Digital Sanskrit Buddhist Canon

८ ध्यानपारमिता नाम अष्टमः परिच्छेदः

Technical Details
८ ध्यानपारमिता नाम अष्टमः परिच्छेदः।



तदेवं क्षान्तेरनन्तरं वीर्यमभिधाय यदुक्तम्-

संश्रयेत वनं ततः।

समाधानाय युज्येत भावयेच्चाशुभादिकम्॥

[शिक्षा. स. कारिका-२०]

इति, तद् वर्धयित्वैवमित्यादिना प्रतिपादयितुमुपक्रमते-

वर्धयित्वैवमुत्साहं समाधौ स्थापयेन्मनः।



एवमुक्तप्रतिपक्षस्य आसेवनादिना विपक्षमुन्मूल्य वीर्यं वर्धयित्वा अनाभोगवाहितया स्थिरीकृत्य समाधौ समाधाने चित्तैकाग्रतायां स्थापयेन्मनः, तत्र निवेशयेत्। आरोपयेदिति यावत्। किमर्थमित्याह-

विक्षिप्तचित्तस्तु नरः क्लेशदंष्ट्रान्तरे स्थितः॥१॥



तुरिति हेतौ। यस्मात् समाधानमन्तरेण विक्षिप्तचित्तः असमाहितचित्तसमुदाचारः वीर्यवानपि नरः पुरुषः क्लेशानां राक्षसानामिव दंष्ट्रान्तरे मध्ये स्थितः, कवलीकृत एव तैरास्ते। तस्मात्॥



तत्र तावत् समाधिविपक्षं निराकर्तुं पीठिकाबन्धं रचयन्नाह-

कायचित्तविवेकेन विक्षेपस्य न संभवः।

तस्माल्लोकं परित्यज्य वितर्कान् परिवर्जयेत्॥२॥



कायविवेको जनसंपर्कविवर्जनता। चित्तविवेकः कामादिवितर्कविवर्जनता। इति। कायचित्तयोर्विवेके निरासङ्गतया विक्षेपस्य तयोरुन्नततायाः। आलम्बनाप्रतिष्ठानस्येति यावत्। न संभवः न प्रादुर्भावः। यत एवम्, तस्माल्लोकं स्वजनबान्धवादिलक्षणं परित्यज्य विहाय पूर्वं वितर्काश्चित्तविक्षेपहेतून् परिवर्जयेत् परित्यजेत्॥



तत्र लोकापरित्यागहेतुं तावन्निराकर्तुमुपदर्शयन्नाह-

स्नेहान्न त्यज्यते लोको लाभादिषु च तृष्णया।

तस्मादेतत्परित्यागे विद्वानेवं विभावयेत्॥३॥



आत्मात्मीयग्रहप्रवर्तितोऽभिष्वङ्गः स्नेहः। तस्मान्न त्यज्यते लोकः। लाभादिषु च तृष्णया। आदिशब्दात् सत्कारयशःश्लोकादयः परिगृह्यन्ते। तेषु तृष्णया प्रलोभेन। चकारान्न त्यज्यते लोके इति समुच्चीयते। यत एतत्कारणमपरित्यागस्य, तस्मादेतस्य स्नेहस्य लोभादीनां वा। यदि वा लोकस्य परित्यागनिमित्तं विद्वान् विचक्षणः। एवमिति वक्ष्यमाणं विभावयेत्॥



तदेवाह-

शमथेन विपश्यनासुयुक्तः

कुरुते क्लेशविनाशमित्यवेत्य।

शमथः प्रथमं गवेषणीयः

स च लोके निरपेक्षयाभिरत्या॥४॥



शमथः चित्तैकाग्रतालक्षणः समाधिः। तेन सुयुक्त इति अपोद्धृत्य इहापि योजनीयम्। यदि वा हेत्वर्थे तृतीया। शमथेन हेतुना विपश्यनासुयुक्तः। सहार्थे वा। शमथेन सार्धं विपश्यनासुयुक्त इति। विपश्यना यथाभूततत्त्वपरिज्ञानस्वभावा प्रज्ञा। तया सुयुक्तः। युगनद्धवाहिमार्गयोगेन कुरुते क्लेशानां विनाशं प्रहाणमित्येवमवेत्य ज्ञात्वा क्लेशविमुमुक्षुणा शमथः प्रथममादौ गवेषणीयः। उत्पाद्य इत्यर्थः। तदनन्तरं विपश्यना।



समाहितो यथाभूतं प्रजानातीत्यवदन्मुनिः।

शमाच्च न चलेच्चित्तं बाह्यचेष्टानिवर्तनात्॥इति।

[शिक्षा. स. कारिका-९]



स च शमथः लोके लोकविषये निरपेक्षया अभिरत्या। अभिरतिं परिहरत एव उत्पद्यते नान्यथा॥



तामेव अभिरतिनिरपेक्षतामुत्तरप्रबन्धेन दर्शयितुमाह-

कस्यानित्येष्वनित्यस्य स्नेहो भवितुमर्हति।

येन जन्मसहस्राणि द्रष्टव्यो न पुनः प्रियः॥५॥



कस्य सचेतनस्य स्वयमेव अनित्यस्य अनित्येषु पुत्रदारादिषु स्नेहो भवितुमर्हति युज्यते। केन हेतुना ? येन कारणेन जन्मनां सहस्राणि अनेकानि जन्मानि अपर्यन्तसंसारे संसरता कदाचिदपि द्रष्टव्यो न पुनः प्रियः। प्रीणातीति प्रिय उच्यते॥



तदपि च अस्मिन्नास्ति इत्याह-

अपश्यन्नरतिं याति समाघौ न च तिष्ठति।

न च तृप्यति दृष्ट्वापि पूर्ववद्बाध्यते तृषा॥६॥



यदा तावन्न पश्यति तम्, तदा अयमरतिमधृतिं याति। तेनैव असौमनस्येन समाकुलितचित्तत्वात् समाधौ न च तिष्ठति, नैव स्थितो भवति। तमवलम्बितुमशक्त इत्यर्थः। अथ यदापि प्रियदर्शनमस्य जायते, तदापि न च तृप्यति। दृष्ट्वापि पुनरधिकतरं बाध्यते तृषा। तद्दर्शनाभिलाषेण पूर्ववत् अदर्शनकाल इव पीड्यते॥



अपि च। सर्वानर्थनिदानं प्रियसंगतिकरणमित्युपदर्शयन्नाह-

न पश्यति यथाभूतं संवेगादवहीयते।

दह्यते तेन शोकेन प्रियसंगमकाङ्क्षया॥७॥



यथाभूतविपरीतं दोषगुणान्न पश्यति न जानाति। प्रियसंगमकाङ्क्षया तेनैव मोहेन संवेगादवहीयते भ्रष्टो भवति। तथा तेनैव अभिष्वङ्गेण दह्यते तेन शोकेन मुहूर्तमपि विच्छेदे। तथा तेन शोकेन दह्यते परितप्यते तेनैव मनस्तापेन। प्रियसंगमकाङ्क्षया प्रियस्य संगमः संप्रयोगः, तस्मिन्नाकाङ्क्षा तृष्णा, तया हेतुभूतया, पुनरुत्तरोत्तरमधिकाधिकप्रार्थनया॥



इतोऽप्यनर्थहेतुरेव तत्संगतिरित्याह-

तच्चिन्तया मुधा याति ह्रस्वमायुर्मुहुर्मुहुः।



तस्य प्रियस्य तत्संगमस्य वा चिन्तया तद्गुणानां सदा परिभावनया। कथं नाम ममास्य प्रियसंगमस्य विच्छित्तिर्मा भूदिति तल्लीनचित्ततया वा। निष्फलमेव आयुःसंस्काराः प्रतिक्षणं क्षीयन्ते। न च क्वचिदपि कुशलकर्मणि समुपयुज्यन्ते इति भावः। न च यदर्थमायुः क्शयमुपनीयते तन्मित्रं स्थिरमित्यत आह-

अशास्वतेन धर्मेण धर्मो भ्रश्यति शाश्वतः॥८॥



अवश्यं भङ्गुरतया अनवस्थानादस्थावरेण मित्रेण हेतुना धर्मो भ्रश्यति परिहीयते शाश्वतो दीर्घकालावस्थायी संभारान्तर्गमात् फलमहत्त्वाच्च॥



स्यादेतत्-अवश्यं हि किंचित्तत्संगमाद्धितसुखनिबन्धनं प्राप्यते। तत्किमिति सर्वथा तन्निषिध्यत इत्यत्राह-



बालैः सभागचरितो नियतं याति दुर्गतिम्।

नेष्यते विषभागश्च किं प्राप्तं बालसंगमात्॥९॥



नापि तत्संगमादनर्थमन्तरेण किंचिदपरमिह लभ्यते। तथा हि बालैः पृथग्जनैः सह सभागचरितः समानशीलः नियतमवश्यं याति दुर्गतिम्, तत्कर्मसदृशसमाचरणत्, आर्यधर्मबहिर्भावाच्च। अथ आर्यधर्मानुवर्तनात् ततोऽसदृशकर्मकारी स्यात्, तदा नेष्यते द्विष्यते विसभागश्चेति असमानचरितः। बालैरिति संबन्धः। अत्र कर्तरि तृतीया। इति उभयलोकबाधनात् किं प्राप्तमधिगतं हितसुखनिमित्तं बालसंगमात् ? नैव किंचिदित्यर्थः॥



न च अनुकूलचरितैरपि आत्मसात्कर्तुं शक्या इत्याह-

क्षणाद्भवन्ति सुहृदो भवन्ति रिपवः क्षणात्।

तोषस्थाने प्रकृप्यन्ति दुराराधाः पृथग्जनाः॥१०॥



क्षणमात्रेण सुहृदो मित्राणि भवन्ति किंचित् स्वप्रयोजनमुद्दिश्य, क्षणादेव च विषमाभिप्रायत्वात् किंचिन्निमित्तमालम्ब्य त एव रिपवः शत्रवो भवन्ति। न च निमित्तमप्येषां नियतम्, यत् कदाचित्तोषस्थाने प्रीतिविषये विपर्यासवशात् प्रकुप्यन्ति। इति दुराराधा दुःखेनाराधयितुं शक्याः पृथग्जनाः अनार्याः॥



अपरमपि बालधर्मं तद्विवर्जनार्थमुपदर्शयन्नाह-

हितमुक्ताः प्रकुप्यन्ति वारयन्ति च मां हितात्।

अथ न श्रूयते तेषां कुपिता यान्ति दुर्गतिम्॥११॥



इदं करणीयम्, इदमकरणीयम्, इत्युक्ताः अभिहिताः प्रकुप्यन्ति विद्विषन्ति, न पुनस्तदुक्तं हितमिति गृह्णन्ति। प्रत्युत वारयन्ति च मां हितात्, किं तव अनेन केवलप्रयासफलानुष्ठानेनेति तत्र प्रवृत्तं मां निषेधयन्ति ततः। अथ न श्रूयते तेषां बालानाम्। वचनमिति शेषः। यदि तद्वचनमवगम्य हिते प्रवृत्तिः क्रियते, तदा कुपिता अस्मद्वचनान्नायं निवर्तते इति तस्मिन् हितकर्मकारिणि कोपं कृत्वा तत्कर्मप्रेरिता दुर्गतिं प्रयान्ति॥



इमं च बालधर्ममपरं तद्विवेकाय भावयेदित्युपदर्शयन्नाह-

ईर्ष्योत्कृष्टात्समाद्दून्द्वो हीनान्मानः स्तुतेर्मदः।

अवर्णात्प्रतिघश्चेति कदा बालाद्धितं भवेत्॥१२॥



आत्मनो विद्याकुलधनादिभिरुत्कृष्टादुत्तमादीर्ष्या परसंपत्त्यसहनता जायते। अर्थात्तेष्वेव। आत्मना समात् तुल्याद् द्वन्द्वो विवादः। आत्मनो हीनादधमान्मानः, अहमितः श्रेष्ठ इत्यभिमननात्। स्तुतेर्मदः सदसतां तद्गुणानामाख्यानादहं महीयानित्यारोपादवलेपः। अवर्णादात्मनो दोषकीर्तनश्रवणाद् द्वेषश्च। अर्थादवर्णवादिनि। इत्येवं कदा कस्मिन् काले बालद्धितं भवेत् ? न कदाचिदित्यर्थः॥



इतोऽपि बालान् परिहृत्य विहरेदिति प्रतिपादयितुमाह-

आत्मोत्कर्षः परावर्णः संसाररतिसंकथा।

इत्याद्यवश्यमशुभं किंचिद्बालस्य बालतः॥१३॥



एकस्य बालस्य अपरस्माद्बालात् इत्येवमादि किंचिदशुभमकुशलमवश्यं नियमेन जायते। किं तत् ? आत्मन उत्कर्षः प्रकर्षः श्रुतज्ञानादिप्रशंसया। परेषामवर्णो दोषप्रकाशनं श्रुतादिप्रच्छादनम्। या संसारे रतिरभिरामः तस्याः संकथा संवर्णनम्, कामगुणानां संप्रमोदनात्। इत्यादि एवंप्रकारम्॥



एवं तस्यापि तत्सङ्गात्तेनानर्थसमागमः।



अपरस्यापि तत्सङ्गात् द्वितीयस्य सङ्गात् किंचिदशुभमवश्यं स्यात्। येन एवम्, तेन कारणेन अनर्थस्य अकल्याणस्य समागमः संप्राप्तिरेव अयं बालसमागम। अत आर्यधर्मानुशिक्षणार्थम्-

