्तम्, तत् स्कन्धायतनादिवन्नेयार्थतयेति कथयिष्यते॥



इदानीं प्रासङ्गिकं परिसमाप्य प्रकृते योजयन्नाह चित्तादन्येत्यादि-

चित्तादन्या न माया चेन्नाप्यनन्येति कल्प्यते।

वस्तु चेत्सा कथं नान्यानन्या चेन्नास्ति वस्तुतः॥२७॥



तर्हि चित्तादन्या माया स्यात्, अनन्या वा स्यात्, उभयस्वभावा वा, अनुभयस्वभावा वा, इति चत्वारो विकल्पाः। तत्र न तावत् प्रथमपक्षः, चित्तादन्याभ्युपगमेऽपि चित्तमात्रं जगदिच्छतः सिद्धान्तविरोधः स्यात्। द्वितीयपक्षे तु "यदा मायैव ते नास्ति" [९.६] इत्यादिना प्रतिपादित एव दोषः। तृतीयस्तु प्रकारो न संगच्छते, परस्परविरुद्धयोरेकत्राभावात्। अथ चतुर्थी कल्पना, सापि न संगच्छते। तामुपादायोच्यतेचित्तादन्या न माया इत्यन्यत्वप्रतिषेधः। अनन्या तर्हि, नाप्यनन्येति तत्त्वस्यापि प्रतिषेधः, इति उभयपक्षपातश्चेद्यदि कल्प्यते व्यवस्थाप्यते, सोऽपि न युक्तः, अन्योन्यपरिहारवतोरेकप्रतिषेधस्य अपरविधिनान्तरीयकत्वात् तयोरेकत्राभावात् चतुर्थी कल्पना सापि न संघटते॥ अपि च। वस्तु चेदिति। यदि सा माया वस्तुसती कथं नान्या चित्ताद्वयतिरिक्ता न भवति ? अथ अनन्या चेत्, यदि चित्तमेव माया, तदा नास्ति वस्तुतः, न विद्यते परमार्थतः, तस्यास्तत्स्वभावत्वात् चित्तमेव केवलम् इत्येतत् तदेवायातम्। यदुक्तम्-



यदा मायैव ते नास्ति तदा किमुपलभ्यते।इति॥

अधुना प्रकृतं प्रसाध्य उपसंहरन्नाह असत्यपीत्यादि-

असत्यपि यथा माया दृश्या द्रष्टृ तथा मनः।



असती उपलभ्यमाना माया हस्त्यादिवद्वस्तुतोऽसत्स्वभावा। तादृश्यपि दृश्या दर्शनविषया यथा माया, द्रष्टु तथा मनः। सैव असती माया दृश्या दृष्टान्तः, तथा मनः परमार्थतोऽसत्स्वभावमपि दर्शनसमर्थं भविष्यति। तेन "यदा न भ्रान्तिरप्यस्ति" [९.१५] इत्यादि यदुक्तं परेण तत् प्रसाध्य उपसंहारेण दर्शितम्। पुनरपि प्रकारान्तरेण परमार्थसद्विज्ञानसाधनाय परोपक्रममभिसंधाय आह वस्त्वाश्रयश्चेत्यादि-

वस्त्वाश्रयश्चेत्संसारः सोऽन्यथाकाशवद्भवेत्॥२८॥



तथाहि-संक्लेशो व्यवदानं च हेयोपादेयतया द्वयमिदं यथावत् प्रतिपत्तव्यम्। तत्र रागादिमलावृतं चित्तं संक्लिष्टमित्युच्यते। ते च अभूतसमारोपबलोत्पन्नत्वादागन्तुकाश्चित्ताश्रिताः प्रवर्तन्ते। तत्प्रभूतकर्मजन्मपरंपरोपनिबन्धः संसारः प्रजायते। तदेव चित्तं परमार्थतः प्रकृतिप्रभास्वरमनागन्तुकमभूतपरिकल्पसमुत्थग्राह्यग्राहकादिद्वयसमारोपाभिनिवेशवासनाशून्यमद्वयस्वभाव-मागन्तुकदोषविनिर्मुक्तमाश्रयपरावृत्तेर्व्यवदानमित्युच्यते। तदेवं संक्लेशव्यवदानयोर्वस्तुसमुद्भूतचित्तमन्तरेण व्यवस्थापनं न घटते इति मन्यन्ते, संसारनिर्वाणयोश्चित्तधर्मत्वात्। चित्तमेव संक्लिश्यते, चित्तमेव व्यवदायते इति वचनात्। तदेव परमतं निरूपयति-वस्त्वेव वस्तुसद्भूतचित्तमेव आश्रयः अस्येति वस्त्वाश्रयः। चेत् यदि संसारो व्यवस्थाप्यते, तदा संसारोऽन्यथा भवेत्, चित्तादन्यः स्यात्, वस्तुनोऽन्यत्वे अवस्तु स्यात्, चित्तस्यैव च वस्तुत्वात्। कथमिव ? आकाशवत् गगनमिव। य एष चित्ताश्रयः संसारोऽभिधीयते, स किं वस्तु अवस्तु वा ? वस्त्वपि चित्तं तदन्यद्वा ? तत्र यदि वस्तु चित्तमेव, तदा न चित्तादन्यः संसारस्तदाश्र्यः, चित्तमेव सः। चित्तं च प्रकृतिप्रभास्वरतया व्यवदानस्वभावत्वान्न प्रहेयम्। अथ चित्तादन्यः, तदा चित्तव्यतिरिक्तस्य अन्यस्याभ्युपगमात् सिद्धान्तक्षतिः। अथ अवस्तु, तदा संसारो नाम न किंचिदस्ति, खरविषाणवत्। अत एवाह आकाशवत् इति। यथा आकाशं प्रज्ञप्तिसन्मात्रमसत्, न क्वचिदर्थक्रियायां समर्थम्, तथा संसारो भवतः स्यात्। अथवा। आकाशवदिति निःस्वभावत्वादस्मत्सिद्धान्तानुप्रवेशः॥



स्यादेतत्-यदि नाम अवस्तु, तथापि वस्तुसद्भूतचित्तसमाश्रितत्वात् तस्य अर्थक्रियासामर्थ्यं भविष्यतीत्याह वस्त्वाश्रयेणेत्यादि-

वस्त्वाश्रयेणाभावस्य क्रियावत्त्वं कथं भवेत्।



न असद्रूपस्य कश्चिदाश्रयो भवितुमर्हति, आश्रयाश्रयिभावस्य कार्यकारणरूपत्वात्। न च अभावः कस्यचित् कार्यम्, अनिर्वर्त्यविशेषत्वात्। भवतु नाम, तथापि वस्त्वाश्रयेण वस्तुसद्भूतचित्तसमाश्रयेण अभावस्य असदात्मकस्य क्रियावत्त्वम्, अर्थक्रियाकारित्वं कथं भवेत् ? न कदाचिदपि युज्यते इत्यर्थः। अन्यथा तस्य भावस्वभावता स्यात्। शक्तिर्हि भावलक्षणम्। सर्वशक्तिविरहोऽभावलक्षणमिति वचनात्। किमिदानीमिति विचार्यमाणमुपस्थितं भवत इत्याह असत्सहायमित्यादि-

असत्सहायमेकं हि चित्तमापद्यते तव॥२९॥



असन्नेवः अभावः सहायोऽस्येति असत्सहायम्। हिरवधारणे। एकमद्वितीयमेव चित्तमापद्यते तव चित्तैकपरमार्थवादिनः॥



ननु उक्तमेव-ग्राह्यग्राहकाद्याकारविनिर्मुक्तमद्वयलक्षणं चित्तम्, इति चित्तैकताप्रतिपादने न किंचिदनिष्टमस्माकम्। तदयुक्तम्। संक्लेशस्यापि प्रहेयतया वस्तुत्वमुक्तम्। तत् कथं चित्तमेवैकं वस्तु ? अस्तु नाम, तथापि न बाधकान्मुक्तिरित्याह ग्राह्यमुक्तमित्यादि-

ग्राह्यमुक्तं यदा चित्तं तदा सर्वे तथागताः।



ग्राह्यमित्युपलक्षणम्। ग्राहकादिमुक्तमपि वेदितव्यम्। अथवा ग्राह्याधीनं ग्राहकत्वमिति तदभावाद् ग्राहकाभावः। ग्राहकाभावे च तदुपकल्पितस्य अभिलाप्यस्याभावात् अभिलापस्याभाव इत्युपदर्शयितुं ग्राह्यमुक्तमित्युक्तम्। ग्राह्याद्याकारविविक्तमद्वयस्वभावं यदा सर्वस्य जगतश्चित्तम्, तदा तस्य चित्तस्य सर्वसत्त्वसंतानान्तर्गतत्वात् सर्वसंसारिणः सत्त्वाःतथागता बुद्धा भगवन्तः प्राप्नुवन्ति। न कश्चित् पृथग्जनः स्यात्। ततश्च संक्लेशप्रहाणार्यमार्गभावनावैयर्थ्यप्रसङ्गः। न चैवम्। तस्मात् सत्यपि ग्राह्यग्राहकवैधुर्ये भावाभिनिवेशस्य तदवस्थत्वान्न सर्वथा संक्लेशप्रहाणमित्यभिसंधायाह एवं चेत्यादि-

एवं च को गुणो लब्धश्चित्तमात्रेऽपि कल्पिते॥३०॥



एवं चेति निपातसमुदायः एवं सतीत्यस्मिन्नर्थे। अप्यर्थे चकारः। एवमपि स्वीकृते को गुणो लब्धः ? नैव कश्चित्। चित्तमात्रेऽपि विज्ञप्तिमात्रतायामपि कल्पितायां कल्पनया समारोपिते, अद्वयतत्त्वपरिज्ञानान्वयेऽपि सर्वसत्त्वसंताने रागादीनां पर्यवस्थानात्॥



ननु एतत्समानं निःस्वभाववादिनो भवतोऽपीति समानदूषणतामापादयन्नाह मायोपमत्वेऽपीत्यादि-

मायोपमत्वेऽपि ज्ञाते कथं क्लेशो निवर्तते।



मायोपमत्वे मायास्वभावत्वेऽपि जगतो ज्ञाते कथं क्लेशो निवर्तते, कथं रागादिगणः प्रहीयते इति पृच्छति। किमत्र प्रहाणानुपपत्तिकारणं यत् पृच्छसीत्याह यदा मायेत्यादि-

यदा मायास्त्रियां रागस्तत्कर्तुरपि जायते॥३१॥
इदमत्र प्रहाणानुपपत्तिबीजं दृश्यते-यदा मायास्त्रियां मायाकारविनिर्मितायामबलायां रागः संरक्तचित्तता जायते उत्पद्यते। कस्य जायते ? तत्कर्तुरपि। न केवलं यद्वयामोहनाय सा विनिर्मिता, तेषामेव जायते, किं तु तस्या मायास्त्रियाः कर्तुः निर्मातुरपि जायते इति अपिशब्दार्थः। यदा हि परचित्तविभ्रमसंपादनार्थं मन्त्रौषधिसामर्थ्यविनिर्मितां सर्वाङ्गप्रत्यङ्गावयवलक्षणपरिपूर्णामभिनवयौवनशोभासंपत्समापन्नां प्रसन्नमनोहरवर्णां लावण्यातिशयशालिनीम् अतीव तदाकारनिर्माणप्रवीणः कश्चिन्मायाकारो जनपदकल्याणीं स्त्रियमुपदर्शयति, तदा न तावत् तदन्ये तामभिसमीक्ष्य मन्मथशरप्रहारान्तरव्यथितचेतसो जायन्ते, अपि तु योऽपि स तस्याः कमनीयकान्तिसंपदः कामकलाकौशलोत्कण्ठितमूर्तेरभिनिर्माता, मया स्वयमेव चैषा विरचितेति तत्स्वभावविचक्षणः, सोऽपि कामकलया परमदशामासादयन् न कथंचिदपि चेतः संधारयितुमलम्, तत् कथं मायोपमत्वेऽपि निश्चिते संसारसंततिच्छेदः स्यात् ?



एतत् परिजिहीर्षन्नाह अप्रहीणा हि तदित्यादि-

अप्रहीणा हि तत्कर्तुर्ज्ञेयसंक्लेशवासना।

तद्दृष्टिकाले तस्यातो दुर्बला शून्यवासना॥३२॥



हिर्यस्मादर्थे। नैतद्दूषणमस्माकमासज्जते। यस्मादप्रहीणा अनिवृत्ता। तत्कर्तुः मायास्त्रीनिर्मातुः। किमप्रहीणा ? ज्ञेयसंक्लेशवासना ज्ञेयसंक्लेशः सस्वभावतासमारोपादासङ्गादिः, वस्तुतासमारोपो वा। ज्ञेयावरणं यावत्। तस्य वासना अनादिसंसारजन्मपरंपराभ्यस्तमिथ्याविकल्पजनिततद्वीजभूतचित्तसंततिसंस्काराधानम्, तस्या अप्रहीणत्वात्। ननु एतत् समानं विज्ञानवादिनोऽपि प्रतिविधानम्। तस्यापि अद्वयतत्त्वस्य सत्त्वेऽपि आगन्तुकसंक्लेशवासनाया अप्रहीणत्वात् न सर्वे तथागता भवन्ति। नैतत् समानम्। यस्मादभावात्मानो मलाः कार्यकलाविकला नावरणं भवितुमर्हन्ति, इत्युक्तमेव। अस्माकं तु निःस्वभावमेव जन्यं जनकं चेति न समानम्। सा यस्मादप्रहीणा, अतोऽस्मात् कारणात्। तद्दृष्टिकाले, तस्या ज्ञेयसस्वभावताया दृष्टिः उपलब्धिः, तस्याः काले। तस्या वा मायास्त्रिया दृष्टिकाले उपलम्भकाले। तस्येति अप्रहीणसंक्लेशवासनस्य द्रष्टुः। दुर्बला शून्यवासनेति शून्यस्य शून्यतत्त्वस्य शून्यताया वेति विग्रहः। छन्दोनुरोधाद् भावप्रत्ययस्य लोपं कृत्वा शून्येति निर्देशः। वासना संस्काराधानम्, स दुर्बला सामर्थ्यविकला, आरोपितस्य दर्शनात्। अतस्तदा भाववासना बलवती॥



कथं तर्हि सा निवर्तते इत्याह शून्यतेत्यादि-

शून्यतावासनाधानाद्धीयते भाववासना।



शून्यताया मायास्वभावनिःस्वभावताया वासना तस्य आधानम् आवेधः। अभ्यासेन दृढीकरणमिति यावत्। तस्माद्विरूद्धप्रत्ययात् हीयते निवर्तते। वह्निसंनिधानाच्छीतस्पर्शवत्। किम् ? भाववासना अनवराग्रसंसाराभ्यस्तवस्तुसद्राहाध्यवसानवासना। तस्या भूतार्थत्वात्, वस्तुनिजस्वभावत्वाच्च। इतरस्या अलीकत्वात् आगन्तुकत्वाच्च। ननु भावाभिनिवेशो वा शून्यताभिनिवेशो वा इति नाभिनिवेशं प्रति कश्चिद्विशेषः, तस्यापि कल्पनास्वभावानतिक्रमात्। यदाह-

शून्यता सर्वदृष्टीनां प्रोक्ता निःसरणं बुधैः।

येषां तु शून्यता दृष्टिस्तानसाध्यान् बभाषिरे॥इति।

[म. शा.-१३.८]



एतत् परिहर्तुमाह किंचिन्नास्तीत्यादि-

किंचिन्नास्तीति चाभ्यासात्सापि पश्चात्प्रहीयते॥३३॥



किंचिदिति भावो वा शून्यता वा। नास्ति न विद्यते। चशब्दः पूर्वापेक्षया समुच्चये। इत्येवं चाभ्यासात् भाववासनाप्रहाणस्य पश्चात् सापि शून्यवासनापि प्रहीयते निवर्तते। अयमभिप्रायः-शून्यतावेधो हि भावाभिनिवेशस्य प्रतिपक्षत्वात् प्रहाणोपायभूतः। अधिगते च उपेये पश्चात् कोलोपमत्वात् उपायस्यापि प्रहाणमनुष्ठीयते। एतदेवाह-



सर्वसंकल्पहानाय शून्यतामृतदेशना।

यश्च (यस्य) तस्यामपि ग्राहस्त्वयासाववसादितः॥इति॥

[चतुः-२.२१]



स्यादेतत्-यदि नाम किंचिन्नास्तीति मनसिकाराभ्यासाद् भवति शून्यतावासनायाः प्रहाणम्, तथापि तदभ्यासात् पुनरभावकल्पना प्रवर्तमाना निवर्तयितुमशक्या। ततश्च गण्डप्रवेशेऽक्षितारानिर्गमो जात इति तदवस्थं तव दौष्ठयम्, इत्यत्राह यदा न लभ्यते इत्यादि-

यदा न लभ्यते भावो यो नास्तीति प्रकल्प्यते।

तदा निराश्रयोऽभावः कथं तिष्ठेन्मतेः पुरः॥३४॥



इयमपि [अभावकल्पना] विचारेण नावतिष्ठते इति। यो भावो नास्तीति प्रकल्प्यते, यस्य भावस्य प्रतिषेधः क्रियते, स यदि विचार्यमाणो निःस्वभावतया न लभ्यते न प्राप्यते तैमिरिकोपलब्धकेशस्तबकवत्। तदा निराश्रय इति। यस्यासौ परिकल्पितो भावः, तस्य संबन्धिनोऽभावात् निरालम्बः अभावः कल्पनाविदर्शितमूर्तिः कथं तिष्ठेन्मतेः पुरः, कथमसौ विचारेण बुद्धेरग्रतः प्रतिभासते ? स्वयमेव भावनिःस्वभावतायां निवर्तते॥



अथवा अन्यथावतार्यते-भवतु नाम शून्यताबलाधानाद् भाववासनाविनिवृत्तिः। तत्प्रतिषेधाभावादभावाभिनिवेशस्तु केन वार्यते इत्यत आह-यदा न लभ्यते इत्यादि। अन्यत् सर्वं पूर्ववत्॥



अयमत्र समुदायार्थः-सर्वधर्मशून्यता हि भावाभिनिवेशप्रहाणाय उपादीयते। सापि शून्यता शून्यताभिमुखीकरणात् पश्चात् प्रहीयते। यापि च कथंचिद् भावकल्पना जायते, सापि समनन्तरविचारेण निवर्तते। अत एव एतत्समस्तकल्पनाजालविनिवर्तनाय भगवत्यां प्रज्ञापारमितायां विस्तरेण अध्यात्मशून्यतादयोऽष्टादश शून्यताः प्रोक्ताः। न च शून्यता भावाद् व्यतिरिक्ता, भावस्यैव तत्स्वभावत्वात्। अन्यथा शून्यताया भावाद् व्यतिरेके धर्माणां निःस्वभावता न स्यात्। निःस्वभावता तत्स्वभाव इति प्रसाधितं प्राक्। एतदपि प्रज्ञापारमितायामुक्तम्-



पुनरपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तैर्मनसिकारैरेवं प्रत्यवेक्षते-न रूपशून्यतया रूपं शून्यम्, रूपमेव शून्यम्, शून्यतैव रूपम्। न वेदनाशून्यतया वेदना शून्या, वेदनैव शून्या, शून्यतैव वेदना। न संज्ञाशून्यतया संज्ञा शून्या, संज्ञैव शून्या, शून्यतैव संज्ञा। न संस्कारशून्यतया संस्काराः शून्याः, संस्कारा एव शून्याः, शून्यतैव संस्काराः। न विज्ञानशून्यतया विज्ञानं शून्यम्, विज्ञानमेव शून्यम्, शून्यतैव विज्ञानम्॥ इति विस्तरः। उक्तं च-

यः प्रतीत्यसमुत्पादः शून्यता सैव ते मता।

भावः स्वतन्त्रो नास्तीति सिंहनादस्तवातुलः॥इति।

[चतुः-२.२०]



इति न शून्यता धर्माद् व्यतिरिक्ता। तस्माच्छून्यतायामपि नाभिनिवेशः कर्तव्यः इति॥



एवं सर्वविकल्पप्रत्यस्तमयात् समस्तावरणनिर्मुक्तिरुपजायते इत्युपदर्शयन्नाह यदा न भाव इत्यादि-



यदा न भावो नाभावो मतेः संतिष्ठते पुरः।

तदान्यगत्यभावेन निरालम्बा प्रशाम्यति॥३५॥



यदा न भावः परमार्थसत्स्वभावो मतेर्बुद्धेः संतिष्ठते पुरोऽग्रतः, न अभावः, नापि भावविरहितलक्षणोऽभावः यदा मतेः संतिष्ठते पुरः, तदा अन्यगत्यभावेन विधिप्रतिषेधाभ्यां गत्यन्तराभावात्, उभयानुभयपक्षयोरेतद्दूयविधिप्रतिषेधात्मकत्वात्, आभ्यामव्यतिरिक्ततया अनयोः संग्रहे तावपि संगृहीताविति निराश्रया, सदसतोरालम्बनयोरयोगात् बुद्धिः प्रशाम्यति उपशाम्यति। सर्वविकल्पोपशमान्निरिन्धनवह्निवत् निर्वृतिमुपयातीत्यर्थः॥



कथं तर्हि सकलकल्पनाविरहादनेककल्पासंख्येयाभिलषितं परार्थसंपदुपायभूतं बुद्धत्वमधिगम्य परार्थमभिसंपादयति भगवानित्यत्राह चिन्तामणिरिति-

चिन्तामणिः कल्पतरुर्यथेच्छापरिपूरणः।

विनेयप्रणिधानाभ्यां जिनबिम्बं तथेक्ष्यते॥३६॥



चिन्तामणिरिति चिन्तितफलदाता रत्नविशेषः। कल्पतरुरिति कल्पितफलदाता वृक्षविशेषः। स यथा विकल्पमन्तरेणापि लोकानां यथाभव्यमिच्छायाः परिपूरणः अभिलाषस्य संपादकः। जिनबिम्बं तथेक्ष्यते इति संबन्धः। चतुर्मारजयाज्जिनो भगवान्, पापकधर्मजयाद्वा। जिनस्य बुद्धस्य भगवतः बिम्बं द्वात्रिंशता महापुरुषलक्षणैर्विराजितं शरीरम्। तथा तेन प्रकारेण ईक्ष्यते सर्वकल्पनाभावेऽपि परहितसुखसंपादनसमर्थं प्रतीयते। कथं पुनरेतदिष्टमात्रेण भविष्यतीत्याह-विनेयप्रणिधानाभ्यामिति। विनेयवशात् ये बुद्धस्य भगवतो विनेयाः, तदुपाधिफलविशेषप्रतिलम्भहेतुकुशलकर्मपरिपाकात्, तद्वशात्। प्रणिधानवशाच्च, यत्पूर्वं बोधिसत्त्वावस्थायामनेकप्रकारं भगवता सत्त्वार्थसंपादनं प्रणिहितं तस्याक्षेपवशात्, कुलालचक्रभ्रमणाक्षेपन्यायेन अनाभोगेन प्रवर्तनात् सर्वसत्त्वहितसुखसंपादनमुपपद्यते। यदुक्तम्-



यस्यां रात्रौ तथागतोऽभिसंबुद्धो यस्यां च परिनिर्वृतः, अत्रान्तरे तथागतेन एकमप्यक्षरं नोदाहृतम्। तत् कस्य हेतोः ? नित्यं समाहितो भगवान्। ये च अक्षरस्वररुतवैनेयाः सत्त्वाः, ते तथागतमुखादूर्णाकोशादुष्णीषात् ध्वनिं निश्चरन्तं शृण्वन्तीत्यादि।



उक्तं च-

तस्मिन् ध्यानसमापन्ने चिन्तारत्नवदास्थिते।

निश्चरन्ति यथाकामं कुड्यादिभ्योऽपि देशनाः॥

ताभिर्जिज्ञासितानर्थान् सर्वान् जानन्ति मानवाः।

हितानि च यथाभव्यं क्षिप्रमासादयन्ति ते॥इति।

[तत्त्वसंग्रह ३२४१-४२]



चतुःस्तवेऽप्युक्तम्-

नोदाहृतं त्वया किंचिदेकमप्यक्षरं विभो।

कृत्स्नश्च वैनेयजनो धर्मवर्षेण तर्पितः॥इति॥

[चतुः-१.७]



एवमसाधारणं कारणमाख्याय पुनरन्यथा हेत्ववस्थाया एव स तादृशः प्रभावाति-शयविशेषो यदनाभोगेन परार्थसंपादनसमर्थफलमुपजायते इति वृत्तद्वयेनोपदर्शयन्नाह यथा गारुडिक इत्यादि-

यथा गारुडिकः स्तम्भं साधयित्वा विनश्यति।

स तस्मिंश्चिरनष्टेऽपि विषादीनुपशामयेत्॥३७॥



यथा गारुडिको विषतत्ववित् लब्धमन्त्रसामर्थ्यः स्तम्भं काष्ठमयं वा अन्यद्वा साधयित्वा मन्त्रेणाभिसंस्कृत्य ममाभावादयमेव सर्वविषापहारचतुरो भविष्यतीति विनश्यति, स्वयमुपरतव्यापारो भवति। स स्तम्भः तेनाभिमन्त्रितः तस्मिन् गारुडिके चिरनष्टेऽपि प्रभूतकालमुपरतेऽपि विषादीनुपशामयेत्, आदिशब्दात् ग्रहादिविकारमपहरेत्। छान्दससमयं परिपालयता मितोऽपि उपधाया णिचि ह्रस्वो न कृतः। संज्ञापूर्वकस्य विधेरनित्यत्वाद्वा॥



एवं दृष्टान्तमुपपाद्य दार्ष्टान्तिके योजयन्नाह बोधिचर्येति-

बोधिचर्यानुरूप्येण जिनस्तम्भोऽपि साधितः।

करोति सर्वकार्याणि बोधिसत्त्वेऽपि निर्वृते॥३८॥



यथाशब्दस्तथेत्याकर्षयति। तथा बोधौ बोधिनिमित्तं बुद्धत्वार्थं चर्या [बोधिचर्या]। बोधिसत्त्वेऽपि निर्वृते इति, बोधिः बुद्धत्वम्, एकानेकस्वभावविविक्तमनुत्पन्नानिरुद्धमनुच्छेदमशाश्वतं सर्वप्रपञ्चविनिर्मुक्तमाकाशप्रतिसमं धर्मकायाख्यं परमार्थतत्त्वमुच्यते। एतदेव च प्रज्ञापारमिताशून्यतातथताभूतकोटिधर्मधात्वादिशब्देन संवृतिमुपादाय अभिधीयते। इदमेव च अभिसंधायोक्तम्-



धर्मतो बुद्धा द्रष्टव्या धर्मकाया हि नायकाः।

धर्मता चाप्यविज्ञेया न सा शक्या विजानितुम्॥इति।

[वज्रच्छेदिका-२६]



उक्तं च-

अलक्षणमनुत्पादमसंस्कृतमवाङ्मयम्।

आकाशं बोधिचित्तं च बोधिरद्वयलक्षणा॥इति।



तत्र [बोधिः] सत्त्वमभिप्रायोऽस्येति बोधिसत्त्वः। तस्मिन्निर्वृतेऽपि। अपिशब्दो भिन्नक्रमः। अप्रतिष्ठितनिर्वाणत्वेन परमां शान्तिं गतेऽपि। हेत्ववस्थानिवृत्तौ फलावस्थाप्राप्तौ चेत्यर्थः। इति उभयथापि सर्वथा कल्पनाविरहेऽपि सत्त्वार्थसंपादनमविकलमुपदर्शितं भवति॥



स्यादेतत्-यदि भगवानुपरतसकलविकल्पालम्बनतया निवृत्तसर्वचित्तचैत्तव्यापारः, कथं तर्हि तथागतपूजा महाफला वर्ण्यते इत्याशङ्कयन्नाह अचित्तके इत्यादि-

अचित्तके कृता पूजा कथं फलवती भवेत्।



संवृतिचित्तविविक्ते भगवति कृता उपहृता पूजा काराविशेषः कथं फलवती भवेत्, सफला स्यात् ? तत्र असत्युपभोक्तरि दायकदानपतीनां कथं पुण्यं भवेत् ? अत्रोत्तरमाह तुल्यैवेत्यादि-

तुल्यैव पठ्यते यस्मात्तिष्ठतो निर्वृतस्य च॥३९॥



तुल्यैव समैव। पठ्यते आगमे प्रतिपाद्यते। यस्मात् तिष्ठतो निर्वृतस्य च तस्मात् फलवती भवेदिति योजनीयम्। तिष्ठतोऽपरिनिर्वृतस्य। निर्वृतस्य निरुपधिनिर्वाणं गतस्य पूजाया नास्ति विशेषः। अयमभिप्रायः-द्विविधं हि पुण्यम्-त्यागान्वयं च, त्यागादेव यदुत्पद्यते। परिभोगान्वयं च, देयधर्मपरिभोगाद् यदुत्पद्यते। तत्र यदि नाम निर्वृते भगवति प्रतिग्रहीतुरभावात् परिभोगान्वयं न भविष्यति पुण्यम्, परित्यागान्वयं च केन वार्यते ? अप्रतिगृह्णति कस्मिंश्चित् कथं परित्यागान्वयमपि पुण्यम् ? किं पुनः कारणं सति प्रतिग्रहीतरि भवितव्यं पुण्येन, नासति ? कस्यचिदप्यभावादिति चेत्, इदमकारणमेव। यदि हि पुण्यं परानुग्रहादेव स्यात्, मैत्र्याद्यप्रमाणसम्यग्दृष्टिभावनायां न स्यात्। तस्मात् द्रष्टव्यं स्वचित्तप्रभवं परानुग्रहमन्तरेणापि पुण्यम्। तथा व्यतीतेऽपि गुणवति तद्भक्तिकृतं स्वचित्ताद्भवत् पुण्यं न विरुध्यते इति॥



अपि च सर्वपुण्यपापसद्भावे सर्वेषामागमः साक्षीत्याह आगमाच्चेत्यादि-

आगमाच्च फलं तत्र संवृत्या तत्त्वतोऽपि वा।



किमत्र उपपत्त्यन्तरेण ? आगमात् भगवत्प्रवचनात् फलं भगवत्पूजाकृतं महाभोगतादिलक्षणमवगम्यते। तत्रेति निर्वृतानिर्वृते भगवति पूजायाम्। एतावांस्तु विशेषः-कस्यचित् तत् फलं सांवृतम्, कस्यचित् पुनः पारमार्थिकमभिमतम्। एवमनन्तरविचारमनादृत्य विशेषेणोच्यते। संवृत्या तत्त्वतोऽपि वा पुण्यपापक्रियायाः फलं भगवदागमात् प्रतीयते, तत्र च आवयोरविवाद एव तत्र इदमुक्तं भगवता पुष्पकूटधारण्याम्-



ये केचित् सिंहविक्रीडित तथागतस्य पूजां करिष्यन्ति तिष्ठतो वा परिनिर्वृतस्य वा, सर्वे ते त्रियानादेकतरेण यानेन परिनिर्वास्यन्ति। यश्च खलु सिंहविक्रीडित तथागतमर्हन्तं सम्यक्संबुद्धं दृष्ट्वा चित्तं प्रसादयेत्, प्रसन्नचित्तः सत्कुर्यात् गुरुकुर्यात् मानयेत् पूजयेत् उपचरेत्, लाभेन चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सर्वसुखोपधानैरुपतिष्ठेत्। यश्च परिनिर्वृतस्य तथागतस्य सर्षपफलमात्रधातौ शरीरपूजां कुर्यात्, समो विपाकः प्रतिकाङ्क्षितव्यः। तथा पूजायै नास्ति विशेषो नानाकरणं च। इति॥



उक्तं च-

तिष्ठन्तं पूजयेद्यस्तु यश्चापि परिनिर्वृतम्।

समचित्तप्रसादेन नास्ति पुण्यविशेषता॥इति।

[दिव्या]



पुनरिदमुक्तम्-

यश्च खलु पुनः सिंहविक्रीडित तथागतं वर्षशतं वा वर्षसहस्रं वा सर्वसुखोपधानेनोपतिष्ठेत्, यश्च परिनिर्वृतस्य तथागतस्य चैत्ये बोधिचित्तपरिगृहीतैकपुष्पमारोपयेत्, तथागतपूजायै जलाञ्जलिं चोपनामयेत्, जलेन चोपसिञ्चेत्, ईषिकापदं वा दद्यात्, निर्माल्यं वा अपनयेत्, उपलेपनप्रदानं वा दीपप्रदानं वा कुर्यात्, आत्तमनाः, एकक्रमपदव्यतिहारं वा अतिक्रम्य वाचं भाषेत-नमस्तमै बुद्धाय भगवते इति, मा ते अत्र सिंहविक्रीडित काङ्क्षा वा विमतिर्वा विचिकित्सा वा, यदसौ कल्पं वा कल्पशतं वा कल्पसहस्रं वा दुर्गतिविनिपातं गच्छेत्, नेदं स्थानं विद्यते॥इति।



एतदवश्यमभ्युपेयमिति [आह] सत्यबुद्धे इत्यादि-

सत्यबुद्धे कृता पूजा सफलेति कथं यथा॥४०॥



सत्यबुद्धे परमार्थसति भगवति कृता पूजा सफलेति फलवती, इत्येतदपि कथं यथेति। कथमिवेत्युदाहरणमुपदर्शयति। नान्यदत्रोदाहरणमागमादिति भावः। तस्मात् सर्वथा भगवत्पूजायां फलसद्भाव आगमादवगम्यते॥



शून्यतावासनाधानादित्यादि यदुक्तम्, तत्र वैभाषिकादयः सर्वधर्मशून्यतायाः सर्वावरणप्रहाणमसहमानाः चतुरार्यसत्यदर्शनभावनां च तदुपायमिच्छन्तः प्राहुः सत्यदर्शनत इत्यादि-

सत्यदर्शनतो मुक्तिः शून्यतादर्शनेन किम्।



चतुर्णामार्यसत्यानां दुःखसमुदयनिरोधमार्गलक्षणानां दर्शनतः उपलब्धितः। साक्षात्करणादित्यर्थः। दर्शनत इत्युपलक्षणम्। भावनातोऽपि द्रष्टव्यम्। तदुक्तम्-

क्लेशप्रहाणमाख्यातं सत्यदर्शनभावनात्।इति।

[अभि. को. ६.१]



तत्र वृत्तस्थस्य श्रुतचिन्तावतो भावनायां प्रवृत्तस्य अशुभानापानस्मृतिस्मृत्युपस्थानभावना निष्पत्तिक्रमेण अनित्यतो दुःखत शून्यतोऽनात्मतश्च इत्येतैः षोडशभिराकारैः दुःखादिसत्यं पश्यतः उष्मगतादिचतुर्निर्वेधभागीयद्वारेण दुःखे धर्मज्ञानक्षान्त्यादिपञ्चदशक्षणलक्षणस्य दर्शनमार्गस्य, ततः परं भावनामार्गस्याधिगमात्, दर्शनभावनाहेयत्रैधातुकक्लेशोपक्लेशराशिप्रहाणात् क्षयानुत्पादज्ञानोत्पत्तिरित्यार्यसत्येषु संक्षेपतोऽभिसमयक्रमः। इत्थमार्यसत्यदर्शनतो मुक्तिरुच्यते। तस्मादत एव मुक्तिरस्तु, शून्यतादर्शनेन किम्, शून्यतायाः सर्वधर्मनिःस्वभावताया दर्शनेन अधिगमेन। साक्षात्करणेनेति यावत्। किम् ? न किंचित् प्रयोजनम्। तदपरस्य मुक्तेरुपायस्य विद्यमानत्वात्। अत्राह न विनेत्यादि-

न विनानेन मार्गेण बोधिरित्यागमो यतः॥४१॥



न उपायान्तरमस्ति, तस्मादित्यर्थः। इदं महार्थस्य तत्त्वम्। तथा हि-सर्व एव हि भावा आरोपितमनारोपितं चेति रूपद्वयमुद्वहन्ति। तत्र यत् तदविद्याप्रवाहितमारोपितं रूपम्, तत् सर्वजनसाधारणमिति न तदुपलब्धेः संक्लेशप्रहाणमुपपद्यते। अन्यथा सर्वे बालजनास्तथागताः स्युरिति प्राचीनप्रसङ्गः। इति अनारोपितमेव तत्त्वमनुपलम्भयोगेन अधिगम्यमानमज्ञानास्रवक्षयाय सामर्थ्यवदुपलभ्यते। तच्च प्रज्ञया विवेच्यमानं सर्वधर्मानुपलम्भलक्षणमवसितमिति सर्वधर्मशून्यतैव सर्वावरणविभ्रमप्रहाणाय पटीयसीत्यवगम्यते। इति युक्तितो निरूपितं प्राक्, निरुपयिष्यते च पश्चात्। इह पुनरागमत एव एनमर्थमवग्राहयितुम्-

न विनानेन मार्गेण बोधिरित्यागमो यतः।



इत्युक्तवान्।यदुक्तं प्रज्ञापारमितायाम्-

भगवानाह-इह सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपं भाव इति न भावयति। वेदनां भाव इति न भावयति। संज्ञां भाव इति न भावयति। संस्कारान् भाव इति न भावयति। यावत् मार्गाकारज्ञतां भाव इति न भावयति। यावत् सर्वाकारज्ञतां भाव इति न भावयति। सर्ववासनानुसंधिक्लेशप्रहाणं भाव इति न भावयति। तत्कस्य हेतोः ? नास्ति भावसंज्ञिनः प्रज्ञापारमिताभावना। यावत् नास्ति भावसंज्ञिनो दानपारमिताभावना। नास्ति भावसंज्ञिनोऽभावशून्यताभावना। नास्ति भावसंज्ञिनः षडभिज्ञाभावना। यावत् नास्ति सर्वसमाधिसर्वधारणीमुखतथागतबलवैशारद्यप्रतिसंविन्महामैत्रीमहाकरुणावेणिकबुद्धधर्माणां भावना। तत्कस्य हेतोः ? तथा हि स भावः एषोऽहमिति द्वयोरन्तयोः सक्तः। दाने शीले क्षान्तौ वीर्ये ध्याने प्रज्ञायाम्। एषोऽहमिति द्वयोरन्तयोः सक्तः। यश्च द्वयोरन्तयोः सक्तः, तस्य नास्ति मोक्षः। तत्कस्य हेतोः ? नास्ति सुभूते भावसंज्ञिनो दानम्, यावत् नास्ति प्रज्ञा, नास्ति मार्गः, नास्ति ज्ञानम्, नास्ति प्राप्तिः, नास्ति अभिसमयः, नास्त्यानुलोमिकी क्षान्तिः, नास्ति रूपस्य परिज्ञा, नास्ति वेदनायाः परिज्ञा, यावत् नास्ति प्रतीत्यसमुत्पादस्य परिज्ञा। नास्ति आत्मसत्त्वजीवजन्तुपोषपुद्गलनुजमानवकारकवेदकजानकपश्यकसंज्ञायाः परिज्ञा। यावत् नास्ति सर्ववासनानुसंधिक्लेशप्रहाणस्य परिज्ञा। कुतः पुनरस्य मोक्षो भविष्यतीति॥



अत एव पुनस्तत्रैवोक्तम्-

भगवानाह-एवमेतत् कौशिक, एवमेतत्। येऽपि तेऽभूवन्नतीतेऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धाः, तेऽपि इमामेव प्रज्ञापारमितामागम्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः। येऽपि ते भविष्यन्ति अनागतेऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धाः, तेऽपि इमामेव प्रज्ञापारमितामागम्य अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते। येऽपि ते एतर्हि दशदिग्लोकधातुषु अप्रमेयासंख्येयेषु तथागता अर्हन्तः सम्यक्संबुद्धास्तिष्ठन्ति, ध्रियन्ते यापयन्ति धर्मं देशयन्ति, तेऽपि इमामेव प्रज्ञापारमितामागम्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः। येऽपि तेऽभूवन्नतीतानां तथागतानामर्हतां सम्यक्संबुद्धानां श्रावकाः, येऽपि ते भविष्यन्ति अनागतानां तथागतानामर्हतां सम्यक्संबुद्धानां श्रावकाः, येऽपि ते एतर्हि प्रत्युत्पन्नानां तथागतानामर्हतां सम्यक्संबुद्धानां श्रावकाः, तेऽपि इमामेव प्रज्ञापारमितामागम्य प्रत्येकबोधिं प्राप्ताः, प्राप्स्यन्ति प्राप्नुवन्ति च। तत्कस्य हेतोः ? अत्र प्रज्ञापारमितायां सर्वाणि त्रीणि यानानि विस्तरेणोपदिष्टानि। तानि पुनरनिमित्तयोगेन अनुपलम्भयोगेन अनुत्पादयोगेन असंक्लेशयोगेन अव्यवदानयोगेन, यावत् तत्पुनः लोकव्यवहारेण अपरमार्थयोगेन। इति विस्तरः॥

उक्तं च-

बुद्धैः प्रत्येकबुद्धैश्च श्रावकैश्च निषेविता।

मार्गस्त्वमेका मोक्षस्य नास्त्यन्य इति निश्चयः॥इति॥

[प्रज्ञापारमितास्तुतिः]



एतन्महायानवचनमसहमान आह नन्वसिद्धमित्यादि-

नन्वसिद्धं महायानं



ननु भोः शून्यतावादिन्, महायानमागमत्वेन मम असिद्धम्, असंमतम्, तदस्योपन्यासो न साधनतया साधुः। अत्र परस्य समानपरिहारदूषणमाह कथमित्यादिना-

कथं सिद्धस्त्वदागमः।



यदि महायानमसिद्धम्, कथं केन प्रकारेण त्वदीयागमो भगवद्वचनमिति सिद्धः ? तत्र न किंचिदागमत्वप्रसाधकं प्रमाणमुत्पश्यामः। परः परिहारमाह यस्मादिति-

यस्मादुभयसिद्धोऽसौ



यस्मात् कारणात् उभयस्य तव मम च सिद्धः आगमत्वेन निश्चितोऽसौ ममागमः। न हि मदागमे भवतोऽपि महायानानुयायिनो बुद्धवचनत्वेन विप्रतिपत्तिरस्ति, तस्मात् सिद्धोऽसौ। न तु महायाने मम संप्रतिपत्तिः, येन इदमेवोत्तरं भवतोऽपि स्यात्। सिद्धान्तवादी आह-

न सिद्धौऽसौ तवादितः॥४२॥



इति। यद्यपि उभयसिद्धत्वं त्वदागमस्य आगमसिद्धौ हेतुः, तदापि नैतद्वक्तव्यम्, असिद्धत्वात्। यस्मात् तवैव तावदसौ त्वदागमः न सिद्धः। कदा ? आदौ तत्स्वीकारात् पूर्वम्। न हि अभ्युपगमात् प्राक् तव कथंचिदप्यसौ सिद्धः, इति उभयसिद्धत्वमसिद्धत्वादसाधनम्॥



यद्यपि उभयसिद्धत्वमसिद्धम्, इदं तर्हि साधनमस्तु-यद् गुरुशिष्यपरंपरया आम्रायायातं बुद्धवचनत्वेन, यच्च सूत्रेऽवतरति, विनये संदृश्यते, धर्मतां [प्रतीत्यसमुत्पादं] च न विलोमयति, तद् बुद्धवचनं नान्यत्। इत्यत्राह यत्प्रत्ययेत्यादि-

यत्प्रत्यया च तत्रास्था महायानेऽपि तां कुरु।



यः प्रत्ययो निबन्धनम् अस्या आस्थायाः, सा तथोक्ता। यत्प्रत्यया यन्निबन्धना। आस्था आदेयता आदरः। तत्र स्वागमे। तां तत्प्रत्ययामास्थाम् इह महायानेऽपि कुरु विधेहि। महायानेऽपि उक्तस्य आस्थाकारणस्य विद्यमानत्वात्। इदं पुनः सर्वप्रवचनसाधारणमव्यभिचारि लक्षणं यदुक्तमध्याशयसंचोदनसूत्रे-



