Digital Sanskrit Buddhist Canon

७ वीर्यपारमिता नाम सप्तमः परिच्छेदः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version 7 vīryapāramitā nāma saptamaḥ paricchedaḥ
७ वीर्यपारमिता नाम सप्तमः परिच्छेदः।



तदेवं विपक्षप्रतिषेधेन त्रिधा क्षान्तिं प्रतिपाद्य वीर्यं प्रतिपादयितुमाह-



एवं क्षमो भजेद्वीर्यं वीर्ये बोधिर्यतः स्थिता।

न हि वीर्यं विना पुण्यं यथा वायुं विनागतिः॥१॥



एवमुक्तक्रमेण क्षमायुक्तः क्षमः स्वयमभ्यस्तक्षान्तिः। भजेद्वीर्यं वीर्यमारभेत। अन्यथा दुःखासहिष्णुतया वीर्यस्य प्रस्रब्धिर्न स्यात्। कस्मात् पुनर्वीर्यमुपादीयत इत्याह। वीर्यं इत्यादि-यस्माद्वीर्ये बुद्धत्वमवस्थितम्। तद्धेतुकतया तदायत्तत्वाद्बुद्धत्वस्य। एतदपि कुतः ? यस्मान्न वीर्यमन्तरेण पुण्यं पुण्यसंभारोऽस्ति। उपलक्षणमेतत्। ज्ञानमपि द्रष्टव्यम्, वीर्यस्योभयहेतुत्वात्। तदनेन वीर्यात् पुण्यज्ञानसंभारौ, ताभ्यां च बुद्धत्वमित्युक्तं भवति॥



वीर्यस्वरूपापरिज्ञानात् पृच्छति-

किं वीर्यं कुशलोत्साहस्तद्विपक्षः क उच्यते।

आलस्यं कुत्सितासक्तिर्विषादात्मावमन्यना॥२॥



किमेतद्वीर्यं नाम ? अत्राह-कुशलोत्साहः। योऽयं कुशलकर्मणि दानादौ श्रुतादौ च समुद्यमः, तद्वीर्यमभिधीयते। अकुशले तु कौसीद्यमेव। विपक्षेणोपहतं वीर्यमनङ्गमेवाभिमतसिद्धये इति तद्विपक्षमपनयनाय दर्शयितुमाह-तद्विपक्ष इत्यादि। तस्य वीर्यस्य विरुद्धो विनाशाय पक्षो विपक्षः क उच्यते ? उत्तरमाह-आलस्यमित्यादि। आलस्यं कौसीद्यं कायमनसोरकर्मण्यता। कुत्सिते जुगुप्सनीये हास्यलास्यादौ आसङ्गः। विषादो विषण्णता। दुष्करे कर्मणि चित्तस्य विनिवृत्तिः। अनध्यवसानमित्यर्थः। तेन आत्मनोऽवमन्यना अवज्ञा। अयं तद्विपक्षः॥



तदालस्यनिषेधाय तत्कारणं तावदुपदर्शयितुमाह-

अव्यापारसुखास्वादनिद्रापाश्रयतृष्णया।

संसारदुःखानुद्वेगादालस्यमुपजायते॥३॥



संसारदुःखानुद्वेगादसंवेगात्, योऽयमव्यापारो निर्व्यापारता, तत्र तेन वा सुखास्वादः सुखाभिरामः। स च निद्रा च मिद्धाक्रमणम्। ताभ्यां मिद्धाक्रमणमपाश्रयतृष्णा अवष्टम्भनाभिलाषः, तया। आलस्यमुपजायते इति योजनीयम्। यदि वा। संसारदुःखानुद्वेगादव्यापारः, क्वचिदपि कुशलकर्मणि न प्रवृत्तिः, तस्मात् सुखास्वादः, ततो निद्रा, तस्याश्च अपाश्रयतृष्णा, तया॥



अतः संसारदुःखानुद्वेगनिवर्तनार्थमियमत्र संवेगभावना आमुखीकर्तव्येत्याह-

क्लेशवागुरिकाघ्रातः प्रविष्टो जन्मवागुराम्।

किमद्यापि न जानासि मृत्योर्वदनमागतः॥४॥



वागुरिका मत्स्यादिवधिका जालिका उच्यन्ते कैवर्तादयः (दिभिः ?)। क्लेशा एव वागुरिकाः , तैराघ्रात आयत्तीकृतः। कथमिति चेत्, प्रविष्टो जन्मवागुराम्, निकायसभागतोत्पत्तिरेव वागुरिका जालम्, तत् प्रविष्टः, तदन्तर्गत इत्यर्थः। इदमिह तदात्मसात्करणे कारणम्। अद्यापि एतां दशां प्राप्तोऽपि मृत्योर्मुखं प्रविष्टः सन् किमिति न वेत्सि ? जातश्चेन्मरणमवश्यंभावीत्यर्थः॥



इदमपरं संवेगकारणमाह-

स्वयूथ्यान्मार्यमाणांस्त्वं क्रमेणैव न पश्यसि।

तथापि निद्रां यास्येव चण्डालमहिषो यथा॥५॥



यूथं वर्गः, तत्र भवा यूथ्याः, यैः सह बाल्याद्यवस्थायां क्रीडितहसितादिना विचरितम्। तान् स्ववर्ग्यान्। चण्डालानामवश्यंमारणीयमहिषवत्। न पश्यसि ममापि इयमवस्थितिः स्यादिति॥



अवश्यमिह कियत्कालं परिलम्ब्य मृत्युरागमिष्यति। तेन तावत्कालं सुखानुभवनमेव मम युक्तमित्यत्राह-यदि नामैवम्, तथापि नावश्यंभाविनि मरणे विश्वासो युक्तः।



यमेनोद्वीक्ष्यमाणस्य बद्धमार्गस्य सर्वतः।

कथं ते रोचते भोक्तुं कथं निद्रा कथं रतिः॥६॥



इति वध्यपुरुषस्येव सर्वतो वध्यघातकैरधिष्ठितस्य वध्यभूमिं नीयमानस्य निःसरणमपश्यतः सुखासिकावलम्बनमनुचितमेव भवतः। तस्मात् संवेगतो भावनया अनया हेतुनिवर्तनादालस्यमपास्य कुशलपक्षोत्साहवर्धनमनुष्ठेयम्॥



अथापि स्यात्-यदि नाम अवश्यंभाविता मृत्योः, तथापि तत्संनिधानमवगम्य आलस्यमपहास्यामि इत्याशङ्कयाह-

यावत्संभृतसंभारं मरणं शीघ्रमेष्यति।

संत्यज्यापि तदालस्यमकाले किं करिष्यसि॥७॥



संभृतः सज्जीकृतः संभारः सामग्री वधाय व्याधिजरालक्षणो येन। यावदिति लोकोक्तम्। शीघ्रं त्वरितमनभिसंधानात्। तदा मृत्युमुखान्तर्गतः असमये आलस्यं त्यक्त्वापि किं करिष्यसि ? न तदा किंचित् प्रयोजनमिति भावः॥