एकाकी विहरिष्यामि सुखमक्लिष्टमानसः॥१४॥



बालजनसंगमवियुक्तः अद्वितीयः विहरिष्यामि। तद्विवेकात् सुखम्। क्रियाविशेषणमेतत्। कथम् ? अक्लिष्टमानस इति तत्संपर्कविवर्जनात् तत्कृतसंक्लेशाभावात्। पूर्वस्मिन् हेतुपदमेतत्। यदि वा। सुखं कायिकम्। अक्लिष्टमानस इति मानसम्॥



तस्माद्वालजनसंपर्कजदुःखपरिजिहीर्षुणा तत्संगतिर्न कार्येति कथयितुमाह-

बालाद्दूरं पलायेत प्राप्तमाराधयेत्प्रियैः।

न संस्तवानुबन्धेन किं तूदासीनसाधुवत्॥१५॥



बालात् सर्वतो दूरमारात् पलायेत अपसरेत्, यथा तैः सह काचिदपि संगतिर्न स्यात्। अथ कथंचिद्दैवयोगाद्भवेत्, तदा प्राप्तं मिलितमाराधयेत् आरागयेत्। प्रियैः प्रीतिकरैरुपचारैः। आराधयन्नपि न संस्तवानुबन्धेन न परिचयासत्तिकरणाभिप्रायेण। यदि वा, न संस्तवानुनयेन, किं तर्हि प्रतिघानुनयवर्जनादुदासीनसाधुवत् सदाचारमध्यस्थजनवत्॥



इदमपरं साधुजनसमाचारं शिक्षयितुमाह-

धर्मार्थमात्रमादाय भृङ्गवत् कुसुमान्मधु।

अपूर्व इव सर्वत्र विहरिष्याम्यसंस्तुतः॥१६॥



धर्मायेदं धर्मार्थम्, तदेव केवलं तन्मात्रम्। तदादाय गृहीत्वा। सारादानं कृत्वेत्यर्थः। भृङ्गवत् चञ्चरीकवत्। मधु मकरन्दम्। यदि वा। धर्म एव अर्थः प्रयोजनमस्य चीवरपिण्डपातादेरिति विग्रहः। बालसंपर्कविमुखः अपूर्व इव नवचन्द्रोपमः सर्वत्र देशे स्थाने वा विहरिष्यामि। असंस्तुतः अपरिचितः। तन्निवासिजनैः प्रत्यासत्तिरहित इत्यर्थः॥



तदेवं प्रियसंगतिकारणं स्नेहमपाकृत्य सांप्रतं लाभादितृष्णा लोकापरित्यागकारणं परिहर्तव्येत्युपदर्शयन्नाह-

लाभी च सत्कृतश्चाहमिच्छन्ति बहवश्च माम्।

इति मर्त्यस्य संप्राप्तान्मरणाज्जायते भयम्॥१७॥



लाभो विद्यतेऽस्येति चीवरपिण्डपातादिलाभयोगाल्लाभी च अहम्। सत्कृतश्च पूजितो जनैः। इच्छन्ति अभिलषन्ति बहवश्च अनेके माम्। बहुजनसंमतोऽहमित्यर्थः। इत्येवं चिन्तयतः एवं मर्त्यस्य मनुष्यस्य मरणाज्जायते भयम्। किंभूतात् ? संप्राप्तात् अचिन्तितोपस्थितात्॥



यत्र यत्र रतिं याति मनः सुखविमोहितम्।

तत्तत्सहस्रगुणितं दुःखं भूत्वोपतिष्ठति॥१८॥



तस्मात्प्राज्ञो न तामिच्छेदिच्छातो जायते भयम्।

स्वयमेव च यात्येतद्वैर्यं कृत्वा प्रतीक्षताम्॥१९॥



बहवो लाभिनोऽभूवन् बहवश्च यशस्विनः।

सह लाभयशोभिस्ते न ज्ञाताः क्क गता इति॥२०॥



मामेवान्ये जुगुप्सन्ति किं प्रहृष्याम्यहं स्तुतः।

मामेवान्ये प्रशंसन्ति किं विषीदामि निन्दितः॥२१॥



नानाधिमुक्तिकाः सत्त्वा जिनैरपि न तोषिताः।

किं पुनर्मादृशैरज्ञैस्तस्मात्किं लोकचिन्तया॥२२॥



* * * * * * इति सर्वदा अवश्यंभाविमरणमनसिकारात् किं लोकस्य बालजनस्य चिन्तया चरितपरिभावनया ? न किंचित् प्रयोजनम्, अनुपादेयत्वादिति भावः॥



इत्थमपि बालजनसंगतिर्दुःखहेतुरेवेत्याह-

निन्दन्त्यलाभिनं सत्त्वमवध्यायन्ति लाभिनम्।

प्रकृत्या दुःखसंवासैः कथं तैर्जायते रतिः॥२३॥



निन्दन्ति कुत्सयन्ति अलाभिनं लाभविरहितं सत्त्वम्। अकृतपुण्योऽयं वराकः, येन अयं पिण्डपातादिमात्रकमपि नैव अपरिक्लेशेन प्राप्नोतीति। लाभिनं पुनरवध्यायन्ति प्रसन्नैर्दायकदानपतिभिश्चीवरादिप्रदानैः पूजितम्। कुहनादिभिरपि दायकदानपतीन् प्रसाद्यचीवरादिलाभमासादयति। अन्यथा किमन्यस्य तथाविधा गुणा न सन्ति, येन अयमेव वरं लभते नापरः, इति अस्मिंश्चित्तमप्रसादयन्ति, वचनं चैवमुद्गिरन्ति। इति उभयथापि तेभ्यो न चेतसि शान्तिरस्ति। तदेवं प्रकृत्या स्वभावेन दुःखहेतुत्वात् दुःखं संवासो येषां बालानां ते तथा। तैस्तथाविधैः सह संवसतः कथं जायते रतिः ? नैवेत्यर्थः॥



[न च बालो दृढसुहृद्भवति। यस्मान्न बाल इत्याह-

न बालः कस्यचिन्मित्रमिति चोक्तं तथागतैः।

न स्वार्थेन विना प्रीतिर्यस्माद्वालस्य जायते॥२४॥



स्वार्थद्वारेण या प्रीतिरात्मार्थ प्रीतिरेव सा।

द्रव्यनाशे यथोद्वेगः सुखहानिकृतो हि सः॥२५॥



मित्रमिति सुहृत्। उक्तं तथागतेनेत्यागमेषु उक्तम्। कस्मात् ? यस्मात् स्वप्रयोजनेन विना बालस्य न कर्हिचिदपि प्रीतिर्जायते। तस्मात् तदभावे विपर्ययः। तदपि बालसंवासे सत्यपि न निर्दिष्टम् (?) तत्र मैत्रीकृतेनापि पृथग्जनस्य प्रीतिरशक्या॥



एवं सति तत्संवासोद्भूतदोषपरिहारार्थं सुखेन] सौमनस्येन च विहाराय विवेककामेन मया अरण्यनिषेवणाय यतितव्यमिति तदनुशंसां दर्शयन्नाह-

नावध्यायन्ति तरवो न चाराध्याः प्रयत्नतः

कदा तैः सुखसंवासैः सह वासो भवेन्मम॥२६॥



तरवो वृक्षाः नावध्यायन्ति, न च आराध्याः आराधयितव्याः प्रयत्नत इति। तदनुकूलसमाचरणेन अरण्यादिषु वसता विषमाभिप्रायरहितत्वात्। इति कदा तैस्तरुभिः सह वासो भवेन्मम ? किभूतैः सुखसंवासैरित्याशंसति। सुखहेतुत्वात् सुखमिति पूर्ववत्॥



पुनरेकाकिताविहारेऽभिरतिमाह-

शून्यदेवकुले स्थित्वा वृक्षमूले गुहासु वा।

कदानपेक्षो यास्यामि पृष्ठतोऽनवलोकयन्॥२७॥



शून्यदेवकुले जनसंकीर्णतारहिते स्थित्वा निवस्य रात्रिमेकामुषित्वा द्वे वा, यथाभिलाषं वृक्षमूले वृक्षस्याधस्तात्। पर्वतादिषु गुह्यप्रदेशा गुहाः, तत्र वा। अनपेक्षः कदा यास्यामि ? आसङ्गस्थानस्य कस्यचिदभावात्। अत एव पृष्ठतोऽनवलोकयन् पश्चादनिर्वृतेरभावात्॥



पुनरन्यथा प्राह-

अयमेषु प्रदेशेषु विस्तीर्णेषु स्वभावतः।

स्वच्छन्दचार्यनिलयो विहरिष्याम्यहं कदा॥२८॥



केनचिद्विरोधकारिणा पुर्वमस्वीकृतेषु। विस्तीर्णेषु विपुलेषु सौमनस्यकारिषु। स्वभावतः स्वयमेव तथाविधेषु, न कृत्रिमतया। विहरिष्याम्यहं कदा इत्याशास्ते। एवं विहरतो यत्सुखं तदुपदर्शयन्नाह-स्वच्छन्द चारी न परतन्त्रवृत्तिः। अनिलयः न विद्यते निलयः आलयः निरासङ्गतया यस्येति अनिलयः, क्वचिदपि स्वीकाराभावात्। तथाभूतः प्रतिबद्धो न कस्यचित्। शेषः सुबोधः॥



पुनरेवमल्पेच्छतया आशंसनीयमित्यादर्शयन्नाह-

मृत्पात्रमात्रविभवश्चौरासंभोगचीवरः।

निर्भयो विहरिष्यामि कदा कायमगोपयन्॥२९॥



मृत्पात्रं मुण्मयं भिक्षाभाजनम्, तदेव केवलं तन्मात्रं विभवो धनं यस्येति। तथा चौराणामसंभोग्यं पांसुकूलाम्बरकृतत्वादपरिभोग्यम्। अनुपयुक्तमिति यावत्। तादृशं चीवरं वासो यस्य स तथा। एतद्द्वयमपि परैरहार्यम्। अत एव निर्भयः कायजीवितनिरपेक्षतया च। तदेव दर्शयति-कायमगोपयन्निति। बाह्याध्यात्मिकस्य परिग्रहाग्रहस्याभावात् असंरक्षयन्॥



इयमनित्यता च आसङ्गपरित्यागस्य कारणं सर्वदा सेवितव्येति वृत्तत्रितयेनोपदर्शयन्नाह-

कायभूमिं निजां गत्वा कङ्कालैरपरैः सह।

स्वकायं तुलयिष्यामि कदा शतनधर्मिणम्॥३०॥



अयमेव हि कायो मे एवं पूतिर्भविष्यति।

शृगाला अपि यद्गन्धान्नोपसर्पेयुरन्तिकम्॥३१॥



अस्यैकस्यापि कायस्य सहजा अस्थिखण्डकाः।

पृथक् पृथग्गमिष्यन्ति किमुतान्यः प्रियो जनः॥३२॥



कायभूमिं निजामिति श्मशानभूमिम्, चिरमपि स्थित्वा तत्पर्यवसानत्वाच्छरीरस्य। कङ्कालैरपरैरिति पूर्वमृतानामस्थिभिः पञ्जरैः। शतनं पूतिभावः, तद्धर्मिणं तत्स्वभावम्। तामेव तुलनां कथयति-अयमेव हीत्यादिना। एवमिति अपरकङ्कालगलितशरीरसादृश्यमुच्यते। पूतिः कुत्सितो भविष्यति। कीदृश इत्याह-शृगाला इत्यादि। अतिदुर्गन्धतया तदाहारपरायणानां गोमायूनामपि दुःसह इति। इत्थमपि प्रियस्य संगतिरनित्येत्याह-अस्यैकस्यापीत्यादि। अस्य उपात्तस्यैकस्य एकत्वेन कल्पितस्यापि कायस्य। सहजाः कायेन सहजाताः अस्थिखण्डकाः पृथक् पृथग्भविष्यन्ति। विसंयुक्ता भविष्यन्तीत्यर्थः। किमुतान्यः प्रियो जनः पृथग् न भविष्यति, यः सर्वदा विसंयुक्त एवास्ते॥



स्यादेतत्-सुखदुःखसहायाः सदा ममैते पुत्रदारादयः। तदेषु युक्त एवानुनयः कर्तुमित्याह-

एक उत्पद्यते जन्तुर्म्रियते चैक एव हि।

नान्यस्य तद्वयथाभागः किं प्रियैर्विघ्नकारकैः॥३३॥



जन्ममरणयोर्न कश्चित् कस्यचिद्दुःखसंभागी स्यात्। अन्तराले च स्वकर्मोपहितमेव सुखदुःखमुपभुञ्जते सर्वे। अतोऽभिमानमात्रमेवैतत्। यतो नान्यस्य तदात्मनो व्यतिरिक्तस्य तद्वयथाभागः। तस्यानुनयकारिणो व्यथा, तस्या भागः प्रत्यंशो जायते, तस्य सा, तेनैव तस्याः संवेद्यमानत्वात्। अतो न किंचित् प्रयोजनं प्रियैः कुशलपक्षविघातकारिभिः॥



परमार्थतो न कस्यचित् केनचित् संगतिरस्तीत्युपदर्शयन्नाह-

अध्वानं प्रतिपन्नस्य यथावासपरिग्रहः।

तथा भवाध्वगस्यापि जन्मावासपरिग्रहः॥३४॥



मार्गप्रस्थितस्य कांचिद्दिशं गन्तुमुद्यतस्य यथा अपरैरध्वगैः सह एकस्मिन्नावासे क्वचिन्मण्डपादौ वा आवासपरिग्रहो भवति, तथा संसारेऽपि कर्मायत्तगतेः संसरतो ज्ञातिसगोत्रसालोहितादिभिरेकस्मिन् जन्मनि आवासपरिग्रहो जायते। पुनरपि तत्परित्यज्य क्वचिदेकाकितया याति। न च तत्र केचित्सहायास्तमनुगच्छन्ति। अतो न केनचित् कस्यचिद्वास्तवी संगतिः संभवति। तस्मान्नानर्थसहस्रोपनेत्रीं स्वयमुपकल्प्य केनचित् संगतिं कुर्यात्॥