अपि तु मैत्रेय चतुर्भिः कारणैः प्रतिभानं सर्वबुद्धभाषितं वेदितव्यम्। कतमैश्चतुर्भिः ? इह मैत्रेय प्रतिभानमर्थोपसंहितं भवति नानर्थोपसंहितम्। धर्मोपसंहितं भवति नाधर्मोपसंहितम्। क्लेशप्रहायकं भवति न क्लेशविवर्धकम्। निर्वाणगुणानुशंससंदर्शकं भवति न संसारगुणानुशंससंदर्शकम्। एतैश्चतुर्भिः। पेयालं। यस्य कस्यचिन्मैत्रेय एतैश्चतुर्भिः प्रतिभाति प्रतिभास्यति वा, तत्र श्राद्धैः कुलपुत्रैः कुलदुहितृभिर्वा बुद्धसंज्ञा उत्पादयितव्या। शास्तृसंज्ञां कृत्वा स धर्मः श्रोतव्यः। तत्कस्य हेतोः? यत् किंचिन्मैत्रेय सुभाषितम्, सर्वं तद्बुद्धभाषितम्। तत्र मैत्रेय य इमानि प्रतिभानानि प्रतिक्षिपेत्-नैतानि बुद्धभाषितानीति, तेषु च अगौरवमुत्पादयेत्, पुद्गलविद्वेषेण तेन सर्वं बुद्धभाषितं प्रतिभानं प्रतिक्षिप्तं भवति। धर्मं प्रतिक्षिप्य धर्मव्यसनसंवर्तनीयेन कर्मणा अपायगामी भवति॥



तदत्र धर्मताया अविलोमनमेव सम्यग्लक्षणमुक्तम्। उक्तं च-

यदर्थवद्धर्मपदोपसंहितं

त्रिधातुसंक्लेशनिबर्हणं वचः।

भवेच्च यच्छान्त्यनुशंसदर्शकं

तदुक्तमार्षं विपरीतमन्यथा॥इति।



एतन्महायाने सर्वमस्तीति कथमुपादेयं न स्यात् ? यदुक्तम् "न सिद्धोऽसौ तवादितः" इति, तत्र परो विशेषमभिधत्ते। न ब्रवीमि यदावयोर्द्वयोः सिद्धमुभयसिद्धमिति, किं तर्हि आवाभ्यामन्येषामुभयेषां मदागमः सिद्ध इत्युपादेयः, न महायानम्, एतद्विपरीतत्वात्। तेन नोपादेयमित्याह अन्योभयेष्टेत्यादि-

अन्योभयेष्टसत्यत्वे वेदादेरपि सत्यता॥४३॥



यदि आवयोर्विवादारूढत्वात् आवाभ्यामन्ये ये केचिदप्रतिपन्ना उभये, तेषामिष्टं अभिमतम्। संमतमिति यावत्। तस्य सत्यत्वे यथार्थत्वे अभ्युपगम्यमाने सति वेदादेरपि सत्यता वेदवाक्यस्य चोदनालक्षणस्य। आदिशब्दात् कणादादिवचनस्यापि। सत्यता अमृषार्थता स्यात्। तत्रापि वादिप्रतिवादिभ्यामन्योन्योभयसंमतिः संभाव्यते, इति तदप्युपादेयं भवतः स्यात्। तस्मान्नायमपि विशेषः॥



अथापि स्यात्-मदागमे बुद्धवचनत्वेऽविवादः, न तु महायाने। तेन स उपादेयो नेतरदित्याशङ्कयन्नाह सविवादं महायानमित्यादि-

सविवादं महायानमिति चेदागमं त्यज।

तीर्थिकैः सविवादत्वात्स्वैः परैश्चागमान्तरम्॥४४॥



सविवादं सविप्रतिपत्तिकं महायानम्। केचिद् बुद्धवचनतया प्रवृत्त्यङ्गमिच्छन्ति, केचित् तद्विपरीतसमारोपान्नेच्छन्ति, इति हेतोः, चेत् यदि न ग्राह्यम्, तदा आगमं त्यज, स्वागममपि विजहीहि, सोऽपि प्रवृत्त्यङ्गं न स्यात्। कस्मात् ? तीर्थिकैर्मीमांसकादिभिः सविवादत्वात् विप्रतिपत्तिसंभवात् परित्यागमर्हति। न केवलं तीर्थिकैः, अपि तु स्वयूथ्यैरित्याह-स्वैरिति। चतुर्निकायमष्टादशभेदभिन्नं भगवतः शासनम्। तत्र एकस्यैव निकायस्य अनेकभेदसंभवात् स्वयूथ्यैरपि परस्परविवादः संभवति। स्वैरिति स्वनिकायान्तर्गतभेदान्तरावस्थितैः। परैरिति अन्यनिकायव्यवस्थितैः। चकारः पूर्वापेक्षया समुच्चयार्थः। सविवादत्वात् आगमान्तरं त्यजेति संबन्धः। त्वदभ्युपगतादागमादन्य आगमः आगमान्तरम्। तदपि सविवादत्वान्न स्वीकारमर्हति। त्वदागमस्यापि अपरापेक्षया सविवादत्वं समानमिति परित्यागे तुल्य एव न्यायः। अथवा। स्वैरिति एकभेदव्यवस्थितैः सौत्रान्तिकाभिधर्मिकवैनयिकैः परस्परं सविवादत्वात् सूत्राभिधर्मविनयाः परित्यागमर्हन्ति। अस्ति हि एकभेदावस्थितानां सौत्रान्तिकादीनामन्योन्यं विवादः। परैरिति एकनिकायाश्रितभेदान्तरगतैः। एतेन यदुक्तम्गुरुपर्व[शिष्य?]क्रमेणाम्नायायातं बुद्धवचनमित्यादि, तदनेनैव प्रत्याख्यातं द्रष्टव्यम्। न हि अविस्मृतसंप्रदायानामन्योन्यस्य विवादो युक्तः। न च सर्वज्ञवचनेषु परस्परहतिरस्ति। न च सूत्राभिधर्मविनयानां परस्परमेकवाक्यता भवतः संभवति। तत् कथं सूत्रादिसंस्यन्दनं बुद्धवचनत्वे हेतुरुक्तम् ? तस्माद् यत्किंचिदेतत्॥



एवं समानपरिहारदूषणतामभिधाय पुनर्विशेषेण परस्याभ्युपगमे दूषणमुद्भावयन्नाह-

शासनं भिक्षुतामूलं भिक्षुतैव च दुःस्थिता।



शासनमित्यादिनोपक्रमते-शासनं भगवता हिताहितस्वीकारपरिहारदेशनालक्षणम्। तच्च भिक्षुतामूलम्। अथवा। आगमविप्रतिपत्तिमानुषङ्गिकीं परिसमाप्य यदुक्तम्-



सत्यदर्शनतो मुक्तिः शून्यतादर्शनेन किम्। [९.४१]



इति निराचिकीर्षन्नाह-शासनमित्यादि। शासनम्-इदं कर्तव्यमिदं न कर्तव्यमित्याज्ञाप्रणयनम्। तद् भिक्षुतामूलम्। भिक्शुभावो भिक्षुता, सैव मूलं कन्दो यस्येति तत्तथोक्तम्, तत्प्रतिष्ठितत्वात्। यथा किल दृढमूलो वृक्षः चिरमवस्थितिमनुभवन् काण्डशाखाप्रशाखापत्रपुष्पफलच्छायादानसंतापाद्यपहरणसमर्थो भवति, तथा भगवतोऽपि शासनकल्पपादपोभिक्षुताकन्दमासाद्य स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गध्यानारूप्यसमाधिसमापत्तिबोधिपाक्षिकार्याष्टाङ्गिकमार्गश्रामण्यफलसंपन्नः ऋद्धिप्रातिहार्यादिभिः क्लेशोष्मसंतापाद्यपहरणपटुर्भवति, इति भिक्षुताया मूलसाधर्म्यम्। तत्र संज्ञाभिक्षुः, प्रतिज्ञाभिक्षुः, भिक्षणशीलो भिक्षुः, ज्ञप्तिचतुर्थकर्मणोपसंपन्नो भिक्षुः, भिन्नक्लेशो भिक्षुः इति पञ्चप्रकारो भिक्षुः। तत्र चतुर्थपञ्चमं द्वयमग्र्यम्, इतरेषां समानाभिधानमात्राभिधेयत्वात्। तदुभयमपि शासनावस्थाननिदानमविरुद्धम्। तत्रापि भिन्नक्लेशो भिक्षुः प्रधानम्। तस्यैवेह ग्रहणम्। तद्भावो भिक्षुता। सा च आर्यसत्यदर्शनतो न संगच्छते इत्याह-भिक्षुतैव चेत्यादि। भिक्षुता भिन्नक्लेशता। क्लेशप्रहाणमिति यावत्। चो वक्तव्यान्तरं समुच्चिन्वन् हेतौ वर्तते। यस्मात् सा भिक्षुतैव दुःस्थिता, शून्यतादर्शनमन्तरेण असमञ्जसा केवलसत्यदर्शनतो न युज्यते। तस्मात् सत्यदर्शनतो मुक्तिरिति न वक्तव्यमित्यभिप्रायः। केषां सा दुःस्थिता ? सावलम्बनचित्तानामिति। सहावलम्बनेन वस्त्वभिनिवेशेन वर्तते इति सावलम्बनम्, तत्तादृशं चित्तं येषां योगिनां ते तथोक्ताः, तेषामिति। यतः ते दुःखादिसत्यं क्लेशविसंयोगं च वस्तुत्वेनावलम्बन्ते इति मतं भवताम्। अतस्तेषामुपलम्भदृष्टीनां दुःस्थिता, न निरालम्बनचित्तानाम्॥



यत्पुनरुक्तं-सत्यदर्शनतो मुक्तिरिति, तद्विकल्पनीयम्। द्विधा हि सत्यदर्शनं संभाव्यते, परमार्थतः संवृतितो वा। तद् यदाद्यो विकल्पः, तदा नास्माकं विप्रतिपत्तिः, अस्मत्पक्षस्य प्रधानत्वात्, सर्वधर्माणामस्माभिः परमार्थतो दर्शनाभ्युपगमात्। अथ द्वितीयः, तन्न सहामहे, युक्तिविरोधात्। न हि संवृतिसत्यदर्शनान्मुक्तिरुत्पद्यते, सर्वसत्त्वानां मुक्तिप्रसङ्गात्। तथा हि युक्त्यागमाभ्यां तत्त्वातत्त्वविवेचनात्, परमार्थसत्यमेवात्र क्लेशप्रहाणाय निश्चीयते न संवृतिसत्यम्। तच्च सर्वधर्मानुपलम्भलक्षणम्। न हि तदन्तरेण संक्लेशनिवृत्तिर्युज्यते। यावद्भावाभिनिवेशः, तावत् कल्पना न निवर्तते, यावच्च कल्पना तावदखण्डितमहिमानः संक्लेशाः चित्तसंतानमध्यावसन्ति। यावच्च संक्लेशाः तावत् कर्मनिर्मितजन्मपरंपराप्रसवः संसारोऽपि सुतरामव्याहतप्रसरः प्रवर्तते। तस्मात् सर्वधर्मशून्यतैव अविद्याप्रतिपक्षत्वात् संसारसंततिविच्छित्तिहेतुरवसीयते, न केवलं सत्यदर्शनम्। इदमेव आचार्यपादैरुक्तम्-

मुक्तिस्तु शून्यतादृष्टेस्तदर्थाशेषभावना॥इति।

यथाआर्यसत्यानि सत्यद्वयेऽन्तर्भवन्ति तथोपदर्शितमेव प्राक्। इत्यलमतिप्रसङ्गेन। अपि च-

सावलम्बनचित्तानां निर्वाणमपि दुःस्थितम्॥४५।



इति न केवलं भिक्षुता, किं तर्हि निर्वाणमपि, इत्यपेरर्थः। निर्वाणं क्लेशविसंयोगान्निरुपधिशेषं दुःस्थितं दुर्घटम्॥



तत्र भिक्षुतायास्तावदसंगतिमाह-

क्लेशप्रहाणान्मुक्तिश्चेत्तदनन्तरमस्तु सा।



यदि च आर्यसत्यदर्शनतः क्लेशाः प्रहीयन्ते, ततो विमुक्तिरुपजायते, तदा तदनन्तरं क्लेशप्रहाणात् समनन्तरमेवास्तु सा मुक्तिर्भवस्तु। भवतु एवम्। को वै नाम अन्यथा ब्रूते ? नैतदस्ति, कुत इत्याह-

दृष्टं च तेषु सामर्थ्यं निष्क्लेशस्यापि कर्मणः॥४६॥



चो हेतौ। दृष्टं प्रतिपन्नम्। आगमतः। यस्मात् तेषु प्रहीणक्लेशेषु आर्यमौद्गल्यायनार्याङ्गुलिमालप्रभृतिषु सामर्थ्यं फलदानं प्रति शक्तिः। तस्मान्न तदनन्तरमेव मुक्तिरस्ति। कस्य सामर्थ्यं दृष्टम् ? कर्मणः शुभाशुभलक्षणस्य। किं पूर्वमनार्यावस्थायां क्लेशसहितस्य ? नेत्याह-अक्लेशस्यापि क्लेशसहकारिरहितस्यापि कर्मणः॥



ननु च सत्यदर्शनादविद्यादि प्रहीयते, तत्प्रहाणात् संस्कारादिप्रहाणक्रमेण तृष्णापि प्रहीयते। तृष्णाविपर्यासमती च पुनर्भवोत्पत्तिनिमित्ते। ततश्च तयोरभावात् तुषरहितस्य बीजस्येव कर्मणः सद्भावेऽपि न किंचिद्विहन्यते इति। तदुक्तम्-

मिथ्याज्ञानतदुद्भूततर्षसंचेतनावशात्।

हीनस्थानगतिर्जन्म त्यक्त्वा चैतन्न जायते॥इति।



अथवा। तृष्णैव केवला पुनर्भवकारणम्, समुदयाकारत्वात्। उक्तं हि भगवता-

तत्र कतमत् समुदयार्यसत्यम्? येयं तृष्णा पौनर्भविकी नन्दीरागसहगता तत्रतत्राभि-

नन्दिनी, यदुत कामतृष्णा भवतृष्णा विभवतृष्णा चेति॥



तदेवं यस्य तृष्णा नास्ति, तस्य प्रहीणसमुदयस्य कारणाभावात् न पुनर्जन्मसंभवः। इति पराभिप्रायमुत्थापयन्नाह-

तृष्णा तावदुपादानं नास्ति चेत्संप्रधार्यते।



अविद्याप्रहाणात् तृष्णा पुनर्भवोपादानं कारणं तावन्नास्ति, न विद्यते चेद्यदि संप्रधार्यते निश्चीयते, तदा नैतद्वक्तव्यम्। यतः उपलम्भदृष्टीनामविद्याप्रहाणमनुपपन्नम्। तद्भावात् तृष्णाप्रहाणस्याप्यभावात्। भवतु वा, तथाप्यभिधीयते-

किमक्लिष्टापि तृष्णैषां नास्ति संमोहवत् सती॥४७॥



अक्लिष्टापि सती क्लेशासंप्रयुक्तापि तृष्णा किमेषां भवद्योगिनां नास्ति न संभवति। कथमिव ? संमोहवत् अक्लिष्टाज्ञानवत्॥



इत्थमपि तृष्णा निषेद्धुमशक्येत्याह-

वेदनाप्रत्यया तृष्णा वेदनैषां च विद्यते।



स्पर्शप्रत्यया वेदना, वेदनाप्रत्यया च तृष्णा। सा वेदना तृष्णाकारणमेषामस्ति। तृष्णा तु तत्कार्यम्, अविकलेऽपि कारणे न समस्ति इति कथमभिधातुं शक्यते ? निरविद्यस्य वेदनायामपि तृष्णा न भवतीति चेत्, न। भावाभिनिवेशिनां निरविद्यत्वमेव असिद्धम्, इत्युक्तम्। ततो यदि अक्लिष्टाज्ञानवत् नाभ्युपगम्यते तृष्णा, तथापि शून्यतादर्शनमन्तरेण न्यायबलादापतति। अयमत्र समुदायार्थः-यदा मुक्तसंतानेऽपि कर्मणः फलदानसामर्थ्यमुपलभ्यते, तृष्णा च वेदनासद्भावे संभाव्यमाना, तदा क्लेशप्रहाणमपि संदिह्यमानं कथमिव विमुक्तौ निश्चयं कुर्यात् ? तस्मान्न शून्यतामन्तरेण भिक्षुता सुस्थिता प्रतिभासते इति। यदुक्तम्-

सावलम्बनचित्तानां निर्वाणमपि दुःस्थितम्।



इति, तदुपपादयन्नाह-

सालम्बनेन चित्तेन स्थातव्यं यत्र तत्र वा॥४८॥



सालम्बनेन सोपलम्भेन चित्तेन स्थातव्यमासक्तव्यम्। यत्र तत्र वा यत्र तत्र आसङ्गस्थानेषु आर्यसत्यादिषु तद्भावनाफलेषु वा। आसङ्गसंभावनायां न पुनर्जन्मनिवृत्तिरिति कथं पुनर्जन्मसंभावनायां निर्वाणमपि न संदिग्धं स्यात् ?



तस्मादुक्तशून्यतैव निर्वाणकारणमुक्तेत्याह-

विना शून्यतया चित्तं बद्धमुत्पद्यते पुनः।

यथासंज्ञिसमापत्तौ भावयेत्तेन शून्यताम्॥४९॥



विना शून्यतया शून्यतामन्तरेण चित्तं विज्ञानं सालम्बनं बद्धं संयतम् आलम्बनासङ्गपाशेन। उत्पद्यते पुनः, समाधिबलात् कियत्कालं निवृत्तमपि पुनरुत्पत्तिमद् भवति। क्व पुनरिदं दृष्टमित्याह-यथा असंज्ञिसमापत्तौ इति। यथा असंज्ञिसमापत्तिं समापद्यमानानां तावत्कालं चित्तचैत्तनिरोधेऽपि पुनस्तदुत्पत्तिः स्यात्, तथा अन्यत्रापि इत्यर्थः। उपलक्षणं चैतत्। यथा निरोधसमापत्तावित्यपि द्रष्टव्यम्। अथ वा। यथा असंज्ञिसमापत्तिं समापद्य असंज्ञिषु देवेषु उपपद्यमानानामनेककल्पशतं यावन्निरुद्धानामपि तत्समापत्तिविपाकफलपरिसमाप्तौ चित्तचैत्तानां पुनरुत्पत्तिः, तथा। यतः शून्यतामन्तरेण न भिक्षुता न निर्वाणमुपपद्यते, ततः उभयार्थिनां शून्यतैव भावनीयेत्याह भावयेदित्यादि। येन कारणेन विना शून्यतया चित्तं बद्धमुत्पद्यते पुनः, तेन कारणेन निर्वाणाद्यर्थी शून्यतामेव भावयेत्। तद्भावना हि क्लेशप्रहाणं निर्वाणं चाधिगमयति। न केवलैव सत्यादिभावनेति यावत्, सालम्बनत्वात्। यदुक्तमार्यवज्रच्छेदिकायां प्रज्ञापारमितायाम्-



तत् किं मन्यसे सुभूते अपि तु स्त्रोतआपन्नस्यैवं भवति-मया स्त्रोतआपत्तिफलं प्राप्तमिति ? सुभूतिराह-नो हीदं भगवन्। तत्कस्य हेतोः ? न हि भगवन् किंचिदापन्नः, तेनोच्यते स्त्रोतआपन्न इति। न रूपमापन्नो न शब्दान् न गन्धान् न रसान् न स्प्रष्टव्यानि न धर्मानापन्नः, तेनोच्यते स्त्रोतआपन्न इति। सचेद् भगवन् स्त्रोत‍आपन्नस्यैवं भवेत्-मया स्त्रोतआपत्तिफलं प्राप्तमिति, स एव तस्य आत्मग्राहो भवेत् सत्त्वग्राहो जीवग्राहः पुद्गलग्राहो भवेत्। पेयालं। तत्किं मन्यसे सुभूते अपि नु अर्हत एवं भवति-मयार्हत्त्वं प्राप्तमिति ? सुभूतिराह-नो हीदं भगवन्। तत्कस्य हेतोः ? न कश्चिद्धर्मो योऽर्हन्नाम। सचेद्भगवन् अर्हत एवं भवेत्-मयार्हत्त्वं प्राप्तमिति, स एव तस्यात्मग्राहो भवेत्। पेयालं। भगवानाह-तस्मात्तर्हि सुभूते बोधिसत्त्वेन महासत्त्वेन एवमप्रतिष्ठितं चित्तमुत्पादयितव्यम्, न क्वचित् प्रतिष्ठितं चित्तमुत्पादयितव्यम्, न रूपप्रतिष्ठितं चित्तमुत्पादयितव्यम्, न शब्दगन्धरसस्प्रष्टव्यप्रतिष्ठितं चित्तमुत्पादयितव्यमिति।



तस्माच्छून्यतैव बोधिमार्ग इति स्थितम्॥



यत्सूत्रेऽवतरेदित्यादि अनुष्टुप्त्रयं केनचित् प्रतिक्षिप्तमिव लक्ष्यते, अपक्रमनिवेशितत्वात्। आगमविप्रतिपत्तिरस्य विचारस्य प्रस्तावः। शासनं भिक्षुतेत्यादिषु आगमविवादात्, प्रक्रमान्तरत्वात् पूर्वमेव वक्तुमुचितम्। अनेनान्तरितस्य विवादस्य पुनरुपक्रमो ग्रन्थकारस्य प्रस्तावाकौशलं स्यात्। यत्प्रत्ययेत्यादिना च प्राक्तनवृत्तद्वयार्थस्याभिहितत्वात्। महाकाश्यपमुख्यैरित्यादिवचनस्याश्लीलत्वात् ग्रन्थकाराप्रयुक्तमिति निश्चितम्। तस्मात् प्रक्षेप एवायमिति॥



स्यादेतत्-यथा सालम्बनचित्तस्यासङ्गसंभवात् न मुक्तिः स्यात्, तथा शून्यतायामपि भयमुपजायाते। तद्वरमुभयपरिहारेण संसार एव स्थितिर्युक्तेत्याह-

सक्तित्रासात्त्वनिर्मुक्त्या संसारे सिध्यति स्थितिः।

मोहेन दुःखिनामर्थे शून्यताया इदं फलम्॥५३॥



सक्तिरासङ्गः। त्रासो भयम्। शून्यताश्रवणात्, तदर्थापरिज्ञानात्। सक्तित्रासमिति समाहारः। तस्मादुभयपक्षपरिहारेण संसारे त्रैधातुकस्वभावे सिध्यति स्थितिरवस्थानमुपजायते। तुशब्दः पुनर्दोषपरिहारार्थम्। इदं तु शून्यताभ्युपगमे दूषणं स्यात्। साधारणं दूषणमिति यावत्। कुतः? अनिर्मुक्त्या। हेतौ तृतीया। मुक्तेरभावादित्यर्थः। कतमेषाम् ? दुःखिनां पञ्चगतिसंसारे जात्यादिदुःखपीडितानां सताम्। कथम् ? अर्थे अर्थविषये। मोहेन अविद्यया। आलम्बनासङ्गेनेति यावत्। अतः शून्यताया इदं फलम्, यत् पुनरपि निवृत्य संसारेऽवस्थानम्। अयमभिप्रायः-यथा शून्यताव्यतिरेकेण उपलम्भदृष्टेर्न मुक्तिः स्यात्, तथा विषयासङ्गसुखचेताः सर्वधर्मशून्यताभयभीतकातरः वरं संसार एवावस्थानमिति मन्यमानो बालः प्रशमसुखविमुखो विनिवृत्य जात्यादिदुःखमनुभवन् पुनस्तत्रैवावतिष्ठते इति किमनया प्रसाधितमिति॥



अन्ये तु सक्तित्रासान्तनिर्मुक्तयेति पाठं मन्यमाना एवं व्याचक्षते-सक्तेर्हेतुत्वात् सक्तिरासङ्गस्थानम्। त्रासहेतुत्वात् त्रासो भयस्थानम्। तावेव अन्तौ सक्तित्रासान्तौ। शाश्वतोच्छेदान्तौ इत्यर्थः। तथा हि-शाश्वतदृष्टेरासक्तिः, उच्छेददृष्टेश्च त्रासो जायते। तयोर्निर्मुक्तया परित्यागेन। पूर्ववत् तृतीया। यत् परमार्थविचारेण शाश्वतान्तविवर्जनम्, संवृतिसत्याभ्युपगमेन च उच्छेदान्तपरित्यागः, इति समारोपापवादान्तपरिहारान्मध्यमा प्रतिपत्तिरियमुपदर्शिता भवति। तथा च किं संपद्यते इत्याह-संसारे सिध्यति स्थितिः। प्रज्ञया संसारदोषालिप्तस्य करुणापरतन्त्रत्वात् संसारे सिध्यति निष्पद्यते स्थितिरवस्थानम्। किमर्थम् ? दुःखिनामर्थे परदुःखदुःखितया दुःखिनां संसारिणामर्थे, तद्दुःखसमुद्धरणाभिलाषात्॥



ननु संसारिणो नाम परमार्थतो न सन्त्येव, तत् कथं तदवस्थानमित्यत्राह-मोहेन विपर्यासेन संवृत्या सत्त्वस्योपलम्भात्। एतच्च "दुःखव्युपशमार्थं तु कार्यमोहो न वार्यते " [९.७७] इत्यत्र पश्चाद् व्यक्तीकरिष्यते। तस्माच्छून्यताया इदं फलम्, यत्करुणया संसारेऽवतिष्ठमानोऽपि शून्यतादर्शनात् संसारदोषैर्न लिप्यते। इदमप्रतिष्ठितनिर्वाणता शून्यतायाः फलम्, शून्यतामन्तरेण अस्याभावात्। तस्मादासंसारं सत्त्वार्थमवस्थानमिच्छद्भिः शून्यतैव भावयितव्या॥



एतत् सर्वमुपसंहारेणोपदर्शयन्नाह-

तदेवं शून्यतापक्षे दूषणं नोपपद्यते।



तदेतत् एवमुक्तक्रमेण शून्यतापक्षे उक्तं दूषणम्-शून्यतायां त्रासात् संसारावस्थानलक्षणं नोपपद्यते न संगच्छते वक्ष्यमाणसमाधानात्। इति प्रथमपक्षे योजना। यत एवम्-

तस्मान्निर्विचिकित्सेन भावनीयैव शून्यता॥५४॥



निर्गतो विचिकित्साया निर्विचिकित्सः निःसंदेहः। तेन सता भावनीयैव अभ्यसनीयैव शून्यता सर्वधर्मनिःस्वभावता अनुपलम्भयोगेन॥



एतेन यदुक्तम्-"न विनानेन मार्गेण" [९.४१] तदुपसंहृतं भवति। यत्पुनरुक्तम् "शून्यतादर्शनेन किम्", तत्र शून्यताया विशेषमाह-

क्लेशज्ञेयावृतितमःप्रतिपक्षो हि शून्यता।

शीघ्रं सर्वज्ञताकामो न भावयति तां कथम्॥५५॥



क्लेशा रागादयः। ज्ञेयं पञ्चविधम्। आवृतिशब्दस्तु उभयत्र संबध्यते। क्लेशा एवावृतिः। ज्ञेयं च आवृतिरावरणमिति विभज्य योजनीयम्। ज्ञेयमेव समारोपितरूपत्वादावृतिः, सैव तम इव तमः, वस्तुतत्त्वावरणात्, तस्य प्रतिपक्षः प्रहाणहेतुः। हि यस्मात् शून्यता, तस्मात् शीघ्रं त्वरितं सर्वज्ञतायां बुद्धत्वे कामोऽभिलाषो यस्यासौ तथोक्तः। सर्वज्ञतां कामयते इति वा सर्वज्ञताकामः। न भावयति तां कथमिति, तां शून्यतां कथं न भावयति नाभ्यस्यति? अपि तु महता यत्नेन भावयेदेव॥



यदप्युक्तम्-त्रासाच्छून्यतायां प्रवृत्तिर्न स्यात्, तदपि न युक्तमित्याह-यद्दुःखेत्यादि। द्वितीयपक्षे पुनरित्थमवतारणीयम्-अस्त्येव शून्यतायामेषोऽनुशंसः, केवलं प्रथमत एव तत्र संत्रासात्प्रवृत्तिर्न स्यादिति। आह-

यद्दुःखजननं वस्तु त्रासस्तस्मात्प्रजायताम्।

शून्यता दुःखशमनी ततः किं जायते भयम्॥५६॥



यद्वस्तु दुःखजननं पीडाकरम्, तस्माद्वस्तुनः सकाशात् त्रासः भयं जायतां नाम। शून्यता पुनः प्रत्युत दुःखशमनी सर्वसांसारिकदुःखापहन्त्री। ततः तस्याः शून्यतायाः किं किंनिमित्तं अभयस्थाने कातरस्य जनस्य भयं जायते ? सर्वगुणनिदानत्वात् प्रेमैव तस्यामुचितमिति भावः॥



आत्मग्रहजनिताहंकारप्रसूतं हि भयमतत्त्वविदामुत्पद्यते। स चात्मा कल्पनासमारोपितमूर्तिरिति अहंकारोऽपि तदभावादनास्पद इत्युपदर्शयन्नाह-

यतस्ततो वास्तु भयं यद्यहं नाम किंचन।

अहमेव न किंचिच्चेद्भयं कस्य भविष्यति॥५७॥



यतस्ततो वा भयाभयस्थानात् अस्तु भवतु भयम्। कदा ? यदि अहं नाम किंचन। अहमिति अहंप्रत्ययस्य विषयः कथितः। अहं नाम अहंप्रत्ययवेद्यं यत्किंचन किंचिद्वस्तु स्यात्। अव्यक्तनिर्देशान्नपुंसकता। तदा युक्तमेव भयम्। यदा पुनरहमेव न किंचित् न वस्तुसत् विचार्यमाणमहं किंचित् शब्दविकल्पमात्रादन्यत, तदा भयं कस्य ? अहमित्यस्याभावात्। भविष्यति उत्पत्स्यते। इतोऽपि विचारात् त्रासो निवर्तते इति भावः। तदुक्तम्-



नास्म्यहं न भविष्यामि न मेऽस्ति न भविष्यति।

इति बालस्य संत्रासः पण्डितस्य भयक्षयः॥इति।



यथा च अहंप्रत्ययविषयस्य कल्पनामात्रोपदर्शितत्वादसत्त्वम्, तथा प्रतिपादयन्नाह-

दन्तकेशनखा नाहं नास्थि नाप्यस्मि शोणितम्।

न सिंघाणं न च श्लेष्मा न पूयं लसिकापि वा॥५८॥



दन्तकेशनखा नाहम्। प्रत्येकममी अहंप्रत्ययविषया न भवन्ति। नास्थि नाप्यस्मि शोणितम्। अस्थि हट्टम्। शोणितं रुधिरम्। एतद्दूयमपि नास्मि नाहम्। सिंघाणं न च श्लेष्मा न पूयम्। सिंघाणं नासिकाविवरनिर्यातः क्लेदः। श्लेष्मा मुखविवरविनिर्गतः। पूयं व्रणे पक्वरुधिरम्। एतान्यपि नाहं भवन्ति। लसिकापि वा, लसिका व्रणक्लेदः, सापि नाहम्॥



नाहं वसा न च स्वेदो न मेदोऽस्त्राणि नाप्यहम्।

न चाहमन्त्रनिर्गुण्डी गूथमूत्रमहं न च॥५९॥



नाहं वसा न च स्वेदो न मेद इति। वसा शरीरस्नेहः। स्वेदः प्रस्वेदः। मेदश्चतुर्थो धातुः। इमान्यपि नाहम्। अन्त्राणि नाप्यहमिति। अन्त्राणि प्रसिद्धानि, तान्यपि नाहम्। न चाहमन्त्रनिर्गुण्डी अन्त्रनिर्गुण्डी सूक्ष्मात्मिका, सापि नैवाहम्। गूथमूत्रमहं न च, गूथं विष्ठा। एतदपि द्वयं नाहं न भवामि॥



नाहं मांसं न च स्त्रायु नोष्मा वायुरहं न च।

न च च्छिद्राण्यहं नापि षड् विज्ञानानि सर्वथा॥६०॥



नाहं मांसं न च स्नायु नोष्मा। स्नायु सिरा। ऊष्मा शरीरतेजोधातुः। इमेऽपि नाहम्। वायुरहं न च, वायुराश्वासप्रश्वासादिलक्षणः, सोऽपि नैवाहम्। न च च्छिद्राणि चक्षुरादीनि, तान्यपि नाहम्। नापि षड् विज्ञानानि सर्वथा, षट् चक्षुःश्रोत्रघ्राणजिह्वाकायमनोविज्ञानानि, तान्यपि नाहं भवन्ति। सर्वथा सर्वप्रकारेण प्रत्येकं समुदितानि वा। तथा हि दन्तादिसमुदायात्मकमेव विचार्यमाणं शरीरमुपलभ्यते। तच्च प्रत्येकमहंप्रत्ययवेद्यं न भवति, प्रत्येकमहंप्रत्ययस्य तेषु अभावात्। न हि परेषामपि एकैकशः केशादयोऽहं प्रत्ययवेद्या भवन्ति। समुदिता अपि ते एव केवलाः पूर्ववत्। न च समुदितेषु तेषु कश्चिदेकः संभवति, तस्य प्रतिषेत्स्यमानत्वात्। नाप्यनेके समुदिता अपि एकप्रत्ययविषया भवितुमर्हन्ति। न च अनेकेषु एकप्रत्ययो भ्रान्तो युक्तः। न च भ्रान्तेस्तत्त्वव्यवस्था। तस्मात् कल्पनामात्रमेतदहमित्यर्थशून्यमाभातीति निश्चितम्। उक्तं चैतदशुभभावनाप्रस्तावे शिक्षासमुच्चये-



सन्ति अस्मिन् काये केशा रोमाणि नखा दन्ता रजो मलं त्वकू मांसास्थि स्नायु शिरा बुक्का हृदयं प्लीहकः क्लोमकः अन्त्राणि अन्त्रगुणाः आमाशयः पक्काशयः औदरीयकं यकृत् पुरीषम् अश्रु स्वेदः खेटः सिंघाणकं वसा लसिका मज्जा मेदः पित्तं श्लिष्मपूयशोणितं मस्तकलुङ्गं प्रस्रावः। एषु च वस्तुषु बोधिसत्त्वः उपपरीक्षणजातीयो भवति। एतत् पुनः पश्चात् कायस्मृत्युपस्थानपर्यन्ते निर्देक्ष्यामः। इति। एवं निर्विषय एवाहंप्रत्ययविशेषः॥



स्यादेतत्-यदि नाम केशादयोऽहंप्रत्ययवेद्या न भवन्ति, तथापि नायं निर्विषयः सिध्यति। यतः अन्तर्व्यापारपुरुषगोचर एव अहंप्रत्ययोऽस्माभिरिष्यते इति नैयायिकादयः। नैतदपि युक्तम्। यस्मात्-अहं गौरः कृशो दीर्घो गच्छामीत्याद्याकारपरामर्शात्मक एव अयमहंप्रत्ययः प्रतिभासते। न च आत्मन एतद्रूपमिष्यते परैः। न च अन्याकारेण ज्ञानेन अन्यस्य ग्रहणं युक्तम्, अतिप्रसङ्गात्। तथा हि तद्वान्, इदमिदं तस्य लक्षणमुपवर्णयन्ति परे। तत्र नैयायिकास्तावत् नित्यं सर्वगतं प्रतिप्राणिभिन्नमचेतनं चेतनायोगात्तु चेतनं सुखादिगुणाधारं शुभाशुभकर्मकर्तारं तत्फलोपभोक्तारं परलोकिनं च आत्मानमिच्छन्ति। नैयायिकवद्वैशेषिका अपि। तदुक्तम्-

अन्ये पुनरिहात्मानमिच्छादीनां समाश्रयम्।

स्वतोऽचिद्रूपमिच्छन्ति नित्यं सर्वगतं तथा॥

शुभाशुभानां कर्तारं कर्मणां तत्फलस्य च।

भोक्तारं चेतनायोगाच्चेतनं न स्वरूपतः॥इति।

[तत्त्वसंग्रह-१७१-१७२]



जैमिनीयास्तु-व्यावृत्त्यनुगमात्मकं बुद्धिरूपेण परिणामिनं चैतन्यरूपमात्मानमिच्छन्ति। तच्च चैतन्यं बुद्धिस्वभावम्। न च तस्य प्रवृत्तिनिवृत्ती भवतः, तस्योभयत्रानुगतरूपत्वात्। तद्यथा-सर्पस्य कुण्डलावस्थानिवृत्तौ ऋजुत्वावस्थाप्रवृत्तौ च सर्पत्वस्योभयत्राप्यवृत्तिः। यथोक्तम्-

व्यावृत्त्यनुगमात्मानमात्मानमपरे पुनः।

चैतन्यरूपमिच्छन्ति चैतन्यं बुद्धिलक्षणम्॥

यथाहेः कुण्डलावस्था व्यपेति तदनन्तरम्।

संभवत्यार्जवावस्था सर्पत्वं न निवर्तते॥

तथैव नित्यचैतन्यस्वभावस्यात्मनोऽपि न।

निःशेषरूपविगमः सर्वस्यानुगमोऽपि च॥इति।

[तत्त्वसंग्रह-२२२-२२४]



इति विशेषः। अन्यत् सर्वं पूर्ववत्॥

जैनास्तु जैमिनीयवच्चेतनमात्मानमिच्छन्ति द्रव्यपर्यायरूपेण यथायोगमनुगमव्यावृत्त्यात्मकम्। तथा चोक्तम्-

जैमिनीया इव प्राहुर्जैनाश्चिल्लक्षणान्तरम्।

द्रव्यपर्यायरूपेण व्यावृत्त्यनुगमात्मकम्॥

[तत्त्वसंग्रह-३११]



कापिलास्तु नित्यं व्यापकं निर्गुणं स्वयमेव चैतन्यात्मकमात्मानमिच्छन्ति, न तु बुद्धिसंबन्धात्। बुद्धेः स्वयमचित्स्वभावत्वात्। चैतन्यं पुरुषस्य स्वरूपमिति वचनात्। नापि स कस्यचित् कार्यस्य कर्ता, स्वयं तत्फलोपभोक्ता वा, निष्क्रियत्वात्। प्रकृतिरेव तत्कर्त्री तस्य, तत्फलोपनेत्री च। विपर्यासवशादसौ स्वात्मनि तत् समारोपयति। तथा हि-यदा पुरुषस्य शब्दादिविषयोपभोगाकारमौत्सुक्यमुपजायते, तदा प्रकृतिः परिज्ञातपुरुषौत्सुक्या पुरुषेण युज्यते, ततः शब्दादिसर्गं करोति। शब्दादिषु श्रोत्रादिवृत्तिभिर्मनसाधिष्ठिताभिः परिगृहीतेषु विषयेषु बुद्धिरध्यवसायं करोति। ततो बुद्ध्यवसितमर्थं पुरुषश्चेतयते इति। एवं चैतन्यस्वरूपत्वान्निर्गुणत्वम्, व्यापित्वान्निष्क्रियत्वमिति सांख्यपुरुषस्य विशेषः। उक्तं च-

चैतन्यमन्ये मन्यन्ते भिन्नं बुद्धिस्वरूपतः।

आत्मनश्च निजं रूपं चैतन्यं कल्पयन्ति ते॥

प्रधानेनोपनीतं च फलं भुङ्क्ते स केवलम्।

कर्तृत्वं तस्य नैवास्ति प्रकृतेरेव तन्मतम्॥

[तत्त्वसंग्रह-२८५-८६]



प्रवर्तमानान् प्रकृतेरिमान् गुणान्

तमोवृतत्वाद्विपरीतचेतनः।

अहं करोमीत्यबुधोऽभिमन्यते

तृणस्य कुब्जीकरणेऽप्यनीश्वरः॥इति।

[सांख्यक्रमदीपिका-४३]



उपनिषद्वादिनस्तु समस्तप्राणिसंतानान्तर्गतमेकमेव व्यापि नित्यं च ज्ञानमिच्छन्ति। तद्विवर्तरूपतया सकलमिदं क्षितिजलपवनहुताशनादिकं जगदवभासते। तत्स्वभाव एव चात्मा। न बाह्यं किमप्यवयवि परमाण्वादिकं ग्राह्यं प्रमाणप्रसिद्धमस्ति। आह च-

नित्यो ज्ञानविवर्तोऽयं क्षितितेजोजलादिकः।

आत्मा तदात्मकश्चेति संगिरन्तेऽपरे पुनः॥

ग्राह्यलक्षणसंयुक्तं न किंचिदिह विद्यते।

विज्ञानपरिणामोऽयं तस्मात्सर्वं परीक्ष्यते॥इति।

[तत्त्वसंग्रह-३२८-२९]



पुद्गलवादिनस्तु पुनरन्तश्चरतीर्थिकाः। स्कन्धेभ्यस्तत्त्वान्यत्वाभ्यामवाच्यं पुद्गलनामानमात्मानमिच्छन्ति। अन्यथा तीर्थिकसिद्धान्ताभिनिवेशदर्शनं स्यात्। आह च-

केचिच्च सौगतंमन्या अप्यात्मानं प्रचक्षते। इति।

[तत्त्वसंग्रह-३३६]



कथमात्मनोऽहंप्रत्ययविषयता स्यात्? स्वस्वरूपेण तत्राप्रतिभासनात्। तत्कथमात्मा अहंप्रत्ययतया प्रतिभासते इत्युच्यते ? तस्माद् विकल्पमात्रमेतत्। निर्विषयमुत्पद्यते इति स्थितम्॥



संप्रति चित्स्वभावात्मवादिनः सांख्यादयः षड्विज्ञानानामात्मनिषेधमसहिष्णवः प्राहुः-शब्दादिज्ञानं चिदात्मकमात्मैवास्माभिरभिधीयते। तत्कथमस्यात्मताप्रतिषेध उच्यते ? इति पराभिप्रायमाकलय्य सिद्धान्तवादी प्रसङ्गमासञ्जयन्नाह-

शब्दज्ञानं यदि तदा शब्दो गृह्येत सर्वदा।



ननु यदि शब्दज्ञानात्मक आत्मा, तस्य च नित्यत्वात् शब्दज्ञानं नित्यं स्यात्, तदा शब्दोऽपि सदा नित्यमेव तद्भावाभावकालयोर्ग्रहीतव्यः स्यात्, शब्दग्रहणस्वभावस्य तस्य तत्सदसत्ताकाले सर्वदानुवर्तनात्। अन्यथा नित्यत्वमेव तस्य हीयेत। भवतु, एवमेवेति चेत्, आह-

ज्ञेयं विना तु किं वेत्ति येन ज्ञानं निरुच्यते॥६१॥



ज्ञानमेव नित्यमुपस्थितम्, शब्दस्य तु कादाचित्कत्वात् न सर्वदा सत्ताभिव्यक्तिः। ततश्च तदसत्ताकाले ज्ञेयं विना विषयमन्तरेण किं वेत्ति किं जानाति तद् ज्ञानम् ? तुशब्दोऽसत्ताकालप्रश्नविशेषे वर्तते। येन ज्ञेयेन शून्यमपि ज्ञानं निरुच्यते अभिधीयते। ज्ञेयं जानातीति ज्ञानमाख्यायते, तदभावात् कथं ज्ञानमित्याशयः॥



एतदेवाह-

अजानानं यदि ज्ञानं काष्ठं ज्ञानं प्रसज्यते।



यदपि विषयं न जानाति, तदपि यदि ज्ञानमुच्यते, तदा काष्ठमज्ञानस्वभावं ज्ञानं प्रसज्यते। न हि तेन किंचिदपराद्धं येन न विज्ञानं स्यात्। न चैवम्। तस्माद्विषयपरिज्ञानाभावात् यथा काष्ठं ज्ञानं न भवति, तथा अन्यदपि न स्यादित्याह-

तेनासंनिहितज्ञेयं ज्ञानं नास्तीति निश्चयः॥६२॥



येन निर्विषयं न ज्ञानम्, तेन कारणेन असंनिहितज्ञेयं असंनिहितमयोग्यदेशस्थं ज्ञेयं ग्राह्यो विषयो यस्य तत्तथोक्तं ज्ञानं नास्ति न विद्यते इति निश्चयः एकान्त एषः। सापेक्षत्वात्॥