अकालतामेवास्य समर्थयितुं वृत्तत्रयेणाह-

इदं न प्राप्तमारब्धमिदमर्धकृतं स्थितम्।

अकस्मान्मृत्युरायातो हा हतोऽस्मीति चिन्तयन्॥८॥



शोकवेगसमुच्छूनसाश्रुरक्तेक्षणाननान्।

बन्धून्निराशान् संपश्यन् यमदूतमुखानि च॥९॥



स्वपापस्मृतिसंतप्तः शृण्वन्नादांश्च नारकान्।

त्रासोच्चारविलिप्ताङ्गो विह्वलः किं करिष्यसि॥१०॥



इदं यदनागते कर्तव्यतया मनसिकृतं तन्न प्राप्तम्। इदमारब्धं यत्कार्यमादित एव कर्तुमिष्टम्। इदमर्धकृतं स्थितम्, यत् कियन्निष्पन्नं कियदनिष्पन्नम्। इति कार्यपर्यन्तमगतस्यैव अकस्मान्मृत्युरागतो मम। अहो बत अतिकष्टम्, हतोऽस्मीति विचिन्तयन् विह्वलः किं करिष्यसीत्यनागतेन संबन्धः। शोकः प्रियविप्रयोगकृतश्चित्तपरितापः। तस्य वेगोऽनिवार्यप्रवृत्तिः। तेन समुच्छूनानि समुन्नतानि साश्रूणि सबाष्पाणि रक्तानि ताम्रवर्णानि लोचनानि येषु आननेषु तानि तथा। तथाभूतानि आननानि मुखानि येषां बन्धूनां ते तथा। तान् संपश्यन् विलोकयन्। तत्राकर्मकाधिकारात् परस्मैपदं दृशः। किंभूतान्? निराशान्। क्व ? प्रत्युज्जीवनं प्रति त्यक्ताशान्, तत्सानाथ्यविकलान् वा। मरणसमयोपस्थितकृतान्तानुचरमुखानि च सरोषपरुषभृकुटीनि संपश्यन् विह्वलः किं करिष्यसि ? स्वयंकृतपापकर्मस्मरणेन मरणसमये किमित्येवं मया कृतमिति पश्चात्तापेन तापितः। नैतावन्मात्रमेव, किं तु शृण्वन्नादांश्च नारकान् तीव्रकारणानुभवनदुखनिर्मुक्तान् विक्रोशितशब्दान् नरकसमुद्भूतान् अर्थान्तरकोपाणामेव (?)। तच्छ्रुत्वा ममाप्येवमेवावस्था इति संत्रासेन यः पुरीषोत्सर्गो विट्प्रवृत्तिः, तेनोपलिप्तगात्रः। विह्वलः अनायत्तकायवाक्‍चित्तप्रचारः। किं करिष्यसि सर्वक्रियासु निवृत्तव्यापारः॥



इति मत्वा स्वस्थावस्थायामेव यतितव्यम् इति शिक्षयितुमाह-

जीवमत्स्य इवास्मीति युक्तं भयमिहैव ते।

किं पुनः कृतपापस्य तीव्रान्नरकदुःखतः॥११॥



जीवन्त एव मत्स्याः क्रमेण भक्षणार्थं प्रायः प्राग्दिङनिवासिभिरेव जनै रक्ष्यन्ते। जीवनोपलक्षिता मत्स्या जीवमत्स्या इति तेषामेव समयः। शाकपार्थिवादित्वान्मध्यमपदलोपी समासः। तद्वदहमपि अद्य श्वो वा नियतमेव मरिष्यामि इति मनसि कृत्वा युक्तं भयमिहैव ते। इहैव संप्रजानदवस्थायामेव तवासंप्राप्तमरणस्य मरणतः, किं पुनः कृतपापस्य भवतो भयं युक्तं न भवति, इत्यपि आहार्यम्। अतिदुःसहान्नरकदुःखतः॥



निर्व्यापारसुखास्वादाभिरतमधिकृत्याह-

स्पृष्ट उष्णोदकेनापि सुकुमार प्रतप्यसे।

कृत्वा च नारकं कर्म किमेवं स्वस्थमास्यते॥१२॥



तप्तवारिणापि संस्पृष्टः। सुकुमारेति संबोधनम्। अतिमृदुशरीरतया सोढुमशक्तोऽसि। यद्येवम्, तदा कृत्वा चेत्यादि सुबोधम्॥



अपरमपि तं प्रत्याह-

निरुद्यम फलाकाङ्क्षिन् सुकुमार बहुव्यथ।

मृत्युग्रस्तोऽमराकार हा दुःखित विहन्यसे॥१३॥



सुखहेतूत्पादनाय व्यापारशून्योऽसि। अथ च तस्य फलं सुखमभिलषसि। दुःखासहिष्णुरसि, अथ च बहुव्यथोऽसि सर्वदुःखाकरत्वात्। मृत्युना च वशीकृतोऽसि, अथ च अमरणधर्माणमात्मानं मन्यसे। एवं च विपर्यस्तं चरितमस्य विपश्यन् करुणायमानः सखेदमेनमाह-हा दुःखित विहन्यसे। संमोहबहुलतया कष्टां दशां प्रविष्टोऽसि। आत्मगतमेव वा विमृशति। एवमन्यत्रापि यथासंभवं द्रष्टव्यम्। निरुद्यमादीनि चामन्त्रितपदानि॥



निद्रापरतन्त्रं प्रत्याह-

मानुष्यं नावमासाद्य तर दुःखमहानदीम्।

मूढ कालो न निद्राया इयं नौर्दुर्लभा पुनः॥१४॥



अष्टाक्षणविनिर्मुक्तं मनुष्यभावप्रतिलम्भं नावमिव अभ्युदयादिपारगमनाय प्राप्य तर प्लवस्व दुःखमयीं महानदीम्। सर्वदुःखानि पृष्ठीकुरुष्व। वीर्यावलम्बनेनेति यावत्। हे मोहपरवश, नायं कालो निद्रायाः, यावदियं नौः संनिहिता। यदि नेदानीमेव यत्नः क्रियते, तदा पुनरियं दुर्गतिगतस्य नौर्दुर्लभा भविष्यति। यदुक्तम्-



पुनरप्येष समगमः कुतः। इति॥

[बोधि. १.४]



एवमालस्यं निवार्य कुत्सितासक्तिं निवारयन्नाह-

मुक्त्वा धर्मरतिं श्रेष्ठामनन्तरतिसंततिम्।

रतिरौद्धत्यहास्यादौ दुःखहेतौ कथं तव॥१५॥



शुभकर्मणां रतिं श्रेष्ठामुत्तमाम्। किंभूताम् ? अनन्तरतिसंततिम्। सुगतिपरंपरासंजननादनन्ता अपर्यवसाना रतिसंततिः सुखप्रवाहो यस्याः सा तथा। अत एव उत्तमे त्युक्तम्। तामपहाय रतिरभिरामः, औद्धत्यमुन्नतता। कायचित्तयोः क्रीडनशीलतेति यावत्। हासो वागौद्धत्यम्। सरभसस्य वाग्विकार इति यावत्। आदिशब्दाद्गीतादिपरिग्रहः। तत्र कथं रतिस्तव ? न युक्तेत्यभिप्रायः। किंभूते ? दुःखहेतौ। नरकादिदुर्गत्युपनयनाद्दुःखस्य हेतुर्भवति॥