तदेवमभिधाय संगतिदोषम्, एकाकितायाः पुनरिमे गुणा इति वृत्तत्रितयेनोपदर्शयन्नाह-

चतुर्भिः पुरुषैर्यावत्स न निर्धार्यते ततः।

आशोच्यमानो लोकेन तावदेव वनं व्रजेत्॥३५॥



असंस्तवाविरोधाभ्यामेक एव शरीरकः।

पूर्वमेव मृतो लोके म्रियमाणो न शोचति॥३६॥



न चान्तिकचराः केचिच्छोचन्तः कुर्वते व्यथाम्।

बुद्धाद्यनुस्मृतिं चास्य विक्षिपन्ति न केचन॥३७॥



अवश्यमनिच्छन्नपि इदानीं जीवदवस्थायां मरणमुपगतो बलात्त्याजयितव्यो [गृहावासः। तस्मादेवं स्वयं जीवन्नेव त्यक्तुमर्हति। तत इति गृहात्।] आशोच्यमानः हा वत्सेत्यादिविलापवचनैः परिदेव्यमानः लोकेन बन्धुप्रभृतिना तावदेव ततः पूर्वमेव वनं व्रजेत्। कः पुनरत्र गुणविशेष इत्याह-असंस्तवेत्यादि। अनुनयप्रतिघाभावात् म्रियमाणो न शोचति, शोकोपजनितदुःखभागी न भवति। कुतः ? पूर्वमेव मृतो लोके। यदैव गृहान्निष्क्रान्तः, तदैव स्वजनबान्धवादौ लोकविषये। अयमपरो गुणस्तस्येत्याह-न चान्तिकचरा इत्यादि। अन्तिकचराः समीपवर्तिनो ज्ञातिसगोत्रादयस्तद्वियोगातुराः शोचन्तः शोकमुपजनयन्तः न च नैव कुर्वते व्यथाम्, आत्मनः कायमनसोः पीडाम्। यदि वा। तेषां शोकं पश्यतो म्रियमाणस्य मनस्तापम्। न केवलमयमेव गुणः, अपि तु बुद्धाद्यनुस्मृतिं आदिशब्दाद्धर्माद्यनुस्मृतिम्,तत्त्वालम्बनमनस्कारं वा। अस्येति जनसंपर्कविवेकचारिणो मरणसमये॥



तस्मादित्यादिना उपसंहरति-

तस्मादेकाकिता रम्या निरायासा शिवोदया।

सर्वविक्षेपशमनी सेवितव्या मया सदा॥३८॥



एकाकिता अनासङ्गविहारिता। रम्या सुखहेतुत्वात्। निरायासा दुःखविपक्षत्वात्। शिवोदया निःश्रेयसावाहकत्वात्। सर्वविक्षेपशमनी सर्वविक्षेपस्य कायवाङ्मानसिकस्य दुराचारस्य शमनी निवर्तनी समाधानहेतुत्वात्। सेवितव्या मया सदेति। अत्रैव अभिनिवेशेन आसङ्गः कार्य इत्यर्थः॥





तदेवं जनसंपर्कविवर्जनात् कायविवेकं प्रतिपाद्य चित्तविवेकं प्रतिपादयितुमाह-

सर्वान्यचिन्तानिर्मुक्तः स्वचित्तैकाग्रमानसः।

समाधानाय चित्तस्य प्रयतिष्ये दमाय च॥३९॥



सर्वा या अन्यचिन्ता असद्वितर्कस्वभावाः, ताभिर्निर्मुक्तः, तद्विरहितः। स्वचित्तैकाग्रमानसः स्वचित्तमेव एकमग्रं प्रधानं यस्मिन् मानसे मनसिकारे तत् तथोक्तम्, तादृशं मानसं यस्य स तथा। स्वचित्तं वा एकाग्रमेकायत्तं तत्प्रचारव्यवलोकनतत्परं नियतालम्बनप्रतिबद्धं वा मानसं यस्येति समासः। तथाभूतः समाधानाय चित्तस्य शमथाय प्रयतिष्ये, तत्परायणो भविष्यामि। तदेकाग्रतायां नियोजयिष्यामीत्यर्थः। दमाय चेति पुनःपुनस्तत्रैवालम्बने नियोजनाय, बहिर्विक्षेपनिवारणाय वा॥



तत्र चित्तसमाधानस्य विपक्षत्वात् कामवितर्कं निवारयितुमाह-

कामा ह्यनर्थजनका इह लोके परत्र च।

इह बन्धवधोच्छेदैर्नरकादौ परत्र च॥४०॥



अप्रहीणभवसंयोजनैः कमनीयतया अध्यवसितत्वात् कामा रूपादयो विषया उच्यन्ते। हिशब्दो यस्मादर्थे। तस्मादुद्विज्य कामेभ्यः [८.८५] इति वक्ष्यमाणेन संबन्धः। ते च सेव्यमाना अनर्थजनका अ........



यदर्थं दूतदूतीनां कृताञ्जलिरनेकधा।

न च पापमकीर्तिर्वा यदर्थं गणिता पुरा॥४१॥



प्रक्षिप्तश्च भयेऽप्यात्मा द्रविणं च व्ययीकृतम्।

यान्येव च परिष्वज्य बभूवोत्तमनिर्वृतिः॥४२॥



तान्येवास्थीनि नान्यानि स्वाधीनान्यममानि च।

प्रकामं संपरिष्वज्य किं न गच्छसि निर्वृतिम्॥४३॥



उन्नाम्यमानं यत्नाद्यन्नीयमानमधो ह्रिया।

पुरा दृष्टमदृष्टं वा मुखं जालिकयावृतम्॥४४॥



तन्मुखं त्वत्परिक्लेशमसहद्भिरिवाधुना।

गृध्रैर्व्यक्तीकृतं पश्य किमिदानीं पलायसे॥४५॥



परचक्षुर्निपातेभ्योऽप्यासीद्यत्परिरक्षितम्।

तदद्य भक्षितं यावत् किमीर्ष्यालो न रक्षसि॥४६॥



मांसोच्छ्रयमिमं दृष्ट्वा गृध्रैरन्यैश्च भक्षितम्।

आहारः पूज्यतेऽन्येषां स्त्रक्चन्दनविभूषणैः॥४७॥



........रूपः। पूज्यते त्वया स्त्रगादिभिः। तैर्गृध्रैरन्यैश्च गोमायुप्रभृतिभिर्मांसोच्छ्रयं मांसपुञ्जमिमं भक्षितं बीभत्सं दृष्ट्वा किमीर्ष्यालो न रक्षसीति योजयितव्यम्। किमिदानीं पलायसे इति वा व्यवहितेन संबन्धः॥



ननु इदमपि प्रष्टव्यो भवानित्याह-

निश्चलादपि ते त्रासः कङ्कालादेवमीक्षितात्।



निश्चलादपि काष्ठलोष्ठसमानात् तव त्रासो जायते इति काक्का पृच्छति। कङ्कालात् अस्थिपञ्जरात्। एवमपि बीभत्सरूपात् ईक्षितात् दृष्टात् यदि वा एवं त्रासः। यद्दूरादपि दूरतरं पलायसे इति योजनीयम्। यदेवं चलतः कथं न त्रास इत्याह-

वेतालेनेव केनापि चाल्यमानाद्भयं न किम्॥४८॥



भूतग्रहेण चाल्यमानात् जीवतश्चलतः किं न भयं भवति ? तस्मादतिशयेन भयं युक्तमित्यर्थः॥



एवं तावज्जुगुप्सनीयतां प्रतिपाद्य पुनरन्यथा प्रतिपादयितुमाह-

एकस्मादशनादेषां लालामेध्यं च जायते।

तत्रामेध्यमनिष्टं ते लालापानं कथं प्रियम्॥४९॥



यो हि नाम मोहावृतविवेको रागविषमूर्च्छितचैतन्यः, तस्य अतिकमनीयतया कामिनीवदनमधुपानबुद्धया तन्मुखविगलल्लालापानाभिलाषिणः। पर्यनुयोगमाह-एकमेव कारणं द्वयोरप्याहारपानस्वभावात्। तत्र तयोर्मध्ये अमेध्यं पुरीषमप्रियं भवतः। लालायाः श्लेष्मणः पानं कथं प्रियम् ? केन प्रकारेण तत्राभिरतिर्नान्यत्र ? द्वयोरपि युक्तेति भावः॥



अथापि स्यात्-यद्यपि द्वयोरपि कारणमभिन्नम्, तथापि तस्मिन्नतिदुर्गन्धतया वैमुख्यम्, इतरस्मिंस्तु तदभावात्प्रीतिरिति। तदेतदपि न सम्यगभिधानमित्युपपादयन्नाह-

तूलगर्भैर्मृदुस्पर्शै रमन्ते नोपधानकैः।

दुर्गन्धं न स्रवन्तीति कामिनोऽमेध्यमोहिताः॥५०॥



कार्पासादितूलपरिपूरितैर्मसूरकादिभिरूपधानैः सुकुमारस्पर्शैः कामिनो न रमन्ते, न धृतिमधिवासयन्ति। कुतः ? दौर्गन्ध्यमशुचिनिष्यन्दं न मुञ्चन्तीति कृत्वा अशुचिपरिपूरिते स्त्रीकलेवरे एव रमन्ते। एतदपि कुतः ? कामिनः कामसुखाभिलाषिणः अमेध्यमोहिता यतः। हेतुपदमेतत्। अमेध्यविषये अमेध्येन वा मोहिताः। अशुचौ शुचिविपर्यासात् तत्रैव अतिशयवतीमभिरतिमनुभवन्ति॥



स्यादेतत्-यदि नाम अशुचित्वममेध्ये स्त्रीकलेवरे च साधारणम्, तथापि तदेकत्र विवृतमन्यत्र प्रच्छादितम्। अतस्तदन्यपरिहारेण अस्मिन्नभिष्वङ्गः इत्यत्राह-

यत्र च्छन्नेऽप्ययं रागस्तदच्छन्नं किमप्रियम्।

न चेत्प्रयोजनं तेन कस्माच्छन्नं विमृद्यते॥५१॥



यस्मिन्नमेध्यस्वभावे प्रच्छादितरूपे। अदृष्टेऽपीति यावत्। एतादृशोऽभिष्वङ्गः, तदच्छन्नं दृश्यतां गतमतिशयेन प्रीतिकरमुपजायते इत्युचितम्। तत् किमिति तथाभूतमप्रियं भवतः ? अथ तथाभूते सर्वथा वैमुख्यमेव ते नाच्छन्नेन किंचित् प्रयोजनं तवास्ति। यद्येवम्, तर्हि कस्माद्धेतोः छन्नं विशेषेण मृद्यते, तदन्यपरिहारेण तस्यैव घटनाय यत्नः क्रियते ?



अपि च। इदमपि प्रष्टव्यस्त्वम्-किं भवानशुचिविरागो न वेति। अत्र प्रथमं विकल्पमधिकृत्याह-

यदि ते नाशुचौ रागः कस्मादालिङ्गसेऽपरम्।



यदि भवतः अशुचौ न रागः, न सर्वथा आसङ्गोऽस्ति, तर्हि कस्मादालिङ्गसे अपर मन्यम् ? किं तदित्याह-

मांसकर्दमसंलिप्तं स्नायुबद्धास्थिपञ्जरम्॥५२॥



मांसमेव कर्दम इव लेपनसाधर्म्यात्, तेन लिप्तमुपदिग्धम्। किमेवंभूतमिति चेत्, स्नायुबद्धास्थिपञ्जरम्, स्नाय्वाबद्धं सङ्गीकृतम्, आयत्तीकृतम् अस्थिपञ्जरम् अस्थिसंकलम्। अन्यथा खण्डशो विशकलितं स्यात्, इति विरागविषयतामस्य दर्शयति॥ अथ शुचौ राग इति द्वितीयो विकल्पः स्वीक्रियते, तत्राह-स्वमेवेत्यादि। अथवा। अन्यथावतार्यतेयदुक्तं परेण-छन्ने चर्मादिना रागो भवति नाच्छन्ने। तत्राह-यदीत्यादि। यदि तेन हेतुना चर्मादिना पिहितत्वादिति कृत्वा अशुचौ रागो भवति भवतः, तदा कस्मादालिङ्गसे परमन्यदीयं पञ्जरम्। अन्यत् पूर्ववत्॥



किं तर्हि समुचितमत्रेत्याह-

स्वमेव बह्वमेध्यं ते तेनैव धृतिमाचर।

अमेध्यभस्रामपरां गूथघस्मर विस्मर॥५३॥



स्वमेव आत्मनैव बहुतरमशुचिलालासिङ्घाणमस्तलुङ्गमूत्रपुरीषादि तवास्ति, तेनैवाशुचिना संतोषं कुरुष्व। ततोऽप्यमेघ्यभस्त्रां पुरीषप्रसेविकाम् अपरामन्यां स्त्रीशरीरस्वभावाम्। गूथघस्मर पुरीषभक्षणशील विस्मर, तत्र मनसिकारं मा कार्षीः॥