स्यादेतत्-शब्दस्य सदाविद्यमानत्वात् नासंनिहितविषयं शब्दज्ञानम्। अग्रहणं तु कदाचित् कादाचित्काभिव्यक्तित्वादिति नोक्तदोषप्रसङ्गः। नैतदस्ति। यतो यदस्य ज्ञानस्य परिच्छेद्यं रूपं व्यक्तमित्युच्यते, तस्य सदासंनिहितविषयतया ग्राहकमज्ञानमभिधीयते। शब्दस्य तु सदा सत्त्वमसत्त्वं वा न विवक्षितम्। ज्ञानं तु कदाचिदग्राहकमित्येतावतैव साध्यसिद्धेः। तस्मादसंनिहितज्ञेयमित्यनेन ज्ञानस्यैव अग्राहकत्वं साध्यते। येन रूपेण ज्ञानस्य ग्राह्यो विषयः, तस्य न सर्वदा संनिधानमस्तीति कृत्वा इति कथं नोक्तदोषप्रसङ्गः ? शब्दस्य यथा सर्वदा सत्त्वं नास्ति, तद्विस्तरभयान्नोच्यते॥



अपि च। यदि शब्दज्ञानमेवात्मा, तदा तद्ग्रहणात्मकत्वात्तस्य रूपग्रहणं न स्यात्। नैतदस्ति। यतः तदेव रूपग्राहकमिष्यते इति चेदत्राह तदेवेत्यादि-

तदेव रूपं जानाति तदा किं न शृणोत्यपि।



तदेव शब्दज्ञानमेव यदि रूपं जानातीति मतम्, तदा किं न शृणोत्यपि, तदा रूपग्रहणकाले किमिति न शृणोत्यपि, शब्दमपि किं न गृह्णाति ? शब्दज्ञानत्वात्। अथ गृह्णात्येव, यदि संनिहितं स्यात्। केवलमसंनिधानात् न दोष इति परस्योत्तरमाशङ्कयाह शब्दस्येत्यादि-

शब्दस्यासंनिधानाच्चेत्ततस्तज्ज्ञानमप्यसत्॥६३॥



शब्दस्य विषयतामापन्नस्य असंनिधानादयोग्यदेशात् ग्रहणं न स्यात्-यदि, एवमभिधीयते, ततस्तत् ज्ञानमप्यसत्। तत् तस्मात् तर्हि शब्दस्यासंनिधानात् तत् ज्ञानमपि शब्दज्ञानम् असदविद्यमानम्। शब्दज्ञानमेव तर्हि तन्न भवतीत्यर्थः॥



किं च। यदि शब्दज्ञानं तदा रूपग्रहणाद्यात्मकं तन्न युज्यते इत्याह शब्दग्रहणेत्यादि-

शब्दग्रहणरूपं यत्तद्रूपग्रहणं कथम्।



शब्दस्य ग्रहणरूपं शब्दस्य ग्रहणस्वभावम्। शब्दग्राहकमिति यावत्। यत् ज्ञानं तद् रूपग्रहणं रूपग्रहणात्मकं कथम् ? न कथंचिदपि स्यात्। एकस्य निरंशस्य रूपद्वयायोगात्। ननु यथा कश्चिदेक एव कस्यचिदपेक्षया पिता, कस्यचिदपेक्षया च स एव पुत्रः स्यात्, तथा प्रकृतेऽपि रूपद्वयमेकस्य भविष्यतीत्याह एकः पितेत्यादि-

एकः पिता च पुत्रश्च कल्प्यते न तु तत्त्वतः॥६४॥



एकः पिता एव जनकः पुत्रश्च जन्यः स एवेति कल्प्यते, स तु तदपेक्षया कल्पनया व्यवस्थाप्यते। न तु तत्त्वतः, न पुनः परमार्थतः। एक एव स्वभावः उभयात्मकः कल्पनासमारोपितव्यपदेशात् [रूपभेदेन] पुनरेक एव तथा नानाभिधानेन नैवाभिधीयते। उभयवास्तवरूपद्वयमेकस्य घटनीयम्, तच्च कथंचिदपि न संगच्छते, रूपद्वयव्यतिभिन्नतया वस्तुनोऽपि द्वित्वप्रसङ्गात्। तस्मात् यथा वास्तवमेकस्य द्विरूपत्वं तन्न दृष्टान्तधर्मिण्यस्ति, यच्चास्ति काल्पनिकम्, तत् प्रकृतानुपयोगीति यत्किंचिदेतत्॥



इतोऽपि न पारमार्थिकोऽयं व्यपदेश इत्याह सत्त्वं रज इति-

सत्त्वं रजस्तमो वापि न पुत्रो न पिता यतः।



एतच्च अवश्यं त्वयापि स्वीकर्तव्यम्-सांख्यमते हि त्रिगुणमेकं जगत्, ततः सत्त्वं रजस्तमो वापीति समुदायः समुच्चयार्थः। यतो यस्मादेते गुणाः स्वस्वभावावस्थिताः प्रत्येकं समुदिता वा। तस्मान्न पिता न पुत्रः परमार्थतः। सर्वदा गुणा एव केवलाः सन्ति। अयमर्थः-पुत्रावस्थायां ये सत्त्वरजस्तमोलक्षणा गुणाः, ते एव प्राप्तजनकभावा अपि तेन पूर्वापरकालयोरविशिष्टस्वभावा एव। ते ततस्तदपेक्ष्य पिता पुत्रश्चाभिधीयन्ते, न तु तत्र कश्चिद्विशेषः। ततः काल्पनिक एवायं व्यवहारः। यदि च रूपग्रहणकालेऽपि शब्दग्रहणात्मकमेकमेव तज्ज्ञानम्, तदा तत्स्वभावमुपलभ्येत, न चोपलभ्यते। ततो न तद्ग्रहणात्मकमित्याह शब्दग्रहणेत्यादि-

शब्दग्रहणयुक्तस्तु स्वभावस्तस्य नेक्ष्यते॥६५॥



शब्दग्रहणेन युक्तः संबद्धः। तुशब्दो विशेषाभिधाने। स्वभावस्तस्य रूपग्राहकस्य ज्ञानस्य नेक्ष्यते न प्रतीयते। अतस्तदा तस्य शब्दग्रहणता नास्तीति निश्चीयते॥



स्यादेतत्-यदि नाम न प्रतीयते, तथापि तदेव तत्। कथं तर्हि रूपग्रहणमित्याह तदेवेत्यादि-

तदेवान्येन रूपेण नटवत्सोऽप्यशाश्वतः।



तदेव शब्दज्ञानम्। अन्येन रूपेण स्वभावेन रूपग्रहणात्मकेन रूपं गृह्णातीति शेषः। कथमिव तस्यानुरूपता ? नटवत्। यथा नाट्यसमये रङ्गभूमिगतो नटः एक एव नानारूपेणावतरति, तथा प्रकृतेऽपीति न दोषः। अत्राह-सोऽप्यशाश्वतः इति अनित्यः पूर्वस्वभावपरित्यागेन रूपान्तरमाविशति। न च पूर्वापरकालयोरेकस्वभाव एव नटो नानारूपसंबन्धात्, अन्यथा तस्य रूपद्वयमेकदेति भाषेत। इति साध्यविकलो दृष्टान्तः। अथापि स्यात्-भावः स एव। स्वभावः पुनरस्य अपरापर उत्पद्यते निरुध्यते च। ततः अयमदोष इत्यत्राह स एवान्येत्यादि-

स एवान्यस्वभावश्चेदपूर्वेयं तदेकता॥६६॥



स एवात्मा नटो वा। अन्यस्वभावः अपरस्वभावः। चेद् यदि उच्यते, तदा अपूर्वेयं तदेकता, अपूर्वेयमदृष्टपूर्वेयमीदृशी तदेकता। तस्य भावस्य अपरस्वभावोत्पत्तावपि एकता अभिन्नात्मता। तथा हि-स एवेति तत्त्वमाख्यायते, पुनरन्यस्वभाव इति तस्यैव अन्यत्वम्। न चैतत् परस्परविरुद्धधर्मद्वयमेकस्य युक्तम्। न हि भावो नाम अन्य एव स्वभावात्, येन तस्योत्पादनिरोधयोरपि भावस्य तौ न स्याताम्। नापि तदभिन्नस्य स्वभावस्य उत्पादनिरोधयोर्भावस्य तादवस्थ्यं युक्तमभेदाभावप्रसङ्गात्। भेदे वा संबन्धासिद्धिरिति भावः॥



स्यादेतत्-भवत्वेव एष प्रसङ्गः यदि रूपद्वयमस्यात्मनः सत्यं स्यात्। किं तर्हि निजमस्य रूपमपहाय अपरं रूपमतात्त्विकम्, तेन नोक्तदोषप्रसङ्गः, इत्याशयमाशङ्कयन्नाह अन्यद्रूपमित्यादि-

अन्यद्रूपमसत्यं चेन्निजं तद्रूपमुच्यताम्।



अन्यद्रूपं तद्विषयोपाधिकं स्फटिकोपलस्येव असत्यमस्वाभाविकम्, इति चेद्यदि, तर्हि निजं तद्रूपमुच्यताम् निजं स्वाभाविकं तस्यात्मनो रूपं तत्त्वमुच्यताम्। अस्त्येवान्यद्रूपं तस्य। किं तत् ? ज्ञानता चेत्-

ज्ञानता चेत्ततः सर्वपुंसामैक्यं प्रसज्यते॥६७॥



ज्ञानात्मतैव तस्य पूर्वापरकालानुगामिनी निजं रूपम्। किमन्यद्वक्तव्यम् ? [तद्रूपेण पूर्वापरान्यरूपसंबन्धेऽपि स्फटिकवद् यदि एकोऽस्तीत्युच्यते, एवं सर्वपुंसामैक्यं प्रसज्यते, एवं ज्ञानत्वेन तत्साधारणरूपत्वात्। तद्यथा पूर्वपरकालिकयोः शब्दरूपज्ञानयोर्भिन्नाकारत्वाद् भिन्नयोरप्येकत्वमेव, तथा सर्वसत्त्वानां प्राणिगतिगतानामेकात्मता प्रसज्यते] आपद्यते, वस्तुतो भेदेऽपि विशेषाभावात्॥



इत्थं च पुनरिदमतिप्रसज्यते इत्याह चेतनेत्यादि-

चेतनाचेतने चैक्यं तयोर्येनास्तिता समा।



यदि वा अवान्तरं भेदनिबन्धनं विशेषमपास्य किंचिदाकारकमाश्रित्य एकत्वमुच्यते तदा चेतना पुरुषधर्मः, अचेतना प्रकृत्यादिधर्मः। चकारो दोषान्तरसमुच्चये। तेऽपि एकमभिन्नं वस्तु स्याताम्। कथम् ? तयोश्चेतनाचेतनयोः येन कारणेन अस्तिता समा। सापि भावानां निजं रूपम्। समा द्वयोरपि तुल्या।



ननु च। अत्रापि सादृश्यनिबन्धनमिष्यते एव एकत्वं वस्तुभेदेऽपि। ततोऽयमिष्टप्रसाधनाददोष इत्याह विशेषश्चेत्यादि-

विशेषश्च यदा मिथ्या कः सादृश्याश्रयस्तदा॥६८॥



दूषणान्तरद्योतने चकारः। विशेषो भेदः सर्वभावानामनियमेन यदा मिथ्या असत्यम् [त्यः ?], निजमेव रूपं सत्यम्, तदा कः सादृश्याश्रयः स्यात् ? किमाश्रित्य सादृश्यं व्यवस्थाप्यते ? विशेषसद्भावे हि किंचिन्मात्रसाधर्म्येण सादृश्यं स्यात्। विशेषाभावे च तदेव तत् स्यान्न सदृशम्। न हि गोगवययोर्गोविशेषमननुभवन् न गवयो गोसदृशो भवेत्, अपि तु गौरेव स्यात्। अतो विशेष एव सादृश्याश्रयः। स च यदा पारमार्थिको न भवति, तदा कः सादृश्यस्य समानाकारतायाः पुंसामन्यस्य वा आश्रयो निबन्धनं वा भवेत् ? नैव कश्चिदित्यर्थः। अतो वस्तुत एव एकत्वमापतितं भवतः, न सादृश्यकृतम्। तत् कथं सिद्धसाधनाददोष इत्युच्यते ?



एवं कापिल [जैन]जैमिनीयपरिकल्पितस्य चित्स्वभावस्यात्मनः सत्त्वमसिद्धम्। उपनिषद्वादिपरिकल्पितेऽपि यथासंभवं दूषणमभिधेयमिति॥



सांप्रतमचेतनस्य नैयायिकादिपरिकल्पितस्यात्मनः सद्वयवहारप्रतिषेधायाह अचेतनश्चेत्यादि-

अचेतनश्च नैवाहमाचैतन्यात्पटादिवत्।



चेतनस्तावदात्मा उक्तक्रमेण न युज्यते। अचेतनोऽपि नैवाहमात्मा युक्त इति चकारार्थः। कुतः ? आचैतन्यात् चैतन्याभावात्। न विद्यते चेतना अस्येत्यचेतनः। तस्य भावः आचैतन्यम्। उभयपदवृद्धिः पारलौकिकादिवत्। तस्मात्। अचेतनत्वादित्यर्थः। कथमिव ? पटादिवत्। यथा पटवृक्षपर्वतादयः चैतन्यविरहादात्मा न भवन्ति, तथा अभिमतोऽपि। कर्मकर्तृत्वादेरस्याभ्युपगमात्। अन्यथा न किंचित् प्रयोजनं तेन। न च अचेतनस्य तद्युक्तम्, यथा पटादेः। यदि नाम स्वयमसावचेतनः, तथापि बुद्धेश्चेतना चेतयते, तेनायमदोषः इति पराभिप्रायं संभावयन्नाह अथ ज्ञ इत्यादि-

अथ ज्ञश्चेतनायोगादज्ञो नष्टः प्रसज्यते॥६९॥



अथेति पृच्छायाम्। अथायमात्मा चेतनायोगाद् बुद्धिसमवायात् स्वयमचेतनोऽपि ज्ञो भवति। जानातीति ज्ञः इति कप्रत्ययान्तस्य रूपम्। एवमुपगम्यमाने अज्ञो नष्टः प्रसज्यते। यदा तर्हि मदमूर्च्छावस्थायां चेतनानिवृत्तौ अयमात्मा अज्ञो न किंचिदपि जानाति, तदा नष्टः प्राक्तनचैतन्यसंबद्धस्वभावपरित्यागाद्विनष्टः प्रसज्यते॥



चैतन्यसंबन्धासंबन्धकालयोरेकस्वभावत्वान्नायं दोष इति परमाशङ्कयन्नाह अथाविकृत इत्यादि-

अथाविकृत एवात्मा चैतन्येनास्य किं कृतम्।



अथ चैतन्योत्पादनिरोधयोरविकृत एव अनुत्पन्नानिरुद्धस्वभाव एवात्मा। यद्येवम्, तर्हि चैतन्येनास्य किं कृतम्, अचेतनस्य सर्वकालमविकृतस्य सतः अस्यात्मनः चैतन्येन बुद्धिसमवायेन किं कृतम्, किमतिशयाधानमनुष्ठितम्? न किंचित्। बुद्धिसमवायेऽपि तथैवाप्रच्युतप्राच्यस्वभावस्य अवस्थानादचेतन एवात्मा। तथा च सति किमनुष्ठितं भवद्भिरित्याह-

अज्ञस्य निष्क्रियस्यैवमाकाशस्यात्मता मता॥७०॥



अज्ञस्य किंचिदपि हिताहितं ज्ञातुमशक्तस्य निष्क्रियस्य निर्गतो बहिर्भूतः क्रियाया इति निष्क्रियः। तस्य सर्वप्रतीकाररहितस्य अनाधेयातिशयतया असंस्कर्तव्यस्य। अथवा सर्वकर्मणि शक्तिविकलस्य गमनाधिक्रियाशून्यस्य वा आकाशस्य प्रकृतानुपयोगित्वादाकाशकल्पस्य। एवं सति आत्मता आत्मस्वभावव्यवस्था व्यवस्थापिता। एतच्च स्वमतेनोदाहरणम्। यथा निःस्वभावतया सर्वक्रियाशून्यं प्रज्ञप्तिसन्मात्रमाकाशम्, तथा आत्मापीत्यर्थः। परमतेनापि वा। यथा च न कर्मकर्त्रादिरूपमाकाशमचेतनत्वादक्रियत्वाच्च, तथा आत्मपीति भावः॥



इदानीं पुनरन्यथा आत्मप्रतिषेधबाधकं परमतेनोत्थापयन्नाह न कर्मेत्यादि-

न कर्मफलसंबन्धो युक्तश्चेदात्मना विना।



यदि न कश्चिदेकः परलोकी स्यात्, तदा तेनात्मना परलोकगामिना विना अन्तरेण कर्मफलसंबन्धोऽयुक्तः। कर्म शुभाशुभम्, फलं च तस्यैव इष्टानिष्टलक्षणम्, तयोः संबन्धः। कर्मणः कृतस्य फलेन वा संबन्धः। येनैव कृतं कर्म, तस्यैव तत्फलप्रतिलम्भो नान्यस्येति। न युक्तो न घटते। इष्यते च परलोके कर्मफलसंबन्धः। तत्र च सौगतानामप्यविवादः। तथा च सूत्रम्-



अनेनैव कृतं कर्म, कोऽन्यः प्रत्यनुभविष्यति ? न हि भिक्षवः कृतोपचितानि कर्माणि पृथिवीधातौ विपच्यन्ते नाब्धातौ न तेजोधातौ न वायुधातौ। उपात्तेष्वेव स्कन्धधात्वायतनेषु............ इति विस्तरः।



उक्तं च-

न प्रणश्यन्ति कर्माणि कल्पकोटिशतैरपि।

सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्॥इति।



ततः कर्मफलसंबन्धोऽनिवारितो भवतामपि। तस्मादवश्यमङ्गीकर्तव्य आत्मा। अन्यथा सर्वमेतदसंगतं स्यात्। कथमसति आत्मनि कर्मफलसंबन्धो घटते इत्याह कर्म कृत्वेत्यादि-

कर्म कृत्वा विनष्टे हि फलं कस्य भविष्यति॥७१॥



हि यस्मात् कर्म कृत्वा कर्मोत्पाद्य शुभाशुभलक्षणम्। विनष्टे निरुद्धे सति कर्मकर्तरि। फलं कस्य भविष्यति। आत्मनोऽसत्त्वे परलोकगामिनः कस्यचिदभावात्। येन चित्तक्षणेन कृतं कर्म, तस्य क्षणिकतया तत्कर्मक्रियाकाले निवृत्तत्वात्, कृतस्य कर्मणः फलं सुगतौ दुर्गतौ वा सुखदुःखात्मकं कस्य भविष्यति उत्पत्स्यते ? नैव कस्यचित् स्यात्। परलोके च कृतकर्मण एव फलयोगिनोऽन्यस्य कस्यचिदुत्पादात्, इति कृतविप्रणाशोऽकृताभ्यागमश्च स्यात्॥



उपलक्षणं चैतत्। स्मृतिप्रत्यभिज्ञानसंशयनिर्णयस्वयंनिहितप्रत्यनुमार्गणदृष्टार्थकुतूहलविरमणकार्यकारणभावतदधिगतप्रमाणबन्धमोक्षादयोऽपि न स्युः चेद्यदि मतम्, तन्न युक्तमित्याह द्वयोरित्यादि-

द्वयोरप्यावयोः सिद्धे भिन्नाधारे क्रियाफले।



द्वयोरप्यावयोः। आत्मवादिनो भवतः, मम च नैरात्म्यवादिनः। सिद्धे निश्चिते। के सिद्धे ? आह-भिन्नाधारे क्रियाफले कर्म क्रिया अस्मिन् भवे, तस्याः फलं परलोके। ते भिन्नाधारे नानाधिकरणे सिद्धे। तथाहि-न येनैव शरीरेण तस्मिन् जन्मनि कर्म करोति, तेनैव प्रेत्य फलमुपभुङ्क्ते। अतः अन्यदेव कर्मकर्तृ, तदन्यच्च फलभोक्तृ। अतो भिन्नाधारे क्रियाफले भवतः। अत्र च अविप्रतिपत्तिरावयोः। स्यादेतत्-आत्मव्यापारमन्तरेण ते एव कर्तृत्वोपभोक्तृत्वे न स्यातामित्यत्राह-

निर्व्यापारश्च तत्रात्मेत्यत्र वादो वृथा ननु॥७२॥



निर्व्यापारो व्यापाररहितः। तत्र तयोः कर्मक्रियाफलोपभोगयोः आत्मा निष्क्रियत्वादचेतनत्वात्। नित्यत्वान्न क्वचिदपि क्रियायां समर्थः। यदप्युक्तम्-

ज्ञानमात्रादिसंबन्धः कर्तृत्वं तस्य भण्यते।

सुखदुःखादिसंवित्तिसमवायस्तु भोक्तृता॥इति।

[तत्त्वसंग्रह-१७६]



तदपि पूर्वापरकालयोरविचलितस्वभावस्य उक्तक्रमेण न संगच्छते। इति हेतोरत्रात्मनि निर्व्यापारे वादो विवादो वृथा निष्फलः। यदर्थमसावङ्गीकृतः, तत्र तस्यानुपयोगित्वात्। नन्विति परसंबोधने॥



ननु यदि आत्मा न भवेत्, कथं तर्हि कृतविप्रणाशादिदोषो न स्यात् ? ततो न वृथा तद्वाद इत्याह हेतुमानित्यादि-

हेतुमान् फलयोगीति दृश्यते नैष संभवः।



यो हेतुमान् कर्मणा युक्तः, स एव फालयोगी फलसंबद्धः इति एवमेष संभवो न दृश्यते, नोपलभ्यते। यस्मात्-



अन्य एव मृतो लोके जायते अन्य एव हि।

ततो हेतुमतः फलयोगो न दृश्यते। एतत्तर्हि कथं नीयते यदुक्तम्-अनेनैव कृतं कर्म, कोऽन्यः प्रत्यनुभविष्यतीति ? अत्राह संतानस्येत्यादि-

संतानस्यैक्यमाश्रित्य कर्ता भोक्तेति देशितम्॥७३॥



संतानस्य उत्तरोत्तरानेकक्षणपरंपरालक्षणस्य कार्यकारणभावे न प्रवर्तमानस्य ऐक्यमाश्रित्य अनेकेषु एकत्वं लोकाध्यवसायवशादारोपितमेव निमित्तीकृत्य कर्ता भोक्ता इति देशितम्-य एव कर्मणः कर्ता स एव तत्फलस्योपभोक्ता च। इत्येतद्देशितत्वेऽपि नेयाभिप्रायवशात् भगवता प्रकाशितम्। अन्यथा कर्मफलोच्छेदं मन्येत जनः। न तु तावता उभयलोकानुगामिनः सत्त्वमाख्यातम्। अत एव च तत्रैवोक्तम्-उपात्तेष्वेव स्कन्धधात्वायतनेषु विपच्यन्ते इति। तथा चेतना कर्म, चेतयित्वा कर्म इति वचनाच्च। तदुक्तम्-

कर्मजं लोकवैचित्र्यं चेतना तत्कृतं च तत्।

चेतना मानसं कर्म तज्जे वाक्कायकर्मणी॥इति।

[अभि. को. ४.१]



अन्यत्राप्युक्तम्-

सत्त्वलोकमथ भाजनलोकं

चित्तमेव रचयत्यतिचित्रम्।

कर्मजं हि जगदुक्तमशेषं

कर्म चित्तमवधूय न चास्ति॥ इति।

[म. अ. ६.८९]



तस्मान्न चित्तविनिर्मुक्तमन्यत् कर्मास्ति। तच्च कुशलाकुशलं चित्तमुत्पद्य निरुध्यमानं स्वोपादेयचित्तक्षणे कुशलाकुशलादिसंस्कारविशेषवासनामादधाति। तदपि तदाहितवासनमुत्तरोत्तरतदभिसंस्कृतक्षणपरंपराविच्छेदतः संतानप्रवर्तमानं परिणतिविशेषमुपगच्छत् कर्मविशेषानुरूपं तथाविधं सुखादिस्वभावं चित्तात्मकमेव फलमभिनिर्वर्तयति परलोके। तद्यथा क्षितिबीजादयः परस्परोपसर्पणप्रत्ययविशेषात् समधिगतातिशयतया प्रथमक्षणोपनिपातिनः स्वोपादेयभूतद्वितीयक्षणकलापे कार्योत्पादानुगुणविशेषोत्पादनद्वारेण तदुत्तरोत्तरतारतम्यमुपजनयन्तः संततिपरिणामविशेषादन्त्यक्षणलक्षणं प्रकर्षपर्यन्तमासादयन्तो बीजानुरूपशालिकोद्रवाङ्कुरमुत्पादयन्ति। यथा च लाक्षारसपरिभावितं मातुलुङ्गादिबीजमुप्तं तत्संस्कारपरंपराप्रवृत्तेः तत्पुष्पादिषु रक्ततामुत्पादयति, न च तत्र कश्चित् पूर्वापरकालयोरेकोऽनुगामी समस्ति। तच्च कुशलाकुशलसमानस्यापि (?) कल्पनोपस्थापितत्वात् नोपन्यासो युक्तः। तदुक्तम्-

यस्मिन्नेव हि संताने आहिता कर्मवासना।

फलं तत्रैव बध्नाति कर्पासे रक्तता यथा॥इति।



तस्माद्यथा बीजादिषु आत्मानमन्तरेणापि प्रतिनियमेन कार्यं तदुत्पत्तिश्च क्रमेण भवति, तथा प्रकृतेऽपि परलोकगामिनमेकं विनापि कार्यकारणभावस्य नियामकत्वात् प्रतिनियतमेव फलम्, क्लेशकर्माभिसंस्कृतस्य संतानस्य अविच्छेदेन प्रवर्तनात् परलोके फलप्रतिलम्भोऽभिधीयते, इति नाकृताभ्यागमो न कृतविप्रणाशो बाधकम्। ततो नात्मानमन्तरेण कर्मफलसंबन्धो न युज्यते। यथा च सत्येवात्मनि स न घटते, तथा सप्रचयमुच्यमानमतिविस्तरं स्यादिति नेह प्रतन्यते॥ आह च-

नात्मास्ति स्कन्धमात्रं तु क्लेशकर्माभिसंस्कृतम्।

अन्तराभवसंतत्या कुक्षिमेति प्रदीपवत्॥इति॥

[अभि. को.]



पुद्गलतद्वादिभिस्तत्त्वान्यत्वप्रतिषेधपक्षाभ्युपगमात् स्वयमेव वस्तुत्वं प्रतिषिद्धम्। वस्तुनो हि तत्त्वान्यत्वप्रकारानतिक्रमात्, परस्परपरिहारवतोरेकप्रतिषेधापरविधिनान्तरीयकत्वात्। भारहारादिसूत्रमपि समर्थितमत्रार्थे। तस्मादाभिप्रायिकीं भगवतो देशनामजानद्भिः परिकल्पितोऽसौ, न वस्तुसत्। वस्तुत्वाभ्युपगमे नान्यत्वम्, इत्यात्मनो निराकरणेनैव निरस्तः, इति न पुनर्विशेषेण प्रतिषेधितः। उक्तं चैतद्भगवता-



इति हि भिक्षवः अस्ति कर्म, अस्ति फलम्। कारकस्तु नोपलभ्यते य इमान् स्कन्धान् विजहाति, अन्यांश्च स्कन्धानुपादत्ते, अन्यत्र धर्मसंकेतात्। अत्रायं धर्मसंकेतः, यदस्मिन् सति इदं भवति, अस्योत्पादादिदमुत्पद्यते इति॥



एतेन भगवतैव इदंप्रत्ययतामात्रलक्षणः कार्यकारणभावोऽपि दर्शित एव। अयमपि च संतानस्येत्यनेन [संतान एक इत्यनेन] यथाव्यवहारमनिरूपितस्वरूपः सूचित एव, संतानवचनेन इदंप्रत्ययतामात्रस्याभ्युपगमात्। अन्यथा संतान एव न स्यात्। तेन वास्तवकार्यकारणभावभाविनो दोषा नावलीयन्ते। इदमेव आचार्यपादैरप्युक्तम्-

अशक्तं सर्वमिति चेद् बीजादेरङ्कुरादिषु।

दृष्टा शक्तिर्मता सा चेत्संवृत्यास्तु यथा तथा॥इति।



कार्यकारणभावप्रतिनियमादेव स्मृत्यभावोऽपि निरस्तः। एकस्यानुगमात्मनोऽभावात् न स्मर्ता कश्चिदिह विद्यते, किं तर्हि स्मरणमेव केवलमारोपवशात् स्मर्यमाणवस्तुविषयम्। न च अत्र स्मर्तुरभावेऽपि कश्चिद् व्याघातः। अनुभूते हि वस्तुनि विज्ञानसंताने स्मृतिबीजाधानात् कालान्तरेण संततिपरिपाकहेतोः स्मरणं नाम कार्यमुत्पद्यते। एवं प्रत्यभिज्ञानादयोऽपि द्रष्टव्याः। अतिविस्तरभयात् प्रत्येकमिह न प्रतिविधीयन्ते इति तत्समर्थनमन्यत्रैव विस्तरेणावधार्यमिति॥



सर्वमेतत् संवृतिसत्यमुपादाय समर्थितम्। परमार्थे तु सर्वधर्माणां निःस्वभावत्वात् सर्वविकल्पोपरमाच्च न किंचिदुत्पद्यते वा निरुध्यते वा सात्मकमनात्मकं वा। नापि विचार्यमाणं कर्म तत्फलं वा, नापि इहलोको न परलोको वा न कश्चिदस्ति, कल्पनाविठपितत्वात्। तस्मात् सर्वमेतत् प्रतिबिम्बसंनिभं निःस्वभावमुत्पद्यते निरुध्यते च। कार्यकारणं च सात्मकं निरात्मकं च नित्यमनित्यं चाभिधीयते। स्वप्नवत् कर्मकर्तृत्वम्, तत्फलोपभोगः, इहलोकः, परलोकः, सुगतिदुर्गतिगमनं च कल्पनानामप्रहाणात्। इति सर्वत्र सुस्थम्। यद्वक्ष्यति-

एवं न च निरोधोऽस्ति न च भावोऽस्ति तत्त्वतः।

अजातमनिरुद्धं च तस्मात्सर्वमिदं जगत्॥

स्वप्नोपमास्तु गतयो विचारे कदलीसमाः।इत्यादि।

[बोधि. ९.१५१-५२]



उक्तं च-

कर्ता स्वतन्त्रः कर्मापि त्वयोक्तं व्यवहारतः।

परस्परापेक्षिकी तु सिद्धिस्तेऽभिमतानयोः॥

न कर्तास्ति न भोक्तास्ति पुण्यापुण्यं प्रतीत्यजम्।

यत्प्रतीत्य न तज्जातं प्रोक्तं वाचस्पते त्वया॥इति।

[चतुः २.८-९]



यथा निरात्मानश्च सर्वे धर्माः कर्मफलसंबन्धाविरोधश्च, निःस्वभावता च, यथा दृष्टसर्वधर्माविरोधश्च, तथा पितापुत्रसमागमे देशितम्। तदुक्तम्-



भगवानाह-एवमेव महाराज बालोऽश्रुतवान् पृथग्जनश्चक्षुषा रूपाणि दृष्ट्वा सौमनस्यस्थानीयानि अभिनिविशते। सोऽभिनिविष्टः समनुनीयते। समनुनीतः संरज्यते। संरक्तो रागजं कर्माभिसंस्करोति त्रिविधं कायेन, चतुर्विधं वाचा, [त्रिविधं मनसा]। तच्च कर्माभिसंस्कृतमादित एव क्षीणं निरुद्धं विगतं विपरिणतं न पूर्वां दिशं निश्रित्य तिष्ठति, न दक्षिणाम्, न पश्चिमाम्, नोत्तराम्, नोर्ध्वम्, नाधः, नानुविदिशम्, नेह, न तिर्यक्, नोभयमन्तरा। तत् पुनः कालान्तरेण मरणकालसमये प्रत्युपस्थिते जीवितेन्द्रियनिरोधे आयुषः परिक्षयात् तत्सभागस्य कर्मणः क्षीणत्वात् चरमविज्ञानस्य निरुध्यमानस्य मनस आरम्बणीभवति। तद्यथापि नाम शयितविबुद्धस्य जनपदकल्याणी। इति हि महाराज चरमविज्ञानेनाधिपतिना तेन च कर्मारम्बणेन औपपत्त्यंशिकं द्वयप्रत्ययं प्रथमं विज्ञानमुत्पद्यते। यदि वा नारकेषु, यदि वा तिर्यग्योनौ, यदि वा यमलोके, यदि वा आसुरकाये, यदि वा मनुष्येषु, यदि वा देवेषु। तस्य च प्रथमविज्ञानस्य औपपत्त्यंशिकस्य समनन्तरनिरुद्धस्य अनन्तरं सभागा चित्तसंततिः प्रवर्तते, यत्र विपाकस्य प्रतिसंविदा प्रज्ञायते। तत्र यश्चरमविज्ञानस्य निरोधः, तत्र च्युतिरिति संख्या भवति, यः प्रथमविज्ञानस्य प्रादुर्भावः, तत्रोपपत्तिरिति। इति महाराज न कश्चिद्धर्मोऽस्माल्लोकात् परलोकं गच्छति, च्युत्युपपत्ती प्रज्ञायेते। तच्च महाराज चरमविज्ञानमुत्पद्यमानं न कुतश्चिदागच्छति, निरुध्यमानं न क्वचिद्गच्छति। कर्माप्युत्पद्यमानं न कुतश्चिदागच्छति, निरुध्यमानं न क्वचिद्गच्छति। [प्रथमविज्ञानमप्युत्पद्यमानं न कुतश्चिदागच्छति, निरुध्यमानं न क्वचिद्गच्छति]। तत् कस्य हेतोः ? स्वभावविरहितत्वात्। चरमविज्ञानं चरमविज्ञानेन शून्यम्, कर्म कर्मणा शून्यम्, प्रथमविज्ञानं प्रथमविज्ञानेन शून्यम्, च्युतिश्च्युत्या शून्या, उपपत्तिरुपपत्त्या शून्या। कर्मणां च अवन्ध्यता प्रज्ञायते, विपाकस्य च प्रतिसंवेदना। न तत्र कश्चित् कर्ता, न भोक्ता, अन्यत्र नामसंकेतात्॥ इति विस्तरः॥



एवं द्वेषमोहाभ्यामपि कर्माभिसंस्करणं यथायोग्यं वाच्यमिति॥

शालिस्तम्बसूत्रेऽप्युक्तम्-



पुनरपरं तत्त्वेऽप्रतिपत्तिर्मिथ्याप्रतिपत्तिरज्ञानमविद्या। एवमविद्यायां सत्यां त्रिविधाः संस्कारा अभिनिर्वर्तन्ते पुण्योपगाः, अपुण्योपगाः आनञ्जयोपगाश्च। इमे उच्यन्ते अविद्याप्रत्ययाः संस्कारा इति। पुण्योपगानां संस्काराणां पुण्योपगमेव विज्ञानं भवति, अपुण्योपगानां संस्काराणामपुण्योपगमेव विज्ञानं भवति, आनञ्ज्योपगानां संस्काराणामानञ्ज्योपगमेव विज्ञानं भवति। इदमुच्यते संस्कारप्रत्ययं विज्ञानमिति। तदेव विज्ञानप्रत्ययं नामरूपम्। नामरूपविवृद्ध्या षड्भिरायतनद्वारैः कृत्यक्रियाः प्रवर्तन्ते, तन्नामरूपप्रत्ययं षडायतनमुच्यते। षड्भ्य आयतनेभ्यः षट् स्पर्शकायाः प्रवर्तन्ते। अयं षडायतनप्रत्ययः स्पर्श इत्युच्यते। यज्जातीयः स्पर्शो भवति तज्जातीया वेदना प्रवर्तते। इयं स्पर्शप्रत्यया वेदनेत्युच्यते। यस्तां वेदयति, विशेषेणास्वादयति, अभिनन्दयति, अध्यवस्यति, अधितिष्ठति, सा वेदनाप्रत्यया तृष्णेत्युच्यते। आस्वदना, अभिनन्दना, अध्यवसायस्थानम्, आत्मप्रियरूपसातरूपैर्वियोगो मा भवत्विति अपरित्यागो भूयो भूयश्च प्रार्थना, इदं तृष्णाप्रत्ययमुपादानमित्युच्यते। एवं प्रार्थयमानः पुनर्भवजनकं कर्म समुत्थापयत्ति कायेन वाचा मनसा, स उपादानप्रत्ययो भव इत्युच्यते। तत्कर्मनिर्जातानां पञ्चस्कन्धानामभिनिर्वृत्तिर्या, सा भवप्रत्यया जातिरित्युच्यते। या (यो) जात्यभिनिर्वृत्तानां स्कन्धानामुपचयपरिपाकाद्विनाशो भवति, तदिदं जातिप्रत्ययं जरामरणमित्युच्यते। पेयालं। तत्र विज्ञानं बीजस्वभावत्वेन हेतुः। कर्म क्षेत्रस्वभावत्वेन हेतुः। अविद्या तृष्णा च क्लेशस्वभावत्वेन हेतुः। कर्मक्लेशा विज्ञानबीजं संजनयन्ति। तत्र कर्म विज्ञानबीजस्य क्षेत्रकार्यं करोति। तृष्णा विज्ञानबीजं स्नेहयति। अविद्या विज्ञानबीजमवकिरति। असतामेषां प्रत्ययानां विज्ञानबीजस्याभिनिर्वृत्तिर्न भवति। तत्र कर्मणां नैवं भवति-अहं विज्ञानबीजस्य क्षेत्रकार्यं करोमि। तृष्णायां अपि नैवं भवति- अहं विज्ञानबीजं स्नेहयामीति। अविद्याया अपि नैवं भवति-अहं विज्ञानबीजमवकिरामीति। विज्ञानबीजस्यापि नैवं भवति-अहमेभिः प्रत्ययैर्जनितमिति। अपि तु विज्ञानबीजं कर्मक्षेत्रप्रतिष्ठितं तृष्णास्नेहाभिस्यन्दितम् अविद्यावकीर्णं विरोहति, नामरूपाङ्कुरस्याभिनिर्वृत्तिर्भवति। स च नामरूपाङ्कुरो न स्वयंकृतो न परकृतो नोभयकृतो नेश्वरनिर्मितो न कालपरिणामितो न चैककारणाधीनो नाप्यहेतुसमुत्पन्नः। अथ च मातापितृसंयोगादृतुसमवायादन्येषां च प्रत्ययानां समवायादास्वादनानुप्रबद्धं विज्ञानबीजं तत्रतत्रोपपत्त्यायतनप्रतिसंधौ मातुः कुक्षौ नामरूपाङ्कुरमभिनिर्वर्तयति अस्वामिकेषु धर्मेषु अममेषु अपरिग्रहेषु अप्रत्यर्थिकेषु आकाशसमेषु मायालक्षणस्वभावेषु हेतुप्रत्ययानामवैकल्यात्। पेयालं। न तत्र कश्चिद्धर्मोऽस्माल्लोकात् परलोकं संक्रामति। अस्ति च कर्मफलम्, अस्ति च विज्ञप्तिः, हेतुप्रत्ययाना मवैकल्यात्। पेयालं। यथा अग्निरुपादानवैकल्यान्न ज्वलति, उपादानावैकल्याच्च ज्वलति, एवमेव कर्मक्लेशजनितं विज्ञानबीजं तत्रतत्रोपपत्त्यायतनप्रतिसंधौ मातुः कुक्षौ नामरूपाङ्कुरमभिनिर्वर्तयति अस्वामिकेषु धर्मेषु अममेषु अपरिग्रहेषु अप्रत्यर्थिकेषु आकाशसमेषु मायालक्षणस्वभावेषु हेतुप्रत्ययानामवैकल्यात्। एवमाध्यात्मिकस्य प्रतीत्यसमुत्पादस्य प्रत्ययोपनिबन्धो द्रष्टव्यः॥



तत्र आध्यात्मिकः प्रतीत्यसमुत्पादः पञ्चभिः कारणैर्द्रष्टव्यः। कतमैः पञ्चभिः ? न शाश्वततः, नोच्छेदतः, न संक्रान्तितः, परीत्तहेतुतो विपुलफलाभिनिर्वृत्तितः, तत्सदृशानुप्रबन्धतश्चेति। कथं न शाश्वततः ? यस्मादन्ये मारणान्तिकाः स्कन्धाः, अन्ये औपपत्त्यंशिकाः स्कन्धाः प्रादुर्भवन्ति। न तु य एव मारणान्तिकाः स्कन्धाः, त एव औपपत्त्यंशिकाः प्रादुर्भवन्ति। अतो न शाश्वततः। कथं नोच्छेदतः ? न च पूर्वनिरुद्धेषु मारणान्तिकेषु स्कन्धेषु औपपत्त्यंशिकाः स्कन्धाः प्रादुर्भवन्ति, नाप्यनिरुद्धेषु। अपि तु मारणान्तिकाः स्कन्धा निरुध्यन्ते, तस्मिन्नेव च समये औपपत्त्यंशिकाः स्कन्धाः प्रादुर्भवन्ति, तुलादण्डोन्नामावनामवत्। अतो नोच्छेदतः। कथं न संक्रान्तितः ? विसदृशात् सत्त्वनिकायाद्विसभागाः स्कन्धा जात्यन्तरेऽभिनिर्वर्तन्ते। अतो न संक्रान्तितः। कथं परीत्तहेतुतो विपुलफलाभिनिर्वृत्तितः ? परीत्तं कर्म क्रियते, विपुलफलविपाकोऽनुभूयते। अतः परीत्तहेतुतो विपुलफलाभिनिर्वृत्तितः। कथं तत्सदृशानुप्रबन्धतः ? यथावेदनीयं कर्म क्रियते, तथावेदनीयो विपाकोऽनुभूयते। अतस्तत्सदृशानुप्रबन्धतः। एवमाध्यात्मिकः प्रतीत्यसमुत्पादः पञ्चभिः [कारणैः-आकारैः] द्रष्टव्यः॥ इति विस्तरः॥



तदेवमात्मादिविरहेऽपि कर्मफलसंबन्धोऽविकलः सूत्रेषु भगवता स्वयमुपदर्शित इत्युपदर्शितं भवति। इति नैकस्योभयानुवर्तिनोऽभावेऽपि किंचिद्विरुध्यते इति॥



यदि कथंचिदपि नास्त्येवात्मा, कथं तर्हि-

आत्मा हि आत्मनो नाथः को नु नाथः परो भवेत्।

आत्मना हि सुदान्तेन स्वर्गं प्राप्नोति पण्डितः॥

[=धम्मपद]



इति गाथायामुक्तम् ? चित्तमेव अहंकारसंनिश्रयतया अस्यामात्मशब्देनोक्तम्। अन्यत्र सूत्रे-



चित्तस्य दमनं साधु चित्तं दान्तं सुखावहम्।

[=धम्मपद]



इति चित्तस्य दमनवचनात्। तदपि च आत्मदृष्टयभिनिविष्टानामन्यत्रात्मग्राहपरिकल्पविच्छेदार्थं नेयार्थतया संवृत्या चित्तमात्मेति प्रकाशितं न तु परमार्थतः। एतेन यदुक्तमार्यलङ्कावतारे-



पुद्गलः संततिः स्कन्धाः प्रत्यया अणवस्तथा।

प्रधानमीश्वरः कर्ता चित्तमात्रं वदाम्यहम्॥

[लङ्का. २.१३९, १०.१३३]



इति, तदपि व्याख्यातं भवति। यतः तदपि च अन्यत्र पुद्गलाद्यभिनिवेशबाधनाय वचनम्। न तु तावता चित्तस्य परमार्थसत्त्वमुक्तम्। एवमन्यत्रापि स्कन्धादिष्वात्मदेशना नेयार्था। अतश्चित्तमपि वस्तुतो नाहंप्रत्ययस्य विषयः॥



भवतु वा चित्तं परमार्थसत्। तथापि न वस्तुतः तदहंकारगोचर इत्युपदर्शयन्नाह अतीतेत्यादि-