एवं कुत्सितासक्तिमपि निराकृत्य विषादात्मावमन्यनां वीर्यविपक्षं निराकर्तुम्, अपरमपि च तद्विपक्षनिरसनाय प्रतिपादयन्नाह-

अविषादबलव्यूहतात्पर्यात्मविधेयता।

परात्मसमता चैव परात्मपरिवर्तनम्॥१६॥



विषादविपरीतोऽविषादः। बलानां व्यूहः समूहो वक्ष्यमाणलक्षणः। तात्पर्यं निपुणता। आत्मविधेयता आत्मवशवर्तिता। एताः सर्वाः कृतद्वन्द्वसमासाः। यदि वा। एभिः सहिता आत्मविधेयता। परात्मसमतापरात्मपरिवर्तने ध्यानपरिच्छेदे [बोधि.८] वक्ष्यमाणे। इदमपि समस्तं कौसीद्यप्रहाणाय वीर्यसमृद्धये प्रभवतीत्युद्देशः॥



उद्दिष्टमेवार्थं क्रमेण निर्दिशन्नाह-

नैवावसादः कर्तव्यः कुतो मे बोधिरित्यतः।



कुतो मे बोधिरिति, कथमहं वराकः सम्यक्संबोधिभाजनम् ? बुद्धत्वं हि तीक्ष्णेन्द्रियस्य आरब्धवीर्यस्य अपरिमितपुण्यज्ञानसंभारैः अतिदुष्करकर्मानुष्ठानैः अनेकैश्च कल्पासंख्येयैः कस्यचित् पुरुषविशेषस्य साध्यं भवति। अहं तु न तादृश इति कथं मद्विधानां तथाविधं बुद्धत्वं संभाव्येत, इत्येवमाकारमनसिकारादवसादो विषादो न कर्तव्यः, महार्थभ्रंशस्य हेतुत्वात्। यथोक्तम्-अवसादोऽप्यनर्थ इति [शि. स. ३४]॥ कस्मात्?

यस्मात्तथागतः सत्यं सत्यवादीदमुक्तवान्॥१७॥



यस्मात् तथागतः इदं वक्ष्यमाणं सत्यमवितथमुक्तवान् कथितवान्। कथं ज्ञायते इत्याह-सत्यवादीति। ज्ञानक्रियासंभवादविपरीतवादी। अतः सत्याभिधानहेतुपदमेतत्॥



किं तत्सत्यमुक्तवान्?

तेऽप्यासन् दंशमशका मक्षिकाः कृमयस्तथा।

यैरुत्साहवशात् प्राप्ता दुरापा बोधिरुत्तमा॥१८॥



इत्याह। तेऽपि बुद्धा भगवन्तः पुर्वं शाक्यमुनिरत्नशिखिदीपंकरप्रभृतयः संसारसागरावर्तान्तर्गताः पृथग्जनावस्थायां परिभ्रमन्त एवंभूता एवासन् बभूवुः, यैरुत्साहबलात् वीर्योत्कर्षसामर्थ्यात् संभारान् संभृत्य प्राप्ता अधिगता दुरापा दुर्लभप्रतिलम्भा बोधिरुत्तमा अनुत्तरा। आरब्धवीर्यस्य न किंचिद्दुष्करमिति भावः। इदं तत् सत्यम्॥



अतो मम पुनरतितरां न दुर्लभा बोधिरित्याह-

किमुताहं नरो जात्या शक्तो ज्ञातुं हिताहितम्।

सर्वज्ञनीत्यनुत्सर्गाद्बोधिं किं नाप्नुयामहम्॥१९॥



किं पुनरहं मनुष्यभूतो जन्मना। शक्तो ज्ञातुं हिताहितमिति। इदं हितमिदमहितम्, शुभमशुभं च कर्मेत्युपदिष्टम्, ज्ञातुमवबोद्धुं समर्थोऽस्मि, इति विचिन्त्य सर्वज्ञस्य सर्ववस्तुतत्त्ववेदिनः नीतिर्नयः उपादेयतत्त्वप्रतिपादनम्। तस्य अनुत्सर्गादपरित्यागात्। तस्य आदानोपादानसेवनादित्यर्थः। बुद्धत्वं नाप्नुयामहम्। काक्वा पठनाद् आप्नुयामेवेति। एतद्भगवता रत्नमेघे दर्शितम्। यथोक्तम्-



इह बोधिसत्त्वो नैवं चित्तमुत्पादयति-दुष्प्राप्या बोधिर्मनुष्यभूतेन सता। इदं च मे वीर्यं परीत्तं च हीनं च। कुसीदोऽहम्। बोधिश्च आदीप्तशिरश्चैलोपमेन बहून् कल्पान् बहूनि कल्पशतानि बहूनि कल्पसहस्राणि समुदाचरता समुदानेतव्या। तन्नाहमुत्सहे ईदृशं भारमुद्वोढुम्। किं तर्हि बोधिसत्त्वेनैवं चित्तमुत्पादयितव्यम्-येऽपि तेऽभिसंबुद्धास्तथागता अर्हन्तः सम्यक्संबुद्धाः, येऽपि वा अभिसंभोत्स्यन्ते, तेऽपि ईदृशेनैव नयेन, ईदृश्या प्रतिपदा, ईदृशेनैव वीर्येणाभिसंबुद्धाः, यावन्न च ते तथागतभूता एवाभिसंबुद्धाः। अहमपि तथा तथा घटिष्ये, तथा तथा व्यायंस्ये सर्वसत्त्वसाधारणेन वीर्येण सर्वसत्त्वारम्बणेन वीर्येण यथाहमप्यनुत्तरां सम्यक्संबोधिमभिसंभोत्स्ये इति॥



युक्तमेवैतत्, केवलमतिदुष्करकर्मश्रवणादनध्यवसायो विनिवर्तयितुमशक्य इति विकल्पयन्नाह-

अथापि हस्तपादादि दातव्यमिति मे भयम्।



करचरणशिरः प्रभृतिदानमन्तरेण बुद्धत्वं न प्राप्यते, इति अतिदुष्करकर्मसु प्रवृत्तिभयादुत्साहो निवर्तत एव। इति चेन्मन्यसे स्वचित्तमेवमाह-

गुरुलाघवमूढत्वं तन्मे स्यादविचारतः॥२०॥



तदेतद् गुरुलाघवमूढत्वमेव मे। अल्पे बहुतरं बहुतरे चाल्पतरमिति मोहवशेन अविचारतोऽविवेकान्मम स्यात्, न तु परमार्थविचारतः॥