मांसप्रियोऽहमित्यादिना पुनरन्यथा परिहारमाह-

मांसप्रियोऽहमस्येति द्रष्टुं स्प्रष्टुं च वाञ्छसि।

अचेतनं स्वभावेन मांसं त्वं कथमिच्छसि॥५४॥



मांसं प्रियं यस्य। एषोऽहं मांसप्रियः। अस्य अस्थिपञ्जरस्य। यदि वा। मांसस्य प्रियो मांसप्रियोऽहमस्येति पूर्ववत्। मांसप्रियोऽहमस्य प्रिय इति यावत्। सापेक्षत्वेऽपि समासो गमकत्वात्। इत्येवं तत्प्रलोभात् प्रत्युपकारधिया वा द्रष्टुं स्प्रष्टुं च वाञ्छसि, दर्शनं स्पर्शनं च अभिलषसि। अत्राह-अचेतनं चैतन्यशून्यं मृत्पिण्डप्रायम्। स्वभावेन प्रकृत्या। न तु पुनर्यथापरे वर्णयन्ति-चैतन्ययोगादचेतनमपि चेतनमभिधीयते। तादृशं मांसं त्वमचेतनस्वभावं कामुकः सन् कथमिच्छसि ? तद्दृष्टौ च मृत्पिण्डेऽपि स्यात्। तथा च सति भवानपि न चेतनः स्यात्॥



अस्ति तत्र चित्स्वभावं चित्तम्, तेन तदिच्छामीति चेदाह-

यदिच्छसि न तच्चित्तं द्रष्टुं स्प्रष्टुं च शक्यते।

यच्च शक्यं न तद्वेत्ति किं तदालिङ्गसे मुधा॥५५॥



यच्चित्तं चित्स्वभावमिच्छसि, तदरूपित्वात् द्रष्टुं न शक्यते। यच्च मांसादिस्वभावं कलेवरं द्रष्टुं स्प्रष्टुं च शक्यते, न तद्वेत्ति, न जानाति, अचेतनत्वात्। अतः किमिति तदचेतनमालिङ्गसे आश्लिष्यसि ? मुधेति निष्फलम्। नैव आलिङ्गितुमुचितमिति भावः। अन्यथा लोष्ठाद्यालिङ्गनप्रसङ्गः॥



किं च। इदमप्यतिगर्हितमित्यादर्शयन्नाह-

नामेध्यमयमन्यस्य कायं वेत्सीत्यनद्भुतम्।

स्वामेध्यमयमेव त्वं तं नावैषीति विस्मयः॥५६॥



अन्यस्य कायं यदमेध्यमयं न वेत्सि, तन्न किंचिदाश्चर्यम्। युक्तमेव तदवेदनम्, परसंतानस्यात्मना व्यवहितत्वात्। इदं पुनरतिशयेनाश्चर्यस्थानम्, यत् स्वस्यात्मनोऽमेध्यमयं त्वं तं कायं नावैषि नावगच्छसि॥



इदानीं शास्त्रकारस्तं संवेजयन्नाह-

विघनार्कांशुविकचं मुक्त्वा तरुणपङ्कजम्।

अमेध्यशौण्डचित्तस्य का रतिर्गूथपञ्जरे॥५७॥



विघनार्काशुभिर्विकचं विकसितम्। तादृशं तरुणपङ्कजम्। अभिनवसरोरुहं हित्वा अमेध्याभिनिविष्टचित्तस्य का रतिर्गूथपञ्जरे। न युक्तेति भावः॥



पुनरन्यथा प्राह-

मृदाद्यमेध्यलिप्तत्वाद्यदि न स्प्रष्टुमिच्छसि।

यतस्तन्निर्गतं कायात्तं स्प्रष्टुं कथमिच्छसि॥५८॥



आदिशब्दाद्वस्त्रादि। अशुचिम्रक्षितत्वात्। यदि स्प्रष्टुं न वाञ्छसि। यतः कायात्तदमेध्यं निर्गतं निर्यातम्, तं कायं कथमिच्छसि स्प्रष्टुम् ?



अथापि स्यात्-नायमुपालम्भो मम युक्तरूपः, यतो न मे कश्चिदभिनिवेशोऽमेध्ये इत्यत्राह-

यदि ते नाशुचौ रागः कस्मादालिङ्गसे परम्।

अमेध्यक्षेत्रसंभूतं तद्बीजं तेन वर्धितम्॥५९॥



अमेध्यक्षेत्रं मातुर्जठरम्, अनेकाशुचिस्थानत्वात्, तत्र संभूतं समुत्पन्नं तद्बीजम्, तदेव अमेध्यं मातापितृशुक्रशोणितस्वभावं बीजं यस्य तत्तथोक्तम्। तेन वर्धितमिति तेन अमेध्येन मातृपीताशितस्य वान्तकल्पस्य रसेन वर्धितं गर्भस्थितमुपबृंहितम्। बहिर्निर्गतमपि स्वयमशितपीतपरिपाकाशुचिरसेन। कस्मादालिङ्गसे परमिति संबन्धः। परं स्त्रीकलेवरम्। इत्युपालम्भोऽस्त्येव भवतः॥



अथ अशुचिरागोऽहमिति पक्षस्वीकारः, तथापि उपालम्भस्तदवस्थ एवेत्याह-

अमेध्यभवमल्पत्वान्न वाञ्छस्यशुचिं कृमिम्।

बह्वमेध्यमयं कायममेध्यजमपीच्छसि॥६०॥



पुरीषाद्यशुचिसंभूतं कृमिं प्राणकजातं न वाञ्छसि। कायं पुनर्मातृग्रामस्य बहुतराशुचिस्वभावमशुचिसंभूतमपि पूर्वक्रमेण इच्छसि॥



अथापि स्यात्-किमत्रोत्तरं वक्तव्यम् ? यतोऽहमपि यादृशः, तादृशं तस्याः शरीरम्, तेन अशुचेर्नाशुचिसंपर्को दोषः, यादृशो यक्षस्तादृशो बलिरपीत्याह-

न केवलममेध्यत्वमात्मीयं न जुगुप्ससि।

अमेध्यभाण्डानपरान् गूथघस्मर वाञ्छसि॥६१॥



अयमिह महामोहस्य प्रभावः, यदात्मगतमेव तावदशुचिस्वभावं न विगर्हसि। प्रत्युत अपरानशुचिकुम्भानभिलषसि, इति धिक् परामर्शविकलता। गूथघस्मरेति तिरस्कारवचनेन तस्यैव संबोधनम्॥



इदानीं साक्षात्कृत्य अशुचिस्वभावतां प्रतिपादयन्नाह-

कर्पूरादिषु हृद्येषु शाल्यन्नव्यञ्जनेषु वा।

मुखक्षिप्तविसृष्टेषु भूमिरप्यशुचिर्मता॥६२॥



एवं शुचिपवित्रवस्तुन्यपि यदेकदेशनिष्यन्दसंपर्कादपवित्रस्वभावतां व्रजन्ति। आसतां तावत्तानि वस्तूनि, तत्संसर्गाद्भूमिरपि शुचिस्वभावा अशुचित्वं याति॥



यदि प्रत्यक्षमप्येतदमेध्यं नाधिमुच्यसे।

श्मशाने पतितान् घोरान् कायान् पश्यापरानपि॥६३॥



एवं तावदध्यक्षसिद्धोऽयं व्यवहारः, तथापि यदि नाधिमुच्यसे, न संप्रत्येषि। दृष्ट्वापि न श्रद्दधासि इत्यर्थः। तदा श्मशाने पूतिनिवासे कायान् पश्य। किंभूतान् ? घोरानिति। विखादितकविनीलकविपूयकादिस्वभावतया बीभत्सान् भयंकरान् वा अपरानिति अतोऽधिकान्॥



किं च। प्रकृत्या विकृत एवायं कायो नाभिरतिस्थानं युज्यते इत्युपदर्शयन्नाह-

चर्मण्युत्पाटिते यस्माद्भयमुत्पद्यते महत्।

कथं ज्ञात्वापि तत्रैव पुनरुत्पद्यते रतिः॥६४॥



उत्पाटिते वियोजिते। यस्मादिति कायात्। त्रासो जायते महान्-किमेतदिति। एवं तत्स्वभावं विदित्वापि कथं तस्मिन्नेव स्थाने भयस्थानत्वेन एकदा प्रतिपन्ने पुनरन्यदा जायते रतिरभिष्वङ्गः॥



स्यादेतत्-यदि नाम अशुचिस्वभावता कायस्य अध्यक्षसिद्धा, तथापि चन्दनादिसुरभिवस्तूपलिप्तोऽसौ कमनीयो भवति इत्यत्राह-

काये न्यस्तोऽप्यसौ गन्धश्चन्दनादेव नान्यतः।

अन्यदीयेन गन्धेन कस्मादन्यत्र रज्यसे॥६५॥



शरीरे निवेशितोऽप्यसौ गन्धः चन्दनादिप्रसूतः, यद्वशात्काये कमनीयबुद्धिरुपजायते। चन्दनादेव केवलात्। नान्यतः इति कायात्। अतः कस्मात् परकीयेन गन्धेन चन्दनसमुद्भूतेन अन्यत्र यस्यासौ गन्धो न भवति, अत्र अभिरतिः क्रियते ?



अपि च। चन्दनादिसंस्कारोऽपि केवलात्मोपघाताय वर्तते, न हितायेति प्रतिपादयन्नाह-

यदि स्वभावदौर्गन्ध्याद्रागो नात्र शिवं ननु।

किमनर्थरुचिर्लोकस्तं गन्धेनानुलिम्पति॥६६॥



स्वभावदौर्गन्ध्यात् सहजात्पूतिगन्धवहत्वात्। अत्रेति काये। यदि रागो नोत्पद्यते, तदा शिवं ननु कल्याणमेव स्यात्। एवं गुणसंभवेऽपि किं कारणमनर्थप्रियो लोकः तं कायं गन्धेनानुलिम्पति ? सर्वथा न युक्तमेतदित्यर्थः॥



न चास्य संस्कारसहस्रत्वेऽपि स्वभावान्यथात्वमस्तीत्याह-

कायस्यात्र किमायातं सुगन्धि यदि चन्दनम्।



कायस्य स्वभावदुर्गन्धस्य किमायातम्, किं भूतम् ? न किंचित्। सुगन्धि यदि चन्दनम्। शोभनो गन्धोऽस्येति बहुव्रीहिसमासान्तादिन्। तथापि तस्य न स्वभावप्रच्युतिरस्तीति भावः। अथ तद्वशात् तस्मिन् कमनीयतामुपादाय अभिरतिरुत्पद्यते इत्यत्राह-

अन्यदीयेन गन्धेन कस्मादन्यत्र रज्यते॥६७॥



एवं च न विचक्षणता स्यादित्यर्थः॥

केशादिसंस्कारद्वारेणापि अनर्थहेतुरेवायं काय इति श्लोकद्वयेनोपदर्शयन्नाह-

यदि केशनखैर्दीर्घैर्दन्तैः समलपाण्डुरैः।

मलपङ्कधरो नग्रः कायः प्रकृतिभीषणः॥६८॥



स किं संस्क्रियते यत्नादात्मघाताय शस्त्रवत्।

आत्मव्यामोहनोद्युक्तैरुन्मत्तैराकुला मही॥६९॥



दीर्घैः सहजावस्थितैः। अच्छिन्नैरित्यर्थः। दन्तैर्दशनैः समलपाण्डुरैः दन्तधावनक्रमुकादिभिरसंस्कृतैः। मलपङ्कधरः मल एव पङ्कः कर्दमः, तं धारयतीति तथा, स्नानाभ्यञ्जनादिविरहात्। नग्न इति वस्त्रविविक्तत्वात् यथाजात इवावस्थितः। तथाभूतः सन्। यदि कायः प्रकृत्या भीषणः प्रेतानामिव स्वभावेन भयंकरः। स एवंभूतः किमिति संस्क्रियते ? यत्नादिति केशनखादिरचनाविशेषैः, दन्तधावनताम्बूलादिभिः, स्नानाभ्यञ्जनानुलेपनादिभिः, वस्त्रादिभिर्वा। किमिव ? आत्मघाताय शस्त्रवत्। आत्मनो वधार्थं खङ्गादिर्यथा संस्क्रियते तद्वत्। इत्येषां मोहवशीकृतं विचेष्टितं परिदेवयन्नाह-आत्मेत्यादि। आत्मनैव संचिन्त्य आत्मनो व्यामोहमुत्पादयितुं यत्नवद्भिः उन्मत्तैरस्वस्थचित्तैः। एवं च विपरीतकर्मानुष्ठानान्नैते वराकाः सचेतस इति खेदं करोति शास्रकारः। न चात्र कश्चिदात्मज्ञो दृश्यत इति उन्मत्तैराकुला समाकीर्णा मही पृथिवीति॥



प्रासङ्गिकं परिसमाप्य प्रकृतमनुबन्धन्नाह-

कङ्कालान् कतिचिदृष्ट्वा श्मशाने किल ते घृणा।

ग्रामश्मशाने रमसे चलत्कङ्कालसंकुले॥७०॥



शवानामस्थिपञ्जरान् कतिचित् प्रतिनियतान्। एतदुक्तं भवति-चर्मण्युत्पाटिते [८. ६४] इत्यादिकमुक्त्वा यदुक्तं कथं ज्ञात्वापीत्यादि, तत्र परस्योत्तरम्-न श्मशानगतकलेवरसादृश्यमस्य, येन तस्मिन्नेव अत्रापि रतिर्न स्यात्, किं तर्हि श्मशाने तस्य घृणास्थानत्वात्। नात्रेति अत्र अभिधेयकङ्कालानित्यादि। ग्रामश्मशाने। इति। नैवात्र कश्चिद्विशेषोऽस्ति। तदेव शरीरं श्मशाने घृणास्थानग्रामे वा अभिरतिस्थानमिति काक्वा ब्रूते। नैतद्विचक्षणधियां समायुक्तमिति भावः। चलत्कङ्कालसंकुले इत्यनेन एतद्दर्शयति-एतावांस्तु विशेषः। न च अनेन विशेषेणाशुचिस्वभावता घृणाहेतुर्निवर्तते, येन प्रवृत्तिरियं स्यादिति। संकुल इति समाकीर्णे॥