अतीतानागतं चित्तं नाहं तद्धि न विद्यते।



त्रिधा हि चित्तं संभवति परिकल्पमुपादाय अतीतमनागतं प्रत्युत्पन्नं च। तत्र। अतीतानागतं नष्टाजातं चित्तं नाहं न अहंदर्शनविषयः। कुतः ? हिर्यस्मात्। तदतीता नागतं चित्तं न विद्यते, न संप्रत्यस्ति, नष्टाजातत्वात्। यदतीतं तत् क्षीणं निरुद्धं विगतं विपरिणामितम्। यदनागतम्, तदप्यसंप्राप्तमिति। प्रत्युत्पन्नं तर्हि चित्तमहं भविष्य तीत्यत आह-

अथोत्पन्नमहं चित्तं नष्टेऽस्मिन्नास्त्यहं पुनः॥७४॥



यथा उत्पन्नं वर्तमानं चित्तमहमस्तु, तदपि न युक्तम्। यतो नष्टेऽस्मिन्नास्त्यहं पुनः, अस्मिन् प्रत्युत्पन्ने चित्ते नष्टे द्वितीयक्षणे अतीते सति नास्त्यहं पुनः, पश्चादहंप्रत्ययस्य विषयो नेष्टः स्यात्। प्रत्युत्पन्नस्य स्थितिर्नोपलभ्यते। तत् कुतश्चित्तमालम्ब्यतां येन आलम्बनं स्यात् ? अतो न चित्तालम्बनोऽपीति निरालम्बन एवायमहंप्रत्यय उत्पद्यते॥



एवमात्मनोऽसत्त्वात् नात्मा, त्र्यध्ववर्तिनाश्चित्तस्य च तद्विषयत्वात्। नापि चित्तमहंकारस्य विषय इति प्रसाध्योपसंहरन्नाह यथैवेत्यादि-

यथैव कदलीस्तम्भो न कश्चिद्भागशः कृतः।

तथाहमप्यसद्भूतो मृग्यमाणो विचारतः॥७५॥



यथैव कदलीस्तम्भो रम्भादण्डखण्डम्, भागशः प्रत्यवयवशः कृतोऽवधूतो न कश्चित् न वस्तुसन् प्राप्यते, तथा अहमप्यसद्भूतः कदलीस्तम्भवत्। अहमपि अहंप्रत्ययस्य विषयोऽपि असद्भूतः अवस्तुभूतः, वन्ध्यातनयवत्। न कश्चिद्विषयोऽस्यास्तीति भावः। कथम् ? मृग्यमाणो विचारतः निरूपणतः॥



पुनरन्यद्बाधकमात्मप्रतिषेधे प्रसञ्जयन्नाह यदीत्यादि-

यदि सत्त्वो न विद्येत कस्योपरि कृपेति चेत्।



यदि सर्वथैव सत्त्वः आत्मा पुद्गलो वा विचार्यमाणो न विद्येत, न स्यात्, तदा कस्योपरि कृपा करुणा बोधिसत्त्वानां भवेत्, सत्त्वमन्तरेण किमालम्ब्य प्रवर्तेत ? करुणा च सम्यक्संबोधिसाधनम्, तत्पूर्वकमेव संभारनिदानेषु दानादिषु प्रवर्तनात्। अतः करुणापुरःसराः सर्वे बुद्धधर्माः प्रवर्तन्ते। तथा चोक्तमार्यधर्मसंगीतौ-



अथ खलु आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्-न भगवन् बोधिसत्त्वेन अतिबहुषु धर्मेषु शिक्षितव्यम्। एक एव धर्मो बोधिसत्त्वेन स्वाराधितः कर्तव्यः सुप्रतिबिद्धः। तस्य करतलगताः सर्वे बुद्धधर्मा भवन्ति। तद्यथा-येन राज्ञश्चक्रवर्तिनश्चक्ररत्नं गच्छति, तेन सर्वबलकायो गच्छति। एवमेव भगवन् येन बोधिसत्त्वस्य महाकरुणा गच्छति, तेन सर्वे बुद्धधर्मा गच्छन्ति। तद्यथा भगवन् जीवितेन्द्रिये सति अन्येषामिन्द्रियाणां प्रवृत्तिर्भवति, एवमेव भगवन् महाकरुणायां सत्यां बोधिकारकाणां धर्माणां प्रवृत्तिर्भवतीति॥



आर्यगयाशीर्षे चोक्तम्-

किमारम्भा मञ्जुश्रीः बोधिसत्त्वानां चर्या, किमधिष्ठाना ? मञ्जुश्रीराह-महाकरुणारम्भा देवपुत्र बोधिसत्त्वानां चर्या सत्त्वाधिष्ठाना॥ इति विस्तरः॥



तस्मादवश्यं प्रथमतः सत्त्वालम्बना करुणाभ्युपगन्तव्याः दुःखितसत्त्वाधिष्ठानेन समुत्पत्तेः। सत्त्वाभावे च सा न स्यादिति चेत्, एवं मन्यसे यदि, तदा नैतद्वक्तव्यमित्याह कार्यार्थमित्यादि-

कार्यार्थमभ्युपेतेन यो मोहेन प्रकल्पितः॥७६॥



कार्यमभिमतसाध्यं पुरुषार्थ इत्युच्यते। तदर्थमभ्युपेतेन स्वीकृतेन मोहेन संवृत्या यः प्रकल्पितः समारोपितः सत्त्वः, तस्योपरीत्यर्थः। तथाहि सकलकल्पनाजालरहितं सर्वावरणविनिर्मुक्तं परमपुरुषार्थतया बुद्धत्वमिह साध्यम्। तच्च सर्वधर्मानुपलम्भमन्तरेण नाधिगम्यते। स च प्रज्ञाप्रकर्षगमनात् संपद्यते। तच्च सादरनिरन्तरदीर्घकालाभ्यासादुपजायते। तदारम्भश्च करुणावशादुत्पद्यते। सा च प्रथमतो दुःखितसत्त्वेषु प्रवर्तमाना संभारारम्भनिदानमुपपद्यते इति कार्यार्थं मोहस्य संवृतिसत्यरूपस्याभ्युपगमः। ततः प्रथमतः सत्त्वालम्बनैव करुणा, ततः परं धर्मालम्बना, अनालम्बना च। अयमभिप्रायः-न सर्वथा सत्त्वस्याभावः। स्कन्धादयो हि संवृत्त्या आत्मशब्देनोच्यन्ते। यथोक्तं भगवता-



ये केचिद्भिक्षवः श्रमणा वा ब्राह्मणा वा आत्मेति समनुपश्यन्तः समनुपश्यन्ति इमानेते (तान् ?) पञ्चोपादानस्कन्धान्। इति।



ततो यदि नाम प्रज्ञया निरूपयतः परमार्थतः सत्त्वानुपलम्भः, तथापि संवृत्या न निषिध्यते इति। तदुक्तम्-

यतः प्रज्ञा तत्त्वं भजति करुणा संवृतिमतः

तवाभून्निःसत्त्वं जगदिति यथार्थं विमृशतः।

यदा चाविष्टोऽभूर्दशबलजनन्या करुणया

तदा तेऽभूदार्ते सुत इव पितुः प्रेम जगति॥इति।

[रत्नदासविरचितं गुणपर्यन्तस्तोत्रम्-३३]



चतुःस्तवेऽपि-

सत्त्वसंज्ञा च ते नाथ सर्वथा न प्रवर्तते।

दुःखार्तेषु च सत्त्वेषु त्वमतीव कृपात्मकः॥इति।

[चतुः-१.९]



तस्मादमी रूपादय एव संवृत्या सत्त्वशब्देनोच्यन्ते। इति न करुणा निर्विषया॥

ननु परमार्थतः सत्त्वाभावे कस्य तत् कार्यम्, इति कथं तत्साधनाय कस्यचित् प्रवृत्तिरित्यभिसंधाय आह कार्यमित्यादि-

कार्यं कस्य न चेत्सत्त्वः सत्यमीहा तु मोहतः।



न चेत् सत्त्व इति। यदि सत्त्वो नास्ति, तदा एकस्यानुयायिनोऽभावात् रूपादीनां च उत्पन्नविनाशित्वात् कार्यं कस्य ? न कस्यचित् स्यादित्यर्थः। सत्यमित्यभ्युपगमे इति। एवमेव एतन्मतमेव अस्माकम्-नैव कस्यचित् परमार्थतः कार्यम्, अस्वामिकत्वात् सर्वधर्माणाम्। यद्येवम्, कथं तर्हि तत्साधनाय प्रथमतः प्रवृत्तिरिति चेत्, ईहा तु मोहतः। ईहा चेष्टा पुनस्तत्कार्यार्थितया व्यापारः मोहात्। ममैव तत् कार्यं भविष्यतीत्येकत्वाध्यवसायेन सत्त्वाभावेऽपि संवृत्या मायास्वभावतया। वस्तुतो निरीहत्वात् सर्वधर्माणामन्यत्र प्रतीत्यसमुत्पादात्। तदुक्तम्-



निरीहा वशिकाः शून्या मायावत्प्रत्ययोद्भवाः।

सर्वधर्मास्त्वया नाथ निःस्वभावाः प्रकाशिताः॥इति।

[चतुः-२.२२]



तस्मात् संवृतेरेव कार्यार्थव्यापारः। ननु च मोहो नाम अविद्यास्वभावतया सर्वथैव अनुपादेयः। तत् कथं पुनस्तस्यैव स्वीकारः इत्यत आह दुःखेत्यादि-

दुःखव्युपशमार्थं तु कार्यमोहो न वार्यते॥७७॥



द्विविधो हि मोहः-संसारप्रवृत्तिहेतुः तत्प्रशमहेतुश्च। तत्र यः संसारनिदानम्, स प्रहातव्य एव। अन्यस्तु यः परंपरया दुःखव्युपशमार्थं सर्वसत्त्वजात्यादिव्यसननिमित्तं कार्यमोहः कार्यस्य परमार्थसत्यलक्षणस्याधिगमाय मोहः, स पुनर्न वार्यते, न प्रतिषिध्यते। उपादीयते एव, परमार्थोपयोगित्वात्। इदमिहाधिकृतम्, तदपि कार्यं नात्मसुखाभिलाषेण महद्भिरुपादीयते, अपि तु सर्वसत्त्वानामात्यन्तिकसर्वदुःखव्युपशमार्थम्। तत्र च उपेयभूतः परमार्थाधिगम एव। तस्याप्युपायभूतं [संवृतिसत्यम्]। संवृतिसत्यमन्तरेण परमार्थानधिगमात्। इति दुःखप्रशमार्थता कार्यमोहस्य। एतत् कार्यार्थमविचारतः [९.४] इत्यस्मिन् प्रस्तावे प्रतिपादितमेव पूर्वम्। पुनर्विपञ्चयितुमुक्तम्॥



स्यादेतत्-यथा दुःखोपशमहेतुत्वात् कार्यमोहोऽविद्यास्वभावोऽभ्युपगम्यते, तथैव आत्ममोहोऽपि तद्धेतुत्वादस्तु। तत् किमात्मा यत्नेन निषिध्यते ? तत्सद्भावेऽपि आत्मभावनया अहंकारपरिक्षयात् भविष्यति संसारनिवृत्तिः। ततः किं नैरात्म्यभावनयेत्यत्राह दुःखहेतुरित्यादि-

दुःखहेतुरहंकार आत्ममोहात्तु वर्धते।



यथा कार्यमोहो दुःखोपशमहेतुः, न तथा द्वितीय आत्ममोहः, तस्मिन् सति अहंकारक्षयाभावात्। आत्ममोहात्तु अनात्मनि आत्मविपर्यासदर्शनात् पुनरहंकारो वर्धते, वृद्ध उपजायते। किंभूतः ? दुःखहेतुः दुःखस्य सांसारिकस्य त्रिदुःखतालक्षणस्य हेतुः कारणम्। अहंकारक्षयाच्च दुःखोपशम इष्यते। सति च आत्मदर्शने कथमसौ निवर्तेत ? कारणेऽविकलसामर्थ्ये कार्यस्य निवृत्त्ययोगात्। ततो दुःखमपि न निवर्तते। तथाहि आत्मानं पश्यतः संस्कृतेषु स्कन्धधात्वायतनेषु अहमिति दृढतरमुत्पद्यते स्नेहः। ततस्तद्दुःखप्रतीकारेच्छया सुखाभिलाषो दोषान् प्रच्छाद्य तदर्थितया गुणाध्यारोपात् तत्साधनेषु प्रवर्तते। स्वोपकारिणि वयमिति बुद्धिरुपजायते। अहं ममेति च दर्शनात् परिपन्थिनि विद्वेषः। ततः समस्तदुःखनिदानं सर्व एव क्लेशोपक्लेशा लब्धप्रसराः प्रवर्तन्ते। इति आत्ममोहप्रवर्तितो दुःखहेतुरहंकारो भवति। तदुक्तमाचार्यपादैः-

यः पश्यत्यात्मानं तस्यात्राहमिति शाश्वतस्नेहः।

स्नेहात्सुखेषु तृष्यति तृष्णा दोषांस्तिरस्कुरुते॥

गुणदर्शी परितृष्यन् ममेति तत्साधनान्युपादत्ते।

तेनात्माभिनिवेशो यावत्तावत्तु संसारः॥

आत्मनि सति परसंज्ञा स्वपरविभागात्परिग्रहद्वेषौ।

अनयोः संप्रतिबद्धाः सर्वे दोषाः प्रजायन्ते॥ इति॥



इत्थमात्मस्नेहान्निवर्तयितुमशक्योऽहंकारः।



ततोऽपि न निवर्त्यश्चेत्



ततोऽपि आत्मदर्शनादपि न निवर्त्यो निवर्तयितुमशक्योऽहंकारश्चेद् यदि, तदा-

वरं नैरात्म्यभावना॥७८॥



नैरात्म्यस्य पुद्गलादिविरहस्य भावना अभ्यासः। वरमुत्तमम्। आत्मदर्शनप्रवृत्ताहंकारनिवृत्तिहेतुत्वात्। तावत्कालमस्तु, पश्चात् पुनरियमपि प्रहास्यते, उपलम्भदृष्टित्वादिति भावः। तथाहि तद्भावनाप्रकर्षपर्यन्तगमनात् साक्षान्नैरात्म्यदर्शनात् विरोधि सत्कायदर्शनं निवर्तते। तन्निवृत्तौ च एकस्यानुगामिनो दर्शनाभावात् पूर्वापररूपविकलस्य क्षणमात्रस्य दर्शनम्। ततः पूर्वापरसमारोपाभावात् न अनागतसुखसाधनं किंचिदात्मनः पश्यति। ततो न तस्य क्वचिद्विषये रागो जायते, नापि तत्प्रतिविरोधिनि द्वेषः, आसङ्गाभावादेव। नाप्यकारिणं प्रति अपकारस्थानं पश्यति। येन यस्मिन् कृतोऽपकारः, तयोर्द्वयोरपि द्वितीयक्षणेऽभावात्। न च अन्येन कृतेऽपकारे प्रेक्षावतः अन्यत्र वैरनिर्यातनमुचितम्, नापि यस्य कृतस्तेनापि। एवं रागादिनिवृत्तौ अन्येऽपि तत्प्रभवाः क्लेशोपक्लेशा नोत्पद्यन्ते। नापि वस्तुतः कश्चित् कस्यचिदपकारी, इदं प्रतीत्य इदमुत्पद्यते इति प्रतीत्यसमुत्पाददर्शनाद्वा। एवं हि पुद्गलशून्यतायां सत्कायदर्शननिवृत्तौ छिन्नमूलत्वात् क्लेशा न समुदाचरन्ति। यथोक्तमार्यतथागतगुह्यसूत्रे-



तद्यथापि नाम शान्तमते वृक्षस्य मूलच्छिन्नस्य सर्वशाखापत्रपलाशं शुष्यति, एवमेव शान्तमते सत्कायदृष्टिप्रशमात् सर्वक्लेशा उपशाम्यन्तीति॥



तस्माद्वरं नैरात्म्यभावना॥

गतमिदमानुषङ्गिकम्। संप्रति पुनरहंकारविषयं निरूपयितुमुपक्रमते। स्यादेतत्यदि नाम आत्मा विचारेण खरविषाणसदृशत्वान्नाहंकारस्य विषयः, तथापि कायावयवी तद्विषयो भविष्यतीत्यत्राह कायो नेति-



कायो न पादौ न जङ्घा नोरू कायः कटिर्न च।

नोदरं नाप्ययं पृष्ठं नोरो बाहू न चापि सः॥७९॥



न हस्तौ नाप्ययं पार्श्वौ न कक्षौ नांसलक्षणः।

न ग्रीवा न शिरः कायः कायोऽत्र कतरः पुनः॥८०॥



कायोऽपि विचारेणैको नैव कश्चिदस्तीत्युपदर्शयति-तथा हि करचरणादयो भागा एवं परं दृश्यन्ते, न त्वेकः कायो नाम प्रतिभासते। न च तेष्वन्यतमः कायो युज्यते। यतः कायो न पादौ, न चरणौ, न जङ्घा। जङ्घा च कायो न भवति। नोरू जङ्घैकदेशविशेषौ न कायः। कटिर्न च, श्रोणिरपि नैव कायः। नोदरम्, जठरमपि कायो न भवति। नाप्ययं पृष्ठम्, अयं कायः पृष्ठमपि नैव। नोरः, नोरो वक्षोऽपि न कायः। बाहू न चापि सः, स कायो भुजावपि न भवति। न हस्तौ, करावपि न कायः। नाप्ययं पार्श्वौ, अयं कायः पार्श्वावपि न भवति। न कक्षौ, भुजमूले अपि न कायः। नांसलक्षणः, नापि स्कन्धस्वभावः कायः। न ग्रीवा, न कंधरा कायः। न शिरः कायः, मस्तकोऽपि कायो न भवति। चरणादीनां वक्ष्यमाणविचारेण परमाणुशोऽप्यनवस्थानात्, करचरणादीनामन्यतमच्छेदे कायविनाशेन मरणप्रसङ्गात्, पराभ्युपगमाभावाच्च नैषु प्रत्येकं कायात्मता। एवं यदा न प्रत्येकमेते कायस्वभावाः, एतत्समुदायमात्रं च शरीरम्, तत् कायोऽत्र कतरः पुनः, अत्र एषु पादादिभागेषु पुरोवर्तिषु शरीरकल्पनानिमित्तेषु कतरः कायो भवतु ? नैव कश्चिदेकोऽपि निरूप्यमाणः कायात्मक उपलभ्यते इति यावत्॥



अथापि स्यात्-नैवमभिधीयते प्रत्येकं करादयः कायः, किं तर्हि सर्वावयवव्यापकत्वादवयविनः सर्वावयवेषु वर्तते इत्यत्राह यदीत्यादि-

यदि सर्वेषु कायोऽयमेकदेशेन वर्तते।



सर्वावयवेषु वर्तमानोऽयमेकदेशेन वर्तते, युगपत् सर्वात्मना वा ? तत्र यदि सर्वेषु करचरणादिषु अवयवेषु कायोऽवयवी, एकदेशेन वर्तते, केनचिद् भागेन कंचिदवयवं व्याप्नोति। न सर्वात्मना सर्वमित्यर्थः। तदा एतन्न वक्तव्यम्। यतः यैरेकदेशैरवयवेषु वर्तते, तेष्वपि किमेकदेशेषु अपरैः एकदेशेन वर्तते, सर्वात्मना वेति विकल्पो न निवर्तते। तत्रापि पुनरेकदेशेन वृत्तिकल्पनायामनवस्थानिवृत्तिर्न स्यात्। अपि च। तस्य अवकाशाभावादेव अवयवेषु न वृत्तिरित्याह अंशा इत्यादि-

अंशा अंशेषु वर्तन्ते स च कुत्र स्वयं स्थितः॥८१॥



अंशा भागाः अंशेषु स्वस्वभागेषु वर्तन्ते व्यवतिष्ठन्ते, स्वस्वभागव्यवस्थितत्वात् सर्वभावानाम्। स च कुत्र स्वयं स्थितः ? स्वयं पुनरसौ कायोऽवयवी क्व नु नाम व्यवस्थितः इति न विद्मः॥



अथ द्वितीयो विकल्पः, तत्राह सर्वात्मनेति-

सर्वात्मना चेत्सर्वत्र स्थितः कायः करादिषु।

कायास्तावन्त एव स्युर्यावन्तस्ते करादयः॥८२॥



सर्वात्मनापि वृत्तिसंभावनायाम्। अवयवेषु अनवकाशत्वात् स च कुत्र स्वयं स्थितः इति प्रसङ्गो नाद्यापि निवर्तते। तथापि पुनरपरमुच्यते-सर्वात्मना सर्वभावेन नैकदेशेन। सर्वत्र सर्वेषु करादिष्ववयवेषु। आदिशब्दाच्चरणादिषु स्थितः समवेतः कायावयवी चेत् यदि, तदा पुनरयं दोषः स्यादित्याह-काया इति। कायावयविनः तावन्त एव स्युः, तत्संख्यापरिच्छिन्ना एव प्राप्नुयुः। कियन्तः ? यावन्तस्ते करादयः, ते करचरणादयोऽवयवायावन्तः यत्संख्यापरिच्छिन्नाः, तत्समवेता अवयविनोऽपि तावन्त एव भवेयुः। तस्य निरंशतया सर्वात्मना तेषु परिसमाप्तत्वात्। तदनेकसंबन्धादनेकत्वात्। नान्यथा एकवृत्तिः स्यात्। अयं च प्रसङ्गः अनेकत्र एकदेशेन वृत्तिपक्षेऽपि योजयितव्यः। यथा रक्तारक्तपिहितापिहितकम्पादयोऽपि यथायोगं वक्तव्या इति॥



एवं प्रत्यक्षादिप्रमाणसमधिगम्यः कायो नास्ति। बाधकं पुनरस्य अनन्तरमुक्तमस्तीति प्रसाधितमित्युपदर्शयन्नाह नैवान्तरित्यादि-

नैवान्तर्न बहिः कायः कथं कायः करादिषु।



पूर्वमन्तर्व्यापारपुरुषप्रतिषेधात् मांसशोणितादीनां विचारितत्वात् नैवान्तर्मध्ये कायः। अधुना पुनरवयविनः प्रतिषेधात् न बहिः न बाह्यः प्रत्यक्षादिगोचरः कायः, इति कथं कायः करादिषु व्यवस्थाप्यते ? अथ करादिव्यतिरिक्तो भविष्यतीत्याह करादिभ्य इत्यादि-

करादिभ्यः पृथङ् नास्ति कथं नु खलु विद्यते॥८३॥



करादिभ्योऽवयवेभ्यः पृथग् भिन्नः उपलब्धिलक्षणप्राप्तः कायो नास्ति, न प्रतिभासते। करादय एव हि केवलाः प्रतिभासन्ते। एवं यो न करादिस्वभावः, नापि तदाधेयः समवेतो नाप्यन्तर्गतः, न चापि तद्वयतिरिक्तः, स कायः कथं नु खलु विद्यते ? कथं न्विति कथंचिदपि कायमनुपलभमानः तत्सत्त्वमसंभावयन् पृच्छति-कथं नु केन प्रकारेण। न्विति विमर्शे। विद्यते, तत्सत्ता व्यवस्थाप्यते ?



यदा चैवं विचारेण कायो व्यवस्थापयितुमशक्यः, तदा असन्नेव व्यवहर्तव्य इत्युपसंहरन्नाह तन्नास्तीत्यादि-

तन्नास्ति कायो मोहात्तु कायबुद्धिः करादिषु।



तन्नास्ति काय इति, यस्मादुक्तविचारेण नोपलभ्यते, तस्मादुपलब्धिलक्षणप्राप्तोऽनुपलभ्यमानो नास्ति कायः यदि नास्ति, कथं तर्हि करादिषु कायबुद्धिरित्याह-मोहात्तु इत्यादि। मोहादविद्यावशात् तु पुनः कायबुद्धिः करादिषु एकद्रव्यरहितेषु, न तु परमार्थतः। अवधारणे वा तुशब्दः। तथाहि अनवराग्रसंसारप्रवृत्तिजन्मपरंपरापरिचितमिथ्याभ्यासवासनावशात् यथावस्थितवस्तुतत्त्वप्रतिपत्तावपि तद्विपरीतसमारोपकल्पना उपजायते। तदुपनिबद्धोऽयं कायादिव्यवहारो लोके प्रवर्तते, न तु पारमार्थिक इति॥



कथमन्यत्र सा न भवति इत्यत्राह संनिवेशेति-

संनिवेशविशेषेण स्थाणौ पुरुषबुद्धिवत्॥८४॥



करचरणादिसंनिवेशः संस्थानम्, तदेव विशेषो भेद इतरस्मात्, तेन विभ्रमहेतुना करादिष्वेव, न सर्वत्र सा भवति। प्रतिनियतविषया हि भ्रान्तय इष्यन्ते। कथमिव ? स्थाणौ पुरुषबुद्धिवत्। यथा स्थाणौ पुरुषस्वभावरहितेऽपि पुरुषसाधारणोर्ध्वतादिसंनिवेशविशेषमुपलब्धवतो दूरादविवेचितपरविशेषस्य कस्यचित् विभ्रमात् पुरुषबुद्धिरुपजायते, तथा प्रकृतेऽपीत्यर्थः॥



स्यादेतत्-कथं पुनरेतदवसितं मोहात् कायबुद्धिः, न तु पुनर्वस्तुतः इत्यत्राह यावदित्यादि-

यावत्प्रत्ययसामग्री तावत्कायः पुमानिव।



यावत् यावत्कालावधिपरिच्छिन्ना प्रत्ययानां कारणानां पृथिव्यादिषड्धातुषट्स्पर्शायतनाष्टादशमनोपविचारात्मकानां कर्मायत्तवृत्तीनां सामग्री समवधानम्, तावत्कालावधिरेव कायः पुमानिव। यथा पुरुषस्वभावविरहितोऽपि परमार्थतः परिकल्पितरूपतया पुरुष इव प्रतिभासते व्यवह्रियते। उपलक्षणं चैतत्। स्त्री वेत्यपि द्रष्टव्यम्। न पूर्वं कललाद्यवस्थायां न पश्चाद्विकलितत्वाद् भस्माद्यवस्थायां निजस्वभावाभावात्। इदमत्रापि सामान्यमित्युपदर्शयन्नाह एवमित्यादि-

एवं करादौ सा यावत्तावत्कायोऽत्र दृश्यते॥८५॥



यथा प्रत्ययसामग्रीसद्भावे कायः पुमानिव प्रतिभासते, सद्भावेन प्रतिभासते, एवं तथा करादौ यावत् सा प्रत्ययसामग्री, तावत् कायोऽत्र करादौ दृश्यते, कल्पनावशात् प्रतिभासते, न तु परमार्थतः। तस्मात् सामग्रीसाकल्ये भवति, तदभावे च न भवति कायबुद्धिः। अतो मोहादेव करादिषु कायबुद्धिरिति निश्चितम्। अयमत्र समुदायार्थःतत्तत्प्रत्ययसामग्रीसद्भावे तत्तद्वस्तुस्वभावमन्तरेणापि अभूतं तत्त्वमादर्शयन्ती भ्रान्तिवशादसौ कल्पना उपजायते। तद्वशात् संनिवेशविशेषेषु स्त्रीपुरुषकायादिव्यवहारः प्रवर्तते। अत एव भस्माद्यवस्थायां सामग्रीवैकल्यान्निवर्तते। अतो नायं कायादिव्यवहारो वास्तव इति वक्ष्यति। तदुक्तम्-

कायस्वभावो वक्तव्यो योऽवस्थारहितः स्थितः।

कायश्चेत्प्रतिमाकारः पेशीभस्मसु नास्ति सः॥

सूक्ष्मभावेन चेत्तत्र स्थौल्यं त्यक्त्वा व्यवस्थितः।

अनिर्देश्यः स्वतः प्राप्तः काय इत्युच्यते कथम्॥इति।

उक्तं च-

हेतुतः संभवो यस्य स्थितिर्न प्रत्ययैर्विना।

विगमः प्रत्ययाभावात् सोऽस्तीत्यवगतः कथम्॥इति।

[युक्तिषष्टिका-]



क्वचित् पाठः-

यावत्प्रत्ययसामग्री तावत्काष्ठं पुमानिव॥इति।



तत्रेदं व्याख्येयम्-यावद्विपर्यासप्रत्ययसामग्री स्थाणौ पुरुषप्रतीतिः, तावत् काष्ठं स्थाणुस्वभावं पुमानिव प्रतीयते, न तदभावे। एवमेव करादौ यावत् सा प्रत्ययसामग्री, तावत् कायोऽत्र करादौ दृश्यते, न पश्चात्। अतो मोहादेव कायबुद्धिरिति निश्चयः॥



ननु यदि नाम कायो नास्ति, करचरणादयः पुनरवयवाः प्रत्यक्शोपलब्धत्वात् प्रतिषेद्धुमशक्याः इत्याशङ्कय करादयोऽपि परिकल्पितस्वभावा एवेत्युपदर्शयितुमाह एवमङ्गुलीत्यादि-

एवमङ्गुलिपुञ्जत्वात्पादोऽपि कतरो भवेत्।



यथैव विचार्यमाणः कायो नास्ति, एवं करचरणादयोऽपि न सन्ति। यतः अङ्गुलीनां पुञ्जः समुदायः। अङ्गुलीनामित्युपलक्षणम्। पार्ष्णिप्रभृतीनामपि द्रष्टव्यः। तस्य भावस्तत्त्वम्, तस्मात् तत्स्वभावादित्यर्थः। पादोऽपि चरणोऽपि कतरो भवेत् ? तत्समुदायमन्तरेण विचार्यमाणो नैव कश्चिदिति भावः। अङ्गुलिपुञ्जोऽपि नैकस्वभाव इत्याह सोऽपीत्यादि-

सोऽपि पर्वसमूहत्वात् पर्वापि स्वांशभेदतः॥८६॥



सोऽपि अङ्गुलिपुञ्जोऽपि विचारतो न वस्तुसन्। कुतः ? पर्वसमूहत्वात्, पर्वणामङ्गुलिभागानां समूहत्वात् संघातत्वात् कतरो भवेदिति प्रकृतेन संबन्धः। पर्वणामपि प्रत्येकमवस्तुत्वमित्यत आह-पर्वापि न वस्तु। कस्मात् ? स्वांशभेदतः, स्वस्य आत्मनः अंशानामवयवानां भेदतोऽपि विभागात्॥



अंशा अपि तत्त्वतो न सन्तीत्याह-

अंशा अप्यणुभेदेन



इति। अंशाः पर्वभागाः अपि अणुभेदेन परमाणुशो विभागेन भिद्यमानत्वात् कल्पिता एव। अणवोऽपि न प्रत्येकं परमार्थसन्तः इत्याह-

सोऽप्यणुर्दिग्विभागतः।



दिशां पूर्वापरदक्षिणोत्तराधरोर्ध्वस्वभावानां संबन्धेन विभागतो नानात्वात्। तद्विभागभेदाद्भिद्यमानस्य परमाणोः षडंशता स्यात्। दिक्षु वा विभागाः नानादिगवस्थिता नानारूपांशाः परमाणोः, ततो भेदेन न तस्य स्वभावोऽवतिष्ठते॥



दिग्भागभेदो यस्यास्ति तस्यैकत्वं न युज्यते।

[विंशकारिका-१४]



इति न्यायात्। तथाहि-पूर्वापरादिदिगवस्थितपरमाण्वभिमुखं यत् तत् परमाणोर्मध्यवर्तिनो रूपम्, तत् किमेकमेव, अपरापरं वा ? यदि एकमेवेति पक्षः, तदा सर्वपरमाणूनां परिवार्यावस्थितानामेकदेशताप्रसङ्गः। यतः पूर्वादिदिगवस्थितपरमाणुसमानदेशतामन्तरेण अपरदिगाद्यवस्थितपरमाणुना न प्राग्देशावस्थितपरमाण्वभिमुखरूपाभिमुखं स्यात्, अन्यथा रूपभेदप्रसङ्गात्। तत्समानदेशता च न तत्स्वरूपान्तर्भावमन्तरेण, तस्यापि पूर्वदिगवस्थितस्य परमाणोरपरपरमाणुना सर्वात्मना संबन्धेन तत्स्वरूपान्तर्भावात् परमाणुमात्रं द्रव्यं स्यात्। तथा च सति प्रचयरूपा भूधरादयो न स्युः। अतो भवनादीनां प्रचयमिच्छता द्वितीय एव पक्षः समभ्युपेयः। तदा च षड्‍भिरपरापररूपेण युगपत् संबन्धात् षड्भागो मध्यपरमाणुः स्यात्, तत्तद्देशावस्थितापरापरपरमाणुसंबन्धेन तत्परमाणुरूपस्य भेदात्। इति परमाणुरपि नैकस्वभावो युक्तः। यदुक्तमाचार्यपादैः-



षट्केन युगपद्योगात्परमाणोः षडंशता।

षण्णां समानदेशत्वात् पिण्डः स्याद्वाणुमात्रकः॥इति।

[विंशकारिका-१२]



तेऽपि पुनरणीयांसो भागाः तथैव निरूप्यमाणाः निरात्मतया नभःस्वभावतां प्रतिपद्यन्ते इत्याह दिग्विभागोऽपीत्यादि-

दिग्विभागो निरंशत्वादाकाशं तेन नास्त्यणुः॥८७॥



दिग्विभागोऽपि दिग्भेदेन परमाणोर्विभागोऽपि पूर्ववत् षडंशतया भिद्यमानः कतरो भवेत् ? न किंचिद्वस्तु स्यात्। एतत् सर्वत्र पूर्वेषु योजनीयम्। कुतः ? अनंशत्वात्। अतोऽभिनिकृष्यमाणो निःस्वभावतया आकाशं शून्यमेव। तेन कारणेन नास्त्यणुः, न विद्यते परमाणुरिति। एवं करादयोऽपि विचारतो निःस्वभावा द्रष्टव्या इति। ततः कायोऽपि न परमार्थतः कश्चिदस्ति, एकानेकस्वभाववियोगस्य प्रतिपादनात्। इत्थं न केशादयः, न चात्मा, नापि चित्तम्, न च कायः अहंकारस्य विषयो वस्तुतः। तस्मादविद्यासमुत्थापितात्मतया आत्मादिसत्त्वमन्तरेणापि प्रवर्तमानोऽयमहमिति प्रत्ययो निर्विषय एव समुत्पद्यते। तेन यदुक्तम्-

अहमेव न किंचिच्चेद्भयं कस्य भविष्यति।



इति, तत् समर्थितम्। सर्वेण चैतेन कायस्मृत्युपस्थानमुपदर्शितं भवति। यदुक्तं धर्मसंगीतिसूत्रे-

पुनरपरं कुलपुत्र बोधिसत्त्व एवं कायस्मृतिमुपस्थापयति-अयं कायः पादपादाङुलिजङ्घोरुत्रिकोदरनाभीपृष्ठवंशहृदयपार्श्वपार्शुकाहस्तकलाचीबाह्वङ्गग्रीवाहनुललाटशिरःकपालमात्रसमूहः कर्मभवकारकोपचितः नानाक्लेशोपक्लेशसंकल्पविकल्पशतसहस्राणामावासः। बहूनि चात्र द्रव्याणि समवहितानि यदुत केशरोमनखदन्तास्थिचर्मपिशितवपास्नायुमेदोवसालसिकायकृन्मूत्रपुरीषामाशयपक्काशयरुधिरखेटपित्तपूयसिंघाणकमस्तिष्कमस्तकलुङ्गानि। एवं बहुद्रव्यसमूहः। तत् कोऽत्र कायः ? तस्य प्रत्यवेक्षमाणस्य एवं भवति-आकाशसमोऽयं कायः। स आकाशवत् काये स्मृतिमुपस्थापयति। सर्वमेतदाकाशमिति पश्यति। तस्य कायपरिज्ञानहेतोर्न भूयः क्वचित् स्मृतिः प्रसरति, न विसरति, न प्रतिसरतीति॥



पुनरुक्तम्-

अयं कायो न पूर्वान्तादागतो नापरान्ते संक्रान्तो न पूर्वान्तापरान्तावस्थितोऽन्यत्रासद्विपर्याससंभूतः कारकवेदकरहितो नाद्यन्तमध्ये प्रतिष्ठितमूलः, अस्वामिकोऽममोऽपरिग्रहः। आगन्तुकैर्व्यवहारैर्व्यवह्रियते काय इति देह इति भोग इति आश्रय इति कुणप इति आयतनमिति। असारकोऽयं कायः मातापितृशुक्रशोणितसंभूतः अशुचिपूतिदुर्गन्धिस्वभावः रागदोषमोहविषादतस्कराकुलः नित्यं शतनपतनभेदनविकिरणविंध्वंसनधर्मा नानाव्याधिशतसहस्रनीड इति॥



एवं यदा विचार्यमाणो वस्तुतः शून्यस्वभावतया आकाशसंकाशः सर्वथा कायः, तदा मिथ्यैव वस्तुतत्त्वमारोप्य रागादिकमुत्पादयन्तः संसारमुपबृंहयन्ति बालाः इत्याह‍एवमित्यादि-

एवं स्वप्नोपमे रूपे को रज्येत विचारकः।



एवमित्युक्तक्रमेण स्वप्नोपमे स्वप्नोपलब्धे इव रूपेऽसौमनस्यस्थानीये को रज्येत, क आसज्येत ? अस्य च उपलक्षणत्वात् को द्विष्यात्, को मुह्येत्, इत्यपि वेदितव्यम्। तद्यथा-सौमनस्यस्थानीयानि चक्षुषा रूपाणि दृष्ट्वा रागो जायते। दौर्मनस्यस्थानीयानि चक्षुषा रूपाणि दृष्ट्वा द्वेषो जायते। उपेक्षास्थानीयानि चक्षुषा रूपाणि दृष्ट्वा मोहो जायते इति। यदेतन्मनोप्रतिकूलेषु रूपेष्वनुनीतं चरति, तेनास्य राग उत्पद्यते। प्रतिकूलेषु रूपेषु प्रतिहतं चरति, तेनास्य द्वेष उत्पद्यते। नैवानुकूलेषु न प्रतिकूलेषु संमूढं चरति, तेनास्य मोह उत्पद्यते। एवं शब्दादिषु त्रिविधमालम्बनमनुभवति पूर्ववत्। तत्र यः पण्डितजातीयः, इति हि अत्यन्तया चक्षुरायतनं शून्यं चक्षुरायतनस्वभावेन तत् पूर्वान्ततोऽपि नोपलभ्यते, अपरान्ततोऽपि नोपलभ्यते, मध्यतो नोपलभ्यते स्वभावरहितत्वात्। एवमन्येषु श्रोत्रादिषु वक्तव्यम्। एवमत्यन्ततया रूपायतनं रूपायतनं रूपायतनस्वभावेनेत्यादि पूर्ववत्। एवं शब्दादिषु वाच्यम्॥



इति हि मायोपमानीन्द्रियाणि स्वप्नोपमान् विषयान् पश्यति, तस्य कथं रागादिकमुत्पद्यते ? अत एवाह-विचारक इति। विचारको विचक्शणः। एवमेतद्यथाभूतं सम्यक् प्रज्ञया पश्यन् को रज्येत द्वेष्टि मुह्यति वा ? अत्र च स्वप्नोपलब्धजनपदकल्याणीप्रभृति भगवतोक्तं निदर्शनमुपदर्शितव्यम्। कायाभावे च स्त्रायादिकल्पनयापि रागो न युक्त इत्याह कायश्चेत्यादि-

कायश्चैवं यदा नास्ति तदा का स्त्री पुमांश्च कः॥८८॥



हेतुसमुच्च्ये चकारः। यस्मात् स्त्र्यादिकल्पनया रागो न भवति। कायो यदा एवमुदितनयेन नास्ति, निःस्वभावः, तदा कायाभावात् का स्त्री कामिनी यस्याः कमनीयतया पुरुषे रागो भवेत् ? कश्च पुमान् कामुकः यस्य रञ्जनीयतया स्त्रियां रागो भवेत् ? स्त्री हि स्वात्मनि स्त्रीति संकल्प्य बहिर्धा पुरुषे पुरुष इति रागं जनयति। एवं पुरुषोऽपि स्वात्मनि पुरुष इति संकल्प्य बहिर्धा स्त्रियां स्त्रीति रागं जनयति। कायाभावे तु स्त्रियां स्त्रीति न संविद्यते, पुरुषे पुरुषो न संविद्यते। यच्च स्वभावेन न संविद्यते, न तत् स्त्री न पुरुष इति। तस्मादसति काये स्त्र्यादिकल्पनाकृतोऽपि न युज्यते रागः। तत्कस्य हेतोः ? मन्यनापगता हि सर्वधर्मा इति। यथाप्रधानमयं निर्देशः। एवमेव स्त्रक्चन्दनादयोऽपि स्वभावरहिता वेदितव्याः। तथा द्वेषमोहविषया अपीति। उक्तं चैतद्भगवता पितापुत्रसमागमे-



षड्धातुरयं महाराज पुरुषः, षट्स्पर्शायतनः, अष्टादशमनोपविचारः। षड्धातुरयं महाराज पुरुष इति खलु पुनरेतद् युक्तम्। किं चैतत् प्रतीत्य कम् ? षडिमे महाराज धातवः। कतमे षट् ? तद्यथा-पृथ्वीधातुः, अब्धातुः, तेजोधातुः, वायुधातुः, आकाशधातुः, विज्ञानधातुश्च। इमे महाराज षड् धातवः। यावत् षडिमानि महाराज स्पर्शायतनानि। कतमानि षट् ? चक्षुःस्पर्शायतनं रूपाणां दर्शनाय यावन्मनःस्पर्शायतनं धर्माणां विज्ञानाय। इमानि महाराज षट् स्पर्शायतनानि। पेयालं। अष्टादश इमे महाराज मन‍उपचाराः। कतमे अष्टादश ? इह पुरुषः चक्षुषा रूपाणि दृष्ट्वा सौमनस्यदौर्मनस्योपेक्षास्थानीयानि रूपाण्युपविचरति। एवं श्रोत्रादिषु वाच्यम्। तेन प्रत्येकमिन्द्रियषट्केन सौमनस्यादित्रयभेदादष्टादश मन‍उपविचारा भवन्ति। पेयालं। कतमश्च महाराज आध्यात्मिकः पृथ्वीधातुः ? यत् किंचिदस्मिन् कायेऽध्यात्मं कक्खटत्वं खरगतमुपात्तम्। तत् पुनः कतमत् ? तद्यथा-केशा रोमाणि नखा दन्ता इत्यादि। कतमश्च महाराज बाह्यः पृथ्वीधातुः ? यत् किंचिद् बाह्यं कक्खटत्वं खरगतमुपात्तम्। अयमुच्यते बाह्यः पृथ्वीधातुः। तत्र महाराज आध्यात्मिकः पृथ्वीधातुः उत्पद्यमानो न कुतश्चिदागच्छति, निरुध्यमानो न क्वचित् संनिचयं गच्छति। भवति महाराज समयोऽयं यत् स्त्री अध्यात्मं [अहं] स्त्रीति कल्पयति। सा अध्यात्ममहं स्त्रीति कल्पयित्वा बहिर्धा पुरुषं पुरुष इति कल्पयति। सा बहिर्धा पुरुषं पुरुष इति कल्पयित्वा संरक्ता सती बहिर्धा पुरुषेण सार्धं संयोगमाकाङ्क्षते। पुरुषोऽपि अध्यात्मं पुरुषोऽस्मीति कल्पयतीति पुर्ववत्। तयोः संयोगाकाङ्क्षायां संयोगो भवति। संयोगप्रत्ययात् कललं जायते। तत्र महाराज यश्च संकल्प्यते, यश्च संकल्पयिता, उभयमेतन्न संविद्यते। स्त्रियां स्त्री न संविद्यते। पुरुषे पुरुषो न संविद्यते। इति हि असन्नसद्भूतः संकल्पो जायते। सोऽपि संकल्पः सद्भावेन न संविद्यते। यथा संकल्पः, तथा संयोगोऽपि। कललमपि स्वभावेन न संविद्यते। यच्च स्वभावतो न संविद्यते, तत् कथं कक्खटत्वं जनयिष्यति ? इति हि महाराज संकल्पं ज्ञात्वा कक्खटत्वं वेदितव्यं यथा कक्खटत्वमुत्पद्यमानं न कुतश्चिदागच्छतीति। भवति महारज समयः, यदयं कायः श्मशानपर्यवसानो भवति। तस्य तत् कक्खटत्वं संक्लिद्यमानं संनिरुध्यमानं न पूर्वां दिशं गच्छति, न दक्षिणाम्, न पश्चिमाम्, नोत्तराम्, नोर्ध्वम्, नाधः, नानुविदिशं गच्छति। एवं महाराज आध्यात्मिकः पृथिवीधातुर्द्रष्टव्यः। पेयालं। तत्र महाराज पृथिवीधातोरुत्पादोऽपि शून्यः, व्ययोऽपि शून्यः, उत्पन्नोऽपि पृथिवीधातुः स्वभावशून्यः। इति हि महाराज पृथिवीधातुः पृथिवीधातुत्वेन नोपलभ्यते, अन्यत्र व्यवहारात्। सोऽपि व्यवहारो न स्त्री न पुरुषः। एवं महाराज यथाभूतं सम्यक् प्रज्ञया द्रष्टव्यमिति। तेन का मन्यना ? मन्यना मारगोचरः। तत् कस्य हेतोः? मन्यनापगता हि सर्वधर्माः॥इति॥