परमार्थविचारेण गुरुलाघवविपर्यास एवायमित्युपदर्शयन्नाह-

छेत्तव्यश्चास्मि भेत्तव्यो दाह्यः पाट्योऽप्यनेकशः।

कल्पकोटीरसंख्येया न च बोधिर्भविष्यति॥२१॥



संसारचारके निवसंस्तथाविधकर्मवशाच्छेत्तव्यश्चास्मि करचरणाद्यङ्गप्रत्यङ्गच्छेदनान्नरकादिषु। तथा भेत्तव्योऽस्मि शक्तिकुन्तादिभिः। दाह्यो नरकदहनादिना। पाट्यो ज्वलितक्रकचादिना। अनेकशः अनेकवारान्। नरकादिषु कारणामनुभवन् अपर्यन्तपथि संसारे। कल्पानां कोटीरसंख्येयाः संख्यातुमशक्याः इति। अकामस्यापि दुःखमपर्यन्तमनेकप्रकारमापतिष्यति, न च बुद्धत्वसंभाराय तत् संपत्स्यते॥



इदं संसारापर्यन्ततया दुःखं बहुतरं निष्फलं च। बुद्धत्वप्रसाधकं पुनरल्पतरं सफलं चेत्युपदर्शयन्नाह-

इदं तु मे परिमितं दुःखं संबोधिसाधनम्।

नष्टशल्यव्यथापोहे तदुत्पादनदुःखवत्॥२२॥



यद् बुद्धत्वप्रसाधकं तदिदं दुःखं परिमितं मम प्रतिनियतकालभावितया, दुःख [प्रशमन]हेतुश्च। तत्तथाभूतं शल्यं तेन व्यथा, तस्या अपोहो निवृत्तिः। तन्निमित्तं तद्वयुदासाय। यावज्जीवं तत्कृतदुःखप्रहाणायेत्यर्थः। तस्य नष्टशल्यस्योत्पाटनं शरीरादुद्धरणम्। अपकर्षणमिति यावत्। तेन यद्दुःखं प्रतिनियतकालमल्पतरम्। दीर्घकालिकदुःखोपशमनिमित्तम्। तद्वत् सोढुमुचितमिदमपि दुःखम्॥



अतोऽपि समुचितमिदमित्याह-

सर्वेऽपि वैद्याः कुर्वन्ति क्रियादुःखैररोगताम्।

तस्माद्वहूनि दुःखानि हन्तुं सोढव्यमल्पकम्॥२३॥



सर्वेऽपि न केचिदेव। लङ्घनपाचनादिकृतैर्यथेष्टाहारविहारप्रतिषेधजनितैश्च क्रियादुःखैः रोगपीडितानामारोग्यं विदधाति। अन्यथा तत्कर्तुमशक्यम्। यत एवम्, तस्मादतिशयेन अल्पमल्पकं दुःखं सोढव्यम्। किमर्थम् ? बहूनि दुःखानि हन्तुम्। सर्वसत्त्वानामात्मनश्च दीर्घकालिकसर्वदुःखप्रशमनायेत्यर्थः। एवं तावत् स्वीकर्तुं युक्तं धीमतः॥



न चेदं युक्तमपि दुष्करं कर्म आदिकर्मिकस्य प्रथमनुज्ञातं भगवतेति दर्शयन्नाह-

क्रियामिमामप्युचितां वरवैद्यो न दत्तवान्।



क्रियामिमां समनन्तरप्रतिपादितां दुःखोत्पादनीम्। उचितामपि सेवनीयामपि। वरवैद्यो भगवान् सर्वथा सर्वाव्यधिचिकित्सकः। प्रथमं न दत्तवान्, न कर्तव्यतया प्रतिपादितवानादिकर्मिकस्य। कथं तर्हि रागादिव्याधीनपनयति ? आह-

मधुरेणोपचारेण चिकित्सति महातुरान्॥२४॥



सुकुमारतरेणोपचारेण उपक्रमेण। यथाक्षमं चिकित्साप्रणयनेनेत्यर्थः। चिकित्सति रोगमुक्तान् करोति। महातुरान् दीर्घरोगिणो रागादिमहाव्याधिग्रस्तान्॥



कः पुनरयं मधुरोपचार इत्याह-

आदौ शाकादिदानेऽपि नियोजयति नायकः।

तत्करोति क्रमात्पश्चाद्यत्स्वमांसान्यपि त्यजेत्॥२५॥



मात्सर्यमलापनयनार्थं सुखसुखेन संभारसंवर्धनार्थं च शक्यपरित्यागे शाकसक्तुपिण्डिकादिदानेन प्रथमतरं प्रवर्तयति नायको भगवान्। पुनस्तथोपायविशेषेण नियोजनं करोति। तदिति लोकोक्तौ वा। यद्यथा दाता मृदुदानाभ्यासक्रमेण अधिमात्राधिमात्रदानाभ्यासप्रकर्षमासादयन् पश्चादुत्तरकालमकृच्छ्रेणैव स्वमांसरुधिरादिकमपि प्रसन्न एव प्रयच्छेत्॥



कथं पुनरेतदेवमित्याशङ्कयाह-

यदा शाकेष्विव प्रज्ञा स्वमांसेऽप्युपजायते।

मांसास्थि त्यजतस्तस्य तदा किं नाम दुष्करम्॥२६॥



यस्मिन् काले दानाभ्यासात् परमप्रकर्षगमनात् सर्वथापगतमात्सर्यतया शाकेष्विव स्वमांसेऽपि निरासङ्गा बुद्धिरुपजायते, तदा स्वमांसादिदानेऽपि नाशक्यानुष्ठानबुद्धिरिति तस्मिन् काले किं नाम दुष्करम् ? नैव किंचिदित्यर्थः॥



अथापि स्यात्-अतिदीर्घकालं परार्थे संसरता तद्दुःखं कथमिव परिहर्तुं शक्यमित्यत्राह-

न दुःखी त्यक्तपापत्वात्पण्डितत्वान्न दुर्मनाः।

मिथ्याकल्पनया चित्ते पापात्काये यतो व्यथा॥२७॥



द्विविधमेव हि दुःखं बाधकमुपजायते कायिकं मानसिकं चेति। तदेतद् द्वयमपि बोधिसत्त्वस्य न संभवति। कायवचनमनोभिः सर्वावद्यविरतेः कायिकं दुःखमस्य न जायते। युक्त्यागमाभ्यामुभयनैरात्म्यस्य च निश्चयनान्मानसमपि कुतः ? यतो मिथ्याकल्पनया असद्विकल्पेन आत्मात्मीयग्रहप्रवृत्तेन भावाद्यभिनिवेशकृतेन वा चित्ते दुःखम्, पापात् प्राणातिपातादेः काये। एवं तावद्दुःखहेतुपरिहाराद्दुःखमस्य न जायते इति प्रतिपादितम्॥



इदानीं सुखमेव केवलमस्यास्तीति प्रतिपादयन्नाह-

पुण्येन कायः सुखितः पाण्डित्येन मनः सुखि।

तिष्ठन् परार्थं संसारे कृपालुः केन खिद्यते॥२८॥



सुखं जातमस्य कायस्येति सुखितः। सुखं विद्यतेऽस्य मनस इति सुखि। एवमुभयसुखसमन्वागतत्वात् कृपावान् परार्थं संसारे संसरन् केन दुःखेन खिद्यते, खेदं मन्यते ? यदि वा। केन खिद्यते ? खेदहेतोरभावान्न केनचिदिति भावः। तत् किमिदमकारणभीरुतया वैमुख्यमुपादीयते ?