भवतु नाम ईदृशमशुचिस्वभावमपि सूकराणामिव अभिरतिस्थानम्। तथा च एवं विधमपि द्रविणविकलस्य नैतत् सुलभमित्युपदर्शयन्नाह-

एवं चामेध्यमप्येतद्विना मूल्यं न लभ्यते।

तदर्थमर्जनायासो नरकादिषु च व्यथा॥७१॥



विना मूल्यं द्रव्यमन्तरेण न लभ्यते न प्राप्यते। अतस्तदर्थिना प्रथमतो धनमेव अर्जनीयम्। तदर्जनेन आयासात् कृषिवाणिज्यसेवादिसमाश्रयेण परिश्रमादिहैव दुःखमुपजायते, अधर्मेण चोपार्जनान्नरकादिषु, इति उभयलोकेऽनर्थहेतुरेव तदर्जनम्। नापि तत्सुखप्राप्तिरस्ति॥



दुःखमेव तु केवलं तदर्जनेनेति प्रतिपादयन्नाह-

शिशोर्नार्जनसामर्थ्यं केनासौ यौवने सुखी।

यात्यर्जनेन तारुण्यं वृद्धः कामैः करोति किम्॥७२॥



बालावस्थावस्थितस्य न धनोपार्जनशक्तिरस्ति, बालत्वादेव। केन धनेन प्रकारेण वा असौ बालो यौवने युवावस्थायां सुखी स्यात् ? धनविकलत्वान्न क्वचिदित्यर्थः। यदपि कस्यचित् पितृपितामहोपार्जितधनेन यौवने सुखित्वं दृश्यते, तदपि प्रतिनियतस्यैव न सर्वस्य। न चापि पूर्वोक्तदुःखद्वयाद्विमुच्यतेऽसौ। अतो धनार्जनमुपादेयमादौ सुखसाधनोपायत्वात्। तदर्जयत एव गलितवयसो न कश्चिदुपयोगो विषयैरिति॥



अथापि स्यात्-तदर्जयतापि कामसुखमनुभूयत एव, इत्यत्राह-

केचिद्दिनान्तव्यापारैः परिश्रान्ताः कुकामिनः।

गृहमागत्य सायाह्ने शेरते स्म मृता इव॥७३॥



ये केचित् कुत्सितकामाक्षिप्तचेतसः काष्ठतृणपत्राद्याहरणभृतिकर्मक्रियालक्षणैर्दिनपर्यन्तव्यापारैः परिखिन्नकायमनसो निरुत्सुकाः, अस्तं गते सवितरि स्वगृहमागत्य गाढमिद्धाक्रान्तत्वात् मृतकल्पाः शेरते स्म स्वपन्ति। प्रभाते पुनरुत्थाय तत्रैव नीचकर्मणि युज्यन्ते। स्मशब्दोऽत्र वाक्यालंकारे अतीतार्थाविषयत्वात्। एवमायुःसंस्कारान् केचित् कुकामिनः क्षपयन्ति, न च कामसुखास्वादमुपलभन्ते।



परसेवकानधिकृत्याह-

दण्डयात्राभिरपरे प्रवासक्लेशदुःखिताः।

वत्सररैपि नेक्षन्ते पुत्रदारांस्तदर्थिनः॥७४॥



अपरे पूर्वकामिकेभ्योऽन्ये कुकामिनः सेवका इत्यर्थः। ते दण्डयात्रादिभिः, दण्डः परचक्रविजयाय यात्रा प्रयाणम्, परराष्ट्रद्रव्यग्रहणाय वा यात्रा, तदादिर्येषां देशान्तरप्रेषणादीनाम्, तैः प्रवासो देशान्तरगमनम्, तेन क्लेशः परिश्रमः, तेन दुःखिताः पीडिताः। सर्वदा तथाभूताः। वत्सरैरपि अनेकवर्षात्ययेऽपि पुत्रान् दारांश्च नेक्षन्ते न पश्यन्ति। तदर्थिन इति तैः पुत्रदारादिभिरर्थिनः तदभिलाषुकाः। तदर्थमेव परसेवादिस्वीकारादित्यर्थः॥



अहो बत अमीषां निष्फलमनुष्ठानमिति शोचयन्नाह-

यदर्थमेव विक्रीत आत्मा कामविमोहितैः।

तन्न प्राप्तं मुधैवायुर्नीतं तु परकर्मणा॥७५॥



यदर्थं सुखप्रतिलम्भनिमित्तं विक्रीतः परदासीकृतः आत्मा कामविडम्बितैः तन्न प्राप्तम्, तदिति सुखं न प्राप्तं न प्रतिलब्धम्। आयुःसंस्कारा एव हि केवलमनर्थकं परकर्मानुष्ठानेन क्षयमुपनीताः। न साधुकर्मणि क्वचिदपि योजिता इति भावः॥



सुखलिप्सया प्रवृत्तानां प्रत्युत दुःखमेवापतितमेषामित्युपदर्शयन्नाह-

विक्रीतस्वात्मभावानां सदा प्रेषणकारिणाम्।

प्रसूयन्ते स्त्रियोऽन्येषामटवीविटपादिषु॥७६॥



सुखबुभुक्षया विक्रीतः परायत्तीकृतः स्वात्मभाव स्वकायो यैस्ते तथा, तेषाम्। अन्येषां सेवकानामित्यर्थः। अत एव सदा प्रेषणकरणशीलानाम्। अन्येषामपरेषां प्रभुप्रयोजनेन गच्छताम्। मार्ग एव प्रसूयन्ते स्त्रियः। अटवीविटपादिषु। आदिशब्दात् पर्वतनितग्बनदीकूलादिषु कष्टस्थानेषु॥



अयमपरो विपर्यासस्तेषामिति प्रतिपादयन्नाह-

रणं जीवितसंदेहं विशन्ति किल जीवितुम्।

मानार्थं दासतां यान्ति मूढाः कामविडम्बिताः॥७७॥



विक्रीतस्वात्मभावाः संग्रामं चतुर्दन्तसंघट्टं प्रविशन्ति। किंभूतं जीवितसंदेहम् ? तत्र प्रविष्टस्य जीवितं स्याद्वा न वेति जीवितस्य संदेहोऽस्मिन्निति कृत्वा। जीवितुमिति जीवनार्थम्। अत्र प्रतिलब्धैर्लाभैर्जीविकां कल्पयिष्याम इति मत्वेत्यर्थः। मानार्थं दासतां यान्ति, बलवता केनचिदभिभूताः स्वमानोद्धरणार्थम्। अङ्गुलीच्छेदवेलाग्रहणस्वीकारात्। मूढा मोहान्धीकृतविवेकचक्षुषः। के ते ? कामबिडम्बिताः कामाय कामेन वा विडम्बितास्तिरस्कृताः॥



इहैव जन्मनि कामासक्तचेतसां यद्दुःखं दृश्यते तत्कथयन्नाह-

छिद्यन्ते कामिनः केचिदन्ये शूलसमर्पिताः।

दृश्यन्ते दह्यमानाश्च हन्यमानाश्च शक्तिभिः॥७८॥



परदारधनापहरणादेः॥ शेषः सुबोधः॥



किं च। अयं सुखसाधनत्वेन उपादीयमानोऽपि च अनर्थपरंपराप्रसूतिहेतुरेवार्थः इति कथयन्नाह-

अर्जनरक्षणनाशविषादै-

रर्थमनर्थमनन्तमवेहि।

व्यग्रतया धनसक्तमतीनां

नावसरो भवदुःखविमुक्तेः॥७९॥



अर्जनमनुत्पन्नस्योत्पादनं दुःखम्। उपार्जितस्यापि जलानलादिभ्यः पञ्चप्रत्यवायेभ्यः परिपालनं कष्टतरम्। तथा रक्षितस्यापि कथंचित् तस्करादिभिर्नाशाद्विषादो दौर्मनस्यं परितापहेतुरनर्थः। तदेवमनर्थपरंपरानिदानत्वात् कारणे कार्योपचारादर्थ एवानर्थ उक्तः। इत्येवमर्जनादिभिः सर्वदा व्याकुलत्वात् धनासक्तचेतसां क्षणमपि समाधानानवकाशत्वात् नावसरः संसाराशृ[श्रि ?]तजात्यादिदुःखनिर्मोक्षाय सदा तद्गतमनसिकारैरेव आयुःराणां क्षपणात्॥



सर्वमेतदुपसंहृत्य कामासङ्गपरित्यागाय संवेगकथया प्रोत्साहयति एवमित्यादिना-

एवमादीनवो भूयानल्पास्वादस्तु कामिनाम्।

शकटं वहतो यद्वत्पशोर्घासलवग्रहः॥८०॥



एवमित्युक्तप्रकारपरामर्शे। आदीनवोऽनर्थः। भूयाननेकप्रकारः। न चात्र सुखोत्पादवार्ताप्यस्ति। यदपि विपर्यासात् कथंचित् सुखमिति प्रतिभासते, तदपि न किंचित्। गुरुतरभाराक्रमणपरिक्लान्तवपुषः पशोरिव घासलवग्रासग्रहणम्॥



तस्यास्वादलवस्यार्थे यः पशोरप्यदुर्लभः।

हता दैवहतेनेयं क्षणसंपत्सुदुर्लभा॥८१॥



तस्यैवंभूतस्य अतितुच्छस्य सुखास्वादलेशस्य पशोरपि साधारणास्यार्थे तस्य निमित्तम्। इयं क्षणसंपत् अष्टाक्षणविनिर्मुक्ता हता विनाशिता। वृथा कृतेत्यर्थः। किंविशिष्टा सुदुर्लभा व्याख्याता। केन दैवहतेन। दैवं पुरातनं कर्म, तेन हता। हिताहितपरिज्ञाने विपर्यस्तमतिः कृतः। विमोहित इत्यर्थः। वस्तुतस्तु तिरस्कारवचनमेतत्। भागविहीन एवमुच्यते॥



अवश्यं गन्तुरित्यादिना श्लोकद्वयेन विपर्यासरूपतामेव प्रतिपादयति-

अवश्यं गन्तुरल्पस्य नरकादिप्रपातिनः।

कायस्यार्थे कृतो योऽयं सर्वकालं परिश्रमः॥८२॥



अवश्यं गन्तुरिति अनित्यतया अस्थिरस्वभावस्य। अल्पस्य लोकोत्तरकायमपेक्ष्य अतिदूरं निष्कृष्टस्य। नरकादिप्रपातिन इति अपरिमितदुःखभागिनः। स्वसुखोत्पादनेऽप्यसमर्थस्येत्यर्थः। कायस्य आत्मशरीरस्यार्थे सुखोत्पादनाय योऽयं नरकादिदुःखमविगणय्य कृतः सर्वकालं संसारस्य पूर्वस्यां कोटौ परिश्रमः प्रयासः॥



ततः कोटिशतेनापि श्रमभागेन बुद्धता।



ततस्तस्मात् परिश्रमात् कोटिशतेनापि परिश्रमभागेन अंशेन बुद्धत्वं स्यात्, तदपेक्षया अत्यल्पीयसा आयासबलेन बुद्धत्वं स्यात्। तथापि तदर्थं मन्दबुद्धयो नोत्सहन्त इत्यर्थः। अथ बोधिचर्यायामपि चरतः अनेकदुष्करशतसमारम्भादतिशयबद्दुःखसहस्रमुत्पद्यत एवेत्याह-

चर्यादुःखान्महद्दुःखं सा च बोधिर्न कामिनाम्॥८३॥



चर्यादुःखमपेक्ष्य इदमेव महद्दुःखं यत्कामार्थे चरतां संसारे तेषामवीच्यादिनरकपतनात्, पारतन्त्र्येण दीर्घकालमनुभवनाच्च। न तु बोधिसत्त्वानां प्रतिनियतकालं स्वेच्छया तदनुभवताम्। तदेवं दुःखमनुभवतामपि कामार्थे कामिनां सा च बोधिर्न भवति, या बोधिसत्त्वानां परार्थे दुःखमनुभवतामित्यर्थः॥



पुनर्विशेषेण कामनिदानदुःखं प्रतिपादयन्नाह-

न शस्त्रं न विषं नाग्निर्न प्रपातो न वैरिणः।

कामानामुपमां यान्ति नरकादिव्यथास्मृतेः॥८४॥



अमी शस्त्रादयो दुःखजनकत्वेन प्रसिद्धा न सादृश्यं भजन्ते प्रति कामानाम्। कस्मात् ? नरकादिदुर्गतिदुःखस्य आगमात् प्रतिपन्नस्य स्मरणात् स्मरणेनामुखीकरणात्। शस्त्रादयो हि नियतकालं मरणमात्रदुःखदायकाः, कामास्तु दीर्घकालिकतीव्रनरकादिदुःखहेतव इति कीदृशी तैरुपमा भवेत् ?