एवं कायस्मृत्युपस्थानं प्रतिपाद्य वेदनास्मृत्युपस्थानमुपदर्शयितुं वेदनां विचारयन्नाह यद्यस्तीत्यादि-

यद्यस्ति दुःखं तत्त्वेन प्रहृष्टान् किं न वाधते।

शोकाद्यार्ताय मृष्टादि सुखं चेत्किं न रोचते॥८९॥



त्रिविधा हि वेदना-सुखा वेदना, दुःखा वेदना, अदुःखासुखा चेति। तत्र रूपवद्वेदनापि नास्ति परमार्थतः। कथमिति चेत्। यद्यस्ति दुःखम्, असातं वेदितम्। तत्त्वेन परमार्थतः। तदा प्रहृष्टान् किं न बाधते, संतोषयुक्तान् किं न दुःखयति ? सुखमपि यद्यस्ति तत्त्वेन, तदा शोकाद्यार्ताय। आदिशब्दात् कामभयोन्मादार्ताय। मृष्टादि सुखं चेत्, मृष्टादि सुरसमाहारपानादि। आदिशब्दात् स्त्रकूचन्दनादि सुखं सुखहेतुत्वात्। सुखं चेद्यदि, किं न रोचते ? न हि वस्तु सत्स्वभावं कदाचिदपि निवर्तितुमुत्सहते। तस्मात् कल्पनोपस्थापितमेव सुखदुःखं वेदनीयमिति॥



यदुक्तं प्रहृष्टान् किं न बाधते इति, तत्र परस्य समाधानमाह बलीयसेत्यादि-

बलीयसाभिभूतत्वाद्यदि तन्नानुभूयते।



न हि प्रहृष्टावस्थायां सर्वथैव दुःखमसत्। किं तर्हि समुद्भूतवर्तिना सुखेन तिरस्कृतत्वात् विद्यमानमपि नानुभूयते, बलीयसा अतिबलवता सुखेन अभिभूतत्वादुपहतत्वात्। सदपि यदि तद्दुःखं नानुभूयते न वेद्यते इत्युच्यते, तदा न युक्तमेतदित्याह वेदनात्वमित्यादि-

वेदनात्वं कथं तस्य यस्य नानुभवात्मता॥९०॥
वेदनात्वं वेदनास्वभावत्वं कथं केन प्रकारेण तस्याव्यक्तस्य सुखस्य यस्य नानुभवात्मता नानुभूयमानस्वभावता। वेद्यते इति हि वेदनोच्यते, वेदनानुभव इति वचनात्। यदि च अवेद्यमानापि वेदना स्यात्, तदा न किंचिन्न वेदना स्यादित्यतिप्रसङ्गः॥



अथापि स्यात्-न सर्वथा नानुभूयते, किं तु सूक्ष्मतया अनुभूतमपि अननुभूतकल्पमित्यत्राह अस्तीत्यादि-

अस्ति सूक्ष्मतया दुःखं स्थौल्यं तस्य हृतं ननु।

तुष्टिमात्रापरा चेत्स्यात्तस्मात् साप्यस्य सूक्ष्मता॥९१॥



अस्ति विद्यते सूक्ष्मतया अनुपलक्श्यमाणतया दुःखम्, तर्हि बलीयसा सुखेन किं कृतमस्य ? स्थौल्यमेव हृतं ननु, प्रहृष्टावस्थायां प्रवृत्तेन बलवता सुखेन स्थौल्यं प्राबल्यमस्य दुःखस्य हतमभिभूतम्। ननु, नन्विति परस्य संबोधने। इति मतं भो तव, न हि सूक्ष्मता नाम दुःखस्य सातानुभवकाले काचिदुपलभ्यते। तत् कथं सूक्ष्मता तस्येति वक्तव्यम्। अथ तुष्टिमात्रा अपरा तस्मादेव उद्भूतवृत्तेः सुखात्, अपरा तुष्टिमात्रा द्वितीया सुखमात्रा अल्पीयसी सुखकणिका स्यात्, दुःखस्य सूक्ष्मता भवेत्, चेद् यदि अभिप्रेतम्, ननु साप्यस्य सूक्ष्मता सापि तुष्टिमात्रा अपरा, अस्य सुखस्यैव सूक्ष्मता, न तु दुःखस्य, तुष्टेः सुखजातित्वात्। इति दुःखस्य सूक्ष्मता अवेद्यस्वभावा सुखानुभवकाले नास्त्येवेति निश्चितम्॥



स्यादेतत्-न दुःखं काल्पनिकतया कादाचित्कम्, किं तर्हि कारणवैकल्यात् कदाचिन्नोपलभ्यते इत्यत्राह विरुद्धेत्यादि-

विरुद्धप्रत्ययोत्पत्तौ दुःखस्यानुदयो यदि।



दुःखेन विरुद्धस्य सुखस्य यः प्रत्ययो हेतुः स्पर्शः, तस्योत्पत्तौ आभिमुख्ये सति। अथ वा। विरुद्धस्य प्रत्ययस्य सुखहेतोरुत्पत्तौ जन्मनि, विरुद्धः प्रत्ययोऽस्येति वा। दुःखेनेत्यपेक्षायामपि गमकत्वाद्भवति समासः। तस्योत्पत्तौ सत्यां प्रहृष्टावस्थायां हेतुवैकल्यात् दुःखस्यानुदयो दुःखस्यानुत्पत्तिश्चेदुच्यते, तदा-

कल्पनाभिनिवेशो हि वेदनेत्यागतं ननु॥९२॥



ननु यदेव अस्माभिरभिहितं तदेव सांप्रतमागतमायातम्। किं तत् ? कल्पनया अभिनिवेशः, कल्पनया कृतो योऽभिनिवेशः, हिरवधारणे। स एव वेदना सुखा दुःखा तदितरा वा। नान्यत् वास्तवं सुखाद्यसुखादिहेतुर्वास्ति, इति। तथाहि निजस्वभावरहितमपि यत् सुखसाधनत्वेन परिकल्पितम्, तदभिनिवेशात्सुखं वेदितमुत्पद्यते, इतरस्मादितरत्। कथमन्यथा यदेव अन्यस्य दुःखसाधनम्, तदेव अपरस्य कस्यचित् सुखसाधनं स्यात् ? तस्यैवैकस्य यस्य शब्दश्रवणादपि दुःखमासीत्, पुनः कालान्तरेण तस्य दर्शनात् प्रीतिरुपजायते। तस्मात् काल्पनिकमेव सुखादिकं तत्साधनं वा, न वास्तवम्। आह च-

अहिर्मयूरस्य सुखाय जायते

विषं विषाभ्यासवतो रसायनम्।

भवन्ति चानन्दविशेषहेतवो

मुखं तुदन्तः करभस्य कण्टकाः॥इति।



वेदना अभिनिवेशस्वभावत्वादेव च विचारेण निवर्तयितुं शक्यते इत्याह अत एवेत्यादि-

अत एव विचारोऽयं प्रतिपक्षोऽस्य भाव्यते।



अत एवेति। यत एव अभिनिवेशस्वभावा वेदना, अत एव विचारोऽयं विमर्शोऽयं प्रतिपक्षो विरोधी, निराकृतिकारणत्वात् अस्याभिनिवेशस्य सुखादिरूपस्य भाव्यते विचिन्त्यते। तत्साधनाभावे तदभिनिवेशाभावात्। अपि च। इत्थमप्यभिनिवेशो वेदनेत्याह विकल्पेत्यादि-

विकल्पक्षेत्रसंभूतध्यानाहारा हि योगिनः॥९३॥



अत एवेति वर्तते। विकल्प एव क्षेत्रं जन्मभूमित्वात्। तस्मिन् संभूतं जातं ध्यानं विविक्तं कामैः, विविक्तं पापकैरकुशलैर्धर्मैः सवितर्कं सविचारं समाधिजं प्रीतिसुखमित्यादि। ध्यानादिभावना समाधिसमापत्तेर्विकल्पभवत्वात्, तदेव आहारः शरीरयापनाहेतुत्वात्, येषां ते तथोक्ताः। के ते ? योगिनः। हिर्यस्मात् कल्पनानिर्मितप्रीतिसुखाहारसंधारितशरीरा योगिनः, तस्मात् कल्पनाभिनिवेशो वेदनेति प्रतिपादितम्॥



सांप्रतं हेत्वनभिसंभवादेव न वेदना वस्तुसती युक्तेत्याह सान्तरावित्यादि-

सान्तराविन्द्रियार्थौ चेत्संसर्गः कुत एतयोः।



अयमत्र समुदायार्थः-स्पर्शप्रत्यया वेदना। विषयेन्द्रियविज्ञानानां त्रयाणां संनिपातश्च स्पर्शः। स्पर्शाः षट् संनिपातजाः [अभि. को.-३.३०] इति वचनात्। स त्रिकसंनिपातजः स्पर्श एव न घटते, कुतस्तत्प्रत्यया वेदना भविष्यतीति। तथाहि‍इन्द्रियार्थयोः सान्तरयोर्वा स्यान्निरन्तरयोर्वा ? तत्र इन्द्रियार्थावक्षविषयौ सान्तरौ सव्यवधानौ यदि, तदा संसर्गः संनिपातो मेलनं कुतः कस्मात् एतयोरिन्द्रियार्थयोः ? नैव युज्यते। स्पर्शो हि संपर्क उच्यते। व्यवधाने सति स कथं भवेत् इति भावः। अथ द्वितीयः प्रकारः, सोऽपि न युज्यते इत्याह निरन्तरत्वे इत्यादि-

निरन्तरत्वेऽप्येकत्वं कस्य केनास्तु संगतिः॥९४॥



निरन्तरत्वेऽपि व्यवधानाभावेऽपि सति एकत्वं तादात्म्यमिन्द्रियार्थयोः। एवं हि तयोः सर्वात्मना नैरन्तर्यं भवेत् यदि अणीयसापि नांशेन व्यवधानं स्यात् सधर्मता च। तत्रान्तर्भावे तत्त्वमेव। एवं च कस्य केनास्तु संगतिः ? एकत्वे सति भेदाभावात् किं केन संगतं स्यात् ? न हि आत्मनैव आत्मनः संगतिर्युक्ताः।



स्यादेतत्-निरंशानामेव परमाणूनां संसर्गो वस्तुतः। न च तत्र अंशांशिव्यवहारो युक्तः, स्थूलरूपाणामेव तत्संभवात्। तत्र च संसर्गदूषणे न किंचिद्दूष्यते इत्याह नाणोरित्यादि-

नाणोरणौ प्रवेशोऽस्ति निराकाशः समश्च सः।



परमाणूनामपि नैव संपर्को युक्तः। यतः एकस्याप्यणोरन्यस्मिन्नणौ न प्रवेशोऽस्ति, नान्तर्भावोऽस्ति। कुतः ? चो यस्मात्। निराकाशः सः नीरन्ध्रः परमाणुः। समः स तुल्यः, निम्नोन्नताभावात्। इति कथं निरंशस्य संगतिरस्तु ? अथापि स्यात्-मा भूदणोरणौ प्रवेशः, संगतिमात्रं केवलमस्तु, तावता सिद्धं नः साध्यमित्याह अप्रवेश इति-

अप्रवेशे न मिश्रत्वममिश्रत्वे न संगतिः॥९५॥



सर्वात्मना हि संपर्कः संगतिरणोः, अन्यथा सांशत्वप्रसङ्गात्। तथा च तत्स्वरूपं स्वात्मना व्याप्नुवत एव तेन संगतिः। एवं तत्स्वरूपमिश्रत्वाभावे संगतिर्न स्यात्। तच्च मिश्रत्वं तत्र प्रवेशमन्तरेण न भवेत्। इत्थमप्रवेशे प्रवेशाभावे सति न मिश्रत्वं नासंभिन्नरूपत्वम्। अमिश्रत्वे मिश्रत्वाभावे च न संगतिः नासङ्गः॥



निरंशस्य सर्वथैव संसर्गो न युज्यते इत्याह निरंशस्य चेत्यादि-

निरंशस्य च संसर्गः कथं नामोपपद्यते।



निरंशस्य अंशशून्यस्य च पदार्थस्य। चो दूषणसमुच्चये। संसर्गो मीलनं कथं नामोपपद्यते? नामेति संभावयानाम्। कथं संसर्गः संभाव्यते ? सर्वाल्पस्यापि अवश्यमेकेनांशेन भवितव्यम्। यस्य पुनरंश एव नास्ति, तस्य अमूर्तस्य अंशाभावे असत्त्वमेव प्राप्तमिति भावः। न चैतद् भवतोऽपि प्रमाणप्रतीतं क्वचिदस्तीत्याह संसर्ग इत्यादि-

संसर्गे च निरंशत्वं यदि दृष्टं निदर्शय॥९६॥



.........................आह विज्ञानस्य त्वित्यादि-

विज्ञानस्य त्वमूर्तस्य संसर्गो नैव युज्यते।



तुरतिशयाभिधाने। विज्ञानस्य विषयविज्ञप्तेः। पुनःसंसर्गो नैव युज्यते, न संगच्छते। कुतः ? अमूर्तस्येति हेतुपदमेतत्। मूर्तिशून्यस्य विज्ञानस्य। अमूर्तत्वादित्यर्थः। परस्परसंपर्को हि संसर्गः। स च मूर्तिमतामेव विद्यते। यस्य तु मूर्तिरेव नास्ति, तस्य कथं संसर्गः स्यात् ? इति त्रयाणामपि संसर्गमवधूय संप्रति समूह एव वस्तुसन् नास्ति इति प्रतिपादयन्नाह समूहस्यापीत्यादि-

समूहस्याप्यवस्तुत्वाद्यथा पूर्वं विचारितम्॥९७॥



अपि दूषणसमुच्चये। समूहस्यापि संघातस्यापि। अवस्तुत्वात् वस्तुरहितत्वात् अश्वविषाणवत् संसर्गो नैव युज्यते इति प्रकृतेन संबन्धः। समूहस्यैवाभावात्। कथं पुनरवस्तुकत्वम् ? यथा पूर्वं विचारितम्, यथा प्राङ् निरूपितम्, एवमङ्गुलिपुञ्जत्वादित्यादिना॥



हेत्वसंभवमेव उपसंहरन्नाह तदेवमित्यादिना-

तदेवं स्पर्शनाभावे वेदनासंभवः कुतः।



तस्मादेवं प्रतिपादितक्रमेण स्पर्शनाभावे त्रिकसंपर्काभावे वेदनासंभवः कुतः, वेदनायाः सुखादिरूपायाः संभव उत्पादः कुतः, नैव युज्यते। कारणाभावे कार्यस्य संभवायोगात्। इति परमार्थतो वेदनाभावे हिताहितविषयस्यासंभवात्।



किमर्थमयमायासः



सुखदुःखसाधनप्राप्तिपरिहाराय योऽयमायासः क्रियते स किमर्थः ? आकाशचर्वणार्थमिव नैवोचित इति भावः। मा भूत् सुखसाधनाय, दुःखस्याभिषोढुमशक्यत्वात् तत्परिहाराय भवतु चेदाह-

बाधा कस्य कुतो भवेत्॥९८॥



वेदनाया विचारेण निःस्वभावत्वाद् बाधा अविचारतः आत्मादेः पूर्वनिरस्तत्वाद्वेदकाभावः। उपघातहेतोरपि विकल्पकल्पितत्वात् न परमार्थतः सत्त्वम्। इत्येवं बाधा पीडावेदनाभावात् कस्य वेदकाभावाद्भवेत्, कुत उपघातहेतोरभावाच्च भवेत् ? नैव परमार्थतः कस्यचित् कुतश्चित् स्यात्। तस्माद्वेदित्रभावादपि वेदना न युक्ता॥



संप्रति वेदनाभावात् तत्प्रत्यया तृष्णापि कारणविरहात् परमार्थतो नोत्पादमर्हतीत्युपदर्शयितुमाह यदा नेत्यादि-

यदा न वेदकः कश्चिद्वेदना च न विद्यते।

तदावस्थामिमां दृष्ट्वा तृष्णे किं न विदीर्यसे॥९९॥



यो वेदनां वेदयते स वेदकः। यदा कश्चिदात्मादिर्नास्ति, तदभावात्समनन्तरनिरूपणाच्च वेदना न विद्यते। तदा अवस्थामिमां एवंविधां स्वजन्मविकलां दृष्ट्वा उपलभ्य तृष्णे किं न विदीर्यसे, तद्दुःखदुःखितापि सती किं न विशीर्यसे, यदद्यापि तद्वियोगविधुरा त्वमात्मानं न मुञ्चसि॥



स्यादेतत्-यदि वेदको न स्यात्, वेदना च नास्ति, केनायं तर्हि सुखसाधनत्वादिना भावेषु दृष्टादिव्यवहारः प्रवर्तते इत्यत्राह दृश्यते इत्यादि-

दृश्यते स्पृश्यते चापि स्वप्नमायोपमात्मना।

चित्तेन सहजातत्वाद्वेदना तेन नेक्ष्यते॥१००॥



दृश्यते चक्षुरिन्द्रियजेन। स्पृश्यते कायेन्द्रियजातेन चित्तेन ज्ञानेन। एवं तर्हि चित्तमेव वेदकं वस्तुसदस्तीति चेदाह स्वप्नमायोपमात्मना। स्वप्नोपमस्वभावेन मायोपमस्वभावेन च। प्रतीत्यसमुत्पन्नेन चित्तेन, न तु परमार्थसता। कथं चित्ताद् व्यतिरिक्तं चित्तेन दृश्यते ? सहजातत्वात्, चित्तेन सहोत्पन्नत्वात् चित्तेन सह जन्म यस्य तस्य दर्शनम्, एकसामग्रीप्रतिबद्धत्वात् प्रतीत्यसमुत्पादस्याचिन्त्यत्वाच्च। न तु परमार्थतो दर्शनमस्ति येनैवं दृष्टादिव्यवहारः। वेदना तेन नेक्ष्यते, येन दृष्टसुखसाधनादिव्यवहारोऽप्यन्यत एव, तेन कारणेन वेदना नेक्ष्यते, न दृश्यते वस्तुतः॥



अथापि स्यात्-न सहजं दृश्यते, अपि तु ज्ञानं विषयाकारतया तत उत्पद्यमानमुत्तरकालं तस्य ग्राहकमुच्यते, इत्येतदपहस्तयितुमाह पूर्वमित्यादि-

पूर्वं पश्चाच्च जातेन स्मर्यते नानुभूयते।



अवश्यं सहजातस्य वेदनम्, अन्यथा पूर्वं प्राग्भावि पश्चादुत्तरकालं जातेन उत्पन्नेन ज्ञानेन स्मर्यते नानुभूयते स्मृतिरूपेण विषयीक्रियते, न साक्षाद्विद्यते। तज्ज्ञानकाले तस्यातीतत्वात्। न च अतीतस्य स्वरूपेण वेदनमुचितम्, अविद्यमानत्वात्। स्वरूपवेदनं चानुभवः। तस्मात् स्मरणमात्रमेतत्। तत्र युक्तं न स्वरूपवेदनम्। वेदनायाः स्वभावव्यवस्थापकं लक्षणमेव अयुक्तमित्याह स्वात्मानमित्यादि-

स्वात्मानं नानुभवति



स्वात्मानं स्वं स्वरूपं नानुभवति, न वेदयते, स्वसंवेदनस्य पूर्वं निरस्तत्वात्। अन्येन तर्हि सा ज्ञानेनानुभूयते वेदना ? आह-

न चान्येनानुभूयते॥१०१॥



न च नैव। अन्येन तत्समानकालभाविना ज्ञानेनानुभूयते, वेद्यते, ज्ञानस्य ज्ञानान्तरेण अवेदनात्॥

न चास्ति वेदकः कश्चिद्वेदनातो न तत्त्वतः।



न च नैवास्ति वेदकः कश्चित्, यो वेदनां वेदयते, चित्तमन्यद्वा। अतः अस्मात् कारणात् वेदना अनुभव इति वेदनालक्षणशून्यत्वाद्वेदना न तत्त्वतः न परमार्थतः, अन्यत्राभिनिवेशात् तत्स्वरूपप्रतिपादकस्य कस्यचिदभावात्। एतदुक्तमार्याक्षयमतिसूत्रे-



अपि तु खलु पुनरभिनिवेशो वेदना, परिग्रहो वेदना, उपादानं वेदना, उपलम्भो वेदना, विपर्यासो वेदना, विकल्पो वेदनेत्यादि॥



धर्मसंगीतिसूत्रेऽप्युक्तम्-

वेदनानुभवः प्रोक्ता केनासावनुभूयते।

वेदको वेदना वेद्यः पृथग्भूतो न विद्यते॥

एवं स्मृतिरुपस्थेया वेदनायां विचक्षणैः।

यथा बोधिस्तथा ह्येषा शान्ता शुद्धा प्रभास्वरा॥इति।



तस्माद्वेदकवेदनास्वभावशून्यं प्रतीत्यसमुत्पन्नमात्रं निर्व्यापारमस्वामिकं मायाप्रपञ्चवदुपलम्भगोचरतामुपगतमिदं कलेवरमवभासते, इति न कस्यचित् सुखं वा दुःखं वा स्वकीयं भवतीत्याह निरात्मक इत्यादि-

निरात्मके कलापेऽस्मिन् क एवं बाध्यतेऽनया॥१०२॥



निरात्मके कस्यचिदात्मादेर्वेदकस्याभावादस्वामिके कलापे एकस्यानुयायिनोऽभावात् प्रतीत्यसमुत्पन्नमात्रेऽस्मिन् मायास्वभाववदुपलम्भगोचरतामुपगते। एवमिन्द्रजालवत् पश्यन् संजातविस्मयो ब्रूते-क एवं बाध्यतेऽनया। एवमुक्तक्रमेण कस्यचिद्वेदयितुरभावात् वेदनायाश्च, कः परमार्थतोऽनया वेदनया बाध्यते पीडयते ? विचारतो नैव कश्चित्। तस्मात् विकल्प एवायं सुखादिसाधनाध्यवसायः। तदेतद्वेदनास्मृत्युपस्थानं दर्शितम्॥



सांप्रतं चित्तस्मृत्युपस्थानमुपदर्शयितुमाह नेन्द्रियेष्वित्यादि-

नेन्द्रियेषु न रूपादौ नान्तराले मनः स्थितम्।

नाप्यन्तर्न बहिश्चित्तमन्यत्रापि न लभ्यते॥१०३॥



तत्र षष्ठं तावन्मनोविज्ञानं निरूपयति-तथा क्व पुनरिदं मनोविज्ञानं स्वयमुपस्थितम् ? तत्र न तावदिन्द्रियेषु चक्षुरादिषु मनः स्थितं स्थितिमुपगतम्। न रूपादौ विषये मनः स्थितम्। नान्तराले, नापीन्द्रियविषययोरन्तराले मध्ये मनः स्थितम्। एकत्राप्यनिश्चितस्वरूपत्वात्। नाप्यन्तर्न बहिश्चित्तम्। नाप्यन्तर्न मध्ये कायस्य चित्तं नापि बहिः न बाह्येषु शरीरावयवेषु चित्तं लभ्यते। अन्यत्रापि न लभ्यते, उक्तेभ्यः स्थानेभ्यः अन्यत्रापि क्कचिद्देशान्तरे यत्र तत्र वा न लभ्यते, न प्राप्यते विचारतः॥



तथा क्कचित् कथंचिद्भवति, ततः कथं तस्य निषेध इत्यत्राह यन्न काये इत्यादि-

यन्न काये न चान्यत्र न मिश्रं न पृथक् क्वचित्।

तन्न किंचिदतः सत्त्वाः प्रकृत्या परिनिर्वृताः॥१०४॥



यच्चित्तं न काये बाह्याभ्यन्तरे शरीरे। न चान्यत्र, नैव कायादन्यत्र बाह्ये वस्तुनि। न मिश्रम्। क्रियाविशेषणमेतत्। द्वयोराध्यात्मिकबाह्ययोर्मिश्रमपि न स्थितम्। यच्चित्तं न पृथक् कायात्, नापि पृथक् स्वातन्त्र्येण च क्वचिदवस्थितं यच्चित्तम्, तत् परमार्थतो न किंचित् न वस्तुसत्। कल्पनोपदर्शितमेव तत्। आसंसारं चित्तं मायावत्प्रतिभासो निःस्वभावत्वात्। अतः अस्मात् कारणात् सत्त्वाः प्राणिनः प्रकृत्या स्वभावेन परिनिर्वृताः परिमुक्तस्वभावाः। निःस्वभावतालक्षणस्य प्रकृतिनिर्वाणस्य सर्वसत्त्वसंतानेषु सदा विद्यमानत्वात्। स्वयमेव तु अभूतपरिकल्पवशादसत्यपि सत्यमारोप्य क्लेशवासनोपहतचित्तसंततयः संसारचारकावरोधनिषिद्धस्वातन्त्र्यवृत्तयोऽपरिमुक्ता इत्युच्यन्ते न तु परमार्थतः॥



इति मनो विचार्य चक्षुरादिविज्ञानं विचारयन्नाह ज्ञेयादित्यादि-

ज्ञेयात्पूर्वं यदि ज्ञानं किमालम्ब्यास्य संभवः।

ज्ञेयेन सह चेज्ज्ञानं किमालम्ब्यास्य संभवः॥१०५॥



तथा हि न क्वचित् सदा सद्रूपमवस्थितं ज्ञानम्, किं तु चक्षुरादिसामग्रीं प्रतीत्य उत्पद्यमानं रूपादिज्ञेयग्राहकमित्युच्यते, इति परस्याशयमाशङ्कय विकल्पयति-तत् पुनर्ज्ञेयात् पूर्वं वा स्यात्, ज्ञेयसमानकालं वा, ज्ञेयस्य पश्चाद्वा इति। तत्र यदि प्राचीनो विकल्पः, तत्राह-ज्ञेयात् ग्राह्यविषयात् पूर्वं प्रागेव, अनुत्पन्ने एव ज्ञेये यदि ज्ञानमुत्पन्नमभिधीयते, तदा किमालम्ब्य अस्य संभवः ? पूर्वं ज्ञेयमालम्बनमन्तरेण किमालम्ब्य किमाश्रित्य अस्य संभव उत्पादः ? द्वितीयपक्षमाश्रित्याह-ज्ञेयेन ग्राह्यविषयेण सह समानकालं चेद्यदि ज्ञानम्, किमालम्ब्य अस्य संभवः ? समानकालस्य ज्ञेयस्य अकारणतया अनालम्बनत्वात्। नाकारणं विषयः इति वचनात्॥



अथ तृतीयः प्रकारः स्वीक्रियते, अथेत्यादि-

अथ ज्ञेयाद्भवेत् पश्चात् तदा ज्ञानं कुतो भवेत्।



अथेति पृच्छायाम्। ज्ञेयादिति। पूर्वं ज्ञेयम्, पश्चात् तदनन्तरं निवृत्ते ज्ञेये भवेत् उत्पद्येत ज्ञानम्, तदा ज्ञानं कुतो भवेत्, ज्ञानकाले ज्ञेयस्य निवृत्तत्वात्, कुत आलम्बनात् ज्ञानं भवेत्, किमाश्रित्य उत्पद्येत ? तस्माद्विषयादिसामग्रीतोऽपि परमार्थतो न सिध्यति ज्ञानम्। इदं चित्तस्मृत्युपस्थानमार्यरत्नकूटादिष्वभिहितम्-



स एवं चित्तं परिगवेषते-कतरत् तच्चित्तं रज्यति वा दुष्यति वा मुह्यति वा ? किमतीतमनागतं प्रत्युत्पन्नं वा ? इति। तत्र यदतीतम्, तत् क्षीणम्। यदनागतम्, तदसंप्राप्तम्। प्रत्युत्पन्नस्य स्थितिर्नास्ति। चित्तं हि काश्यप नाध्यात्मं न बहिर्धा नोभयमन्तरेणोपलभ्यते। चित्तं हि काश्यप अरूप्यनिदर्शनमप्रतिघमविज्ञप्तिकमप्रतिष्ठमनिकेतम्। चित्तं हि काश्यप सर्वबुद्धैर्न दृष्टम्, न पश्यन्ति, न द्रक्ष्यन्ति। [यत् सर्वबुद्धैर्न दृष्टम्], न पश्यन्ति, न द्रक्ष्यन्ति, कीदृशस्तस्य प्रचारो द्रष्टव्यः ? अन्यत्र वितथपतितया संज्ञया धर्माः प्रवर्तन्ते। चित्तं हि काश्यप मायासदृशमभूतकल्पनतया विविधामुपपत्तिं परिगृह्णाति। पेयालं। चित्तं हि काश्यप नदीस्त्रोतःसदृशमनवस्थितमुत्पन्नभग्नविलीनम्। चित्तं हि काश्यप दीपार्चिःसदृशं हेतुप्रत्ययतया प्रवर्तते। चित्तं हि काश्यप विद्युत्सदृशं क्षणभङ्गयनवस्थितम्। चित्तं हि काश्यप आकाशसदृशम्, आगन्तुकैः क्लेशोपक्लेशैरुपक्लिश्यते। पेयालं। यावत् चित्तं हि काश्यप परिगवेष्यमाणं न लभ्यते। यन्न लभ्यते, तन्नोपलभ्यते। तन्नैवातीतं नानागतं न प्रत्युत्पन्नम्। तत् त्र्यध्वसमतिक्रान्तम्। यत् त्र्यध्वसमतिक्रान्तं तन्नैवास्ति न नस्ति इत्यादि॥



एवं चित्तस्मृत्युपस्थानं प्रतिपाद्य धर्मस्मृत्युपस्थानं प्रतिपादयितुमुक्तमेव क्रमं योजयन्नाह एवं चेत्यादि-

एवं च सर्वधर्माणामुत्पत्तिर्नावसीयते॥१०६॥



चकार एवकारार्थः। एवमेव यथोदितन्यायेन सर्वधर्माणां सर्वभावानामुत्पत्तिरुत्पादो नावसीयते न प्रतीयते। तेषामपि स्वहेतुतः पूर्वं समानकालं पश्चाद्वा उत्पत्तौ इदमेव दूषणं यथासंभवं वाच्यम्। उत्पादाभावान्निरोधोऽपि न युज्यते। अनुत्पन्नस्य निरोधायोगात्। अत एव च अनुत्पन्नानिरुद्धस्वभावतया निष्प्रपञ्चत्वात् सर्वधर्मा विमोक्शाभिमुखा धर्मधातुनिर्याता आकाशधातुपर्यवसाना अप्रज्ञप्तिका अव्यवहारा अनभिलाप्या अनभिलपनीया इत्युच्यन्ते। एवं धर्मस्मृत्युपस्थानेनाविरहितं सर्वधर्मेष्वनासङ्गज्ञानमुत्पद्यते। धर्मस्मृत्युपस्थानभावना च आर्याक्षयमतिसूत्रे दर्शिता। यदुक्तम्-



धर्मे धर्मानुपश्यी विहरन् बोधिसत्त्वो न कंचिद्धर्मं समनुपश्यति। यतो न बुद्धधर्माः, यतो न बोधिः, यतो न मार्गः, यतो न निःसरणम्, सर्वधर्मा निःसरणमिति विदित्वा अनावरणमहाकरुणासमाधिं समापद्यते। स सर्वधर्मेषु सर्वक्लेशेषु च कृत्रिमसंज्ञां प्रतिलभते-निष्क्लेशा एते धर्मा नैते सक्लेशाः। तत्कस्य हेतोः ? तथाहि एते नीतार्थेऽर्थं समवसरन्ति। नास्ति क्लेशानां संनिचयो राशीभावः, न रागभावः, न द्वेषभावः, न मोहभावः। एषामेवानुबोधाद् बोधिः। यत्स्वभावाश्च क्लेशाः, तत्स्वभावा बोधिः, इत्येवं स्मृतिमुपस्थापयति।इति॥



उक्तं च-

उत्पत्तिर्यस्य नैवास्ति तस्य का निर्वृतिर्भवेत्।

मायागजप्रकाशत्वादादिशान्तं त्वयत्नतः॥

यः प्रतीत्यसमुत्पादः शून्यता सैव ते मता।

तथाविधश्च सद्धर्मस्तत्समश्च तथागतः॥

तत्तत्त्वं परमार्थोऽपि तथता द्रव्यमिष्यते।

भूतं तदविसंवादि तद्बोधाद्बुद्ध उच्यते॥इति।

[चतुः ३.२७, ३९, २०]



एवं धर्मस्मृत्युपस्थानं दर्शयता सर्वधर्मा अनुत्पन्नानिरुद्धाः प्रकाशिताः॥

तथा सति संवृतिसत्यमयुक्तमित्युक्तं स्यात्। ततः सत्यद्वयव्यवस्थापनं न घटते इति परिहर्तुं चोद्यमुत्थापयन्नाह यद्येवमित्यादि-

यद्येवं संवृतिर्नास्ति ततः सत्यद्वयं कुतः।



यदि परमार्थतः सर्वधर्मा अनुत्पन्नानिरुद्धस्वभावाः, एवं सति संवृतिर्नास्ति, व्यवहारो न स्यात्, परमार्थसत्यमेवैकं स्यात्। ततः संवृतेरभावात् सत्यद्वयं संवृतिसत्यं परमार्थसत्यं चेति यदुक्तम्-

संवृतिः परमार्थश्च सत्यद्वयमिदं मतम्। [९.२]



इति, तदेतत् सत्यद्वयं कुतः ? नैव स्यात्। तदभावाच्च परलोकगमनकर्मक्रियाफलसंबन्धस्वभावोपार्जनादि न स्यात्, सर्वव्यवहाराभावात्। अथापि स्यात्-यदि नाम नास्ति, तथा मरीचिकादिषु जलकल्पनयेव संवृतिस्वभावया कल्पनया बुद्ध्या व्यवस्थाप्यते, ततः सत्यद्वयमुपपद्यते इत्याशङ्कयन्नाह अथ सेति-

अथ साप्यन्यसंवृत्या



अथेति प्रश्ने। सापीति संवृतिः। न केवलं परमार्थसत्यमित्यपेरर्थः। अन्यया संवृत्या कल्पनाबुद्धिरूपया व्यवस्थाप्यते। अथवा। अपिरवधारणे भिन्नक्रमे च। अन्ययैव संवृत्येति योजनीयम्। एवमेकं संधित्सतोऽन्यत् प्रच्यवते इत्युपदर्शयन्नाह-

स्यात्सत्त्वो निर्वृतः कुतः॥१०७॥



यदि परमार्थतस्तत्स्वभावशून्यमपि कल्पनाबुद्धिविषयीकरणात् सांवृतमुच्यते, योऽपि तर्हि सर्वधर्मनिःस्वभावतालक्षणं परमार्थसत्यमधिगम्य अनुपलम्भयोगेन सर्वप्रपञ्चविरहात् परिनिर्वृतिमुपयातः, सोऽपि सत्त्वः परिनिर्वृतो विनिर्मुक्तः कुतो भवेत् ? नैव स्यात्। तस्यापि बुद्धया विषयीकरणात्। बुद्धिश्च सर्वैव संवृतिः कल्पनास्वभावत्वात्। बुद्धिः संवृतिरुच्यते इति वचनात् निर्वृतिरपि संवृतिः स्यात्॥



अत्र परिहारमाह परचित्तेत्यादि-

परचित्तविकल्पोऽसौ



परस्य निर्वृतसत्त्वादन्यस्य सत्त्वस्य चित्तं तस्यासौ विकल्पः, योऽयं निर्वृतस्यापि बुद्धया विषयीकरणम्। न हि परचित्तविकल्पेन अन्यस्य संवृतिर्युक्ता। ततोऽन्यबुद्धया विषयीक्रियमाणोऽपि निर्वृत एवासौ। कुतः ? यतः-

स्वसंवृत्या तु नास्ति सः।



तुः पूर्वस्माद्विशेषमभिधत्ते। स्वसंवृत्या निजसंवृत्या स्वकल्पनया स इति परिनिर्वृतो नास्ति, न विद्यते। परिनिर्वृत एव सः इति स्वयमस्य सर्वविकल्पोपरमात्। अन्यत्रापि तर्हि कथमन्यसंवृतिः स्यादित्यत्राह स पश्चादित्यादि-

स पश्चान्नियतः सोऽस्ति न चेन्नास्त्येव संवृतिः॥१०८॥



अस्मिन् सति इदं भवति, अस्योत्पादादिदमुत्पद्यते इति इदंप्रत्ययतामात्रमेव संवृतिः। इति धर्मेभ्यो धर्म उत्पद्यमानः पश्चाद्भावी भवेत्। ततः स पश्चान्नियतो धर्मः, सोऽस्ति यदि, तदा अस्त्येव संवृतिः। न चेद्यदि स नास्ति, तदा नास्त्येव संवृतिः। गगनेन्दीवरादिषु इदंप्रत्ययताया अभावात्। एतदुक्तं भवति-यदि नाम परिनिर्वृतो बुद्ध्या विषयीकृतः, नैव तावता परचित्तविकल्पमात्रेण तस्यापरिनिर्वृतिः। स्वयमस्य सर्वविकल्पप्रपञ्चोपशमात्। न रक्तचित्तेनालम्बितः स्वयं प्रहीणसर्वक्लेशावरणो वीतरागोऽप्यवीतरागो भवेत्। तस्मात् सर्वकल्पनाविरहादन्यसंवृत्यालम्बितोऽपि स्वयं परिनिर्वृत एवासौ परमार्थतः। अत एव सर्वधर्माः सर्वकल्पनाशून्यत्वादनुत्पन्नानिरुद्धस्वभावत्वाच्च प्रकृतिपरिनिर्वृता आदिशान्ता इत्युच्यन्ते। तथापि तथाविधेभ्य एव तथाविधा अन्ये धर्मा उत्पद्यन्ते निरुध्यन्ते च। मायास्वभाववत्। तेन च रूपेण परिकल्पवशात् पुनरालम्ब्यमानाः सांवृताः, वास्तवरूपाभावाच्च अनुत्पन्नानिरुद्धा इत्युच्यन्ते खरविषाणवत्। यदुक्तम्-

शून्येभ्य एव शून्या धर्माः प्रभवन्ति धर्मेभ्यः। इति॥



आर्यललितविस्तरेऽप्युक्तम्-

संस्कार प्रदीप‍अर्चिवत् क्षिप्रमुत्पत्तिनिरोधधर्मकाः।

अनवस्थित मारुतोपमा फेनपिण्डेव असारदुर्बलाः॥

संस्कार निरीह शून्यकाः कदलीस्तम्भसमा निरीक्षतः।

मायोपम चित्तमोहना बाल‍उल्लापन रिक्तमुष्टिवत्॥

* * * * पेयालं।

यथ मुञ्च प्रतीत्य बल्वजं रज्जु व्यायामबलेन वर्तिता।

घटियन्त्र सचक्र वर्तते तेषु एकैकश नास्ति वर्तना॥

तथ सर्वभवाङ्गवर्तिनी अन्यमन्योपचयेन निश्रिता।

एकैकश तेषु वर्तनी पूर्वपरान्तत नोपलभ्यते॥

* * * * *

मुद्रात् प्रतिमुद्र दृश्यते मुद्रसंक्रान्ति न चोपलभ्यते।

न च तत्र न चैव सान्यतो एव संस्कार अनुछेदशाश्वताः॥

* * * * *

अरणिं यथ चोत्तरारणिं हस्तव्यायाम त्रयेभि संगति।

इति प्रत्ययतोऽग्नि जायते जातु कृतार्थु लघु निरुध्यते॥

अथ पण्डितु कश्चि मार्गते कुतयं आगतु कुत्र याति वा।

विदिशो दिशि सर्वि मार्गतो नागति नास्य गतिश्च लभ्यते॥

स्कन्धायतनानि धातवः तृष्ण अविद्या इति कर्मप्रत्यया।

सामग्रि तु सत्त्वसुचना स च परमार्थतु नोपलभ्यते॥इति।

[ललित-१३.९७,९८,१००,१०१,१०४,१०८-११०]



चतुःस्तवेऽप्युक्तम्-

निरुद्धाद्वानिरुद्धाद्वा बीजादङ्कुरसंभवः।

मायोत्पादवदुत्पादः सर्व एव त्वयोच्यते॥

अतस्त्वया जगदिदं परिकल्पसमुद्भवम्।

परिज्ञातमसद्भूतमनुत्पन्नं न नश्यति॥

नित्यस्य संसृतिर्नास्ति नैवानित्यस्य संसृतिः।

स्वप्नवत् संसृतिः प्रोक्ता त्वया तत्त्वविदां वर॥ इति।

[चतुः-१.१६-१८]



तस्मात् परमार्थत उत्पादनिरोधाभावेऽपि न संवृतिसत्यविरोध इति सर्वं समञ्जसम्॥



ननु यदि परमार्थतोऽनुत्पन्नानिरुद्धाः सर्वधर्माः, तदा न ज्ञानं न च ज्ञेयं वस्तुतः संभवति। तत् किमिह केन विचार्यते इति विचारोऽपि न स्यात्। अतस्तूष्णीमेव स्थातव्यमित्यत आह कल्पनेत्यादि-

कल्पना कल्पितं चेति द्वयमन्योन्यनिश्रितम्।

यथाप्रसिद्धमाश्रित्य विचारः सर्व उच्यते॥१०९॥



कल्पना आरोपिका बुद्धिः। कल्पितं तया समारोपितम्। चेत्युक्तसमुच्चये। इत्येवं द्वयमुभयमन्योन्यस्य निश्रितं परस्परसमाश्रितम्, कल्पनापेक्षया कल्पितम्, कल्पितापेक्षया कल्पनेति। यथाप्रसिद्धं लोकव्यवहारतो निश्चितमाश्रित्य गृहीत्वा विचारो विमर्शः सर्व उच्यते अभिधीयते। सर्व इति न कश्चिदेव विचारोऽपि संवृतिमाश्रित्य प्रतन्यते, न तु परमार्थसत्यम्, तस्य सर्वव्यवहारातिक्रान्तत्वादित्यर्थः॥



विचारोऽपि बहिर्विचारवत् काल्पनिकस्वभावत्वाद्विचारयितव्य इति चेत्, विचारस्याशक्यविचारत्वादित्यभिसंधायाह विचारितेनेत्यादि-

विचारितेन तु यदा विचारेण विचार्यते।

तदानवस्था तस्यापि विचारस्य विचारणात्॥११०॥



विचारितेन तु परीक्षितेन पुनर्यदा विचारेण विचार्यते निरूप्यते, तदा अनवस्था अप्रतिष्ठानं स्यात्। कुतः ? तस्यापि विचारस्य विचारणात्। योऽसौ विचारस्य विचारणार्थं विचार उपादीयते, तस्यापि विचारस्य विचारणाद्धेतोः॥



विचार्ये तर्हि विचार्यमाणे कथमियमनवस्था न स्यादित्यत्राह विचारिते इत्यादि-

विचारिते विचार्ये तु विचारस्यास्ति नाश्रयः।

निराश्रितत्वान्नोदेति तच्च निर्वाणमुच्यते॥१११॥



विचार्ये तु परीक्ष्ये पुनर्वस्तुनि विचारिते निर्णीते सति विचारस्य निर्णयस्य पुनरुत्तरकालं कर्तव्यस्य आश्रयो नास्ति, यमाश्रित्य पुनर्विचारानुसरणेनानवस्थानं स्यात्। विचार्यस्य विचारणे चरितार्थतया पुनराकाङ्क्षाभावात्। अत एव निराश्रयत्वान्नोदेति, आश्रयाभावान्न पुनर्विचारः प्रवर्तते। सर्वसमारोपनिषेधं विधाय वस्तुतत्त्वपरिज्ञानात् कृतकृत्यत्वात् प्रवृत्तिनिवृत्त्यभावात् न क्कचित् सज्यते, नापि विरज्यते। तच्च निर्वाणमुच्यते, सर्वव्यवहारनिवृत्तेः सर्वत्र निर्व्यापारतया प्रशान्तत्वात् तदेव निर्वाणमभिधीयते॥



कल्पितविषयेऽवश्यमेव सर्वत्र विचारः सत्यो न तु परमार्थत इत्याह यस्य त्वित्यादि-

यस्य त्वेतद्दूयं सत्यं स एवात्यन्तदुःस्थितः।



यस्य पुनः परमार्थसद्भाववादिनः एतद्दूयं विचारो विचार्यं चेति एतदुभयमपि सत्यं परमार्थसत्, स एव भावस्वभाववादी अत्यन्तदुःस्थितः अत्यन्तमतिशयेन दुःखेन स्थितो दुःस्थितः दुष्करणीयत्वात्। एतदेवोपदर्शयन्नाह यदीत्यादि-

यदि ज्ञानवशादर्थो ज्ञानास्तित्वे तु का गतिः॥११२॥



यदि ज्ञानवशात् ज्ञानस्य प्रमाणस्य वशात् सामर्थ्यात् अर्थः प्रमेयं व्यवस्थाप्यते, तदा भवतु नाम प्रमाणात् प्रमेयव्यवस्था, को नाम निवारयति ? केवलमिदमिह निरूपणीयम्-ज्ञानास्तित्वे तु का गतिः ? ज्ञानस्य प्रमाणस्य पुनरस्तित्वं कुतो निश्चितमिति वक्तव्यम्। स्वसंवेदनस्याभावात् प्रमाणान्तरान्वेषणे अनवस्थानं स्यादिति का गतिराश्रयणीया ?