स्यादेतत्-दीर्घकालमासेवितभावितबहुलीकृतेन महता पुण्यसंभारेण सम्यक्संबोधिरधिगम्यते। तद्वरं मुमुक्षूणां शीघ्रकालतया श्रावकयानमेवाश्रयणीयं स्यादित्याशङ्कयाह-

क्षपयन् पूर्वपापानि प्रतीच्छन् पुण्यसागरान्।

बोधिचित्तबलादेव श्रावकेभ्योऽपि शीघ्रगः॥२९॥



पूर्वकृतानि यानि पापानि तानि बोधिचित्तबलादेव क्षयीणि कुर्वन्। यथोक्तं प्राक्-

युगान्तकालानलवन्महान्ति

पापानि यन्निर्दहति क्षणेन।इति।

[बोधि. १.१४]

तथा बोधिचित्तबलादेव प्रतीच्छन् आददानः पुण्यसागरान्।

यदुक्तम्-

अविच्छिन्नाः पुण्यधाराः प्रवर्तन्ते नभःसमाः।इति।

[बोधि .१.१९]

एवंविधोपायबलजवेन महायानमारूढो बोधिसत्त्वः श्रावकेभ्योऽपि शीघ्रगः त्वरितगामी॥



एवं सुखात्सुखं गच्छन् को विषीदेत्सचेतनः।

बोधिचित्तरथं प्राप्य सर्वखेदश्रमापहम्॥३०॥



प्रतिपादितमेवार्थं पिण्डीकृत्य दर्शयति। एवमुक्तक्रमेण सर्वावद्यविरतेः पुराकृतपापक्षयाच्च स्वप्नेऽपि दुर्गतिगमनाभावात् तीव्राभिप्रायेण अनेकसुखेन अहर्निशमाकाशधातुव्यापिनः पुण्यसागरस्याभिवर्धनाच्च सुगतिपरंपरासन्मार्गावतरणबोधिचित्तं रथमिव आसाद्य। आरुह्येति यावत्। सर्वखेदैः परिक्लेशैः श्रम आयासः, तमपहन्तीति प्रतिपादितनयेन, सर्वखेदश्रमं वा अपहन्तीति तम्। सुखादेकस्मादपरमुत्तरोत्तरमधिकाधिकं सुखं देवमनुष्यसंपत्तिलक्षणं गच्छन् अनुप्राप्नुवन् को नाम प्रेक्षावान् विषादमापद्येत ?



तदेवमनेकविधविषादनिमित्तप्रतिषेधेन अविषादं प्रतिपाद्य बलव्यूहं प्रतिपादयितुमाह-

छन्दस्थामरतिमुक्तिबलं सत्त्वार्थसिद्धये।

छन्दं दुःखभयात्कुर्यादनुशंसांश्च भावयन्॥३१॥



इदमप्युद्देशवाक्यमेव। छन्द इह कुशलाभिलाषः। स्थाम आरब्धदृढता। रतिः सत्कर्मासक्तिः मुक्तिरसामर्थ्ये तावत्कालमुत्सर्गः। एतच्चतुरङ्गबलम्, अनेकावयवसमुदायात्मकत्वात्, हस्त्यादिबलवत्। सत्त्वार्थसिद्धये वीर्यहेतुत्वात्, अस्य वीर्यस्य च सर्वाभिमतसाधनत्वादिति भावः। तत्र छन्दबलस्य बहुकरत्वात्, छन्दमित्यादिना अस्योत्पत्तिनिमित्तमाह-दुःखभयादिति। अशुभकर्मणो दुःखं जायत इति त्रासाच्छन्दं कुर्यात्। अनुशंसांश्च भावयन्। अनुशंसाः फलद्वारेण गुणविशेषाः। ते च अर्थात् कुशलकर्मण एव। तान् भावयन्। शुभकर्मणोऽनेकप्रकारेण मधुरफलोत्पत्तिं पुनः पुनः संचिन्तयन्नित्यर्थः॥



सांप्रतं बलस्य व्यापारमुपदर्शयितुमाह-

एवं विपक्षमुन्मूल्य यतेतोत्साहवृद्धये।

छन्दमानरतित्यागतात्पर्यवशिताबलैः॥३२॥



एवमुक्तप्रबन्धेनेत्यादि। विपक्षमालस्यादि। उन्मूल्य प्रतिपक्षभावना विधिना अपसार्य। वीर्यप्रवर्धनाय यत्नं कुर्यात्। केनोपायेनेत्यादि(ह ?)-मानश्चित्तस्योन्नतिः। अयं स्थामबलस्योपबृंहणम्, स्थामबलमेव वा। तेषां बलैः सामर्थ्यैः। सामर्थ्यपर्यायोऽत्र बलशब्दः॥



तत्र तावच्छन्दोत्पादनाय प्रथममाह-

अप्रमेया मया दोषा हन्तव्याः स्वपरात्मनोः।

एकैकस्यापि दोषस्य यत्र कल्पार्णवैः क्षयः॥३३॥



तत्र दोषक्षयारम्भे लेशोऽपि मम नेक्ष्यते।

अप्रमेयव्यथाभाज्ये नोरः स्फुटति मे कथम्॥३४॥



गुणा मयार्जनीयाश्च बहवः स्वपरात्मनोः।

तत्रैकैकगुणाभ्यासो भवेत्कल्पार्णवैर्न वा॥३५॥



गुणलेशेऽपि नाभ्यासो मम जातः कदाचन।



सर्वसत्त्वानामुपकरणतया आत्मनश्च समस्तक्लेशप्रहाणाय निःशेषगुणोत्पादनाय च मया बोधिचित्तमुत्पादितम्। तच्च न शिथिलव्यापारसाध्यमित्यवगम्यापि यदि अनारब्धवीर्यतया मन्दसमारम्भ एव तिष्ठामि, तदा दुर्गतिविनिपातमन्तरेण नान्या गतिरस्ति ममेति विचिन्त्य संवेगमामुखीकुर्वन् छन्दमुत्पादयेदिति समुदायार्थः॥



अवयवार्थस्तु उच्यते-अप्रमेयाः प्रमातुमशक्याः। दोषाः कायवाक्‍चित्तसमाश्रिताः। हन्तव्याः प्रहन्तव्याः। स्वपरात्मनोः स्वात्मनः परात्मनश्च। एकैकस्यापीति। आस्तां तावद्वहूनाम्। यत्र येषु। मन्दवीर्येण कल्पार्णवैः अनेकैः कल्पशतसहस्रैः क्षयः प्रहाणं क्रियते। तत्र तेषु दोषक्षयारम्भे दोषप्रहाणोत्साहे। लेशोऽपि स्वल्पमात्रमपि मम नेक्ष्यते न दृश्यते। अतः अप्रमेयव्यथाभाज्ये अपरिमितदुःखभाजनस्य मम नोरः स्फुटति हृदयं विदीर्यते। कथं केन प्रकारेण। गुणा मयेत्यादि सुबोधम्। इति विचिन्त्य संवेगमुपदर्शयति-