तदेवं कायविवेकानन्तरं चित्तविवेकं प्रतिपाद्य प्रकृते योजयितुमाह-

एवमुद्विज्य कामेभ्यो विवेके जनयेद्रतिम्।



कामेभ्यो भयहेतुभ्यः। एवमुक्तक्रमेण उद्विज्य संत्रासं कृत्वा पूर्वोक्तविवेके रतिमभिरतिमुत्पादयेत्। कुत्र स्थित्वा तत्राह-

कलहायासशून्यासु शान्तासु वनभूमिषु॥८५॥



प्रतिद्वन्द्विनामभावात् कलहायासशून्यास्ताः, व्यालमृगसरीसृपतस्करादिविरहाच्च रम्याः॥



तत्रानुशंसामाह-

धन्यैः शशाङ्ककरचन्दनशीतलेषु

रम्येषु हर्म्यविपुलेषु शिलातलेषु।

निःशब्दसौम्यवनमारुतवीज्यमानैः

चंक्रम्यते परहिताय विचिन्त्यते च॥८६॥



धन्यैः सुकृतिभिः। शशाङ्कस्य चन्द्रमसः करा रश्मय एव शुक्लताशैत्यसाधर्म्याच्चन्दनानीव, तैः शीतलानि यानि श्लातलानि तेषु चंक्रम्यत इति संबन्धः। किंविशिष्टेषु ? प्रकृत्यैव शुचिपवित्रेषु कर्कशादिदोषरहितेषु च। हर्म्यविपुलेषु धवलगृहवद्विस्तीर्णेषु। कीदृशैः सद्भिश्चंक्रम्यते ? निःशब्दैः प्रतिकूलशब्दविरहितैः। सौम्यैरनुत्कटैः। सुखसंस्पर्शैरित्यर्थः। वनमारुतैः वनपवनैः। वीज्यमानाः तैश्चंक्रम्यत इति परावृत्त्या पुनः पुनर्मन्दं भ्रम्यते। न केवलं चंक्रम्यते, किं तु परहिताय सत्त्वानां सुखोत्पादनाय विचिन्त्यते। सर्वमेतदयत्नसिद्धं योगिनाम्, कामिनां तु प्रयत्नसाध्यम्। तदनेन ऐश्वर्यसुखाद्विशिष्यते विवेकसुखमित्युपदर्शितं भवति॥



इदमपरमसाधारणं सुखं विवेकविहारिण इत्युपदर्शयन्नाह-

विहृत्य यत्र क्वचिदिष्टकालं

शून्यालये वृक्षतले गुहासु।

परिग्रहरक्षणखेदमुक्तः

चरत्यपेक्षाविरतो यथेष्टम्॥८७॥



सुबोधम्॥

स्वच्छन्दचारीत्यादिना कथितमेवार्थं व्यक्तीकरोति-

स्वच्छन्दचार्यनिलयः प्रतिबद्धो न कस्यचित्।

यत्संतोषसुखं भुङ्क्ते तदिन्द्रस्यापि दुर्लभम्॥८८॥



स्वस्यात्मनः छन्दोऽभिलाषः, तेन चरितुं शीलमस्येति। स्वेच्छाचारीत्यर्थः॥

इति विवेकगुणानभिधाय प्रकृतमभिधित्सुराह-

एवमादिभिराकारैर्विवेकगुणभावनात्।

उपशान्तवितर्कः सन् बोधिचित्तं तु भावयेत्॥८९॥



एवमिति पूर्वोक्तैः। आदिशब्दादन्यैरपि एवंविधैराकारैः। विवेकस्य कायिकचैतसिकस्य गुणानां भावनात्, इति हि सर्वसुखसंपत्तिहेतुर्विवेक इति चेतसि पुनः पुनरामुखीकरणाद्धेतोः उपशान्तो वितर्कः असन्मनसिकारो यस्य सः। तथाभूतः सन् बोधिचित्तं तु भावयेत्। एवं परिशुद्धे चेतसि भाव्यमानं बोधिचित्तं प्रकर्षपदमधिरोहतीति विशेषं तुशब्देन दर्शयति॥



तत्र यावदेकत्वं परेषु नात्मना क्रियते, न तावत् परहितसुखाय सम्यक् चित्तं चलति, आत्मग्राहस्य आत्मन्येव विशेषेण प्रवृत्तेः। अतोऽस्य निवृत्तये-

परात्मसमतामादौ भावयेदेवमादरात्।



आदौ प्रथमतः। पश्चात् परात्मपरिवर्तनमिति भावः। एवमिति वक्ष्यमाणनीत्या। आदरादिति महताभिनिवेशेन। तस्या एवाकारं दर्शयति-

समदुःखसुखाः सर्वे पालनीया मयात्मवत्॥९०॥



मत्तो नामीषां कश्चिद्विशेषोऽस्ति। अतो यथा मम दुःखं बाधकं तथा एषामपि। यथा मम सुखमनुग्राहकं तथा एषामपि। इति तुल्यदुःखसुखाः सर्वे प्राणिनो भवन्ति। तस्मात् पालनीया मयात्मवत्। यथा आत्मा दुःखाद्दुःखहेतोर्वा समुद्भियते, तथा अन्येपि सत्त्वाः समुद्धरणीयाः। यथा आत्मा सर्वथा सुखीकर्तुमिष्यते, तथा अन्येऽपीति परिपालनीया आत्मवत्॥



ननु कथमात्मना अनेकप्रकारगतिभेदभिन्नानां सत्त्वानामेकत्वं सेत्स्यति, अभिन्नसुखदुःखस्वभावत्वं च कथम् ? इत्यत्राह-

हस्तादिभेदेन बहुप्रकारः

कायो यथैकः परिपालनीयः।

तथा जगद्भिन्नमभिन्नदुःख-

सुखात्मकं सर्वमिदं तथैव॥९१॥



करचरणशिरःप्रभृतिभेदादनेकप्रकारः कायो यथिकत्वेनाध्यवसितः परिपालनीयो भवति दुःखनिवर्तनात् सुखोपधानाच्च, जगत्सत्त्वलोकः अभिन्नमेकत्वेनाध्यवसितमात्मनः परिपालनीयं भवति। अभिन्नदुःखसुखात्मकं च। लुप्तचकारो निर्देशः। तथैव हस्तादिभेदवदेव सर्वमिदमिति बहुप्रकारगतिभेदभिन्नमपि। अयमभिप्रायः-यथा अभ्यासादेकत्वाध्यवसायोऽस्मिन् काये एकत्वमन्तरेणापि, तथा अनेकप्रकारे जगत्यपीति न कश्चिद्विशेषः॥



स्यादेतत्-यदि भवता सह जगदेकस्वभावम्, तदा कथमिव भवतो दुःखमन्यसंतानेषु न बाधकं स्यात् ? एवं विपर्ययेऽपि योज्यमित्याशङ्कयाह-

यद्यप्यन्येषु देहेषु मद्दुःखं न प्रबाधते।

तथापि तद्दुःखमेव ममात्मस्नेहदुःसहम्॥९२॥



अन्येषु अपरेषु शरीरेषु मम दुःखं यदि नाम प्रबाधकं न भवति, तथापि तद्दुःखमेव मम। कुतः ? आत्मनि स्नेहेन दुःसहं सोढुमशक्यम्। हेतुपदमेतत्। अंशेन प्रवृत्तावपि दुःखस्वभावतां न मुञ्चतीत्यर्थः। एवं विपर्ययोऽपि व्याख्येयः॥

तथा यद्यप्यसंवेद्यमन्यद्दुःखं मयात्मना।

तथापि तस्य तद्दुःखमात्मस्नेहेन दुःसहम्॥९३॥



अतः स्वपरविशेषमपास्य दुःखस्वभावतैव निवर्तनहेतुः। अत आह-

मयान्यदुःखं हन्तव्यं दुःखत्वादात्मदुःखवत्।



यद्यद्दुःखं तत्तन्मया हन्तव्यम्, यथात्मदुःखम्। दुःखं चेदमन्यसत्त्वदुःखमिति स्वभावहेतुप्रयोगः। दुःखस्वभावतामात्रभाविनी हन्तव्यता। न च असिद्धता हेतोः, अविशेषेण दुःखस्वभावतायाः प्रसाधितत्वात्। न चाप्यनैकान्तिकता, आत्मदुःखस्यापि हन्तव्यता न स्यादविशेषादिति विपर्ययबाधकम्। विरुद्धताप्यत एव न स्यात्। तथायमपरः प्रयोगः-

अनुग्राह्या मयान्येऽपि सत्त्वत्वादात्मसत्त्ववत्॥९४॥



ये सत्त्वास्ते सर्वे मया अनुग्राह्याः, यथा आत्मसत्त्वः। सत्त्वाश्च अन्येऽपि प्राणिनः इति स्वभावहेतुरेव। सत्त्वात्मकतामात्रभाविनि अनुग्राह्यस्वभावता अत्र। अयमपि नासिद्धः, सत्त्वात्मकतायाः पक्षे प्रसिद्धत्वात्। आत्मनोऽनुग्राह्यताभावप्रसङ्गेन अनैकान्तिकोऽपि न स्यात्। पूर्ववन्न विरुद्धः॥



ननु अस्ति विशेषोऽन्यस्मादात्मनि सुखाभिनिवेशो नाम। तथा ततोऽयमनैकान्तिको हेतुरिति। अत्राह-

यदा मम परेषां च तुल्यमेव सुखं प्रियम्।

तदात्मनः को विशेषो येनात्रैव सुखोद्यम॥९५॥



तुल्यमेव सममेव सुखं प्रियमिष्टम्। तदात्मनः परस्मात् को विशेषः ? नैव कश्चित् येन तत्रैव आत्मन्येव सुखोत्पादनाय तात्पर्यं न परस्मिन्नित्यर्थः॥



प्रथमे हेतावनैकान्तिकतां परिहरन्नाह-

यदा मम परेषां च भयं दुःखं च न प्रियम्।

तदात्मनः को विशेषो यत्तं रक्षामि नेतरम्॥९६॥



भयमिति दुःखहेतुः। नेतरमिति नान्यम्॥

स्यादेतत्-यदि नाम दुःखात्मकता न विशिष्यते, तथापि यस्य दुःखेन बाधा स्यात्, स एव रक्षितुमुचितो नान्य इत्याह-

तद्दुःखेन न मे बाधेत्यतो यदि न रक्ष्यते।

नागामिकायदुःखान्मे बाधा तत्केन रक्ष्यते॥९७॥



तस्य परस्य दुःखेन मम बाधा पीडा नास्तीत्यतोऽस्मात् कारणाद् यदि न रक्ष्यतेऽन्यः, तदा अपरमिदं व्याहतं स्यात्। यतो नागामिनः कायस्य परलोकभाविनो नरकादिजातस्य दुःखात्मकस्य [दुःखान्मे] तस्योपात्तस्य कायस्य काचिद्बाधा संभवति, तस्य अन्यत्वात्। इति लोकोक्तौ, तस्मादर्थे वा। यत एवम्, तस्मात् केनाभिप्रायेण असौ रक्ष्यते ? काय इति प्रकृतत्वात् पापान्निवर्तनात् कुशले प्रवर्तनाच्च॥



अथापि स्यात्-अहमेक एव सर्वदा, तेनात्र भिन्नत्वं नास्ति शरीरयोः। नायं दोष इत्यत्राह-

अहमेव तदापीति मिथ्येयं परिकल्पना।



आत्मनो निराकरिष्यमाणत्वात् निरस्तत्वाच्च लेशतः तत्कोऽयमहंप्रत्ययस्य विषयो भविष्यति? तस्मादहंप्रत्ययविषयस्य कस्यचिदेकस्याभावान्मिथ्येयं परिकल्पना अध्यवसायः॥ अहमेव तदापीति। भवान्तरेऽपि। मायोपमपञ्चोपादानस्कन्धमात्रालम्बनत्वादस्य। इतीदमपि अध्यवसायवशादुच्यते, न तु पुनरस्य वस्तुतः किंचिदालम्बनमस्ति, विकल्पात्मकत्वात्॥



कुतः पुनरियं मिथ्याकल्पनेत्याह-

अन्य एव मृतो यस्मादन्य एव प्रजायते॥९८॥



यदा नात्मादिः कश्चिदेकः परलोकगामी संभवति, स्कन्धमात्रमेव केवलम्, तदा न खलु यदेव स्कन्धपञ्चकमिह विनश्यति, तदेव पुनरप्युत्पद्यते परलोके, अपि तु अपूर्वमेव पूर्वनिवृत्तौ तत्र इदंप्रत्ययताविशिष्टं क्लेशकर्माभिसंस्कृतमन्तराभवसंतत्या समुत्पद्यते। तस्मादनादिसंसारप्रवृत्तवितथविकल्पाभ्यासवासनावशादहंप्रत्ययो वितथ एव उपजायते॥



किं च। इदमपरं तत्र बाधकमित्याह-

यदि तस्यैव यद्दुःखं रक्ष्यं तस्यैव तन्मतम्।

पाददुःखं न हस्तस्य कस्मात्तत्तेन रक्ष्यते॥९९॥



आस्तां तावद् यदागामिकायदुःखरक्षार्थं न यतितव्यम्। इह एकस्मिन्नपि काये प्रत्यङ्गभेदाद्भिन्नं दुःखम्। ततो यदा अन्यद्दुःखमन्यस्य रक्षितुं न युज्यते, तदा कथं पादादौ प्रहारं पतन्तं दृष्ट्वा हस्तं प्रसार्य रक्ष्यते ? अन्यत्वाविशेषान्न युक्तमेतदित्यर्थः॥



अथ-

अयुक्तमपि चेदेतदहंकारात्प्रवर्तते

तदयुक्तं निवर्त्यं तत्स्वमन्यच्च यथाबलम्॥१००॥



अहंकारोऽस्मिन् काये अहमित्यात्मग्रहादात्मनोऽभावेऽपि। प्रवर्तते जायते पादादौ रक्षणमनसिकारः। नैतत् साधु। यतो यदयुक्तं युक्त्या संगतं न भवति, तन्निवर्त्यमपसार्यं स्वकीयं परकीयं च यथाबलं यथासामर्थ्यम्। शक्तिवैकल्यादेव तदुपेक्षितुमुचितमिति भावः॥



स्यादेतत्-यदि नाम आत्मादिर्नास्ति, तथापि संतानो नाम एकः संभवति, तथा बहूनां करचरणादीनां समुदायः शरीरमेकम्। तदेतद्द्वयं यथासंभवमिहलोके परलोके च आत्मदुःखापहरणादेर्नियामकं भविष्यति। ततोऽयमविशेषादित्यसिद्धो हेतुः, पूर्वश्च अनैकान्तिक इत्याशङ्कयाह-