स्यादेतत्-स्यादेव अनवस्थानम्, यदि ज्ञानस्तित्वे प्रमाणं मृग्यते। यावता प्रमेयादेव प्रमाणव्यवस्था, तत् कुतोऽनवस्थानं स्यादित्याशङ्कयन्नाह अथेत्यादि-

अथ ज्ञेयवशाज्ज्ञानं ज्ञेयास्तित्वे तु का गतिः।



अथेति पराभिप्रायप्रकाशने। अथ ज्ञेयस्य प्रमेयस्य वशात् ज्ञानं व्यवस्थाप्यते, तर्हि ज्ञेयास्तित्वे तु का गतिः ? यदि ज्ञेयवशात् ज्ञानं व्यवस्थाप्यते, तदा स्वयमेव ज्ञेयं ज्ञानास्तित्वे व्यवस्थानिबन्धनं स्यात्, तच्च कुतः प्रमाणात् सिद्धमिति पृच्छति-ज्ञेयास्तित्वे पुनः का गतिरिति। प्रमेयसिद्धये ज्ञानान्तरानुसरणे तदपि ज्ञानान्तरं कुतः सिद्धमिति वक्तव्यम्। तस्मादेव ज्ञेयादिति चेत्, ज्ञेयं कुतः सिद्धम्? तत्सिद्धौ ज्ञानान्तरानुसरणे पुनरनवस्थानमपर्यवसानं स्यात्। स्यादेतत्-भवेदेतत् यदि ज्ञानस्य ज्ञेयस्य वा सिद्धये ज्ञानान्तरापेक्षा स्यात्, अपि तु परस्परमितरेतरस्य सिद्धिः। अतो नोक्तदोषप्रसङ्ग इति परस्याशयमाविर्भावयन्नाह अथान्योन्येत्यादि-

अथान्योन्यवशात्सत्त्वमभावः स्याद्दूयोरपि॥११३॥



अथ पुनरेवमभिधीयते-अन्योन्यस्य ज्ञानस्य ज्ञेयस्य परस्परस्य वशात् सामर्थ्यात् ज्ञानज्ञेययोरपि सत्त्वमस्तित्वं निश्चीयते ज्ञानवशाज्ज्ञेयस्य ज्ञेयवशाच्च ज्ञानस्येति यावत्। तदेवं सति अभावः स्याद् द्वयोरपि। द्वयोरपि ज्ञानज्ञेययोरभावः स्यात्, एकस्यापि सत्त्वसिद्धिर्न भवेत्। इतरेतराश्रयत्वादेकस्यासिद्धौ द्वितीयस्याप्यसिद्धिः॥



अत्र प्रकृतानुरूपदृष्टान्तमाह पिता चेदित्यादि-

पिता चेन्न विना पुत्रात्कुतः पुत्रस्य संभवः।

पुत्राभावे पिता नास्ति



पिता जनकः यदि पुत्रं विना पुत्रमन्तरेण न स्यात्, पुत्रजननसापेक्षत्वादस्य व्यपदेशस्य, तर्हि कुतः पुत्रस्य संभवः, कुतः कस्मात् पितुरभावात् पुत्रस्य जन्यस्य संभवः जन्म अस्तु ? किमिति चेत्, पुत्राभावे पिता नास्ति। हेतुपदमेतत्। यतः पुत्रस्य अभावे असत्त्वे पिता नास्ति न भवति। पित्रा हि पुत्रो जनयितव्यः। स च न पुत्रं यावज्जनयति, तावत् पितैव न भवति। यावच्च पिता न भवति, तावत् पुत्रस्य तस्मात् संभवो नास्ति। अतः इतरेतराश्रयणादेकाभावादन्यतराभावः स्यादिति द्वयोरप्यनयोरभाव इति समुदायार्थः। अमुमर्थं दार्ष्टान्तिके योजयन्नाह तथेति-

तथासत्त्वं तयोर्द्वयोः॥११४॥



यथात्र पितापुत्रोदाहरणे, तथा असत्त्वं तथैव अभावः तयोर्द्वयोर्ज्ञानज्ञेययोः। तथाहि-ज्ञेयजननाज्ज्ञानमुच्यते, ज्ञानपरिच्छेद्यतया च ज्ञेयमिति यावत् ज्ञानं न सिध्यति, यावत् परिज्ञानं न सिध्यति, तावत् परिच्छेद्यतया च ज्ञेयं न सिध्यति। इतरेतराश्रयणादुभयाभावः स्यादिति भावः॥



स्यादेतत्-न ब्रूमः-अन्योन्यवशात् सिद्धिरनयोः अपि तु ज्ञेयकार्यं ज्ञानम्, ततो ज्ञानादङ्कुराद् बीजमिव ज्ञेयं सेत्स्यति। इति पराशयमुद्भावयन्नाह अङ्कुर इत्यादि-

अङ्कुरो जायते बीजाद्वीजं तेनैव सूच्यते।

ज्ञेयाज्ज्ञानेन जातेन तत्सत्ता किं न गम्यते॥११५॥



अङ्कुरो जायते उत्पद्यते बीजात् खलबिलान्तर्गतात्। बीजं तेनैव बीजाज्जातेन अङ्कुरेण सूच्यते गम्यते यथा, तथा अत्र ज्ञेयात् प्रमेयात् ज्ञानेन जातेन उत्पन्नेन तत्सत्ता तस्य ज्ञेयस्य सत्ता सद्भावः किं न गम्यते, किं न प्रतिपद्यते ? अत्रापि बीजाङ्कुरवत् कार्यकारणभावस्य विद्यमानत्वात्॥



नायं सदृशो दृष्टान्त इत्याह अङ्कुरादित्यादि-

अङ्कुरादन्यतो ज्ञानाद्वीजमस्तीति गम्यते।

ज्ञानास्तित्वं कुतो ज्ञातं ज्ञेयं यत्तेन गम्यते॥११६॥



अङ्कुरात् कार्यात् बीजमस्तीति यद्गम्यते, तन्नायमस्यैव केवलस्य प्रभावः, किं तर्हि अन्यतो ज्ञानादङ्कुरव्यतिरिक्तात् तदस्तीति गम्यते। तथा हि-न योग्यतामात्रेण कार्यं कारणस्य गमकम्, बीजस्यैव अङ्कुरजननमप्रतिपन्नस्यापि गमकत्वं स्यात्। नापि स्वरूपप्रतीतिमात्रेण अप्रतिपन्नकार्यकारणभावस्यापि तत्प्रतिपत्तिप्रसङ्गात्, अपि तु अविनाभावित्वेन निश्चितम्। अतः प्राक्प्रतिपन्नकार्यकारणभावस्य पुनः पश्चात् क्कचिद् बीजाविनाभाविनमङ्कुरमुपलब्धवतः अङ्कुरादध्यवसायात्मकमनुमानमुत्पद्यते, ततो बीजमस्तीत्यवसीयते। अतो ज्ञानविषयीकृत एव अङ्कुरो बीजप्रतिपत्तिहेतुः। ज्ञानास्तित्वं ज्ञानस्य सद्भावः कुतो ज्ञातं कस्मात् प्रतीतम् ? स्वसंवेदनाभावादनवस्थानभयेन ज्ञानान्तराननुसरणाच्च, ज्ञेयं यत्तेन गम्यते, यद् यस्मात् ज्ञेयं तेन ज्ञानेन ज्ञेयकार्येण गम्यते अवसीयते। न हि स्वयमनिश्चितं लिङ्गं साध्यस्य गमकमुपपद्यते। ज्ञापकहेतुत्वादस्य ज्ञेयगमकत्वम्। तस्माद्वास्तवपक्षे ज्ञानज्ञेयासिद्धेर्विचारः कर्तुमशक्यः, काल्पनिकपक्षे तु यथाप्रसिद्धव्यवहारमाश्रित्य शक्यते इति निश्चितम्॥



न स्वतो नापि परतो न द्वाभ्यां नाप्यहेतुतः।

उत्पन्ना जातु विद्यन्ते भावाः क्वचन केचन॥

[म. शा. १.३]



इत्यस्यार्थस्य समर्थनार्थं नाप्यहेतुत इति तुरीयकोटिप्रसाधनाय तावत् स्वभाववादिमतमपाकर्तुमाह लोक इत्यादि-

लोकः प्रत्यक्षतस्तावत्सर्वं हेतुमुदीक्षते।



तथा हि ते स्वपरस्वभावसर्वहेतुनिरपेक्षमेव भावग्रामवैचित्र्यमुत्पद्यते इति वर्णयन्ति। यतः न पङ्कजादीनां नालपत्रदलकेसरादिकमनेकप्रकारभेदभिन्नवैचित्र्यमचेतना जलपङ्कादयो निर्वर्तयितुमलम्। न च चेतनोऽपि कश्चिदन्यः कर्मणा तादृशनिर्माणप्रवीण उपलभ्यते, नापि चाद्रियते, तत्कर्मणोऽपर्यवसानात् युगपदपर्यन्तविशेषेषु व्यापारायोगाच्च। तस्मात् किंचित्कारणमन्तरेणैव सर्वमिदं जगद्वैचित्र्यमुत्पद्यते इति तेषां मतम्, तदुक्तम्-

सर्वहेतुनिराशंसं भावानां जन्म वर्ण्यते।

स्वभाववादिभिस्ते च नाहुः स्वमपि कारणम्॥

राजीवकेसरादीनां वैचित्र्यं कः करोति हि।

मयूरचन्द्रकादिर्वा विचित्रः केन निर्मितः॥

यथैव कण्टकादीनां तैक्ष्ण्यादिकमहेतुकम्।

कादाचित्कतया तत्तद्दुःखादीनामहेतुता॥

[तत्त्वसंग्रह-११०-११२]



तदेवंवादिनो लोकप्रतीतादेव हेतुसामर्थ्याद्बाधा स्यादित्युपदर्शयति। लोकः सर्वो जनः। प्रत्यक्षतः इन्द्रियाश्रिताज्ज्ञानात्। प्रत्यक्षत इत्युपलक्षणादनुमानतोऽपि तत्प्रतीतिभावात्। प्रत्यक्षानुमानाभ्यामिति यावत्। सर्वमनेकप्रकारं हेतुं जगद्वैचित्र्यकारणम्, उदीक्षते तदन्वयव्यतिरेकानुविधायि कार्यमुपजनयन्तं पश्यति। यत् कार्यं यस्य सद्भावे भवति, तदभावे च न भवतीति प्रतीयते, स तस्य हेतुरिति निश्चीयते। इति लोकप्रतीतादेव हेतुव्यापारादस्य अहेतुकत्वप्रतिज्ञा बाध्यते। तदेवोपदर्शयन्नाह पद्मनालादीत्यादि-

पद्मनालादिभेदो हि हेतुभेदेन जायते॥११७॥



पद्मस्य राजीवस्य नालमादि येषां पद्मदलकेसरादीनां ते तथोक्ताः, तेषां भेदो नानात्वम्। हिर्यस्मात्। हेतुभेदेन हेतोः कारणस्य भेदेन विशेषेण जायते उत्पद्यते, नान्यथा। अनियमेन सर्वत्र सद्भावप्रसङ्गात्। अतः यद् यस्यान्वयव्यतिरेकानुविधानं कुर्वत् प्रतीयते, तत् तस्यैव कार्यं नान्यस्येत्यभ्युपगमनीयम्। यस्मात् प्रतिनियतकारणादेव प्रतिनियतविशेषोत्पत्तिः, तद्भेदेन तद्भेदादिति न अहेतुमती॥



ननु भवेदेष विशेषः यदि हेतोरेव स्वयमसौ विशेषः सिद्धः स्यात्। किं तु तस्यैव कुतः स भवतीति वक्तव्यम्। न च निर्विशेषाद्विशेषोत्पत्तिः, पुनरहेतुत्वप्रसङ्गात्। इत्याशङ्कां परिहरन्नाह किंकृत इत्यादि-

किंकृतो हेतुभेदश्चेत् पूर्वहेतुप्रभेदतः।



किंकृतः केन कृतः कुतो यातः हेतुभेदश्चेत्, हेतोर्भेदो विशेषश्चेदुच्यते। पूर्वहेतुप्रभेदतः पूर्वस्य प्राक्तनस्य तज्जनकस्य हेतोः प्रभेदतः प्रभेदाद्विशेषात्। तस्यापि तत्पूर्वस्य हेतोः कुतो विशेष इति चेत्, पुनस्तत्रापि पूर्वहेतुविशेषादिति वक्तव्यम्, इति उत्तरोत्तरस्य विशेषाकाङ्क्षायां पूर्वपूर्वस्य विशेषादित्युत्तरं वाच्यम्। न चैवमनवस्थानमनिष्टं किंचिदापादयति-अनवराग्रस्य संसारस्य पूर्वकोटिर्न प्रज्ञायते इत्यभ्युपगमात्। अत एव फलाविपर्ययोऽपि न स्वतो भवतीत्याह कस्माच्चेदित्यादि-

कस्माच्चेत्फलदो हेतुः पूर्वहेतुप्रभावतः॥११८॥



कस्मात् कारणात् फलदो विशिष्टफलदानसमर्थो हेतुश्चेत्, पूर्वहेतुप्रभावतः पूर्वस्य तज्जनकस्य हेतोः सामर्थ्यात् स्वहेतुना स तादृशस्तत्स्वभावोऽजनि येन सहकारिविशेषोपहितकार्योत्पादानुगुणविशेषपरंपरापरिणतिमधिगच्छन् असति प्रतिबन्धवैकल्ययोः संभवे तथाविधमेव फलमुत्पादयति। अतः अविपरीतफलदानमपि स्वहेतुसामर्थ्योपजनितमेव। तेन अभ्युदयनिःश्रेयससाधनहेतोर्यथासंख्यमभ्युदयनिःश्रेयसमेव फलं जायते, तद्विपरीताद्विपरीतमिति न कथंचिदपि विपर्ययः॥



एतच्च अवश्यं स्वभाववादिना सहेतुकत्वमकामकेनापि स्वीकर्तव्यम्। कथमन्यथा हेतुमन्तरेण प्रतिज्ञातमहेतुकत्वं भावानां सेत्स्यति ? प्रतिज्ञामात्रेण तस्य केनचिदग्रहणात्। हेतुव्यापारेण तत् प्रसाधयतः स्वयमेव पुनः सहेतुकत्वाभ्युपगमात् वन्ध्या मे मातेति ब्रुवतः इव प्रतिज्ञायाः स्ववचनेन बाधनं स्यात् इत्युभयतःपाशा रज्जुरिति संकटप्राप्तो बतायं तपस्वी। तदुक्तम्-



न हेतुरस्तीति वदन् सहेतुकं

ननु प्रतिज्ञां स्वयमेव शातयेत्।

अथापि हेतुप्रणयालसो भवेत्

प्रतिज्ञया केवलयास्य किं भवेत्॥इति।



तस्मात् कुदृष्टिविजृम्भितमेवैतत् प्रमाणबाधितत्वात्॥



एवं स्वभाववादिनं निराकृत्य चतुर्थप्रकारप्रसाधनार्थमेव ईश्वरकारणतां जगतः प्रत्याख्यातुं तदुपक्षेपं कुर्वन्नाह ईश्वर इत्यादि-

ईश्वरो जगतो हेतुः



ईश्वरकारणवादिनो हि स्वभाववादिमतनिषेधमाकर्ण्य विशेषमभिधातुमर्धमवसितं भारस्येति मन्यमानाः प्राहुः-साहाय्यमेव अनुष्ठितमेवं भवद्भिः। न हि कारणमन्तरेणैवजगद्वैचित्र्यमुपपद्यते देशाद्यनियमप्रसङ्गात्। केवलमचेतनाः पुनरमी जलपङ्कादयो वैचित्र्यासामर्थ्या इति युक्तमनेनोक्तम्। तत्र अस्त्येव स भगवान् विश्ववैचित्र्यनिर्माणप्रवीणः जगदेकसूत्रधारः सकलजगदादिभूतः नित्यात्मतया सर्वदानुपहतशक्तिप्रभावः सर्वभावानां कार्यकारणभावादितत्त्ववेदी समस्तार्वाचीनदर्शनागोचरमाहात्म्य ईश्वरः। तेन हेतुना सहेतुकं सकलमिदं सचराचरं जगदिति कः सचेतनः अन्यथा वक्तुमुत्सहते ? इति नैयायिकादिवेश्मकथामभिधाय प्रत्याचष्टे-ईश्वरो जगतो हेतुः। ईश्वर इति शंकरस्याख्या। स एव जगतो विश्वस्य हेतुः सृष्टिस्थितिप्रलयकारणम्। तस्मादेवैतद्विश्वमशेषमुत्पद्यते। अन्यथा पुनरचेतनोपादानत्वात् कथममी गिरिसरिदवनिसागरादय उत्पत्तिभाजो भवेयुः ? चेतनाव दधिष्ठानात् पुनरिमे समुत्पत्तुमुत्सहन्ते, तद्वयापारेणैव प्रवर्तनात्। तदुक्तम्-



सर्वोत्पत्तिमतामीशमन्ये हेतुं प्रचक्षते।

नाचेतनः स्वकार्याणि किल प्रारभते स्वयम्॥

न स्यान्मेरुरयं न चेयमवनी नैवायमम्भोनिधिः

सूर्याचन्द्रमसौ निवेशसुभगौ नैतौ जगच्चक्षुषी।

ईशानो न कुलालवद्यदि भवेदिश्वस्य निर्माणकृत्

सत्त्वादीश्वरकर्तृकं जगदिदं वक्तीति कश्चित्किल॥इति।

[तत्त्वसंग्रह-४६-४७]



तस्माज्जगदेवमचेतनविश्वस्वभावमीश्वरकारणतामात्मनो ब्रूते। अत्रोच्यते-किमनया स्वगृहीतोपकल्पितया प्रमेयरचनया वचनरचनाप्रपञ्चमालया ? नैतदुच्यमानमपि स्वसमयाभिनिवेशिनां जडधियां प्रीतिकरं प्रमाणशून्यं विदुषां संतोषमुत्पादयति। तथा हि-यद्यसौ कारुणिकः, किमर्थं पुनरिमान् नरकादिदुःखपीडितान् प्राणिनः करोति ? तथा च सति कारुणिकत्वं तस्य श्रद्धासमधिगम्यमेव स्यात्। स्वकृतासत्कर्मफलोपभोगेन तत्क्षेपापनयने यस्य प्रवृत्तिः, कथमकारुणिको नामेति चेत्, न। तत् कर्म कारुणिकः किमिति कारयति येनानिष्टं फलमुपभुज्यते, तत्रापि तस्य व्यापारात्, सर्वोत्पत्तिमतां निमित्तकारणत्वात्। अपि च किं तस्मिन्नव्याप्रियमाणे तत् कर्मफलमुपभुज्यते न वा ? यदि प्रथमः पक्षः, तदा कथमेतत्-



अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः।

ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वा॥इति।

[महाभा.-३.३०.२८]



सर्वकार्येष्वेव तद्वयापाराभ्युपगमस्य अनेनैव अनैकान्तिकताप्रसङ्गात्। अथ द्वितीयः, तदा कृपालुरसौ तत्रोपेक्षां किमिति नाधिवासयति, यद् यत्नेन साहाय्यमेव तत्रोपकल्पयति। अथ कृतस्य कर्मणोऽविप्रणाशादवश्यं तेन तत्फलमनुभवितव्यमिति तदुपभोगाय व्याप्रियते इति चेत्, कथं पुनरेतस्मिन्नव्याप्रियमाणेऽवश्यं तेनानुभवितव्यं सामग्रीवैकल्यात्। कः पुनरेवं विप्रणाशेऽपि दोषः ?

प्रयत्नत एव ततो निवर्तितुमुचितं कारुणिकस्य। एवं हि तदिच्छायत्तवृत्तितया तस्यापरिपाकात् तेन स्वमैश्वर्यमुपदर्शितं तत्र भवेत्। अत्र सत्त्वानां तत्कर्मसंचोदितोऽसौ दयालुरपि स्थातुमशक्तः, महद् बत अनेन स्वमैश्वर्यमित्थं द्योतितमन्यत्र स्यात्। तत् परकर्मणापि समाकृष्टो नाम नात्मनि वशित्वमधिगच्छति, ईश्वरतः कर्मण एव महत् सामर्थ्यमेवं प्रकाशितं स्यात्। तद्वरं कर्मैव पर्युपास्यं यत्सामर्थ्येन समाकृष्यमाणो महेश्वरोऽपि स्थातुमसमर्थः। तस्मादिदमव्याहतमेव-

नमः सत्कर्मभ्यो विधिरपि न येभ्यः प्रभवति॥इति।

[भर्तृहरि-वैराग्य-९२]



अथ न कारुणिकः, तदासौ वीतरागः सरागो वा ? यदि आद्यो विकल्पः, तदा यदि नाम दयाविरहात् सुखं नोपनयति, दुःखं तु जनस्य कस्मादुत्पादयतीति वक्तव्यम्। दुःखं हि रागादिवशेन कस्यचिदुपनीयते। ते चास्य न सन्ति। कथमकारणमेव जनं दुःखयति ? क्रीडार्थं दुःखयतीति चेत्, क्रीडार्थं वीतरागस्य प्रवृत्तिरिति चेत्, निश्चितमसौ न वीतरागः। रागादिमतामपि तावज्जितेन्द्रियाणां न क्रीडार्थं दृश्यते प्रवृत्तिः, किं पुनर्वीतरागाणां तथा भविष्यति। न रक्षःपिशाचादिमन्तरेण अन्यस्य परदुःखेन क्रीडा संभाव्यते॥



अथ अवीतराग इति पक्षः, तदा कथमयमितरजनसाधारणः सन्नीश्वरो भवितुमर्हति ? रागादिक्लेशपाशायत्तवृत्तेर्जगदैश्वर्यायोगात्। अन्यथा तदन्यस्यापि तथाविधस्य तत्प्रसङ्गात्। नापि संसारचारकोपरुद्धस्वातन्त्र्यस्य विश्ववैचित्र्यरचनाचातुर्यं तदन्यस्येव युज्यते। तदेवमस्तित्वमेव भवन्तं विप्रलम्भयति यदेवंविधस्यापि यावदैश्वर्यमभ्युपगम्यते। भवतु वा तथाविधस्यापि कर्तृत्वम्। तथापि किमसौ स्वस्थात्मा [अस्वस्थात्मा वा] ? यदि स्वस्थात्मा, तदा किमिति जनमकाण्डमेव दुःखयति ? न हि स्वस्थात्मा निरपराधं जनं पीडयन् दृष्टः। अथ विमार्गगामिनमेव कृतापराधं पीडयतीति चेत्, विमार्गगामिनमपि अयमेव कारयति। तथाभूतमपि कारयित्वा पुनः पीडयतीति स लौकिकेश्वराणामपि जघन्यतया वृत्तिमतिशेते। ते हि स्वयंकृतापराधमेव अपराधिनमनुशासति। अयं पुनरात्मनैव कारयित्वेति महानस्य विशेषः। अथ अस्वस्थात्मा, तदा असाधु तदाराधने स्वर्गापवर्गार्थिनां प्रेक्षावतां प्रवृत्तिः। न हि उन्मत्तस्याराधनमुन्मत्तकादन्यः कर्तुमुत्सहते। तथा हि स्वर्गादिलिप्सया तदाराधनाय प्रवर्तन्ते प्रेक्षावन्तः। तच्च अपरिनिश्चितस्वभावतया ततो न संभाव्यते, विपर्ययोऽपि वा तदाराधनफलस्य संभाव्यते। तदाराधनप्रवृत्तास्तु गाढतरश्रद्धावशेन तमुन्मत्तमाचक्षाणा आत्मानमेवोन्मत्तकमाचक्षीरन्। कथमन्यथा तदाराधने प्रवर्तन्ते ? तदपरोन्मत्तकैर्वा किमपराद्धं यतस्ते न पर्युपास्यन्ते ? तेषां प्रभावातिशयविकलत्वादिति चेत्, न वै प्रकृतेऽपि कंचित् प्रभावातिशयमुत्पश्यामः। उन्मत्तकः सकलजगदतिशायिशक्तिरिति कोऽन्य उन्मत्तकाद्वक्तुमर्हति ? तदयमभिविचार्यमाणो न क्वचिदवसानं लभते इति अलं दुर्मतिविष्यन्दितेषु आदरेणेति। तस्मात् सूक्तमेतदू यदुक्तम्-

सुखस्य दुःखस्य न कोऽपि दाता

परो ददातीति कुबुद्धिरेषा।

स्वकर्मसूत्रग्रथितो हि लोकः

कर्ताहमस्मीति वृथाभिमानः॥इति।



तस्मादकर्तृकमेव इदं जगदशेषमिति न परिदृष्टकारणादन्यः स्वतन्त्रश्चेतनो वा तस्य कर्ता कश्चिदस्ति। इदमेव विस्तरेण प्रतिपादयितुं सिद्धान्तवादी प्राह-

वद कस्तावदीश्वरः।



ईश्वरकारणवादिनं पृच्छति-वद ब्रूहि कोऽयमीश्वरो भवतोऽभिमतः ? तावच्छब्देनेदमभिधत्ते-येषां क्षित्यादीनामन्वयव्यतिरेकानुविधायि कार्यमुपलभ्यते, तत्र कतमदीश्वरं भवानाचष्टे ? न च अनुपलब्धान्वयव्यतिरेकव्यापारस्य कारणता प्रकल्पयितुं युक्ता, अतिप्रसङ्गात्। तस्मात् तत्कारणतामिच्छता दृष्टान्वयव्यतिरेकव्यापार एव अङ्गीकर्तव्यः। न चान्यस्य क्षितिबीजादिव्यतिरिक्तस्य अन्वयव्यतिरेकानुविधानं कुर्वत् दृश्यते कार्यम्। तत् कथं तस्य कार्योपयोगित्वं व्यवस्थाप्यते ? यदुक्तम्-

येषु सत्सु भवत्येव [यत्तेभ्योऽन्यस्य कल्प्यते]।

तद्धेतुत्वेन सर्वत्र हेतूनामनवस्थितिः॥इति॥



अथ पृथिव्यादीनि भूतान्येव ईश्वरो भवत्विति पराभिप्रायमाशङ्कयाह भूतानि चेदित्यादि-

भूतानि चेद्भवत्वेवं नाममात्रेऽपि किं श्रमः॥११९॥



यदि भूतानि पृथिव्यादीनि ईश्वर उच्यते, तदा अभ्युपगम्यते एव। भवत्वेवम्, एवमस्तु, न वयमत्र विप्रतिपद्यामहे। क्षित्याद्यन्वयव्यतिरेकानुविधानवतः कार्यस्य दर्शनात्। केवलं नाममात्रेऽपि किं श्रमः ? नामैव केवलमर्थभेदशून्यं नाममात्रकम्। अपिरवधारणे। नाममात्रे एव किमिह महासमारम्भेण तत्प्रसाधनाय श्रमः आयासः क्रियते ? मया क्षित्यादय उच्यन्ते, त्वया पुनस्तान्येव भूतानि ईश्वरः इति नार्थतः कश्चिद्विशेषः ? न चात्र विप्रतिपत्तावर्थशून्यायां किंचित् फलमुपलभ्यते॥



अथ अस्त्येव अर्थविशेषः, तदा नैषामीश्वरत्वं युक्तमित्याह अपि त्वित्यादि-

अपि त्वनेकेऽनित्याश्च निश्चेष्टा न च देवताः।

लङ्घयाश्चाशुचयश्चैव क्ष्मादयो न स ईश्वरः॥१२०॥



अपितुशब्देन अधिकमाह। नैते क्षित्यादयो भवतामीश्वरत्वेन कल्पयितुं युज्यन्ते, तल्लक्षणायोगात्। कथं कृत्वा ? अनेके नानास्वभावाः, अनित्याश्च विनश्वरस्वभावाः, निश्चेष्टाः, अचेतनतया निर्व्यापाराः। न च देवताः, नापि च आराध्यरूपाः। लङ्घयाश्च अतिक्रमणीयाः अनघृष्यत्वात्। अशुचयश्चैव अपवित्राः। अमेध्यादिष्वपि पृथिव्यादिसद्भावात्। क्ष्मादयः क्ष्मा पृथिवी आदिर्येषामप्तेजोवायूनां ते तथोक्ताः। न स ईश्वरः, स ईश्वरः तादृक्खभावो न भवति, तत्षट्प्रकारविपरीतत्वात्॥



यदि क्ष्मादयो नेश्वरः, आकाशं तर्हि भविष्यतीत्याह नाकाशमित्यादि-

नाकाशमीशोऽचेष्टत्वात्



आकाशमपि ईशः ईश्वरो न भवति। कुतः ? अचेष्टत्वात्, स्वभावविकलतया निर्व्यापारत्वात्, परमतेऽपि निष्क्रियत्वात्। आत्मा तर्हि भवतु-

नात्मा पूर्वनिषेधतः।



पूर्वमेव विस्तरेण आत्मनः प्रतिषिद्धत्वात् निःस्वभावः शशविषाणवदसौ। अथापि स्यात्-अवितर्क्यमाहात्म्यत्वादस्य नार्वाग्दर्शनैरिदमित्थमिति तत्स्वरूपं विवेचयितुं शक्यमित्याह अचिन्त्यस्येत्यादि-

अचिन्त्यस्य च कर्तृत्वमप्यचिन्त्यं किमुच्यते॥१२१॥



यदि असौ चिन्तातिक्रान्तमाहात्म्यः, तदा अचिन्त्यस्य च चिन्तापथमतिक्रान्तस्य ईश्वरस्य कर्तृत्वं युगपत्कारणत्वमपि अचिन्त्यमतर्क्यं किमुच्यते, किमभिधीयते ? कर्तृत्वमप्यस्य अचिन्त्यत्वान्न वक्तुमुचितमित्यर्थः॥



स्यादेतत्-अतिदुर्लक्ष्यस्वभावतया चिन्तयितुमशक्योऽसौ, कार्यं तु तस्य सर्वजनप्रतीतिसाधारणत्वात् चिन्त्यमेव, इति ब्रुवाणं प्रत्याह तेन किमित्यादि-

तेन किं स्त्रष्टुमिष्टं च



भवतु नाम तस्य कार्यं चिन्त्यम्, तथापि तेन किं स्त्रष्टुमिष्टुं च। तेन ईश्वरेण अचिन्त्यमाहात्म्येन किं कार्यं स्त्रष्टुं निर्मातुमिष्टमभिप्रेतं च, इति परस्योत्तरमाशङ्कयन्नाह-

आत्मा चेत्



अत्र पूर्वपदस्याकारेण च्छन्दोनुरोधात् संधिर्न कृतः। आत्मा तेन स्त्रष्टुमिष्टं चेन्मतम्, एतत् प्रतिषेधयति-

नन्वसौ ध्रुवः।



ननु भोः, असावात्मा ध्रुवो नित्योऽभिमतो भवताम्। तत् कथमसौ क्रियते ? अन्यथा नित्य एव स न स्यात्। सदकारणवन्नित्यमिति नित्यलक्षणाभावप्रसङ्गात्। अन्यत्रापि न तस्य सृष्टिव्यापार उपलक्श्यते इत्याह क्ष्मादीत्यादि-

क्ष्मादिस्वभाव ईशश्च ज्ञानं ज्ञेयादनादि च॥१२२॥

कर्मणः सुखदुःखे च



आदिशब्देन अप्तेजोवाय्वाकाशकालदिङ्मनांसि गृह्यन्ते। तेषां स्वभावो ध्रुवः। सोऽपि न तेन क्रियते, पृथिव्यादीनां परमाणूनां नित्यत्वाभ्युपगमात्। स्थूलरूपे च तद्वयापारस्य निषेत्स्यमानत्वात्। आकाशादीनामपि नित्यत्वात्। ईशश्चेति। ईश्वरोऽपि ध्रुवः इति आत्मानमसौ न करोति। ज्ञानं ज्ञेयादनादि चेति। ज्ञानमपि ज्ञेयादुत्पद्यमानमनादि च, आसंसारं ज्ञेयामालम्ब्य प्रवर्तनात्, तदपि न तेन क्रियते। तत्कर्मणः सुखदुःखे च, कर्मणः शुभाशुभात् यथासंभवं सुखदुःखे च भवतः इष्टानिष्टविपाकजे, तत्रापि न तस्य व्यापारः। एवं सति-

वद किं तेन निर्मितम्।



ब्रूहि किमिदानीं तेनेश्वरेण निर्मितं रचितम्, इति न क्वचित् तस्य सामर्थ्यमुपलभ्यते। तत् कथमस्य जगत्कर्तृत्वमुच्यते ? अधुना सर्वत्र साधारणं दूषणमाह हेतोरित्यादि-

हेतोरादिर्न चेदस्ति फलस्यादिः कुतो भवेत्॥१२३॥



तथाहि असौ नित्यो वा जगतो हेतुः स्यादनित्यो वा ? नित्य एव तद्वादिभिरसौ परिकल्पितः। तत्र नित्यत्वे सति हेतोः कारणस्य आदिर्नास्ति, यदि, तदा फलस्यादिः कुतो भवेत् ? नैव स्यादित्यर्थः। नित्यमुपस्थिते समर्थस्वभावे हेतौ कार्यमपि तज्जन्यमजस्त्रमेव जायेत। इति तत्सामर्थ्यप्रतिबद्धं कार्यं सदा प्राप्नोति। तत्-

कस्मात्सदा न कुरुते



कस्मात् कारणात् सदा सर्वकालं न कुरुते ? न सर्वं कार्यं जनयतीति कथं कस्यचित् कार्यस्य कदाचित् क्रियाविरामः॥



अथवा। अन्यथावतार्यते-यदि च नेश्वरो जगतः कर्ता स्यात्, कथमिदं प्रलयानन्तरमादितः सर्गभाग् भवेत्, इत्यत्राह हेतोरित्यादि-अनवराग्रो हि जातिसंसारः। ततश्च हेतोः क्लेशकर्मादिलक्षणस्य आदिः पूर्वकोटिः न चेदस्ति, फलस्य सत्त्वभाजनलोकविवर्तादिलक्षणस्य आदिः प्रथमारम्भः कुतो भवेत् ? नैव विद्यते इत्यर्थः। अनादौ संसारे हि सत्त्वानां कर्माधिपत्येन स्थितिसंवर्तविवर्तानां प्रवर्तनात्। एतच्च उक्तमेव "कर्मणः सुखदुःखे च" [९.१२३] इत्यनेन॥



अथवा। अत्रापि ईश्वरमेवाभिसंधायोक्तं हेतोरिति। हेतोरीश्वरस्य आदिर्न चेदस्ति, प्रलयकालेऽपि तस्यानुपहततया माहात्म्यस्याभ्युपगमात् फलस्य तत्कृतस्य सर्गादिलक्षणस्य आदिः कुतो भवेत् ? नित्यतया तत्कारणस्य सदा समर्थत्वात् सर्गादिकमपि नित्यमेव स्यात्। अतो नित्यसमर्थे तस्मिन् सर्गादेरादिरेव न स्यात्। ततः कथं सर्गस्यादावपि तद्वयापारो भवेत् ? अपि च। यदि असौ कर्ता स्यात्, तदा नित्यत्वात्-

कस्मात्सदा न कुरुते

सर्गादिकमिति शेषः। तथाहि यदि कदाचित् सर्गं करोति, तदा तत्कारणस्वभावतया सदा तमेव कुर्यात्। एवं स्थितिसंहारयोरपि वक्तव्यम्। युगपद्वा तस्य सर्गादिक्रिया स्यात्। अत एव च हेतोरुपरमाभावात्। न फलस्यापि विरामः। अन्यत् पूर्ववत्॥



अथापि स्यात्-यदि नाम असौ सदा समर्थस्वभावः, तथापि कदाचित् सहकारिवैकल्यान्न करोतीत्याह-

न हि सोऽन्यमपेक्षते।



इति। समर्थस्वभावो हेतुरीश्वरः। हिर्यस्मात्। नान्यं सहकारिणमपेक्षते। नित्यस्य समर्थस्वभावस्य सतः तदपेक्षायोगात्। न हि नित्यतया अनाधेयातिशयस्य काचिदपेक्षा नाम। विशेषोत्पत्तौ वा तदव्यतिरिक्तस्वभावस्य तस्याप्युत्पत्तिप्रसङ्गात्। व्यतिरेके वा विशेषादेव कार्योत्पत्तिः, तस्य अकारकत्वं स्यात्। तदुक्तम्-

अपेक्ष्यते परः कश्चिद्यदि कुर्वीत किंचन।

यदकिंचित्करं वस्तु किं केनचिदपेक्ष्यते॥इति।

[चतुः -३.१२]



भवन्तु वा तस्य सहकारिणः। तथापि ते नित्या वा स्युरनित्या वा ? ये तावन्नित्याः परमाण्वादयः, तेषां न सद्भाववैकल्यं संभवति, नापि तदायत्तसंनिधीनां संनिधानवैकल्यम्। अनित्यानामपि तदायत्तोदयसंनिधीनां कुतो वैकल्यं नाम, येन सहकारिवैकल्यान्न करोतीत्युच्यते ? ततो नायमत्र परिहारः। अत एवाह तेनाकृत इत्यादि-

तेनाकृतोऽन्यो नास्त्येव तेनासौ किमपेक्षताम्॥१२४॥



तेन ईश्वरेण अकृतः, यः उत्पत्तिमांस्तेन अकृतः, स नास्त्येव, न विद्यते अन्योऽपरो जगति। तेन कारणेन तदायत्तवृत्तीनां सहकारिणां सदासंनिहितत्वादसौ नित्यः कर्ता किमपेक्षताम् ? किमपेक्षमाणः कदाचित् कार्यं न कुर्यात् ? इत्थं न काचिदपि तस्यापेक्शास्तीति सदा कार्यं कुर्वीत॥



अथापि स्यात्-समवायिकारणम्, असमवायिकारणम्, निमित्तकारणं चेति कारणत्रितयात् कार्यमुत्पद्यते। तदस्य निमित्तकारणत्वात् सामग्रीमपेक्ष्य कार्यं कुर्वतो नोक्तदोषप्रसङ्गः इति पराशयमाशङ्कयाह अपेक्षत इत्यादि-

अपेक्षते चेत्सामग्रीं



यदि नाम असौ सदा सर्वकार्याणि कर्तुं समर्थः, तथापि अपेक्षते सामग्रीम्। न हि सामग्रीमन्तरेण सत्यपि समर्थे कर्तरि कार्यमुत्पद्यते। यथा किल पटोत्पादनसमर्थेऽपि क्वचिद्धेतौ तुरीतन्तुवेमादिकमन्तरेण न पट उत्पद्यते, तथा प्रकृतेऽपि चेद्यदि, आह-

हेतुर्न पुनरीश्वरः।



यदि सामग्रीसद्भावे करोति, तदभावे च न करोतीत्यभ्युपगभ्यते, तदा पुनरीश्वरो हेतुर्न स्यात्। सामग्र्या एव कार्योत्पत्तेः, ततश्चानुत्पत्तेः। तस्या भावाभावयोः कार्यस्य भावाभावदर्शनात्, न तु पुनरीश्वरभावाभावयोरिति। न सामग्रीकालेऽपि स पररूपेण कर्ता, स्वरूपं चास्य प्रागपि समर्थं तदेवेति कथं कदाचित् क्रियाविरामः ? यदप्युक्तम्-कुविन्दादिवत् कदाचित् करोतीति, तदपि न युक्तम्। यतः कुविन्दादयः प्रागसमर्था एव। पुनः पश्चात् तुर्यादिसामग्रीप्रतिलम्भादपूर्वसामर्थ्याधिगमात् पटादिकार्यं कुर्वन्ति। अन्यथापि तेषामपि पूर्वं तत्सामर्थ्यसद्भावे तत्क्रियाप्रसङ्गो न निवर्तते इति साध्यविकलो दृष्टान्तः। किं च। सामग्रीजननेऽपि स एव कारणम्, स च सर्वदा संनिहितस्वभाव इति कथं कदाचित् सामग्रीवैकल्यमप्यस्य ? अत एवोपदर्शयन्नाह-

नाकर्तुमीशः सामग्र्यां



इति। नाकर्तुमीशः, न अक्रियायां समर्थः। सामग्र्यां सामग्रीविषये। सर्वकार्यक्रियायां समर्थत्वात् सामग्रीजन्मन्यपि नोदासितुं शक्नोति। जनयतु तर्हि सामग्रीमिति चेदाह-

[न कर्तुं तदभावतः]॥१२५॥





न कर्तुमपि सामग्र्यामीशः। कुतः ? तदभावतः, तस्याः सामग्र्या अभावतः अविद्यमानत्वात्। न च अविद्यमानस्वभावे वन्ध्यासुत इव किंचित् कर्तुं शक्यते नीरूपत्वात्। यद्वक्ष्यति-



नाभावस्य विकारोऽस्ति कल्प[हेतु ?] कोटिशतैरपि। इति॥

[बोधि. ९.१४७]



भवतु नाम सामग्रीसद्भावे सत्येव कर्ता। तथापि किं सामग्रीबलाकृष्टः स्वयमनिच्छन्नेव करोति, आहोस्विदिच्छन् इति विकल्पौ। तत्र आद्यं विकल्पमाशङ्कयन्नाह करोतीत्यादि-

करोत्यनिच्छन्नीशश्चेत्परायत्तः प्रसज्यते।



करोति कार्यमभिनिर्वर्तयति अनिच्छन् अनभिलषन्। ईश ईश्वरः। चेन्मतम्, परायत्तः प्रसज्यते, परायत्तः परतन्त्रः प्रसज्यते आसज्यते। सामग्रीवशेन अनिच्छतोऽपि कुर्वतः तद्वशवर्तित्वप्रसङ्गात्। न च पारतन्त्र्यमनुभवतः ईश्वरत्वं युक्तम्, अतिप्रसङ्गात्। द्वितीयं विकल्पमधिकृत्याह-

इच्छन्नपीच्छायत्तः स्यात्



अथ इच्छन् करोतीति पक्षः स्व्ईक्रियते, तदापि इच्छायत्तः स्यात्। इच्छासद्भावे कार्यव्यापारात्, तदभावे च अव्यापारात्। तदपेक्षासद्भावात्-