वृथा नीतं मया जन्म कथंचिल्लब्धमद्भुतम्॥३६॥



वृथा विफलमेव मया जन्म अक्षणविनिर्मुक्तं नीतं प्रेरितम्। वृथीकृतमिति यावत्। कथंचिल्लब्धं महार्णवयुगच्छिद्रकूर्मग्रीवार्पणवत् सुचिरेण प्राप्तम्। अत एव आश्चर्यस्थानत्वादद्भुतम्॥



इतोऽपि विफलमित्याह-

न प्राप्तं भगवत्पूजामहोत्सवसुखं मया।

न कृता शासने कारा दरिद्राशा न पूरिता॥३७॥



भीतेभ्यो नाभयं दत्तमार्ता न सुखिनः कृताः।

दुःखाय केवलं मातुर्गतोऽस्मि गर्भशल्यताम्॥३८॥



तथागतानां सत्क्रियाभिर्महोत्सवमतिशयवदभिनन्दनम्। तेन सुखं सौमनस्यं न प्राप्तं नाधिगतं मया। नापि शासने प्रतिमास्तूपसद्धर्मादिसत्कारैः विहारारामशयनादिवस्तुप्रदानैश्च कारा पूजा कृता। नापि दरिद्राणां धनहीनानामाशा अभिलाषः सर्वोपकरणसंपत्तिसंपादनेन पूरिता। नापि भीतेभ्यः सपत्नादिभयसमाकुलितेभ्यो मा भैषीरित्यभयं दत्तम्। नापि कायमनोदुःखैरार्ताः पीडिताः तदपनीय सुखिनः कृताः। इति सर्वैः सत्पुरुषधर्मैर्विरहितत्वादाह। दुःखायेत्यादि सुबोधम्॥



कथं पुनरेतां धर्मदशां प्राप्तो भवानित्याह-

धर्मच्छन्दवियोगेन पौर्विकेण ममाधुना।

विपत्तिरीदृशी जाता को धर्मे छन्दमुत्सृजेत्॥३९॥



धर्माभिलाषस्याभावेन प्राक्तनजन्मोपचितेन मम अधुना अस्मिन् जन्मनि विपत्तिरीदृशी जाता। सर्वसामर्थ्यवैकल्यस्वभावा समनन्तरकथिता समुत्पन्ना। एवं ज्ञात्वा को धर्मे छन्दमुत्सृजेत् परित्यजेत् ? को नाम नोपाददीत विचक्षण इति भावः॥



किं पुनः कुशलार्थिनां छन्दोत्पादने यत्न इत्याशङ्कय यच्चोक्तं छन्दं दुःखभयात् कुर्यात् इत्यादि, तद्वयक्तीकर्तुं चाह-

कुशलानां च सर्वेषां छन्दं मूलं मुनिर्जगौ।

तस्यापि मूलं सततं विपाकफलभावना॥४०॥



न केवलं विपत्तिपरिहारार्थम्, शुक्लधर्मोपचयार्थमपि च्छन्दोत्पादने यतितव्यमिति चकारार्थः। सर्वेषामिति न केषांचिदेव। छन्दं मूलं कारणं भगवानुक्तवान्, न तु स्वयमुत्प्रेक्ष्य उच्यते इत्यर्थः। तस्यापि च्छन्दस्यापि मूलं सततं सर्वकालं विपाकफलभावना। शुभाशुभकर्मणो विपाकफलं परलोके इष्टानिष्टप्राप्तिलक्षणम्, तस्य भावना पुनःपुनरामुखीकरणम्॥



तत्र अशुभकर्मणो विपाकफलमुपदर्शयन्नाह-

दुःखानि दौर्मनस्यानि भयानि विविधानि च।

अभिलाषविघाताश्च जायन्ते पापकारिणाम्॥४१॥



यावन्ति कायिकमानसिकानि नरकादिगतौ दुःखानि विविधानि नानाप्रकाराणि जायन्ते भवन्ति सर्वाणि पापकारिणामेव। भयानि बधबन्धनताडनादिभ्यः। पर्येषमाणस्य लाभविघातेन अभिलाषविघाताश्च॥



सुकृतकर्मणो विपाकफलमाह-

मनोरथः शुभकृतां यत्र यत्रैव गच्छति।

तत्र तत्रैव तत्पुण्यैः फलार्घेणाभिपूज्यते॥४२॥



इष्टाशंसनविकल्पो मनोरथः, यस्य लोके मनोराज्यमिति प्रसिद्धिः शुभकृतां पुण्यकारिणाम्। यत्र यत्रैवेति वीप्सायां न क्वचिदेव। गच्छति प्रसरति। फलार्घेणेति। अभिवाञ्छितफलोपनामनमेव अर्घ इवार्घः पूजा॥



तेन पुनरशुभस्य फलमाह-

पापकारिसुखेच्छा तु यत्र यत्रैव गच्छति।

तत्र तत्रैव तत्पापैर्दुःखशस्त्रैर्विहन्यते॥४३॥



सुखेच्छा सुखाभिलाषः। तत्पापैरिति कर्तरि तृतीया। दुःखशस्त्रैरिति करणैः। दुःखान्येव शस्त्राणीव तदिच्छाविच्छेदहेतुत्वात्॥