संतानः समुदायश्च पङ्क्तिसेनादिवन्मृषा।

यस्य दुःखं स नास्त्यस्मात्कस्य तत्स्वं भविष्यति॥१०१॥



संतानो नाम न कश्चिदेकः परमार्थसन् संभवति। किं तर्हि कार्यकारणभाव-प्रवृत्तक्षणपरंपराप्रवाहरूप एवायम्, ततो व्यतिरिक्तस्यानुपलम्भात्। तस्मादेतेषामेव क्षणानामेकपदेन प्रतिपादनाय संकेतो कृतो बुद्धैर्व्यवहारार्थं संतान इति। इति प्रज्ञप्तिसन्नेव अयम्। तेन अत्राभिनिवेशो न कार्यः। अन्यथा आत्मना किमपराद्धं येनासौ न स्वीक्रियते। एवं समुदायोऽपि न समुदायिभ्यो वस्तुसन् एको विद्यते, तस्य तेभ्यः पृथगनुपलब्धेः ? तत्त्वान्यत्वविकल्पस्तु अस्य अवयविविचारेणैव गत इति नेह प्रतायते। ततश्च अयमपि संवृतिसन्नेव पूर्ववत्। अनयोर्यथासंख्यमुदाहरणमाह-पङ्क्तिसेनादिवदिति। पङ्किवत् संतानः, सेनादिवत् समुदायः। आदिशब्दान्मालावनादयो गृह्यन्ते। यथा अनेकेषां पिपीलिकादीनां पूर्वापरभावेन व्यवस्थितानां स्वरूपमन्तरेण पङ्क्तिर्नास्ति स्त्रक्सूत्रवदेकाः, यथा च हस्त्यश्वपदातिप्रभृतिभ्यो मिलितेभ्यो व्यतिरिक्ता नान्या सेना काचिदेका तत्रास्ति, तथा समुदायोऽपि। एतच्च अन्यत्र [९.७३] विस्तरेण विचारितमिति नेह विचार्यते। तस्माद्वस्तुसदालम्बनाभावान्मृषायं प्रत्ययः। अर्थो वा, विचारासहत्वात्। एवमात्मादेः स्वामिनः कस्यचिदभावाद् यस्य संबन्धि दुःखं स नास्ति। अतः कस्य तद्दुःखं स्वात्मीयं भविष्यति ? नैव कस्यचिदित्यर्थः। ननु यदि आत्मादिर्नास्ति, तदा कथमयं दृष्टान्तो भविष्यति आत्मवदिति आत्मसत्त्ववदिति च ? सत्यमेतत्। किं तु नेदं व्यसनितया साधनमभिधीयते, किं तर्हि परस्य आत्मग्रहाभिनिवेशनिवारणाय। तद्यदि परस्य निवृत्त एव आत्मग्रहाभिनिवेशः, तदा न किंचित् प्रयोजनमनुमानप्रयोगस्य। अथ न निवृत्तः, तदा तदभिप्रायेणैव स्वपरविभागं कृत्वा तत्प्रत्यायनार्थं साधनं दृष्टान्तश्चोच्यते, इति न दृष्टान्तस्यासिद्धिर्व्यवहारप्रवर्तनाय। किं च। इदमुपात्तपञ्चस्कन्धमात्रमभिसंधाय दृष्टान्ते दीयमाने न काचित् क्षतिः, अत्रैव आत्मशब्दस्य प्रवृत्तेरिति॥



इदानीं प्रकृतमुपसंहरन्नाह-

अस्वामिकानि दुःखानि सर्वाण्येवाविशेषतः।

दुःखत्वादेव वार्याणि नियमस्तत्र किंकृतः॥१०२॥



न विद्यन्ते स्वामिनो येषामुक्तक्रमेणेति विग्रहः। अममानि न कस्यचित्प्रतिबद्धानि इत्यर्थः। कुतः ? किं कानिचिदेव ? न। सर्वाण्येवाविशेषतः। न क्वचित् कस्यचित् स्वामित्वमस्ति, विशेषाभावात्। दुःखत्वादेव स्वपराविभागं कृत्वा वार्याणि निषेध्यानि भवन्ति। नान्यन्निमित्तमस्ति तत्र आत्मीयत्वादि। तेनायं नियमः किंकृतः, केन विशेषेण कृतः ? येन स्वकीयानि च वार्याणि न परकीयानीति। एवं दुःखत्वादिति हेतुरनैकान्तिको न भवतीति समर्थितम्॥



ननु यदि दुःखी नाम न कश्चित् संसारे संभवति, तर्हि दुःखमनिवार्यमेव स्यात्, कृपापात्रस्य दुःखिनः कस्यचिदभावादित्याशङ्कमान आह-

दुःखं कस्मान्निवार्यं चेत्सर्वेषामविवादतः।

वार्यं चेत्सर्वमप्येवं न चेदात्मापि सत्त्ववत्॥१०३॥



न वार्यमेव निरात्मकत्वादेव यदि मन्यसे, तदा न युक्तमेतत्। कुतः ? सर्वेषामविवादादविप्रतिपत्तेः। चार्वाकस्यापि स्वदुःखपरिहारेणैवेह प्रवृत्तेः। न च तेषामात्मनोऽभ्युपगमाददोषः, तत्स्वभावस्यानुपलब्धेः। न च अभ्युपगममात्रेण तस्य सत्ता प्रसिध्यति तत्साधकप्रमाणाभावात्, बाधकस्य च अनेकप्रकारस्याभिधानात्। एवं सति यदि वार्यं दुःखम्, तदा सर्वं वार्यम्, न चेत्सर्वं वार्यम्, तदात्मापि। उपात्तपञ्चस्कन्धस्वभावमपि दुःखं न वार्यम्, सर्व(त्त्व ?)वदविशेषादित्युपसंहारः॥



स्यादेतत्-करुणापरतन्त्रतया परदुःखदुःखिनः सर्वदुःखापहरणाय यत्नः। तद्वरं बहुदुःखनिदानं सैव प्रथमतो नोत्पादयितुं युज्यत इति परवचनावकाशं शङ्कमान आह-

कृपया बहु दुःखं चेत्कस्मादुत्पद्यते बलात्।



बलादिति प्रयत्नात्। अत्रोत्तरमाह-

जगद्दुःखं निरूप्येदं कृपादुःखं कथं बहु॥१०४॥



जगतो दुःखं नरकादिकृतमनेकप्रकारं समीक्ष्य इदं कृपाकृतं दुःखं कथं बहु ? नेदं बहु कृपादुःखमिति भावः॥



किं च। अपरमिदमत्रोत्तरमित्याह-

बहूनामेकदुःखेन यदि दुःखं विगच्छति।

उत्पाद्यमेव तद्दुःखं सदयेन परात्मनोः॥१०५॥



एकस्य पुरुषस्य दुःखेन बहूनां सत्त्वानां यदि दुःखं विगच्छति निवर्तते, तदा उत्पाद्यमेव जनयितव्यमेतत्तादृशं दुःखम्। सदयेन कृपात्मकेन परस्यात्मनश्च॥



उत्सूत्रतामस्य परिहरन्नाह-

अतः सुपुष्पचन्द्रेण जानतापि नृपापदम्।

आत्मदुःखं न निहतं बहूनां दुःखिनां व्ययात्॥१०६॥



यत एव उत्पाद्यमेव तद्दुःखं कृपालुना स्वपरात्मनोः अत एव सुपुष्पचन्द्रेण बोधिसत्त्वेन। नृपादापदं नृपस्य वा राज्ञ आपदम्। जानतापि बुध्यमानेनापि। आत्मदुःखं न निहतं न निवर्तितम्। उपेक्षितमिति यावत्। तथा राज्ञोऽपि परलोकदुःखम्। किमिति ? बहूनां दुःखिनां व्ययात्। दुःखस्येति प्रकृतं षष्ठयन्ततया संबध्यते। यदुक्तं सुपुष्पचन्द्रस्येतिवृत्तके [समाधि. ३५]-तथा हि-अतीतेऽध्वनि रत्नपद्मचन्द्रविशुद्धाभ्युद्गतराजो नाम तथागतोऽभूत्। स भगवान् बुद्धकृत्यं कृत्वा चिरतरकालमवस्थाय परिनिर्वृतः। तस्मिंश्च परिनिर्वृते शासनान्तर्धानसमये राजा शूरदत्तो नाम बभूव। तस्य रत्नावती नाम राजधानी। तस्मिन् काले दृष्टिविपन्नाः सत्त्वाः। तेषामनुकम्पार्थं बहवो बोधिसत्त्वा उत्पन्नाः प्रव्रजिताः। ते च ततो राष्ट्रजनपदेभ्यो निर्वासिताः समन्तभद्रं नाम अरण्यवनखण्डमुपसृत्य विहरन्ति स्म सार्धं सुपुष्पचन्द्रेण धर्मभाणकेन। अथ खलु सुपुष्पचन्द्रस्य बोधिसत्त्वस्य सत्त्वान् करुणायमानस्य रहोगतस्य चेतसि वितर्क उदपादि-यन्न्वहं जनपदराष्ट्रराजधानीर्गत्वा सत्त्वान् कुमार्गप्रपन्नान् कल्याणे वर्त्मनि प्रतिष्ठापयामि। स तमर्थं सब्रह्मचारिभ्यो निवेदयामास। तैर्निवार्यमाणोऽपि स्वयं च स्वापदं प्रतिपद्यमानः तस्य राज्ञोऽपि ततो वनखण्डान्निर्जगाम। स क्रमेण धर्मं देशयन् तस्य राज्ञो राजधानीमनुप्राप्तो बहून् सत्त्वान् राजपुत्रामात्यपुरोहितप्रभृतीन् प्रकारं विनीय सत्पथे व्यवस्थापयन् तेन राज्ञा दृष्टः। सहदर्शनेन प्रकुप्तः सर्व च जनकायं तदावर्जितं प्रतिपद्य ईर्ष्यादूषितहृदयः। तद्वधार्थं स्वपुत्रानाज्ञापयामास। तांश्च तद्वधविमुखान् प्रतिपद्य नन्दिकं वध्यघातकमाज्ञापयामास। तेन तदाज्ञामनुवर्तमानेन करचरणादिच्छेदक्रमेण अक्षीणि च संदंशिकेनोद्धृत्य जीविताद् व्यपरोपितः। अथ तस्य भिक्षो राजमार्गगतस्य जीविताद् व्यपरोपितस्य शरीरे अनेकान्यद्भुतानि बभूवुः। तानि प्रतिपद्य स राजा निश्चितं बोधिसत्त्व एवायं भिक्षुरिति परितापगतो बहुतरं परिदेवते स्म। इति सुपुष्पचन्द्रस्येतिवृत्तकं संक्षिप्य कथितम्। विस्तरेण पुनः समाधिराजसूत्रे [३५] निर्दिष्टमिति तत्रैव अवधार्यम्॥



न चापि कृपावतां परदुःखदुःखिनां महदपि दुःखं बाधकमिति प्रतिपादयन्नाह-

एवं भावितसंतानाः परदुःखसमप्रियाः।

अवीचिमवगाहन्ते हंसाः पद्मवनं यथा॥१०७॥



एवं परात्मसमतया भावितसंतानाः अनाभोगप्रवृत्तचित्तसंततयः। परदुःखेन समं तुल्यं प्रियं सुखहेतुर्येषां ते तथा। आत्मसुखमपि परदुःखेन दुःखमेव येषामित्यर्थः। ते अवीचिमवगाहन्ते परव्यसनसमुद्धरणाय तद्दुःखं सुखमेव मन्यमानाः। इदमेवाह-हंसाः पद्मवनं यथा। आवीचिकमपि दुःखं सुखमेव परार्थे येषां ते। केन दुःखहेतुना अन्येन दुःखिनो भविष्यन्ति ?