कुर्वतः कुत ईशता॥१२६॥



एवं कुर्वतः कार्यमभिनिर्वर्तयतः सतः तस्य कुत ईशता, कुतः एश्वर्यम् ? एतेन यदुक्तं केनचित्-बुद्धिमत्त्वादीश्वरस्य नैष दोषः। बुद्धिशून्यो हि स्वसत्तामात्रजन्यमक्रमेणैव कार्यं कुर्यात्, बुद्धिमांस्तु कर्तुमीशानोऽप्यनिच्छन्न करोति, इति कस्तस्योपालम्भ इति, तदपि निरस्तम्। तथा हि ता अपि इच्छाः स्वसत्तामात्रनिबन्धनाः किं न करोतीति स एव तस्योपालम्भः। अपि च। यदि ता न सहकारिण्यः, किं तासां वियोगेऽपि न करोति अथ असहकारिवैकल्येऽपि कार्याकरणे सर्वदा तदायत्तः ? सहकारिण्यश्चेत्, तथा तद्भावेऽपि सर्वकार्यं किं न करोति ? सहकारिणां साकल्ये शक्तत्वात्। केवलस्य अशक्तस्य न कारकत्वमिति चेत्, तत् किमयं पररूपेण कारकः ? तथा चेदकारक एव। न हि स्वरूपेण अकारकः कारको नाम। स्वरूपमपि अस्य निजशक्तिशब्दवाच्यं कार्योपयोगीति चेत्, अलमिदानीमागन्तुकशक्तिष्वपेक्षया। समर्थोऽप्येष प्रकृत्या सहकारिणामसंनिधौ नव कारक इति चेत्, मातापि सती प्रकृत्या बन्ध्या इत्येतदपि तर्हि देवानां प्रियेण वक्तव्यमित्यास्तां तावत्। अनित्यस्तु तद्वादिनां नाभिमतः। तथा च सति अन्यसाधारणस्वभावस्य कथमीशत्वमिति नेश्वरकार्यं जगद्वैचित्र्यमिति सिद्धम्॥



यदि न बुद्धिमत्कर्तृकं जगत्, तर्हि नित्यपरमाणुपुञ्जमयं द्वयणुकादिक्रमेणोत्थं क्षितितरुपर्वतादिकं भवत्वित्याह येऽपीत्यादि-

येऽपि नित्यानणूनाहुस्तेऽपि पूर्वं निवारिताः।



येऽपि मीमांसकादिवादिनो नित्यानणून् परमाणुनाहुः जगद्वैचित्र्यकारणत्वेन ब्रुवते, तेऽपि वादिनः पूर्वम् "अंशा अप्यणुभेदेन" [९.८७]इत्यादिना परमाणुविचारसमये तत्प्रतिषेधान्निवारिता निराकृताः अतो नित्यपरमाणुमयमपि नेदं जगत्॥



एवमीश्वरकारणतां श्लोकार्धेन अन्तराले एव नित्यपरमाणुस्वभावतां च जगतो निरस्य तस्यैव तुर्यप्रकारस्य समर्थनाय प्रधानपरिणामरूपतां निराकर्तुं सांख्यमतमुद्भावयन्नाह सांख्या इत्यादि-

सांख्याः प्रधानमिच्छन्ति नित्यं लोकस्य कारणम्॥१२७॥



सांख्याः कापिलाः प्रधानं प्रकृतिरित्यपरनामधेयम् इच्छन्ति मन्यन्ते नित्यं लोकस्य कारणम्। तच्च नित्यमविनश्वरस्वभावं लोकस्य सर्वस्य चराचरस्य जगतः कारणं परिणामरूपेण हेतुमिच्छन्ति॥



किमिदं प्रधानं नामेति चेदाह सत्त्वमित्यादि-

सत्त्वं रजस्तमश्चेति गुणा अविषमस्थिताः।

प्रधानमिति कथ्यन्ते विषमैर्जगदुच्यते॥१२८॥



सत्त्वं रजस्तमश्चेति एते त्रयो गुणा अविषमं स्थिताः साम्यावस्थां प्राप्ताः प्रधानमिति कथ्यन्ते, प्रधानमित्युच्यन्ते। एषां तावत् प्रकृत्यवस्था। विषमैर्जगदुच्यते, विषमावस्थां प्राप्तैः पुनरेभिरेव गुणैर्जगदुच्यते, विश्ववैचित्र्यपरिणामः कथ्यते। तथाहि तेषां प्रक्रियायदा पुरुषस्य विषयोपभोगाकारमौत्सुक्यमुपजायते, तदा प्रकृतिः परिज्ञातपुरुषौत्सुक्या पुरुषेण युज्यते। तदा पुनः शब्दादिसर्गरूपेण परिणतिमुपजनयति। तदा अयं क्रमः-

प्रकृतेर्महांस्ततोऽहंकारस्तस्माद्गणश्च षोडशकः।

तस्मादपि षोडशकात्पञ्चभ्यः पञ्च भूतानि॥

[सांख्यकारिका-२२]



अस्यायमर्थः-प्रकृतेर्महान्, प्रधानान्महान्। महानिति बुद्धेराख्या। ततो महतोऽहंकारः, अहमिति प्रत्ययः। तस्मादहंकाराद्गणश्च षोडशकः, षोडशक इति एकादशेन्द्रियाणि पञ्च च तन्मात्राणि। तत्र पञ्च कर्मेन्द्रियाणि वाक्पाणिपादपायूपस्थलक्षणानि। पञ्च बुद्धीन्द्रियाणि श्रोत्रं त्वकू चक्षू रसनं घ्राणं चेति। उभयात्मकं तु मनः इत्येकादश भवन्ति। पञ्च तन्मात्राणि पुनः शब्दस्पर्शरूपरसगन्धाः। पञ्चभ्यः पञ्च भूतानि। पञ्चभ्यः शब्दादिभ्यः पञ्च भूतानि भवन्ति पञ्च भूतानि च आकाशवायुतेजोजलपृथिव्याख्यानि। आद्यप्रकृतिस्तु कारणमेव न कार्यम्। महदहंकारौ शब्दादयश्च पञ्च कार्यं कारणं च। एकादशेन्द्रियाणि आकाशादयश्च पञ्च कार्यमेव न कारणम्। पुरुषः पुनरुभयस्वभाववर्जित इति। यदाह-

मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त।

षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः॥इति।

[सांख्यकारिका-३]

तच्च प्रधानमशेषकार्यशक्तिमयमेव त्रिगुणात्मकमेव कार्यमभिनिर्वर्तयति। कथमन्यथा तत्राविद्यमानं कार्यं वैश्वरूप्यमुत्पद्यते? तथा चोक्तम्-

अशेषशक्तिप्रचितात् प्रधानादेव केवलात्।

कार्यभेदाः प्रवर्तन्ते तद्रूपा एव तत्त्वतः॥

यदि त्वसद्भवेत्कार्यं कारणात्मनि शक्तितः।

कर्तुं तन्नैव शक्यं तन्नैरूप्याद्वियदब्जवत्॥इति।

[तत्त्वसंग्रह-७-८]



एवं किल प्रधानात् कार्यरूपेण जगद्विवर्तः प्रवर्तते इति कापिलाः। तदेवं तत् सर्वमाकाशे विरचितचित्रमिव प्रतिभासते इति मन्यमानः सिद्धान्तवादी दूषयितुमाह एकस्येति-

एकस्य त्रिस्वभावत्वमयुक्तं तेन नास्ति तत्।



एकस्य सतः प्रधानस्य त्रिस्वभावत्वं सत्त्वरजस्तमोभेदेन त्र्यात्मकत्वमयुक्तमसंगतम्। तेन कारणेन नास्ति तत्, न विद्यते तत् त्रिगुणात्मकं प्रधानम्। एकमनेकस्वभावमिति परस्पराहतमेतत्। अतः तस्मिन्नपहस्तिते सर्वं तत्कार्यमपाकृतं भवेत्। मा भून्नाम तदेकस्वभावं त्रिगुणात्मकम्, गुणास्तावत् स्वरूपतः सन्तीत्याह एवमित्यादि-

एवं गुणा न विद्यन्ते प्रत्येकं तेऽपि हि त्रिधा॥१२९॥



एवमेव प्रधानवत् गुणाः सत्त्वरजस्तमोरूपा न विद्यन्ते। तेऽपि हि त्रिधा। हिर्यस्मात्। तेऽपि गुणाः प्रत्येकमेकैकशः त्रिधा त्रिप्रकाराः। तथा हि सर्वं त्रिगुणात्मकं ब्रुवतां प्रत्येकं गुणा अपि स्वरूपेण त्रिगुणात्मकाः प्राप्नुवन्ति। तथा तद्गुणा अपि त्रिगुणात्मकतया नैकस्वभावा विद्यन्ते॥



यदा चैवं विचारयतो गुणा न सन्ति, तदा तद्विवर्तरूपाः शब्दादयोऽपि न युज्यन्ते इत्याह गुणाभावे इत्यादि-

गुणाभावे च शब्दादेरस्तित्वमतिदूरतः।



गुणानां सत्त्वादीनाम् अभावे असत्त्वे च। दूषणान्तरसमुच्चये चकारः। शब्दादेरादिग्रहणात् स्पर्शादिपरिग्रहः। अस्तित्वं सद्भावः अतिदूरतः, सर्वथैव न युज्यते। कारणाभावे कार्यस्य सत्त्वायोगात्। यदप्युक्तम्-

सुखाद्यन्वितमेतद्धि व्यक्तं व्यक्तं समीक्ष्यते।

प्रसादतापदैन्यादिरूपस्यैकोपलब्धितः॥इति।

[तत्त्वसंग्रह-१४]



तदपि न युक्तम्। यश्च सत्त्वादीनां सुखादिरूपतामुपपादयितुं तत्परिणामस्य रूपादिनो व्यक्तस्य सुखाद्यन्वयो हेतुरुक्तः, सोऽपि नास्तीत्याह अचेतन इत्यादि-

अचेतने च वस्त्रादौ सुखादेरप्यसंभवः॥१३०॥



अचेतने जडरूपे च। पूर्ववच्चकारः। वस्त्रादौ अचित्स्वभावे पटादौ सुखादेरपि चिदात्मकस्य तादात्म्येनासंभवः अभावः। यतः सत्त्वरजस्तमांस्येव सुखदुःखमोहा उच्यन्ते। ते च गुणा न हि सन्ति। तत् कथं तत्र सुखादयो भवेयुः ?



अथापि स्यात्-न सुखाद्यात्मकतया परादयः सुखादिस्वभावा उच्यन्ते, अपि तु सुखादेस्तदुत्पत्तेरित्याशङ्कयन्नाह तद्धेत्वित्यादि-

तद्धेतुरूपा भावाश्चेन्ननु भावा विचारिताः।



तस्य सुखादेर्हेतुरूपाः कारणस्वभावा भावा बाह्याः पटादयश्चेन्मतम्, ननु भावा विचारिताः। नामी पटादयः अवयविरूपाः, नापि परमाणुस्वरूपा नापि त्रिगुणात्मकाः। एवं भावा विचारिताः निरूपिताः युक्तितः, प्रतिभासमानानां मायावन्निःस्वभावत्वाच्च। तत् के इमे भावाः सुखादिहेतुरूपा भविष्यन्ति ? अपि च। व्यक्तस्य सुखादिस्वभावत्वे पटादय एव सुखादिजन्याः स्युरित्याह सुखाद्येवेत्यादि-

सुखाद्येव च ते हेतुः



पटस्यापि सुखाद्येव च। ते तव सांख्यस्य। हेतुः स्यात्। व्यक्तस्य सुखाद्यात्मकत्वात्। तथापि-

न च तस्मात्पटादयः॥१३१॥



आदिशब्दाच्चन्दनमालादयः॥

विपर्ययः पुनरिहोपलभ्यते इत्याह पटादेस्त्वित्यादि-

पटादेस्तु सुखादि स्यात्तदभावात्सुखाद्यसत्।



पटादेस्तु। आदिशब्दान्मालादेः। पुनः सुखादि स्यात्। आदिशब्दाद्दुःखादि भवेत्। तदभावात्, तेषां पटादीनामभावात्। सुखाद्यसत्, पटादिकार्यत्वात् सुखाद्यपि न स्यादिति तदन्वयव्यतिरेकानुविधानात् सुखादेस्तत्कार्यत्वम्। सत्त्वादिगुणात्मकतया यदपि सुखादीनां नित्यत्वमिष्टम्, तदपि न सम्यगित्याह सुखादिकानां चेत्यादि-

सुखादीनां च नित्यत्वं कदाचिन्नोपलभ्यते॥१३२॥



सुखदुःखमोहानां च। चकारोऽधिकदोषविवक्षायाम्। नित्यत्वं ध्रुवस्वभावत्वं कदाचिन्नोपलभ्यते, न दृश्यते। गुणानामेव असत्त्वात् तेषां नित्यत्वाद्ययोगात्॥



यदि च सुखादीनां नित्यत्वं स्यात्, तदा नित्यमुपलभ्येरन्नित्याह सत्यामित्यादि-

सत्यामेव सुखव्यक्तौ संवित्तिः किं न गृह्यते।



यदि सत्यमवस्थितरूपाः सुखादयः, तथा सर्वदेति सदा तत्संवेदनं स्यात्, तत्स्वभावापरित्यागादिति समुदायार्थः। सत्यामेव सुखव्यक्तौ, एकदा भूतायां सुखव्यक्तौ सुखस्य नित्यत्वे सति। संवित्तिः किं न गृह्यते, सुखस्य संवेदनं सर्वदा किं न स्यात् ? न च सर्वदा संवेदनमस्ति। तस्मात् कदाचिदनुपलभ्यमानं तत् तदा नास्तीति निश्चितमिति कथं नित्यत्वम् ? स्यादेतत्-सर्वदा व्यक्तिरूपतायां स्यादेष दोषः। यदा पुनस्तदेव शक्तिरूपतया लयगतं भवति, तदा न दोष इत्याह तदेवेत्यादि-

तदेव सूक्ष्मतां याति स्थूलं सूक्ष्मं च तत्कथम्॥१३३॥



तदेव व्यक्ताववस्थितिं कृत्वा भावसमाश्रयात्, पश्चादनुपलम्भकाले सूक्ष्मतां याति, दिवा नक्षत्राणीव अनुपलब्धस्वभावतां समाश्रयते, तदेतदसंगतम्। कुतः ? यद् यस्मात् स्थूलं व्यक्तस्वभावं सत्, सूक्ष्मं तत् कथम् ? अव्यक्तस्वभावं तत् सुखादि कथम् ? नित्य तया नानास्वभावता एकस्य न युक्तेति भावः॥



अथापि स्यात्-एकदा परस्परविरुद्धयोरेकस्मिन्नयोगः पूर्वधर्मनिवृत्तौ तु धर्मान्तरोत्पत्तेर्न दोष इत्याह स्थौल्यमित्यादि-

स्थौल्यं त्यक्त्वा भवेत्सूक्ष्ममनित्ये स्थौल्यसूक्ष्मते।



स्थौल्यमाविर्भावरूपतां त्यक्त्वा परित्यज्य भवेत् सूक्ष्मं तिरोहितरूपं स्यात्। एवमभ्युपगमे सति अनित्ये स्थौल्यसूक्ष्मते उत्पादविनाशालीढत्वादध्रुवे स्थौल्यसूक्ष्मते स्याताम्। भवतां नाम अनित्ये, का क्षतिरित्याह सर्वस्येत्यादि-

सर्वस्य वस्तुनस्तद्वत्किं नानित्यत्वमिष्यते॥१३४॥



सर्वस्य वस्तुनः पञ्चविंशतितत्त्वलक्षणस्य। तद्वत् स्थौल्यसूक्ष्मतावत् किं नानित्यत्वमिष्यते ? किमिति निरन्वयविनाशः न स्वीक्रियते ? अयमभिप्रायः-स्थौल्यसूक्ष्मतयोरपि निरन्वयविनाशासदुत्पादमन्तरेण नाविर्भावतिरोभावौ युक्तौ। अन्यथा कथंचित् केनचिद्रूपेण अवस्थानात् पूर्ववत् पुनरुपलब्धेः प्रसङ्गः। तद्वत् सुखादीनामपि। तस्मादवश्यं तयोर्निरन्वयविनाशासदुत्पादौ च अङ्गीकर्तव्यौ। यथा च तयोरेतौ भवतः, तथा अन्येषामपि विशेषाभावात् स्यातामिति॥



किं च। यदि स्थौल्यसूक्ष्मतयोर्विनाशोत्पत्ती इष्येते, तदा सुखादीनामनित्यताप्रसङ्गः स्यात्। तथा हि तत् स्थौल्यं सुखाद्भिन्नमभिन्नं वा स्यात्। तत्र यदि भिन्नम्, तदा तस्मिन् निवृत्तेऽपि पूर्ववत् सुखसंवेदनं स्यात्। न हि पटे निवृत्तेऽपि घटस्यानुपलब्धिर्युक्ता। तस्य तदिति संबन्धकल्पनायामनवस्थानप्रसङ्गात्। न च सत्यपि संबन्धे अकारणस्य निवृत्तौ अन्यस्य निवृत्तिर्युज्यते, गोनिवृत्ताविव तत्स्वामिनः। नापि सुखस्य तत् कारणम्, पटादेरेव सुखोत्पत्तेः। नापि तदपि कारणम्, सुखादिसमानकालत्वात्तस्य॥



अथ अभिन्नमिति पक्षः, अत्रोच्यते-

न स्थौल्यं चेत्सुखादन्यत्



यदि स्थौल्यं सुखादन्यत् भिन्नं न भवति, तदा स्यात् सुखमेव तत्। तदा-

सुखस्यानित्यता स्फुटम्।



तत्स्वभावतया स्थौल्यस्य निवृत्तौ सुखस्य विनिवृत्तेः सुखस्य अनित्यता विनश्वरता स्फुटं निश्चितम्॥



स्यादेतत्-यदि सर्वथा विनाशः स्यात्, तदा सुखस्य पुनरुत्पत्तिर्न स्यात्। अत्यन्तासतो गगनोत्पलवदुत्पादायोगात्, इति परमतमुपदर्शयन्नाह नासदित्यादि-

नासदुत्पद्यते किंचिदसत्त्वादिति चेन्मतम्।



यत् सर्वथा कारणात्मनि अविद्यमानं तन्नोत्पद्यते, यथा गगनाम्भोरुहम्। तथा च अन्यदपि यदि स्यात्, तदा नोत्पद्यते। अतो नासदुत्पद्यते किंचित्, नात्यन्तासत्स्वभावमुत्पद्यते किंचित्। कुतः ? असत्त्वात्। अभावात्, इति चेन्मतम्, एवं यदि संमतम्, तदा नैतद्वक्तव्यमित्याह व्यक्तस्येत्यादि-

व्यक्तस्यासत उत्पत्तिरकामस्यापि ते स्थिता॥१३५॥



व्यक्तस्यासतः प्राक् शक्तयवस्थायामविद्यमानस्य व्यक्तस्य पश्चादुत्पत्तिरुत्पादः। अनभिलाषिणोऽपि ते तव सदुत्पत्तिवादिनः स्थिता आपन्ना। अन्यथा प्रागपि तस्य सद्भावे पश्चाद्वत् पूर्वमपि तदुपलब्धिप्रसङ्गः। यथा व्यक्तस्यासत उत्पत्तिः, तथा यदि अन्यस्यापि स्यात्, तदा न विरुध्यते किंचित्॥



अपि च। सत्कार्यवादिनः कारणावस्थायां कार्यसद्भावात् इदमपि दूषणमपरमाशङ्कयते इत्याह अन्नाद इत्यादि-

अन्नादोऽमेध्यभक्षः स्यात्



अन्नमत्तीत्यन्नादः अन्नभक्षकः अमेध्यभक्षः स्यात् अशुचिभोक्ता भवेत्। कथम् ?

फलं हेतौ यदि स्थितम्।



कार्यं यदि कारणे सत्स्वभावम्। तथाहि-कार्यममेध्यमन्नस्य, तच्च अन्नावस्थायामेव सत्कार्यवादिनो विद्यते, इति अन्नभक्षणात् तद्भक्षणमाशङ्कयते भवतः। किं च इदमपि सत्कार्यवादिनः प्रसङ्गान्तरमासञ्जयन्नाह पटार्घेणेत्यादि-

पटार्घेणैव कर्पासबीजं क्रीत्वा निवस्यताम्॥१३६॥



फलं हेतौ यदि स्थितमिति संबन्धः। कर्पासबीजे कारणे भविष्यतः पटस्य कार्यस्य सद्भावात् पटस्यार्घेण मूल्येन कर्पासबीजं क्रीत्वा गृहीत्वा निवस्यतां परिधीयताम्॥



अथापि स्यात्-यदि नाम परमार्थतः कारणे कार्यमस्ति, तथापि नायं संवृत्यविद्यातिमिरोपहतलोचनः सांव्यवहारिको लोकः पश्यतीत्याशङ्कयन्नाह मोहादित्यादि-

मोहाच्चेन्नेक्षते लोकः



मोहादज्ञानात् सदपि वस्तुतत्त्वं नेक्षते न पश्यति लोकः। ततो नोक्तदोषप्रसङ्गः। चेद्यदि। ननु-

तत्त्वज्ञस्यापि सा स्थितिः॥१३७॥



यदि नाम न लोकोऽपश्यंस्तथा व्यवहारं करोति, तत्त्वज्ञस्य तु युज्यते। न चैवम्। यतः तत्त्वज्ञस्यापि कारणे कार्यमस्तीति परमार्थवेदिनोऽपि सांख्यस्य सा स्थितिः, सैव सर्वसांव्यवहारिकजनसाधारणी व्यवस्थितिः। तेऽपि दृश्यन्ते अन्नभक्षणादिषु प्रवर्तमानाः कर्पासबीजं पटार्थिनः परिहरन्तः॥



नाप्ययमत्र परिहारो युज्यते इत्याह लोकस्येत्यादि-

लोकस्यापि च तज्ज्ञानमस्ति कस्मान्न पश्यति।



लोकस्य सांव्यवहारिकजनस्यापि तज्ज्ञानमस्ति, येन कार्यं कारणेऽस्तीति प्रतिपद्यते, न तत्त्वज्ञस्यैव। तथाहि-कार्यं दृष्ट्वा कारणे अस्तीति निश्चयः उभयोरपि तत्त्वज्ञस्य लोकस्य च साधारणः। अतो लोकः कस्माद्धेतोर्न पश्यति ? तत्र लोकस्यादर्शनकारणं वक्तव्यम्। लोकस्य दर्शनमप्रमाणमिति चेदत्राह लोकेत्यादि-

लोकाप्रमाणतायां चेत्



लोकस्य सांव्यवहारिकजनस्य अप्रमाणतायां तज्ज्ञानस्याप्रामाण्ये-

व्यक्तदर्शनमप्यसत्॥१३८॥



व्यक्तस्य आविर्भूतस्वरूपस्य संदर्शनम्। तदप्यसत् अप्रमाणं स्यात्। न तस्माद् वस्तुतत्त्वव्यवस्था प्राप्नोति। एतच्च अस्माभिरिष्यते एव। सर्वसांव्यवहारिकप्रमाणानां परमार्थतोऽप्रमाणत्वात्। तथा च भवतोऽपि अस्मत्पक्षनिक्षेपः॥



एवं च परिनिष्ठितः कापिलः सिद्धान्तवादिनोऽपि साधारणदूषणमासञ्जयन्नाह प्रमाणमित्यादि-

प्रमाणमप्रमाणं चेन्ननु तत्प्रमितं मृषा।



यदि प्रमाणमपि परमार्थतः प्रमाणं न भवतीति भवतां पक्षः, ननु तत्प्रमितं मृषा, प्रमाणस्याप्रामाण्ये तत्प्रमितं तेन प्रमाणेन परिच्छिन्नं मृषा अलीकं प्राप्नोति। किमतः स्यात् ?

तत्त्वतः शून्यता तस्माद्भावानां नोपपद्यते॥१३९॥



यदि प्रमाणस्याप्रामाण्ये तत्प्रमितं मृषा, तदा येयं भावानां धर्माणां तत्त्वतः परमार्थतः शून्यता सर्वधर्मनिःस्वभावता तस्मात् प्रमाणान्निश्चिता, सापि नोपपद्यते, न संगच्छते। सर्वप्रमाणोपदर्शितस्य मृषार्थत्वात् सापि सर्वधर्मनिःस्वभावता तद्विचारकप्रमाणोपदर्शितैव इति समानो न्यायः॥



अत्र परिहारमाह कल्पितमित्यादि-

कल्पितं भावमस्पृष्ट्वा तदभावो न गृह्यते।



कल्पनाकल्पितं समारोपितं भावमस्पृष्ट्वा कल्पनाबुद्धया अगृहीत्वा तदभावो न गृह्यते नालम्ब्यते। तथाहि घटमारोपितरूपेण परिकल्प्य तत्संबन्धितया घटाभावं प्रतिपद्यते लोकः। घटस्य विचारेण लोकप्रसिद्धेनैव यदा न किंचित् स्वरूपमवतिष्ठते, तदा तदभावः तद्विपर्ययरूपः सुतरां न कश्चित्। तदेवोपदर्शयन्नाह तस्मादित्यादि-

तस्माद्भावो मृषा यो हि तस्याभावः स्फुटं मृषा॥१४०॥



यस्मात् कल्पितभावविवेकेन अभावो गृह्यते, तस्माद्भावो मृषा असत्स्वभावो यः, तस्याभावः स्फुटं मृषा, तस्य निःस्वभावस्य भावस्य अभावो विरहः स्फुटं निश्चितं मृषा असत्यः। तस्यापि परिकल्पितरूपत्वात्। एवं च भावाभावयोः परिकल्पितरूपत्वे सर्वधर्मनिःस्वभावतैव अवतिष्ठते॥





पुनरिदमेव उपसंहारव्याजेन विस्पष्टयन्नाह तस्मात् स्वप्ने इत्यादि-

तस्मात्स्वप्ने सुते नष्टे स नास्तीति विकल्पना।



यस्माद्भावाभावौ कल्पनोपस्थापितत्वान्मृषार्थौ, तस्मात् स्वप्ने मिद्धाक्रान्तचित्तावस्थायामुत्पन्नविनष्टे सुते पुत्रे सति स पुत्रो नास्तीति विकल्पना तदभावविकल्पः। किं करोति?

तद्भावकल्पनोत्पादं विबध्नाति



तस्य सुतस्य भावः तस्यास्तित्वं तस्य कल्पना सत्त्वसमारोपः तस्योत्पादः उन्मज्जनं तं नि[वि?]बध्नाति। निषेधयति-तथैव तर्हि सेति चेन्न-

मृषा च सा॥१४१॥



सा कल्पना तद्भावकल्पनां विबध्नाति अपि मृषा। अलीकसुतस्य स्वप्ने अनुत्पन्नानिरुद्धत्वात्। अथवा सत्याभिमते एव सुते स्वप्ने नष्टे सर्वमेतद्योजनीयम्। एवं सर्वधर्माणामुत्पादनिरोधौ कल्पनोपदर्शितौ द्रष्टव्यौ। एतदुक्तं भवति-यथा स्वप्नोपलब्धस्य वस्तुनोऽनुत्पन्नानिरुद्धस्यापि कल्पनोपदर्शितौ भावाभावौ न परमार्थसन्तौ, अथ च कल्पनया व्यवहारगोचरमुपगतौ प्रतिभातः, न च सा कल्पना असत्यार्थविषयतया अप्रमाणम्, तद्विषयस्य परमार्थतो निःस्वभावत्वात्, तथैव जाग्रद्दशायामुपलब्धयोरपि भावाभावयोर्व्यवहारपथमुपगतयोः कल्पनाप्रतिपादितयोर्व्यवस्था। इति तस्या अप्रामाण्येऽपि न सर्वधर्मनिःस्वभावता विघटते। यदाह [नागार्जुनः चतुःस्तवे]-

उत्पन्नश्च स्थितो नष्ट उक्तो लोकोऽर्थतस्त्वया।

कल्पनामात्रमित्यस्मात्सर्वधर्माः प्रकाशिताः॥

कल्पनाप्यसती प्रोक्ता यया शून्यं विकल्प्यते॥

[चतुः-३.३४]



इति सर्वं समञ्जसम्॥

एवमहेतुभूतस्वभावेश्वरप्रधानकर्तृत्वं जगतो निराकृत्य नाप्यहेतुतः इत्यस्यार्थं प्रसाध्य उपसंहरन्नाह तस्मादेवमित्यादि-

तस्मादेवं विचारेण नास्ति किंचिदहेतुतः।



यतः स्वभावादिसंभूतं न किंचित् कार्यमुपपद्यते, तस्मादेवं विचारेण समनन्तरनिरूपणेन नास्ति किंचिदहेतुतः, स्वभावादेरहेतुतोऽकारणाज्जातं किंचित् कार्यं नास्ति न विद्यते। उपलक्शणं चैतत्। पुरुषकालादिकृतत्वमपि नास्ति, तेषामप्यहेतुत्वात्। अतो नाप्यहेतुत इति सिद्धम्। ननु यदि नाम स्वभावेश्वरप्रधानादेरहेतुतो न किंचिदस्ति, तथापि परिदृष्टकारणादेव परमार्थतः उत्पत्स्यते। तत् कथं सर्वधर्माणां निःस्वभावता सेत्स्यतीति पराशयमाशङ्कय न स्वतो नापि परतो न द्वाभ्याम् इति कोटित्रयं समर्थयन्नाह न च व्यस्तेत्यादि-

न च व्यस्तसमस्तेषु प्रत्ययेषु व्यवस्थितम्॥१४२॥



न च नैव। व्यस्तसमस्तेष्विति व्यस्तेषु समस्तेसु च। तत्र न च व्यस्तेषु, एकैकशः स्वतः परतश्चेति। नापि समस्तेषु द्वाभ्यां स्वपराभ्याम्। प्रत्ययेषु कारणेषु। व्यवस्थितम् उत्पादरूपतया प्रतिष्ठितं किंचित्॥



तत्र न तावत् स्वतः स्वभावाद्भावा उत्पद्यन्ते। उत्पादात् पूर्वं तस्य स्वभावस्याविद्यमानत्वात् कुत उत्पद्यन्ताम्? उत्पन्ने च तस्मिन् सत्यपि स्वरूपे तस्यापि निष्पन्नत्वात् किमुत्पद्यन्ताम् ? अपि च। स्वत एव जन्मनि जातस्यैव पुनर्जन्म स्यात्। न च तद्युक्तम्। कृतस्य करणयोगात्। जातस्य पुनर्जन्मनि बीजदीनामेव आसंसारं प्रवृत्तेः नाङ्कुरादयः कदाचिदुत्पत्तुमवसरं लभेरन्। न च एतदभ्युपगच्छतोऽपि लोकत एव बाधामनुभवत् सिद्धिपथमुपयाति, बीजादेरङ्कुराद्युत्पत्तिदर्शनात्। न च बीजाङ्कुरयोरैक्यम्, उभयोरपि भिन्नरूपरसवीर्यविपाकत्वात्। स्वस्वभावजन्यत्वे च कस्यचिदुत्पत्तिरेव न स्यात्, इतरेतराश्रयत्वात्। तथा हि यावत् स्वभावो न भवति, तावदुत्पत्तिर्न स्यात्, यावच्च उत्पत्तिर्न भवति, तावत् स्वभावो न स्यात्। तस्मान्न स्वतः किंचिदुत्पद्यते॥



नापि परतः। परतो हि जन्मनि इष्यमाणे शालिबीजादपि कोद्रवाङ्कुरस्योत्पत्तिप्रसङ्गः। शालिकोद्रवयोरपि च कोद्रवाङ्कुरापेक्षया परत्वमविशिष्टम्, सर्वस्य वा जन्म सर्वतो भवेत्। सर्वेषां परस्परं परत्वाविशेषात्। अथ यदि नाम परत्वमविशिष्टम्, तथापि कार्यकारणयोरन्योन्यजन्यजनकभावस्य नियामकत्वात् न सर्वस्योत्पत्तिरिति चेत्, न। अनुत्पन्ने हि कार्ये कस्मिन् पुनरस्य शक्तिरिति वक्तव्यम्। न च कार्यकारणयोरसमानकालतया जन्यजनकभावप्रतिनियमोऽपि कश्चित्। अत एव एकसंततिप्रतिनियमोऽपि न युक्तः, कार्यकारणमन्तरेण संततेरभावात्। तस्य च एकक्षणानवस्थानात् केयं संततिर्नाम ? पूर्वापरक्षणप्रवाहस्य च कल्पनासमारोपितत्वात् नास्ति संततिर्वास्तवी। एतेन सादृश्यमपि नियामकमिह निरस्तम्। इति न किंचित् केनचिदेकसंततिपतितं सदृशं वा जन्यजनकभावनियतं वा अस्ति, जन्यजनकभावस्यैव चात्र चिन्त्यत्वात्, कथं तेनैव परिहारः ? तस्मात् परतोऽपि न कस्यचित् संभवः॥



नापि द्वाभ्याम्, प्रत्येकपक्षोक्तसर्वदोषप्रसङ्गात्। प्रत्येकं च द्वयोरशक्तयोर्मिलितयोरप्यसामर्थ्यात्। न हि एकेनान्धेनादृष्टमार्गो बहुभिरपि द्रष्टुं शक्यते। प्रत्येकं वा सिकतास्तैलदानासमर्था मिलिता अपि तत्समर्था भवन्ति। तस्मादुभयपक्षप्रतिपादितदोषप्रसङ्गात् द्वाभ्यामपि न कस्यचिदुत्पत्तिसंभवः॥



इति स्वपरोभयजनितमहेतुजनितं वा तत्त्वतो न किंचिदस्ति। तस्मात् परमार्थतोऽनुत्पन्नानिरुद्धस्वभावं मायामरीचिप्रतिबिम्बप्रतिश्रुत्कासमं प्रतीत्यसमुत्पन्नं स्वभावशून्यमेव सर्वं विश्वमाभासते। न तु पुनरिदंप्रत्ययतामात्रं सांवृतमिह निषिध्यते। यदुक्तमत्र भगवता शालिस्तम्बसूत्रे-



तत्र कथं प्रतीत्यसमुत्पादं पश्यति ? इहोक्तं भगवता-य इमं प्रतीत्यसमुत्पादं सततसमितं निर्जीवं यथावदविपरीतमजीवमजातमभूतमकृतमसंस्कृतमप्रतिघमनालम्बनं शिवमभयमनाहार्यमव्ययमव्युपशमस्वभावं पश्यति, स धर्मं पश्यति। यस्तु एवं सततसमितं निर्जीवम्-इत्यादि पूर्ववत् यावत्-अव्युपशमस्वभावं पश्यति सोऽनुत्तरधर्मशरीरं बुद्धं पश्यति। [आर्यधर्माभिसमये सम्यग्ज्ञानादुपनयेनैव ?]। प्रतीत्यसमुत्पाद इति कस्मादुच्यते ? सहेतुकः सप्रत्ययो नाहेतुको नाप्रत्यय इत्युच्यते। पेयालं। अथ च पुनरयं प्रतीत्यसमुत्पादो द्वाभ्यां कारणाभ्यामुत्पद्यते। कतमाभ्यां द्वाभ्यां कारणाभ्यामुत्पद्यते ? हेतूपनिबन्धतः प्रत्ययोपनिबन्धतश्च। सोऽपि द्विविधो द्रष्टव्यः-बाह्यश्चाध्यात्मिकश्च। तत्र बाह्यस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धः कतमः ? यदिदं बीजादङ्कुरः, अङ्कुरात् पत्रम्, पत्रात् काण्डम्, काण्डान्नालम्, नालाद्गण्डः, गण्डाद्गर्भम्, गर्भाच्छूकः, शूकात् पुष्पम्, पुष्पात् फलमिति। असति बीजेऽङ्कुरो न भवति, यावदसति पुष्पे फलं न भवति। सति तु बीजे अङ्कुरस्याभिनिर्वृत्तिर्भवति। एवं यावत् सति पुष्पे फलस्याभिनिर्वृत्तिर्भवति। तत्र बीजस्य नैवं भवति-अहमङ्कुरमभिनिर्वर्तयामीति। अङ्कुरस्यापि नैवं भवति-अहं बीजेनाभिनिर्वर्तित इति। एवं यावत् पुष्पस्य नैवं भवति-अहं फलमभिनिर्वर्तयामीति, फलस्यापि नैवं भवति-अहं पुष्पेणाभिनिर्वर्तितमिति। अथ पुनर्बीजे सति अङ्कुरस्याभिनिर्वृत्तिर्भवति प्रादुर्भावः। एवं यावत् पुष्पे सति फलस्याभिनिर्वृत्तिर्भवति प्रादुर्भावः। एवं बाह्यस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धो द्रष्टव्यः॥



कथं बाह्यस्य प्रतीत्यसमुत्पादस्य प्रत्ययोपनिबन्धो द्रष्टव्यः? षण्णां धातूनां समवायात्। कतमेषां षण्णां धातूनां समवायात् ? यदिदं पृथिव्यप्तेजोवाय्वाकाशऋतुसमवायात् बाह्यस्य प्रतीत्यसमुत्पादस्य प्रत्ययोपनिबन्धो द्रष्टव्यः। तत्र पृथिवीधातुर्बीजस्य संधारणकृत्यं करोति। अब्धातुर्बीजं स्नेहयति। तेजोधातुर्बीजं परिपाचयति। वायुधातुर्बीजमभिनिर्हरति। आकाशधातुर्बीजस्यानावरणकृत्यं करोति। ऋतुरपि बीजस्य परिणामनाकृत्यं करोति। असत्सु एषु प्रत्ययेषु बीजादङ्कुरस्याभिनिर्वृत्तिर्न भवति। यदा बाह्यश्च पृथिवीधातुरविकलो भवति, एवमप्तेजोवाय्वाकाशऋतुधातवश्च अविकला भवन्ति, तदा सर्वेषां समवायात् बीजे निरुध्यमाने अङ्कुरस्याभिनिर्वृत्तिर्भवति। तत्र पृथिवीधातोर्नैवं भवति-अहं बीजस्य संधारणाकृत्यं करोमीति। एवं यावदृतोरपि नैवं भवति-अहं बीजस्य परिणामनाकृत्यं करोमीति। अङ्कुरस्यापि नैवं भवति-अहमेभिः प्रत्ययैर्जनित इति। अथ पुनः सत्सु एतेषु बीजे निरुध्यमाने अङ्कुरस्याभिनिर्वृत्तिर्भवति। स चायमङ्कुरो न स्वयंकृतो न परकृतो नोभयकृतो नेश्वरनिर्मितो न कालपरिणामितो न प्रकृतिसंभूतो न चैककारणाधीनो नाप्यहेतुसमुत्पन्नः। पृथिव्यप्तेजोवाय्वाकाशऋतुसमवायात् बीजे निरुध्यमाने अङ्कुरस्याभिनिर्वृत्तिर्भवति। एवं बाह्यस्य प्रतीत्यसमुत्पादस्य प्रत्ययोपनिबन्धो द्रष्टव्यः॥



तत्र बाह्यः प्रतीत्यसमुत्पादः पञ्चभिः कारणैर्द्रष्टव्यः। कतमैः पञ्चभिः ? न शाश्वततो नोच्छेदतो न संक्रान्तितः परीत्तहेतुतो विपुलफलाभिनिर्वृत्तितः तत्सदृशानुप्रबन्धतश्चेति। कथं न शाश्वतत् इति ? यस्मादन्योऽङ्कुरोऽन्यद्वीजम्, न च यदेव बीजं स एवाङ्कुरः। अथवा पुनः-बीजं निरुध्यते, अङ्कुरश्चोत्पद्यते। अतो न शाश्वततः। कथं नोच्छेदतः ? न च पूर्वनिरुद्धाद्बीजादङ्कुरो निष्पद्यते, नाप्यनिरुद्धाद्बीजात्, अपि च, बीजं च निरुध्यते, तस्मिन्नेव समयेऽङ्कुर उत्पद्यते, तुलादण्डोन्नामावनामवत्। अतो नोच्छेदतः। कथं न संक्रान्तितः ? विसदृशो बीजादङ्कुर इति। अतो न संक्रान्तितः। कथं परीत्तहेतुतो विपुलफलाभिनिर्वृत्तितः ? परीत्तबीजमुप्यते, विपुलफलान्यभिनिर्वर्तयतीति। अतः परीत्तहेतुतो विपुलफलाभिनिर्वृत्तितः। कथं तत्सदृशानुप्रबन्धतः ? यादृशं बीजमुप्यते तादृशं फलमभिनिर्वर्तयतीति। अतस्तत्सदृशानुप्रबन्धतश्चेति। एवं बाह्यः प्रतीत्यसमुत्पादः पञ्चभिः कारणैर्द्रष्टव्यः॥इति।



आध्यात्मिकस्तु प्रतीत्यसमुत्पादः पूर्वमेव विस्तरेण प्रतिपादितः। इहापि योजयितव्यः। एवं परमार्थविचारे सांवृतमप्रतिषिद्धमेव॥



ननु भावा नात्यन्तासंभविनो भवन्ति। अपि तु हेतुप्रत्ययबलादनागतादध्वनोवर्तमानमध्वानमागच्छन्ति, वर्तमानात् पुनरनित्यताबलादतीतमध्वानं गच्छन्ति। इत्येवमुत्पादस्थितिविनाशव्यपदेशः। प्रतीत्यसमुत्पादोऽपि यथावदेवं संगच्छते इति त्रैकाल्यवादिमतमाशङ्कयाह अन्यत इत्यादि-



अन्यतो नापि चायातं न तिष्ठति न गच्छति।



अन्यतो देशकालात्। नायातं नागतं किंचित्। नाप्यागतं सत् वर्तमानादध्वनः क्वचिद्गच्छति। नापि तेनैकस्वभावेन क्वचित्तिष्ठति। तथाहि-यदि अनागतादध्वनो वर्तमानमागच्छेत्, वर्तमानाद्वा अतितम्, तदा संस्कृतमपि नित्यं स्यात्, सर्वदा विद्यमानत्वात्। नानित्यं नामास्ति, स च धर्मो न च नित्यः इति कथमेतत् सेत्स्यति?