पृथग्जनासाधारणशुभकर्मविपाकफलमसाधारणमाह-

विपुलसुगन्धिशीतलसरोरुहगर्भगता

मधुरजिनस्वराशनकृतोपचितद्युतयः।

मुनिकरबोधिताम्बुजविनिर्गतसद्वपुषः

सुगतसुता भवन्ति सुगतस्य पुरः कुशलैः॥४४॥



प्रतिलब्धमुदितादिभूमयो हि बोधिसत्त्वा अनिच्छन्तो मातृकुक्षौ नोत्पद्यन्ते, किं तर्हि सुखावत्यां विश्वदलकमलकोशेषु जायन्ते। तेषां सुखविभूतिमनेन कथयति-विपुलानि विस्तीर्णानि सुगन्धीनि मनोज्ञगन्धानि शीतलानि शीतसुखस्पर्शानि तानि च सरोरुहाणि पङ्कजानि चेति, तेषां गर्भाणि। सरोरुहगर्भाणां वा विशेषणान्येतानि। तेषु गताः संस्थिताः प्रज्ञोपायमहाकरुणानिर्यातपुण्यज्ञानकललसंवलितसंबोधिचित्ताः सुगतसुता भवन्ति कुशलैरिति संबन्धः। कथं पुनः पद्मगर्भेषु पुष्टिं लभन्त इत्याह-मधुरेत्यादि। मधुरैः सर्वस्वराङ्गोपेततया परमसौमनस्यकारिभिः संबद्धधर्मघोषाशनैराहारैः कृता उपचिता द्युतयो वपूंषि येषां ते तथा। कथं च ततो निर्यान्तीत्यत आह-मुनिकरेत्यादि। मुनिकरैः परिपाककालमवगम्य तथागतरश्मिभिर्बोधितानि विकासितानि च तान्यम्बुजानि चेति। ततो विनिर्गतानि निर्यातानि सन्ति लक्षणव्यञ्जनालंकृततया शोभनानि वपूंषि येषां ते तथा। तथाभूताः सन्तः सुगतसुता बोधिसत्त्वा भवन्ति जायन्ते। सुगतस्य पुरः सुखावत्याममिताभस्य भगवतोऽग्रतः। कुशलैरेकान्तशुक्लैः कर्मभिः। तदनेन मातृकुक्षौ समुत्पद्यमानानामेतद्विशेषणविपर्ययेण दुःखं वेदितव्यमित्युपदर्शितं भवति। तथा हि तत्र संकटे दुर्गन्धिनि जठरानलसंतप्ते च उत्पन्नस्य मातापित्रशुचिसंभूतस्य मातुः पीताशितैर्वान्तकल्पैः संवर्धमानस्य गर्भमलपङ्कनिमग्नस्य परिपाककाले कथंचित् कण्ठगतप्राणस्य यन्त्रनिष्पीडितस्येव ततो निर्गमनमिति प्रायेण मनुष्यभूतस्य व्यतिमिश्रकर्मविपाकफलमुक्तम्॥



एकान्तकृष्णस्य तु विपाकफलमाह-

यमपुरुषापनीतसकलच्छविरार्तरवो

हुतवहतापविद्रुतकताम्रनिषिक्ततनुः।

ज्वलदसिशक्तिघातशतशातितमांसदलः

पतति सुतप्तलोहधरणीष्वशुभैर्बहुशः॥४५॥



यमपुरुषैः कालदूतैरपनीता विश्लेषिता ज्वलितमुद्गरादिप्रहारैः सकला समस्ता छविश्चर्म प्रभावो वा यस्य स तथा। अतिशयेनार्तः सन् पतति सुतप्तलोहधरणीषु। पुनरपि किंभूतः ? तीव्रानलतापेन द्रवीभूतं यत्ताम्रं तेन निषिक्ता स्नापिता तनुः कायो यस्य। अतोऽप्यपनीतसकलच्छविः। ज्वलन्तः असयः शक्तयश्च शस्त्रविशेषाः, तेषां घातशतैरनेकैः प्रहारैः शातितानि विच्छेदितानि मांसदलानि शकलानि यस्य स तथाभूतः सन् पतति। सुष्ठु तप्तासु लोहमयभूमिषु। अशुभैरकुशलैः कर्मभिः। बहुश इति बहून् वारान्। दीर्घकालेन तत्फलस्य परिक्षयात्॥



तदेवं शुभाशुभकर्मणोर्विपाकफलं प्रतिपाद्य च्छन्दबलमुपसंहरन्नाह-

तस्मात्कार्यः शुभच्छन्दो भावयित्वैवमादरात्।



यत एवं शुभाशुभकर्मणोर्मधुरकटुकफलविपाकः, तस्मादेवं परिभाव्य शुभच्छन्द एव आदरेणाशुभकर्म विहाय कार्यः। सांप्रतं स्थामबलं प्रतिपादयितुमाह-

वज्रध्वजस्थविधिना मानं त्वारभ्य भावयेत्॥४६॥



वज्रध्वजसूत्रप्रतिपादितविधानेन मानं पुनः साध्यं कर्मारभ्य भावयेत्। अथवा। आरभ्य भावयेदिति गाढसमारम्भेण भावयेत्, चेतसि स्थिरं कुर्यात्, न शिथिलोपक्रमेणेत्यर्थः॥



आरम्भमेव शिक्षयितुमाह-

पूर्वं निरूप्य सामग्रीमारभेन्नारभेत वा।



पूर्वं प्रथमत एव अभिमतकार्यनिष्पादनाय सामग्रीं कारणसाकल्यं निरूप्य, तस्या बलाबलं विचार्य, आरभेत सति बले, नारभेत वा असति बले। किमेवंविचारेण प्रयोजनमिति चेदाह-

अनारम्भो वरं नाम न त्वारभ्य निवर्तनम्॥४७॥



अनारम्भो वरं नाम प्रथमत एव, न त्वारभ्य निवर्तनमशक्तत्वे सति॥

ननु किमत्र दूषणं येनैव नेष्यते इत्याह-

जन्मान्तरेऽपि सोऽभ्यासः पापाद्दुःखं च वर्धते।

अन्यच्च कार्यकालं च हीनं तच्च न साधितम्॥४८॥



तथा क्रियमाणः अन्यस्मिन्नपि जन्मनि सोऽभ्यास इत्यारभ्य निवर्तनं नाम। प्रतिज्ञातमकुर्वतश्च पापं ततो दुःखं वर्धते। अन्यच्च हीनं नष्टं यत्परित्यज्य तदारब्धम्, कार्यकालं च हीनम्। आरब्धपरित्यक्तकार्यस्य कालोऽस्य कार्यस्येति। तस्मिन् काले यदन्यत् कार्यं कर्तव्यं तदित्यर्थः। तच्च यदारभ्य परित्यक्तम्, तदपि न साधितं न निष्पादितम्। इति पञ्चप्रकारमत्र दूषणम्। तेन नेष्यत इत्यभिप्रायः॥



अथ किमयं मानः सर्वत्र न कर्तव्यः ? नेत्याह-

त्रिषु मानो विधातव्यः कर्मोपक्लेशशक्तिषु।



केषु त्रिषु ? तदाह-कर्मसु उपक्लेशेषु शक्तौ च। तत्र उपक्लेशाः क्षुद्रवस्तुकसंज्ञिताः क्रोधोपनाहम्रक्षप्रदाशादयः सप्त। पञ्चाशत् क्लेशा एव वा रागादय उपक्लेशा उच्यन्ते। तत्र कर्ममानं व्याख्यातुमाह-

मयैवैकेन कर्तव्यमित्येषा कर्ममानिता॥४९॥



यत्किंचिदनवद्यं कर्म आपतितं भवति सत्त्वानाम्, तत् सर्वं मयैवैकेन कर्तव्यम्। नान्यस्यावकाशो दातव्य इत्यर्थः॥



एतदेव दर्शयन्नाह-

क्लेशस्वतन्त्रो लोकोऽयं न क्षमः स्वार्थसाधने।

तस्मान्मयैषां कर्तव्यं नाशक्तोऽहं यथा जनः॥५०॥



क्लेशैः परायत्तीकृतः सर्वोऽयं जनकायः क्वचिदपि स्वार्थसाधने समर्थो न भवति, इति एषां सर्वसुखोत्पादनाय मया बोधिचित्तमुत्पादितम्। यत एवम्, तस्मान्नाशक्तोऽहमीदृशं भारमुद्बोढुं यथा अयं जनः। अतो मयैवैषां सर्वं कर्तव्यम्॥