अपि च। सुखमपि तेषामसाधारणमेवोपजायते परसुखेन, इत्युपदर्शयन्नाह-

मुच्यमानेषु सत्त्वेषु ये ते प्रामोद्यसागराः।

तैरेव ननु पर्याप्तं मोक्षेणारसिकेन किम्॥१०८॥



दुःखबन्धनाद्विसंयुज्यमानेषु सत्त्वेषु सत्सु। ये ते इति। तेषामेव अनुभवसिद्धत्वादिदंतया कथयितुमशक्याः, अत एव प्रामोद्यसागराः संतुष्टिसमुद्राः कृपावतां संतानेषु प्रादुर्भवन्ति। तैरेव प्रामोद्यसागरैः पर्याप्तं तदन्यसुखवैमुख्यात् परिसमाप्तम्। *******



अतः परार्थं कृत्वापि न मदो न च विस्मयः।

न विपाकफलाकाङ्क्षा परार्थैकान्ततृष्णया॥१०९॥



तस्माद्यथान्तशोऽवर्णादात्मानं गोपयाम्यहम्।

रक्षाचित्तं दयाचित्तं करोम्येवं परेष्वपि॥११०॥



अभ्यासादन्यदीयेषु शुक्रशोणितबिन्दुषु।

भवत्यहमिति ज्ञानमसत्यपि हि वस्तुनि॥१११॥



तथा कायोऽन्यदीयोऽपि किमात्मेति न गृह्यते।

परत्वं तु स्वकायस्य स्थितमेव न दुष्करम्॥११२॥



ज्ञात्वा सदोषमात्मानं परानपि गुणोदधीन्।

आत्मभावपरित्यागं परादानं च भावयेत्॥११३॥



कायस्यावयवत्वेन यथाभीष्टाः करादयः।

जगतोऽवयवत्वेन तथा कस्मान्न देहिनः॥११४॥



यथात्मबुद्धिरभ्यासात्स्वकायेऽस्मिन्निरात्मके।

परेष्वपि तथात्मत्वं किमभ्यासान्न जायते॥११५॥



एवं परार्थं कृत्वापि न मदो न च विस्मयः।

आत्मानं भोजयित्वैव फलाशा न च जायते॥११६॥



तस्माद्यथार्तिशोकादेरात्मानं गोप्तुमिच्छसि।

रक्षाचित्तं दयाचित्तं जगत्यभ्यस्यतां तथा॥११७॥



अध्यतिष्ठदतो नाथः स्वनामाप्यवलोकितः।

पर्षच्छारद्यभयमप्यपनेतुं जनस्य हि॥११८॥



दुष्करान्न निवर्तेत यस्मादभ्यासशक्तितः।

यस्यैव श्रवणात्रासस्तेनैव न विना रतिः॥११९॥



आत्मानं चापरांश्चैव यः शीघ्रं त्रातुमिच्छति।

स चरेत्परमं गुह्यं परात्मपरिवर्तनम्॥१२०॥



यस्मिन्नात्मन्यतिस्नेहादल्पादपि भयाद्भयम्।

न द्विषेत्कस्तमात्मानं शत्रुवधो भयावहः॥१२१॥



यो मान्द्यक्षुत्पिपासादिप्रतीकारचिकीर्षया।

पक्षिमत्स्यमृगान् हन्ति परिपन्थं च तिष्ठति॥१२२॥



यो लाभसत्क्रियाहेतोः पितरावपि मारयेत्।

रत्नत्रयस्वमादद्याद्येनावीचीन्धनो भवेत्॥१२३॥



कः पण्डितस्तमात्मानमिच्छेद्रक्षेत्प्रपूजयेत्॥

न पश्येच्छत्रुवच्चैनं कश्चैनं प्रतिमानयेत्॥१२४॥



यदि दास्यामि किं भोक्ष्ये इत्यात्मार्थे पिशाचता।

यदि भोक्ष्ये किं ददामीति परार्थे देवराजता॥१२५॥



आत्मार्थं पीडयित्वान्यं नरकादिषु पच्यते।

आत्मानं पीडयित्वा तु परार्थं सर्वसंपदः॥१२६॥



दुर्गतिर्नीचता मौर्ख्यं ययैवात्मोन्नतीच्छया।

तामेवान्यत्र संक्राम्य सुगतिः सत्कृतिर्मतिः॥१२७॥



आत्मार्थं परमाज्ञप्य दासत्वाद्यनुभूयते।

परार्थं त्वेनमाज्ञप्य स्वामित्वाद्यनुभूयते॥१२८॥



ये केचिद्दुःखिता लोके सर्वे ते स्वसुखेच्छया।

ये केचित्सुखिता लोके सर्वे तेऽन्यसुखेच्छया॥१२९॥



बहुना वा किमुक्तेन दृश्यतामिदमन्तरम्।

स्वार्थार्थिनश्च बालस्य मुनेश्चान्यार्थकारिणः॥१३०॥



न नाम साध्यं बुद्धत्वं संसारेऽपि कुतः सुखम्।

स्वसुखस्यान्यदुःखेन परिवर्तमकुर्वतः॥१३१॥



आस्तां तावत्परो लोके दृष्टोऽप्यर्थो न सिध्यति।

भृत्यस्याकुर्वतः कर्म स्वामिनोऽददतो भृतिम्॥१३२॥



त्यक्त्वान्योन्यसुखोत्पादं दृष्टादृष्टसुखोत्सवम्।

अन्योन्यदुःखानाद् घोरं दुःखं गृह्णन्ति मोहिताः॥१३३॥



उपद्रवा ये च भवन्ति लोके

यावन्ति दुःखानि भयानि चैव।

सर्वाणि तान्यात्मपरिग्रहेण

तत्किं ममानेन परिग्रहेण॥१३४॥



आत्मानमपरित्यज्य दुःखं त्यक्तुं न शक्यते।

यथाग्निमपरित्यज्य दाहं त्यक्तुं न शक्यते॥१३५॥



तस्मात्स्वदुःखशान्त्यर्थं परदुःखशमाय च।

ददाम्यन्येभ्य आत्मानं परान् गृह्णामि चात्मवत्॥१३६॥



अन्यसंबद्धमस्मीति निश्चयं कुरु हे मनः।

सर्वसत्त्वार्थमुत्सृज्य नान्यच्चिन्त्यं त्वयाधुना॥१३७॥



न युक्तं स्वार्थदृष्ट्यादि तदीयैश्चक्षुरादिभिः।

न युक्तं स्यन्दितुं स्वार्थमन्यदीयैः करादिभिः॥१३८॥



तेन सत्त्वपरो भूत्वा कायेऽस्मिन् यद्यदीक्षसे।

तत्तदेवापहत्यास्मात् परेभ्यो हितमाचर॥१३९॥



हीनादिष्वात्मतां कृत्वा परत्वमपि चात्मनि।

भावयेर्ष्यां च मानं च निर्विकल्पेन चेतसा॥१४०॥



एष सत्क्रियते नाहं लाभी नाहमयं यथा।

स्तूयतेऽहमहं निन्द्यो दुःखितोऽहमयं सुखी॥१४१॥



अहं करोमि कर्माणि तिष्ठत्येष तु सुस्थितः।

अयं किल महांल्लोके नीचोऽहं किल निर्गुणः॥१४२॥



किं निर्गुणेन कर्तव्यं सर्वस्यात्मा गुणान्वितः।

सन्ति ते येष्वहं नीचः सन्ति ते येष्वहं वरः॥१४३॥



शीलदृष्टिविपत्त्यादिक्लेशशक्त्या न मद्वशात्।

चिकित्स्योऽहं यथाशक्ति पीडाप्यङ्गीकृता मया॥१४४॥



अथाहमचिकित्स्योऽस्य कस्मान्मामवमन्यसे।

किं ममैतद्गुणैः कृत्यमात्मा तु गुणवानयम्॥१४५॥



दुर्गतिव्यालबक्त्रस्थेनैवास्य करुणा जने।

अपरं गुणमानेन पण्डितान् विजिगीषते॥१४६॥



सममात्मानमालोक्य यतः स्वाधिक्यवृद्धये।

कलहेनापि संसाध्यं लाभसत्कारमात्मनः॥१४७॥



अपि सर्वत्र मे लोके भवेयुः प्रकटा गुणाः।

अपि नाम गुणा येऽस्य न श्रोष्यन्त्यपि केचन॥१४८॥



छाद्येरन्नपि मे दोषाः स्यान्मे पूजास्य नो भवेत्।

सुलब्धा अद्य मे लाभाः पूजितोऽहमयं न तु॥१४९॥



पश्यामो मुदितास्तावच्चिरादेनं खलीकृतम्।

हास्यं जनस्य सर्वस्य निन्द्यमानमितस्ततः॥१५०॥



अस्यापि हि वराकस्य स्पर्धा किल मया सह।

किमस्य श्रुतमेतावत् प्रज्ञा रूपं कुलं धनम्॥१५१॥



एवमात्मगुणान् श्रुत्वा कीर्त्यमानानितस्ततः।

संजातपुलको हृष्टः परिभोक्ष्ये सुखोत्सवम्॥१५२॥



यद्यप्यस्य भवेल्लाभो ग्राह्योऽस्माभिरसौ बलात्।

दत्वास्मै यापनामात्रमस्मत्कर्म करोति चेत्॥१५३॥



सुखाच्च च्यावनीयोऽयं योज्योऽस्मद्वयथया सदा।

अनेन शतशः सर्वे संसारव्यथिता वयम्॥१५४॥



अप्रमेया गताः कल्पाः स्वार्थं जिज्ञासतस्तव।

श्रमेण महतानेन दुःखमेव त्वयार्जितम्॥१५५॥



मद्विज्ञप्त्या तथात्रापि प्रवर्तस्वाविचारतः।

द्रक्ष्यस्येतद्गुणान् पश्चाद्भूतं हि वचनं मुनेः॥१५६॥



अभविष्यदिदं कर्म कृतं पूर्वं यदि त्वया।

बौद्धं संपत्सुखं मुक्त्वा नाभविष्यदियं दशा॥१५७॥



तस्माद्यथान्यदीयेषु शुक्रशोणितबिन्दुषु।

चकर्थ त्वमहंकारं तथान्येष्वपि भावय॥१५८॥



अन्यदीयश्चरो भूत्वा कायेऽस्मिन् यद्यदीक्षसे।

तत्तदेवापहृत्यर्थं परेभ्यो हितमाचर॥१५९॥



अयं सुस्थः परो दुःस्थो नीचैरन्योऽयमुच्चकैः।

परः करोत्ययं नेति कुरुष्वेर्ष्यां त्वमात्मनि॥१६०॥



सुखाच्च च्यावयात्मानं परदुःखे नियोजय।

कदायं किं करोतीति छल(फल)मस्य निरूपय॥१६१॥



अन्येनापि कृतं दोषं पातयास्यैव मस्तके।

अल्पमप्यस्य दोषं च प्रकाशय महामुनेः॥१६२॥



अन्याधिकयशोवादैर्यशोऽस्य मलिनीकुरु।

निकृष्टदासवच्चैनं सत्त्वकार्येषु वाहय॥१६३॥



नागन्तुकगुणांशेन स्तुत्यो दोषमयो ह्ययम्।

यथा कश्चिन्न जानीयाद्गुणमस्य तथा कुरु॥१६४॥



संक्षेपाद्यद्यदात्मार्थे परेष्वपकृतं त्वया।

तत्तदात्मनि सत्त्वार्थे व्यसनं विनिपातय॥१६५॥



नैवोत्साहोऽस्य दातव्यो येनायं मुखरो भवेत्।

स्थाप्यो नववधूवृत्तौ ह्रीतो भीतोऽथ संवृतः॥१६६॥



एवं कुरुष्व तिष्ठैवं न कर्तव्यमिदं त्वया।

एवमेव वशः कार्यो निग्राह्यस्तदतिक्रमे॥१६७॥



अथैवमुच्यमानेऽपि चित्त नेदं करिष्यसि।

त्वामेव निग्रहीष्यामि सर्वदोषास्त्वदाश्रिताः॥१६८॥



क्व यास्यसि मया दृष्टः सर्वदर्पान्निहन्मि ते।

अन्योऽसौ पूर्वकः कालस्त्वया यत्रास्मि नाशितः॥१६९॥



अद्याप्यस्ति मम स्वार्थ इत्याशां त्यज सांप्रतम्।

त्वं विक्रीतो मयान्येषु बहुखेदमचिन्तयन्॥१७०॥



त्वां सत्त्वेषु न दास्यामि यदि नाम प्रमोदतः।

त्वं मां नरकपालेषु प्रदास्यसि न संशयः॥१७१॥



एवं चानेकधा दत्वा त्वयाहं व्यथितश्चिरम्।

निहन्मि स्वार्थचेटं त्वां तानि वैराण्यनुस्मरन्॥१७२॥



न कर्तव्यात्मनि प्रीतिर्यद्यात्मप्रीतिरस्ति ते।

यद्यात्मा रक्षितव्योऽयं रक्षितव्यो न युज्यते॥१७३॥



यथा यथास्य कायस्य क्रियते परिपालनम्।

सुकुमारतरो भूत्वा पतत्येव तथा तथा॥१७४॥



अस्यैवं पतितस्यापि सर्वापीयं वसुंधरा।

नालं पूरयितुं वाञ्छां तत्कोऽस्येच्छां करिष्यति॥१७५॥



अशक्यमिच्छतः क्लेश आशाभङ्गश्च जायते।

निराशो यस्तु सर्वत्र तस्य संपदजीर्णिका॥१७६॥



तस्मान्न प्रसरो देयः कायस्येच्छाभिवृद्धये।

भद्रकं नाम तद्वस्तु यदिष्टत्वान्न गृह्यते॥१७७॥



भस्मनिष्ठावसानेयं निश्चेष्टान्येन चाल्यते।

अशुचिप्रतिमा घोरा कस्मादत्र ममाग्रहः॥१७८॥



किं ममानेन यन्त्रेण जीविना वा मृतेन वा।

लोष्टादेः को विशेषोऽस्य हाहंकारं न नश्यसि॥१७९॥



शरीरपक्षपातेन वृथा दुःखमुपार्ज्यते।

किमस्य काष्ठतुल्यस्य द्वेषेणानुनयेन वा॥१८०॥



मया वा पालितस्यैवं गृध्राद्यैर्भक्षितस्य वा।

न च स्नेहो न च द्वेषस्तत्र स्नेहं करोमि किम्॥१८१॥



रोषो यस्य खलीकारात्तोषो यस्य च पूजया।

स एव चेन्न जानाति श्रमः कस्य कृतेन मे॥१८२॥



इमं ये कायमिच्छन्ति तेऽपि मे सुहृदः किल।

सर्वे स्वकायमिच्छन्ति तेऽपि कस्मान्न मे प्रियाः॥१८३॥



तस्मान्मयानपेक्षेण कायस्त्यक्तो जगद्धिते।

अतोऽयं बहुदोषोऽपि धार्यते कर्मभाण्डवत्॥१८४॥



तेनालं लोकचरितैः पण्डिताननुयाम्यहम्।

अप्रमादकथां स्मृत्वा स्त्यानमिद्धं निवारयन्॥१८५॥



तस्मादावरणं हन्तुं समाधानं करोम्यहम्।

विमार्गाच्चित्तमाकृष्य स्वालम्बननिरन्तरम्॥१८६॥



बोधिचर्यावतारे ध्यानपारमिता नाम अष्टमः परिच्छेदः।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project