अथ पूर्वापरकालयोः कारित्रशून्यतया धर्मस्य अध्वसु विशेषः। तथा हि यदा असंप्राप्तकारित्रः कृत्यं न करोति, तदा अनागतोऽभिधीयते, यदा करोति तदा प्रत्युत्पन्नः, यदा तु कृत्यान्निवृत्तः तदा अतीत इति विशेषः। एतदपि न किंचित्। तेनैवात्मना तस्यैव तदापि सद्भावात् कारित्रमपि कथं न स्यादिति वक्तव्यम्। प्रत्ययान्तरापेक्षापि नित्यमवस्थितरूपस्य न संभवति। कारित्रशून्यस्य च वस्तुत्वे अश्वविषाणादीनामपि तत्त्वप्रसङ्गः। कारित्रं वा कथमतीतमनागतं प्रत्युत्पन्नं च उच्यते ? किं तदपरकारित्रसद्भावात् स्वयमेव वा ? पूर्वत्र अनवस्थानम्, पाश्चात्ये च धर्मस्यापि स्वयमतीतत्वादिव्यवस्थायां न किंचित् क्षीयते। यदि च। यथा वर्तमानं द्रव्यतोऽस्ति, तथा अतीतमनागतं चास्ति, तदा नैवम्। स्वभावेन सतो धर्मस्य कथमनुत्पन्नविनष्टस्वभावता ? किमस्य पूर्वं नासीत् यस्याभावादजात इत्युच्यते ? किं च पश्चान्नास्ति यस्याभावाद्विनष्ट इति ? तेनैव चात्मना पूर्वापरकालयोरवस्थाने वर्तमानवदुपलब्ध्यादिप्रसङ्गः। तस्मादभूतत्वादभवनधर्मतो न संगच्छते कथंचिदपि अध्वत्रययोगः, तत्त्वाभ्युपगमतो नातीतादिसद्भावः। तदयमत्र संग्रहश्लोकः-

स्वभावः सर्वदा नास्ति भावो नित्यश्च नेष्यते।

न च स्वभावाद्भावोऽन्यो व्यक्तमीश्वरचेष्टितम्॥इति॥



यदप्युच्यते-अस्त्यतीतं कर्म, अस्त्यनागतं फलम्, इति सूत्रवचनादस्त्यतीतादिभावः, तदपि हेतुफलापवादे तद्दुष्टिप्रतिषेधार्थमुक्तं भगवता-अस्त्यतीतम्, अस्त्यनागतम्, इति। अतीतं तु यदभूतपूर्वमुत्पद्य विनष्टम्, अनागतं यत् सति हेतौ भविष्यति। एवं हि हेत्वाद्यस्तीत्युच्यते, अस्तिशब्दस्य निपातत्वात् कालत्रयवृत्तित्वम्। इत्थं च एतदेवं यत्परमार्थशून्यतायामुक्तं भगवता-



चक्षुर्भिक्षव उत्पद्यमानं न कुतश्चिदागच्छति, निरुध्यमानं न क्वचित् संनिचयं गच्छति। इति हि भिक्षवः चक्षुरभूत्वा भवति, भूत्वा च प्रतिविगच्छतीति॥



यदि च अनागतं चक्षुः स्यात्, नोक्तं स्यादभूत्वा भवतीति। तस्मान्नाध्वसंक्रान्तिरस्ति। यदि चैवम्, न कुतश्चिदागमनम्, क्वचिद् गमनं वा प्रज्ञायते, प्रतिभासमानस्य च प्रत्युत्पन्नस्य न रूपं किंचिद्विचारेणावतिष्ठते, तदा-

मायातः को विशेषोऽस्य यन्मूढैः सत्यतः कृतम्॥१४३॥



मायातः ऐन्द्रजालिकनिर्मितहस्त्यादिरूपाया अपि निःस्वभावतया विशेषो नैव कश्चित् अस्य हेतुप्रत्ययोपजनितस्य वस्तुरूपस्य परिदृश्यमानस्य॥



कथं न विशेषः ? पुनरिदमेव व्यक्तीकुर्वन्नाह माययेत्यादि-

मायया निर्मितं यच्च हेतुभिर्यच्च निर्मितम्।

आयाति तत्कुतः कुत्र याति चेति निरूप्यताम्॥१४४॥



मायाशब्देनात्र मायानिर्माणहेतुविज्ञानादिविशेष उच्यते कारणे कार्योपचारात्, हेतोरपि मायास्वभावताप्रतिपादनार्थम्। तया निर्मितम्, यच्च वस्तुरूपं मायाहेतुना मायास्वभावेन यद्विरचितमिति यावत्। यच्च अन्यद्वस्तुरूपं हेतुभिः लोकप्रसिद्धैः कारणैर्जनितम्। परस्परसमुच्चयार्थं चकारद्वयम्। आयाति आगच्छति। तन्मायानिमिर्तं हेतुनिर्मितं वा वस्तुरूपं कुतः कस्मात् ? कुत्र याति च, विनष्टं सत् क्व पुनरेतद् गच्छति ? इत्येवं निरूप्यतां सूक्ष्मेक्षिकया विचार्यताम्, यदि तस्य कुतश्चिदागच्छति क्वचिद् गच्छति वा उपलभ्यते॥



ननु च। यदि हेतुप्रत्ययसामर्थ्योपजनितं वस्तुरूपम्, तदा कथमिव अलीकं स्यात् ? अत एव अलीकमित्याह यदन्येत्यादि-

यदन्यसंनिधानेन दृष्टं न तदभावतः।

प्रतिबिम्बसमे तस्मिन् कृत्रिमे सत्यता कथम्॥१४५॥



यद् वस्तुरूपमन्यस्य हेतुप्रत्ययस्य संनिधानेन दृष्टमुपलब्धम्, न तदभावतः, तस्य अन्यस्य अभावतः न दृष्टम्, तत्पराधीनवृत्तित्वात्। प्रतिबिम्बसमे प्रतिबिम्बेन आदर्शमण्डलप्रतिभासिना मुखादिसादृश्येन तुल्ये। यथा मुखादिबिम्बादर्शमण्डलादिसंनिधानेन प्रतिबिम्बं प्रतिभासते, तथा वस्तुरूपमपि हेतुप्रत्ययसंनिधानयोरिति। एवंभूते वस्तुरूपे कृत्रिमे परायत्तवृत्तितया अस्वाभाविके सत्यता अमृषार्थता कुतः ? नैव युज्यते। न हि परोपनिधिस्वभावानामकृत्रिमता युक्ता। तदुक्तम्-



हेतुतः संभवो येषां तदभावान्न सन्ति ये।

कथं नाम न ते स्पष्टं प्रतिबिम्बसमा मताः॥इति।

[युक्तिषष्टिका-]



तस्मान्न हेतुप्रत्ययोपजनितं किंचित् परमार्थसदस्ति। न च हेतुप्रत्ययानां सामर्थ्यं क्वचिदपि परमार्थतः संभवति॥



तथाहि-स्वपरोभयात्मकैर्हेतुभिर्विद्यमानो वा भावः क्रियेत, अविद्यमानो वा, उभयस्वभावो वा ? तत्र न विद्यमानः क्रियते इत्याह विद्यमानस्येत्यादि-

विद्यमानस्य भावस्य हेतुना किं प्रयोजनम्।



विद्यमानस्य कारणव्यापारात् प्रागेव सत्स्वभावस्य हेतुना कारणेन किं प्रयोजनम् ? कार्यस्य निष्पन्नात्मकतया निर्वर्त्यस्वभावाभावात् हेतुव्यापारस्यानुपयोगात्। द्वितीयं विकल्पमधिकृत्याह अथापीत्यादि-

अथाप्यविद्यमानोऽसौ हेतुना किं प्रयोजनम्॥१४६॥



अथापीति प्रकारान्तरद्योतने। अविद्यमानोऽसौ न सत्स्वभावः। तर्हि हेतुना किं प्रयोजनम् ? तदापि न हेतुना किमपि प्रयोजनमस्ति, तत्राप्यसत्स्वभावत्वात् हेतुव्यापाराभावात्॥



स्यादेतत्-यदि नाम विद्यमानस्य निष्पन्नत्वात् कर्तव्याभावात् न हेतुना किमपि प्रयोजनम्, अविद्यमानस्य तु किं न भवतीत्याह नाभावस्येत्यादि-

नाभावस्य विकारोऽस्ति हेतुकोटिशतैरपि।



न अभावस्य अविद्यमानस्वभावस्य विकारोऽस्ति, अन्यथात्वं भावस्वभावता अस्ति, नीरूपतया तस्यापि कर्तव्याभावात्। हेतुकोटिशतैरपि, आस्तां तावद् हेतुशतैर्हेतुसहस्रैः, हेतूनां कोटिशतैरपि, तस्य निःस्वभावतया केनचिदपि विकारयितुमशक्यत्वात्। मा भवतु विकारः, भावस्वभावता केवलमस्यास्तु चेदत्राह तदवस्थ इति-

तदवस्थ कथं भावः



तदवस्थोऽपरित्यक्ताभावस्वभावः नैव भावः स्यात्, नाभाव एव भावो भवति, केवलमभावस्वभावतानिवृत्तौ भावस्वभावो भवति। अत्राह-

को वान्यो भावतां गतः॥१४७॥



यदि न प्रागभावो भावस्वभावो भवति, को वा तर्हि अभावादन्यः अपरः भावताम्, अभावस्वभावतां परित्यज्य भावरूपतां गतः ? नान्यः कश्चित् प्रतीयते, कारणस्य कार्यस्वभावतायाः पूर्वमेव प्रतिषिद्धत्वात्॥



स्यादेतत्-नान्यः कश्चिद्भावो भवति, किं तर्हि प्रागभावस्य भावविरोधिनः सद्भावात्तदा भावो न भवति, पश्चात् पुनस्तस्मिन्नपगते भवत्येवेत्याह-

नाभावकाले भावश्चेत्कदा भावो भविष्यति।



नाभावकाले अभावसत्तासमये न भावश्चेत्, यदि भावो न भवति, कदा भावो भविष्यति ? अभावकाले भावस्यानुत्पत्तिश्चेत्, न कदाचिद्भावस्योन्मज्जनं स्यात्, अभावेन विरोधिना सदा क्रोडीकृतत्वात्। तेनैवोत्पद्यमानेन भावेन अभावस्य विनाशो भविष्यतीति चेदाह-

नाजातेन हि भावेन सोऽभावोऽपगमिष्यति॥१४८॥



यावदसौ भावो न जायते, तावदभावस्य विनाशो नास्त्येव। हिर्यस्मात्। तस्मात् न अजातेन अनुत्पन्नेन भावेन सोऽभावः प्रागभावरूपः अपगमिष्यति निवर्तयिष्यते॥



अथापि स्यात्-मा अपगच्छतु नाम अभावः, तस्मिन्ननपगते एव भाव उत्पद्यते। उत्पन्ने च भावे भावाभावयोः परस्परपरिहारात् पश्चादभावः स्वयमेव अपगमिष्यतीत्याह न चेत्यादि-

न चानपगतेऽभावे भावावसरसंभवः।



भवत्येव क्रमः, यदि पूर्वं भाव एव भवेत्। न चैतदस्ति। चो यस्मात्। न चैव अनपगते अनिवृत्ते अभावे भावस्यावसरः अवकाशः, तस्य संभवः। भावोत्पत्तिविरोधिनः अभावस्यैव भावात्। कारणेनैव तदभावो निवर्तयिष्यते चेत्, न। कारणस्य कार्योत्पत्तावेव व्यापारात्। कार्यमुत्पादयदेव तदभावमपि निर्वर्तयतीति चेत्, उत्पादयत्येव कार्यम्, यदि तद्विरोधिनोऽभावादुत्पादयितुं क्षमते। न च तस्मिन्नप्रतिहतसामर्थ्ये तत्कार्यमुत्पादयितुं क्षमते। न च कारणेन तदभावस्य विरोधः, कारणकालेऽपि तत्प्रागभावस्य भावात् सत्तावस्थानात्। तस्माद्भावात्मनि अभावात्मनि वा कार्ये न कारणस्य व्यापारो युज्यते। उभयानुभयपक्षे च प्रत्येकपक्षनिषेधादेव कारणव्यापारस्य निषेधः कृतो भवतीति द्रष्टव्यम्। नापि तयोः संभवोऽस्ति। विरोधिनोरेकत्र एकदा विधिप्रतिषेधयोर्भावायोगात्। तदुक्तम्-

न सन्नुत्पद्यते भावो नाप्यसन् सदसन्न च।

न स्वतो नापि परतो न द्वाभ्यां जायते कथम्॥इति।

[चतुः-२.१३; ३.९]



एवं तावद्भावस्योत्पत्तिः परमार्थतो न कथंचिदपि संगच्छते। नापि कथंचिदुत्पन्नस्य सत्स्वभावस्य निवृत्तिर्युज्यते इत्याह भावश्चेत्यादि-

भावश्चाभावतां नैति द्विस्वभावप्रसङ्गतः॥१४९॥



पूर्वापेक्षश्चकारः। यथा अभावो भावतां नैति, तथा भावश्च अभावतां नैति, गच्छति। कुतः ? द्विस्वभावप्रसङ्गतः। भावस्य सतः यदा अभावस्वभावता भवति, तदा च एकस्यैव वस्तुनः द्वयोः स्वभावयोः प्रसङ्गः स्यात्, एकस्यैव भावाभावरूपत्वात्। न च भावतां परित्यज्य अभावरूपतां यातीति वक्तुमुचितम्। तदा च भावस्यैवाभावात् कोऽभावरूपतां यातीति न विद्मः। न च सत्स्वभावस्य पारमार्थिकत्वे निवृत्तिर्युक्ता, पारमार्थिकत्वस्य अभावप्रसङ्गात्॥



इत्थं भावस्योत्पादविनाशयोः परमार्थतोऽभावं प्रसाध्य उपसंहरन्नाह एवमित्यादि-

एवं न च निरोधोऽस्ति न च भावोऽस्ति सर्वदा।



एवमुक्तक्रमेण उत्पादविनाशायोगात्। चो हेतौ। यस्मान्न निरोधोऽस्ति, न विनाशोऽस्ति, [न च भावोऽस्ति,] न वस्तुसत्त्वमस्ति। चः समुच्चये। सर्वदा सर्वस्मिन् काले। "उत्पादाद्वा तथागतानामनुत्पादाद्वा तथागतानां स्थितैवैषा धर्माणां धर्मता धर्मसमता धर्मस्थितिता धर्मनियामता धर्मधातुः तथता अवितथता"। इत्यादिवचनात्। यत एवम्-

अजातमनिरुद्धं च तस्मात्सर्वमिदं जगत्॥१५०॥



अजातमनुत्पन्नम्। अनिरुद्धं च अविनष्टं परमार्थतः। तस्मादुत्पादविनाशाभावात् पूर्वोक्तात्। सर्वमशेषम्। इदं निःस्वभावतासमानाधिकरणं जगद्विश्चं सत्त्वभाजनलोकसंज्ञितं सचराचरं वा। मायोत्पादनिरोधवद् व्यवहारवशात् पुनरुत्पादनिरोधौ स्तः। एतेन संवृतिसत्यस्याप्रतिषेध उक्तः। धर्मसंगीतौ चैतदुक्तम्-



तथता तथतेति कुलपुत्र शून्यताया एतदधिवचनम्। सा च शून्यता नोत्पद्यते न निरुध्यते आह-यदि एवं सर्वधर्माः शून्या उक्ता भगवता, तत् सर्वधर्मा नोत्पत्स्यन्ते, न निरोत्स्यन्ते। निरारम्भो बोधिसत्त्वः। आह-एवमेतत् कुलपुत्र, यथाभिसंबुध्यसे। सर्वधर्मा नोत्पद्यन्ते, न निरुध्यन्ते। आह-यदेतदुक्तं भगवता संस्कृता धर्मा उत्पद्यन्ते निरुध्यन्ते च इत्यस्य तथागतभाषितस्य कोऽभिप्रायः ? आह-उत्पादनिरोधाभिनिविष्टः कुलपुत्र लोकसंनिवेशः। तत्र तथागतो महाकारूणिको लोकस्य त्रासपदपरिहारार्थं व्यवहारवशादुक्तवान् उत्पद्यन्ते निरुध्यन्ते च। न चात्र कस्यचिद्धर्मस्य उत्पादो न निरोधः॥इति॥



तस्मात् सर्वधर्मा अनुत्पन्नानिरुद्धस्वभावतया आदिशान्ताः प्रकृतिपरिनिर्वृताः, इति जगतो निःस्वभावतायां तदन्तर्गतानां नरकादिगतीनामपि निःस्वभावतैवेत्युपदर्शयन्नाह स्वप्नेत्यादि-

स्वप्नोपमास्तु गतयो विचारे कदलीसमाः।



स्वप्नेन उपमा तुल्यं यासां ताः तथोक्ताः। तुरवधारणे। स्वप्नोपलब्धस्वभावगतयः नरकप्रेततिर्यङ्यनुष्यदेवानां सभागताविशेषाः। यथा स्वप्ने देशान्तरादिगमनागमनं सुखदुःखाद्यनुभवनं च, तथा अनधिगतपरमार्थतत्त्वस्य नरकादिषु वेदितव्यम्, न तु तत्त्वतः। कथम् ? विचारे कदलीसमाः। हेतुपदमेतत्। सर्वधर्माणां निःस्वभावतया विचारे विमर्शे सति यस्मात् कदलीसमाः कदलीवन्निःसाराः गतयः, तस्मादित्यर्थः। एतेन यथोक्तं प्राक्[४.४७]



मायैवेयमतो विमुञ्च हृदय त्रासम्

इत्यादि, तदपि प्रसाध्योपदर्शितं भवति। यतश्च अनुत्पन्नानिरुद्धाः सर्वधर्माः, अत आह निर्वृतेत्यादि-

निर्वृतानिर्वृतानां न विशेषो नास्ति वस्तुतः॥१५१॥



निर्वृताः ये सर्वावरणप्रहाणाद्विनिर्मुक्तसर्वबन्धना। अनिर्वृताः ये रागादिक्लेशपाशायत्तचित्तसंततयः संसारचारकान्तर्गताः। तेषामुभयेषामपि विशेषो भेदो नास्ति, न संभवति। कुतः ? वस्तुतः परमार्थतः सर्वधर्माणां निःस्वभावतया प्रकृतिपरिनिर्वृतत्वात्। संवृत्या पुनरस्ति एव विशेषः, इत्यनेकधा प्रतिपादितम्। अत एवाह-



बुद्धानां सत्त्वधातोश्च येनाभिन्नत्वमर्थतः।

आत्मनश्च परेषां च समता तेन ते मता॥इति॥

[चतुः-३.४०]



इति परमार्थतत्त्वापरिज्ञानान्मिथ्याभिनिवेशादारोपितजगज्जालमुपकल्प्य आत्मनैव आत्मानमाकुलयति बालजनः इत्युपदर्शयन्नाह एवमित्यादि-

एवं शून्येषु धर्मेषु किं लब्धं किं हृतं भवेत्।

सत्कृतः परिभूतो वा केन कः संभविष्यति॥१५२॥



कुतः सुखं वा दुःखं वा किं प्रियं वा किमप्रियम्।

का तृष्णा कुत्र सा तृष्णा मृग्यमाणा स्वभावतः॥१५३॥



विचारे जीवलोकः कः को नामात्र मरिष्यति।

को भविष्यति को भूतः को बन्धुः कस्य कः सुहृत्॥१५४॥



एवं प्रतिपादितन्यायेन शून्येषु निःस्वभावेषु धर्मेषु किं लब्धम्, किं कुतश्चित् प्राप्तं यल्लाभेषु प्रहृष्यन्ति ? किं हृतम्, किमपहृतं केन कस्यचित् भवेत्, यल्लाभापहारेण प्रकुप्यन्ति ? सत्कृतः पूजितः, परिभूतः अपकृतो वा केन कः संभविष्यति ? वस्तुस्वभावाभावे न कश्चित् केनचिदित्यर्थः॥



कुतः सुखहेतोरभावात् सुखं वा, कुतो दुःखं वा दुःखहेतोरभावात् ? अन्योन्यसमुच्चयार्थ उभयत्र वाशब्दः। यत्प्राप्तिपरिहारार्थमायासः क्रियते। किं प्रियं वा किं वल्लभं वा ? प्रियरूपतायाः कल्पितत्वात्। किमप्रियं किमनभिलषणीयम् ? अप्रियमपि न परमार्थतः किंचित् विद्यते, इति किमर्थं प्रियाप्रियसंयोगवियोगार्थं प्रयत्नः क्रियते ? का तृष्णा यया लाभाद्यर्थं तृष्यति जनः ? कुत्र सा तृष्णा, क्व पुनरासङ्गस्थाने वस्तुनि तृष्णा ? मृग्यमाणा स्वभावतः, अन्विष्यमाणा स्वरूपतः। तद्विषयस्याभावात् निर्विषयतया तस्या अप्यभावः, यद्वशात् तत्तत् कर्म समुच्चीयते॥



विचारे परमार्थस्वरूपनिरूपणे सति जीवलोकः सत्त्वलोकः कः ? नैव कश्चित्। तदभावात् को नामात्र मरिष्यति ? जीवलोकस्य विचारेण असत्स्वभावत्वात् को नामात्र जीवलोके मरिष्यति, उपरतजीवितेन्द्रियो भविष्यति ? को भविष्यति, क उत्पत्स्यते ? को भूतः पूर्वमुत्पन्नः ? इत्यतीतादिव्यवहारः काल्पनिक एव। को बन्धुः, कः स्वजनः ? कस्य कः सुहृत्, किं मित्रं कस्य ? अत्रेति सर्वत्र योजनीयम्। यदभिष्वङ्गेण अकुशलमपि न गण्यते ?



एवं स्वभावशून्यत्वात् कल्पनासमारोपितमेव तत्त्वमित्याह सर्वमित्यादि-

सर्वमाकाशसंकाशं परिगृह्णन्तु मद्विधाः।

प्रकुप्यन्ति प्रहृष्यन्ति कलहोत्सवहेतुभिः॥१५५॥



सर्वमेतदुक्तम्, अन्यच्च। आकाशसंकाशं समारोपिततत्त्वशून्यत्वादाकाशकल्पम्। परिगृह्णन्तु अविद्यमानमेव तु स्वरूपमारोप्य मद्विधा इति ग्रन्थकारः आत्मानमेव निदर्शनं करोति। मादृशाः अपरिज्ञातपरमार्थतत्त्वा बालजनाः असद्वितर्काकुलितचेतसः प्रकुप्यन्ति, मिथ्याभिनिवेशात् कोपं यान्ति। प्रहृष्यन्ति अलीकलाभयोगात् प्रमुदिता भवन्ति। कैः ? कलहोत्सवहेतुभिः कलहहेतुभिः विवादहेतुभिः, उत्सवहेतुभिरानन्दहेतुभिः यथायोगम्। तस्मादनधिगतपरमार्थतत्त्वाः सांवृतमेव वस्तुरूपं सत्यतयाभिनिविष्टाः सर्वमेतन्मन्यन्ते, न तु परमार्थवेदिनः इति। तदुक्तम्-



एतावच्चैव ज्ञेयं यदुत संवृतिः परमार्थश्च। तच्च भगवता शून्यतः सुदृष्टं सुविदितं सुसाक्षात्कृतम्। तेन सर्वज्ञ इत्युच्यते। तत्र संवृतिर्लोकप्रचारतस्तथागतेन दृष्टा। यः पुनः परमार्थः, सोऽनभिलाप्यः अनाज्ञेयोऽविज्ञेयः अदेशितः अप्रकाशितः, यावत् अक्रियः अकरणः, यावत् न लाभो नालाभो न दुःखं न सुखं न यशो नायशः न रूपं नारूपमित्यादि।



तत्र जिनेन जनस्य कृतेन

संवृति देशित लोकहिताय।

येन जगत्सुगतस्य सकाशे

संजनयीह प्रसादसुखाय॥

संवृति प्रज्ञपयी नरसिंहः

षङ्गतयो भणि सत्त्वगणानाम्।

नरकगतीश्च तथैव च प्रेतान्

आसुरकाय नरांश्च मरूंश्च॥

नीचकुलां तथ उच्चकुलांश्च

आढ्यकुलांश्च दरिद्रकुलांश्च॥इत्यादि॥



इदमपि तत्त्वानधिगमस्य फलमित्याह शोकायासैरित्यादि-

शोकायासैर्विषादैश्च मिथश्च्छेदनभेदनैः।

यापयन्ति सुकृच्छ्रेण पापैरात्मसुखेच्छवः॥१५६॥



पुत्रकलत्रादिविप्रयोगकृताः शोकाः। सुखदुःखप्राप्तिपरिहारनिमित्तपरिश्रमा आयासाः। तैः शोकायासैर्मद्विधाः यापयन्ति सुकृच्छ्रेणेति संबन्धः। विषादैश्च लाभसत्कारादिविषादैर्दौर्मनस्यैः। मिथश्छेदनभेदनैः, मिथः परस्परं छेदनानि करचरणशिरोनासिकाकर्णप्रभृतीनाम्, भेदनानि बाहुजङ्घोरुवक्षःपार्श्वोदरादीनाम्। चकारोऽनुवर्तते। तैश्छेदनभेदनैश्च यापयन्ति, कालक्रमेण आयुःसंस्कारान् क्षयपन्ति। सुकृच्छ्रेण महता कष्टेन कथंचिल्लब्धाशनपानवसनाः। किंभूताः सन्तः ? पापैरात्मसुखेच्छवः, पापैरकुशलैः कर्मभिः, आत्मनः स्वस्य सुखेच्छवः सुखाभिलषणशीलाः॥



तथाविधैश्च समाचारविशेषैश्च-

मृताः पतन्त्यपायेषु दीर्घतीव्रव्यथेषु च।



मृताः जीवितेन्द्रियविमुक्ताः। पतन्ति गच्छन्ति अपायेषु नरकप्रेततिर्यक्षु। किंभूतेषु ? दीर्घतीव्रव्यथेषु च, दीर्घा चिरकालभाविनी, तीव्रा अतिदुःसहवेदनीयविपाकत्वात्, व्यथा येष्वपायेषु ते तथोक्ताः, तेषु च। चकार उक्तसमुच्चये भिन्नक्रमे वा। केन प्रकारेणेत्याह आगत्यागत्येत्यादि-

आगत्यागत्य सुगतिं भूत्वा भूत्वा सुखोचिताः॥१५७॥



सुखसंवर्धिता भूत्वा भूत्वा। कथम् ? आगत्यागत्य सुगतिम्, शोभनां देवमनुष्यगतिं प्राप्य प्राप्य॥



पुनरपि तथाभूतानां दुःखपंरपरासागरनिमज्जनोन्मज्जनमादर्शयन्नाह भव इत्यादि-

भवे बहुप्रपातश्च तत्र चात्तत्त्वमीदृशम्।

तत्रान्योन्यविरोधश्च न भवेत्तत्त्वमीदृशम्॥१५८॥



भवे संसारे कामरूपारूप्यस्वभावे बहुप्रपातश्च बहुतर उपघातश्च। तत्र चासत्त्वमीदृशम्, तत्र च भवे प्रपाते वा अतत्त्वमीदृशं व्यामोहविजृम्भितमेतादृशं सर्वजनसाधारणं यथाविधं प्रतिपादितं परिदृश्यमानं वा। तत्रान्योन्यविरोधश्च, तत्र एवंविधे अतत्त्वे सति अन्योन्यविरोधः परस्परविप्रतिपत्तिः। केन कारणेन न भवेत्तत्वमीदृशमिति। तस्माद्वस्तुरूपमेतादृशमनेकाकारसमारोपात्॥

तत्र चानुपमास्तीव्रा अनन्ता दुःखसागराः।



तत्र च एवमपि। अनुपमाः तदपरसदृशदुःखाभावादुपमातुमशक्याः। तीव्रा अत्युग्रवेदनाः। अनन्ता अनवधिकालविपाकतया अपर्यन्ता वा दुःखानामतिविपुलतया महायानमनधिगम्य निस्तरीतुमशक्यत्वात्, सागराः। तथापि कथंचित् महता वीर्येण कुशलपक्षोपचयात् भूयसा कालेन सुगतिं प्राप्य क्षपयितुं शक्यन्ते इत्यत आह तत्रैवमित्यादि-

तत्रैवमल्पबलता तत्राप्यल्पत्वमायुषः॥१५९॥

तत्रापि जीवितारोग्यव्यापारैः क्षुत्क्लमश्रमैः।

निद्रयोपद्रवैर्बालसंसर्गैर्निष्फलैस्तथा॥१६०॥

वृथैवायुर्वहत्याशु विवेकस्तत्र दुर्लभः।



तत्र तथारूपे समावेशे एवं परिदृश्यमानरूपा अल्पबलता। हीनवीर्यतेति यावत्। तत्राप्यल्पत्वमायुषः। तत्रापि एवंभूते सत्यपि। अल्पत्वं स्तोकत्वम्, आयुषः आयुःसंस्काराणाम्। तत्रापि जीवितारोग्यव्यापारैः स्नानाभ्यञ्जनप्रभृतिभिः। आरोग्यस्य आरोग्याय वारोगोपशमाय व्यापारैः विशेषेण कटुतिक्तभैषज्यकषायपानादिभिः। कुशलोपार्जनमन्तरेण वृथा चैव आयुर्वहत्याशु इति वक्ष्यमाणेन संबन्धः। तथा क्षुत्क्लमश्रमैः, क्षुत् बुभुक्षा, क्लमो ग्लानिः, श्रमो मार्गखेदादि, तैः। निद्रया उपद्रवैः, निद्रया स्वप्नेन, उपद्रवैर्हास्योत्प्रासविहेठनादिकृतैः सरीसृपव्यालमृगदंशमशकादिकृतैः बधबन्धनताडनादिलक्षणैः। तथा बालसंसर्गैर्निष्फलैः, तथा बालानां पृथग्जनानां संसर्गैः संपर्कैः। किंभूतैः ? निष्फलैः आत्मोत्कर्षादिसंभिन्नप्रलापादिबहुलैः। तथेति न केवलं पूर्वोक्तक्रमेण, इत्थमपि वृथैवायुर्वहत्याशु, वृथैव निष्फलमेव कुशलपक्षोपचयरहितत्वात् आयुर्वहति याति आशु शीघ्रम्, असद्वयापारप्रसङ्गात् त्वारितमेव परिक्षयात्। एवमपि वर्तमानानां विवेकस्तु सुदुर्लभः, विवेकस्तु हेयोपादेयज्ञानं व्यासङ्गपरित्यागो वा, सुदुर्लभः, कथमपि अतिकृच्छ्रेणापि न लभ्यते। भवतु नाम एवम्, तथापि यदि कथंचित् समाधानं जायते, तदा कल्याणं स्यात्, तदपि नास्तीत्याह तत्रापीत्यादि-

तत्राप्यभ्यस्तविक्षेपनिवारणगतिः कुतः॥१६१॥

तत्रापि मारो यतते महापायप्रपातने।



तत्रापि एवमवस्थां गतेऽपि अभ्यस्तविक्षेपः परिशीलितमौद्धत्यं तस्य निवारणं निवर्तनं तस्य गतिरनुप्रवेशः कुतः ? नैवास्ति। तत्रापि एवमनर्थपरंपरायां स्थितानां कथंचित् कुशलपक्षं समीक्ष्य मारो यतते महापायप्रपातने, क्लेशमारो देवपुत्रमारो वा यतते उद्यच्छते महापायप्रपातने प्रपातननिमित्तम्। अवीच्यादिनरकप्रक्षेपणार्थमिति यावत्। एवमपि कदाचित् सत्यरत्नादिषु अभिसंप्रत्ययवशात् कथंचित् कल्याणमुपजायते इत्याह तत्रासन्मार्गेत्यादि-

तत्रासन्मार्गबाहुल्याद्विचिकित्सा च दुर्जया॥१६२॥

पुनश्च क्षणदौर्लभ्यं बुद्धोत्पादोऽतिदुर्लभः।

क्लेशौघो दुर्निवारश्चेत्यहो दुःखपरंपरा॥१६३॥



तत्र एवं दशां प्राप्नोति-सम्यग्दृष्टिविपक्षस्य असन्मार्गस्य चार्वाकमीमांसकादिपरिदीपितस्य बाहुल्यात् भूयस्त्वात् विचिकित्सा सन्मार्गे विमतिश्च दुर्जया, कथंचिदपि विचिकित्सा त्यक्तुं न शक्या। कथंचित् सुगतिप्रतिलम्भेऽपि पुनश्च क्षणदौर्लभ्यम्, अष्टाक्षणविनिर्मुक्तस्य क्षणस्य दौर्लभ्यं परमदुर्लभत्वम्

महार्णवयुगच्छिद्रकूर्मग्रीवार्पणोपमम्। [४.२०]



कथंचिदितरक्षणसंभवेऽपि बुद्धोत्पादोऽतिदुर्लभः, बुद्धानां [भगवतां]समस्तजगदालोककारिणां सर्वदुःखनिदानभूतक्लेशशल्यापहारिणामुत्पादः प्रादुर्भावः अतिदुर्लभः। कथंचित् कर्हिचित् उदुम्बरपुष्पप्रायः संसारसागरोत्तरणोपायभूतः। कथंचित् बुद्धोत्पादसंभवेऽपि क्लेशौघः [जातिजरामरणा] दीनामोघः अविच्छिन्नः प्रवाहः। स दुर्निवारः, दुःखेनापि निवारयितुमशक्यः। इत्यहो दुःखपरंपरा। इत्येवम्। अहो इति खेदे। दुःखस्य कष्टस्य परंपरा, एकस्माद्दुःखाद्विनिर्गमेऽपि अपरस्मिन् दुःखे प्रपतनात्॥



सांप्रतमेवं सत्त्वान् सुदुःखितान् समीक्ष्य करुणाम्रेडितहृदयः परदुःखदुःखी शास्त्रकारः सत्त्वानां दुःखं शोचयन्नाह अहो बतेति-

अहो बतातिशोच्यत्वमेषां दुःखौघवर्तिनाम्।



निपातसमुदायः खेदे। अतिशोच्यत्वमतिशयेन शोचनीयत्वम्। एषां हिताहितपरिज्ञानविकलानां सत्त्वानां दुःखसागरकल्लोलपरंपरानिमज्जनोन्मजन्नाकुलचेतसाम्। के पुनरमी सत्त्वाः शोचनीया इत्याह ये इत्यादि-

ये नेक्षन्ते स्वदौःस्थित्यमेवमप्यतिदुःस्थिताः॥१६४॥



ये सत्त्वा अविद्यान्धीकृतज्ञानलोचनाः नेक्षन्ते न पश्यन्ति स्वदौःस्थित्यं स्वस्य आत्मनो दुःखावस्थितत्वम्। एवमप्यतिदुःस्थिताः एवमुक्तक्रमेण अतिदुःस्थिता अतिशयेन दुःखावस्थिताः। दुःखपर्यापन्ना इति यावत्॥



एतदनुरूपदृष्टान्तेन स्पष्टयन्नाह स्नात्वेत्यादि-

स्नात्वा स्नात्वा यथा कश्चिद्विशेद्वह्निं मुहुर्मुहुः।

स्वसौस्थित्यं च मन्यन्ते एवमप्यतिदुःस्थिताः॥१६५॥



स्नात्वा स्नात्वा जलावगाहनं कृत्वा कृत्वा यथा कश्चिदुपहतबुद्धिः शीतार्तः सुखाभिलाषी। विशेत् प्रविशेत्। बह्निमग्निम्। मुहुर्मुहुः प्रतिक्षणं पुनः पुनर्वा। तथा एतेऽपि सत्त्वाः स्वसौस्थित्यम्। आत्मसुखसंपत्तिं च मन्यन्ते अवबुध्यन्ते। एवमप्यतिदुःस्थिताः एवमनेन प्रतिपादितक्रमेण अतिदुःस्थिताः दुःखाग्निज्वालाकवलीकृताः॥



अहो बत अतिबहुलतराज्ञानान्धकाराक्रमणममीषां यदात्मगतमपि प्रमादं न पश्यन्तीत्याह अजरेत्यादि-

अजरामरलीलानामेवं विहरतां सताम्।

आयास्यन्त्यापदो घोराः कृत्वा मरणमग्रतः॥१६६॥



न विद्यते जरा जीर्णता येषां ते अजराः। न म्रियन्ते ये ते अमराः। तेषामजराणाममराणामिव लीला विचेष्टितं येषां ते तथोक्ताः। तेषामेवमनया लीलया विहरतां निश्चितं विचरतां सताम्। आयास्यन्ति ढौकिष्यन्ते आपदो निरन्तरम्। सर्वे ते दुःखहेतवः जराव्याधिविपत्तयः। घोरा अतीव भयंकराः। कथमायास्यन्ति ? कृत्वा मरणमग्रतः, मरणमप्रतीकारपरिहारं मृत्युमग्रतः पुरतः कृत्वा। एतच्चोक्तं राजाववादकसूत्रे-



तद्यथा महाराज चतसृभ्यो दिग्भ्यश्चत्वारः पर्वता आगच्छेयुः, दृढाः, सारवन्तः, अखण्डाः, अच्छिद्राः असुषिराः, सुसंवृत्ताः एकघनाः नभः स्पृशन्तः, पृथिवीं चोल्लिखन्तः, सर्वं तृणकाष्ठशाखापर्णपलाशादिसर्वसत्त्वप्राणभूतान् निर्मथ्नन्तः। तेभ्यो न सुकरं जवेन वा पलायितुम्, बलेन वा द्रव्यमन्त्रौषधैर्वा निवर्तयितुम्। एवमेव महाराज चत्वारीमानि महाभयानि आगच्छन्ति, येषां न सुकरं जवेन वा पलायितुम्, बलेन वा द्रव्यमन्त्रौषधैर्वा निवर्तनं कर्तुम्। कतमानि चत्वारि ? जरा व्याधिर्मरणं विपत्तिश्च। जरा महाराज आगच्छति यौवनं प्रमथमाना। व्याधिर्महाराज आगच्छति आरोग्यं प्रमथ्नन्। मरणं महाराज आगच्छति जीवितं प्रमथमानम्। विपत्तिर्महाराज आगच्छति सर्वाः संपत्तीः प्रमथ्नन्ती। तत् कस्माद्धेतोः ? तद्यथा महाराज सिंहो मृगराजो रूपसंपन्नो जवसंपन्नः सुजातनखदंष्ट्राकरालो मृगगणमनुप्रविश्य मृगं गृहीत्वा यथाकामकरणीयं करोति। स च मृगराजोऽतिबलं व्यालमुखमासाद्य विवशो भवति। एवमेव महाराज विद्धस्य मृत्युशल्येन अपगतमदस्य अत्राणस्य अप्रतिशरणस्य अपरायणस्य मर्मसु च्छिद्यमानेषु मांसशोणिते परिशुष्यमाणे परितुषितविह्वलवदनस्य करचरणविक्षेपाभियुक्तस्य अकर्मण्यस्य असमर्थस्य लालासिंघाणकपूयमूत्रपुरीषोपलिप्तस्य ईषज्जीवितावशेषस्य कर्मभवात् पुनर्भवमालम्बमानस्य यमपुरुषभयभीतस्य कालरात्रिवशगतस्य चरमाश्वासप्रश्वासेषूपरुध्यमानेषु एकाकिनोऽद्वितीयस्य असहायस्य इमं लोकं जहतः परलोकमाक्रमतः महापथं व्रजतः महाकान्तारं प्रविशतः महागहनं समवगाहमानस्य महाकान्तारं प्रपद्यमानस्य महार्णवेनोह्यमानस्य कर्मवायुना नीयमानस्य निमित्तीकृतां दिशं व्रजतो नान्यत् त्राणं नान्यत् शरणं नान्यत् परायणमृते धर्मात्। धर्मो हि महाराज तस्मिन् समये त्राणं लयनं शरणं भवति। तद्यथा-शीतार्तस्याग्निप्रतापः, अग्निमध्यगतस्यापि निर्वापणम्, उष्णार्तस्य वा शैत्यम्, अध्वानं प्रतिपन्नस्य सुशीतलच्छायोपवनम्, पिपासितस्य सुशीतलं सलिलम्, बुभुक्षितस्य वा प्रणीतमन्नम्, व्याधितस्य वा वैद्यौषधपरिचारकाः, भयभीतस्य बलवन्तः, सहायाः साधवः प्रतिशरणा भवन्ति॥इति विस्तरः॥



तस्मादेतद्भयपरिहारार्थं कुशलपक्षेष्वेव प्रज्ञापरिशोधितेषु यत्नः करणीयः॥

इदानीं जात्यादिदुःखदुःखिनां दुःखापहरणाय स्वाशयमाशङ्कयन्नाह एवमित्यादि-

एवं दुःखाग्नितप्तानां शान्तिं कुर्यामहं कदा।

पुण्यमेघसमुद्भूतैः सुखोपकरणैः स्वकैः॥१६७॥



एवमनन्तरोक्तया नीत्या दुःखाग्नितप्तानाम्, दुःखान्येव अग्नयः तै संतापितानां सत्त्वानां शान्तिं जात्यादिदुःखानलतापप्रशमनम्। कुर्यामहं कदा, कस्मिन् काले कुर्यां विदध्याम्। कथम् ? सुखोपकरणैः। सुखस्योपकरणानि सुखसाधनानि वस्त्राभरणानुलेपनशयनासनप्रभृतीनि। किं तदुपार्जितैरेव ? नेत्याह-स्वकैः स्वात्मीयैः। मया स्वयमुपार्जितैरित्यर्थः। किं निर्माणादिप्रदर्शितैः ? नेत्याह- पुण्यमेघसमुद्भूतैः, पुण्यान्येव मेघाः सर्वदुःखसंतापार्तिशमनसुखोपकरणशीतलवृष्टिप्रदाननिमित्तत्वात्। तेभ्यः समुद्भूतानि निर्जातानि, तैः॥



एवमभ्युदयसंपदि परेषां चेतो विधाय निःश्रेयससंपदि प्रदर्शयन्नाह कदेत्यादि-

कदोपलम्भदृष्टिभ्यो देशयिष्यामि शून्यताम्।

संवृत्यानुपलम्भेन पुण्यसंभारमादरात्॥१६८॥



कदा कस्मिन् काले उपलम्भदृष्टिभ्यो भावग्राहाभिनिविष्टेभ्यो देशयिष्यामि प्रकाशयिष्यामि। शून्यतां सर्वधर्मनिःस्वभावताम्। कथम् ? संवृत्या व्यवहारेण। अन्यथा विकल्पाविषयतया परमार्थशून्यस्य शून्यताया देशयितुमशक्यत्वात्। एवं निःश्रेयसहेतुज्ञानसंभारनिमित्तमुपदर्शितम्। तत्कारणं पुण्यसंभारनिदानमुपदर्शयन्नाह-पुण्येत्यादि। पुण्यस्य ज्ञानादेः संभारं कदा उपलम्भदृष्टिभ्यो देशयिष्यामीति संबन्धः। आदरादिति महता गौरवेण। सत्कृत्य न यदृच्छया। केन प्रकारेण ? अनुपलम्भेन, देयदायकप्रतिग्राहकादित्रितयानुपलम्भयोगेन। त्रिकोटिपरिशुद्ध्येति यावत्। एवमुपचितः पुण्यसंभारो बुद्धताधिगमाय जायते। तदेवमनेन सर्वेण अशेषसंक्लेशहेतुसर्वसमारोपविकल्पप्रतिपक्षतया सर्वावरणप्रहाणोपायत्वात् समस्ततथागताधिगमहेतुत्वाच्च सर्वदुःखोपशमोपायप्रज्ञा उपजायते इत्युपदर्शितं भवतीति॥



ये गम्भीरनयावगाहनपटुप्रज्ञानिरस्तभ्रमाः

संक्लेशव्यवदानपक्षविमलज्ञानोच्छ्रिताः सूरयः।

ते सन्तो गुणदोषयोरपि च तैः सारं विमिश्रादतो

ग्राह्यं सर्वमकल्मषं विषमिव त्याज्यं दुरुक्तं यदि॥

न युक्तमुक्तं किमपीह यन्मया

परं प्रजातं स्खलितं तदेव मे।

ननु ग्रहीष्यन्ति ममात्र साधवो

मतिं मयानेन कृतेन सांप्रतम्॥



अपि च-

यः संवृत्या व्रजति मनसो गोचरत्वं कथंचित्

तादृश्यर्थे स्खलति न मतिः कस्य वै मादृशस्य।

तत्सूक्तार्थप्रविचयवतां मध्यमानीतिभाजां

दृष्ट्वा किंचिद्गुणलवमिह स्यादुपादेयबुद्धिः॥

प्रज्ञाया विवृतिं विधाय विशदव्याख्यापदैः संवृतां

सम्यग्ज्ञानविपक्षदृष्टिनिबिडव्यामोहशान्त्या मया।

यत्पुण्यं समुपार्जितं हितफलं तेनाशु सर्वो जनो

मञ्जुश्रीरिव सद्गुणैकवसतिः प्रज्ञाकरो जायताम्॥

इति प्रज्ञाकरमतिविरचितायां बोधिचर्यावतारपञ्जिकायां

प्रज्ञापारमितापरिच्छेदो नवमः॥

कृतिरियं पण्डितभिक्षुप्रज्ञाकर[मति]पादानाम्॥

* * * *

[लेखकविरचिता प्रशस्तिः]

टीकेयं परमा सुयन्त्रितपदा शुद्धा मनोह्लादिनी

संसारार्णवपारगामिनि जने नौयानपात्रोपमा।

आशु प्राप्तिकरी जिनस्य पदवीं साद्य लिखित्वा मया

प्राप्तं यत्कुशलं सुसंपदि पदं तेनास्तु बुद्धो जनः॥

अष्टानवतिसंयुक्ते शते सरति वत्सरे।

कृष्णे श्रावणपञ्चभ्यां वासरे कुजसाह्वयेः॥

श्रीमच्छंकरदेवस्य राज्ये विजयशालिनः।

बोधिचर्यावताराख्यटीके लिख्य(?)मिदं शुभम्॥

श्रीललितपुरे रम्ये श्रीमानीश्वलसंज्ञके।

यच्छ्रीराघवनाम्नस्य(?) विहारे सुगतालये॥

धन्यः स्थविरभिक्षोस्य(?) बुद्धचन्द्रस्य पुस्तकम्।

तत्पुण्याद्बोधिसत्त्वत्वं लभते परमं पदम्॥

सृजतु शलिलं घना यथेष्टं

भवतु मही बहुशस्यसंप्रयुक्तम् (?)।

अवतु नरपतिः प्रजा विनाम्राः (?)

भवतु रयनपतेः सुखातिवृद्धिः॥इति॥



॥कायस्थः भुवनाकर[व]र्मण[णा]लिखितमिति॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project