दीनेऽपि कर्मणि वैमुख्यं नोत्पादयितव्यमित्याह-

नीचं कर्म करोत्यन्यः कथं मय्यपि तिष्ठति।



नीचमतिगर्हितं लोके भारोद्वहनादिकम्। मय्यपि सर्वसत्त्वानां दासभूतेऽपि तिष्टति विद्यमानेऽपि। मत्करणीयं कथमन्यः करोति ? मयैव कर्तुमुचितमिति भावः। अथाप्रतिरूपम्, ममैव तत् कर्मेति चित्तस्योन्नतिं निवारयितुमाह-

मानाच्चेन्न करोम्येतन्मानो नश्यतु मे वरम्॥५१॥



कोऽमुष्यपुत्रः, इदं च कर्म अतिनिहीनम्, तदयुक्तं मम कर्तुमिति मानाद्यदि न करोमि, तदा मानो नश्यतु मे वरम्। किमनेन महार्थभ्रंशकारिणा मम, न तु नीचकर्मप्रवृत्तिः॥



इति कर्मसु मानमभिधाय उपक्लेशेषु मानमुपदर्शयितुमाह-

मृतं दुण्डुभमासाद्य काकोऽपि गरुडायते।

आपदाबाधतेऽल्पापि मनो मे यदि दुर्बलम्॥५२॥



यदि उपक्लेशेषु निहतमानतया दुर्बलवृत्ति मम चित्तं स्यात्, तदा आपदापत्तिः आबाधते आक्रामति यथा सापत्तिकं स्यादित्यर्थः। अल्पापि मृदुप्रचारोपक्लेशजनितापि। कथमिवेत्याह-मृतमपगतप्राणं दुण्डुभं प्राप्य यथा काकोऽपि गरुडवदाचरति॥



कुतः पुनरेवमित्याह-

विषादकृतनिश्चेष्टे आपदः सुकरा ननु।

व्युत्थितश्चेष्टमानस्तु महतामपि दुर्जयः॥५३॥



चित्तोन्नतिविरहिते विषण्णतया मन्दकायचित्तप्रवृत्तौ आलस्योपहते मुषितस्मृतौ आपदः सुकराः सुलभाः। उत्पद्यन्त एव स्वल्पापदापि गम्यत्वात्। व्युत्थितः समुन्नतचित्ततया पुनरुत्साहसंपन्नः चेष्टमानः स्मृतिसंप्रजन्याभ्यामुपक्लेशानामनवकाशं ददानः महतामपि दुर्जयः अजय्यः स्यात्॥



तस्माद्दृढेन चित्तेन करोम्यापदमापदः।

त्रैलोक्यविजिगीषुत्वं हास्यमापज्जितस्य मे॥५४॥



स्थामबलावलम्बनं निगमयन् दर्शयति-यत एवं तस्मात् दृढेन चित्तेन मानसंनाहः। आपद एव आपदमनर्थं करोमि सर्वथा तदनुप्रवेशं निवारयन्नुन्मूलितसंतानं करोमि। अन्यथा त्रिजगद्विजयारम्भो मम हास्यमुपहसनीयम्, आपदा आपदायत्ततया वराकिकया जितस्य गमिष्यति॥



कीदृशमेतदित्याह-

मया हि सर्वं जेतव्यमहं जेयो न केनचित्।

मयैष मानो वोढव्यो जिनसिंहसुतो ह्यहम्॥५५॥



कुतः ? यस्माज्जिना एव भगवन्तः सिंहाः सर्वमारमृगैरनभिगम्यत्वात्। तेषां सुतः अहमपि कथमन्यैः पराजितो नाम नामधेयं लप्स्ये इति मनसि निधाय मयैष मानो बोढव्यः। यथा हि सिंहकिशोरः प्रतिलब्धवैशारद्यः सर्वान्यमृगैरनभिभूत एव वने विचरति, तथा मया दृढेन भवितव्यमित्यर्थः॥





स्यादेतत्-यदि यवम्, तदा येऽपि सपत्नादिविजयाय मानमुद्वहन्ति, तेऽपि मानिनः प्रशस्याः कथं न भवेयुः? इत्यत्राह-



ये सत्त्वा मानविजिता वरकास्ते न मानिनः।

मानी शत्रुवशं नैति मानशत्रुवशाश्च ते॥५६॥



मानविजिताः मानेन अभिभूताः वराकास्तपस्विनः ते मानिनो भवन्त्येव। कुतः ? मानी शत्रुवशं नैति न गच्छति। नासौ वैरिजनानुवृत्तिं करोतीत्यर्थः। ये भवताभिमता मानिनः, ते मानशत्रुवशाः तदायत्तप्रवृत्तयः॥



एतदेव श्लोकद्वयेन समर्थयितुमाह-

मानेन दुर्गतिं नीता मानुष्येऽपि हतोत्सवाः।

परपिण्डाशिनो दासा मूर्खा दुर्दर्शनाः कृशा॥५७॥



सर्वतः परिभूताश्च मानस्तब्धास्तपस्विनः।

तेऽपि चेन्मानिनां मध्ये दीनास्तु वद कीदृशाः॥५८॥



सप्तविधमानेषु अन्यतमेन मानेन दुर्गतिं नीता नरकादिषु पातिताः। अथ कथंचिन्मनुष्यप्रतिलम्भो भवति तेषाम्, तदा तत्रापि तन्निन्दाफलेन हतोत्सवा निरानन्दा भवन्ति। हीनदीनमनस इत्यर्थः। परपिण्डाशिनः आहारवैकल्यात् परदत्तभिक्षाहारभुजः। दासाः परतन्त्रवृत्तयो भृत्याः। मूर्खाः सर्वविकेकशून्याः। दुर्दर्शनाः विरूपात्मभावा अप्रीतिजनकाश्च। कृशाः दुर्बलशरीराः सामर्थ्यरहिताश्च। सर्वतः सर्वेभ्योऽकृतापराधा अपि कायवचःपरिभवलाभिनो भवन्ति। के पुनरेवम् ? मानस्तब्धास्तपस्विनः मानेन स्तब्धाः अनम्राः। तपस्विनो वराकाः। तेऽपि चेत्, एवंभूता अपि यदि मानिनां मध्ये गण्यन्ते, तर्हि दीनाः कृपणाः कृपापात्रमित्यर्थः। पुनरन्ये दीनाः कीदृशा भवन्तीति वद ब्रूहि [इति] चोदकमामन्त्रयते॥



यदि एवंविधा मानिनो नोच्यन्ते, कीदृशास्तर्हि ते भवन्तीत्याह-

ते मानिनो विजयिनश्च त एव शूरा

ये मानशत्रुविजयाय वहन्ति मानम्।

ये तं स्फुरन्तमपि मानरिपुं निहत्य

कामं जने जयफलं प्रतिपादयन्ति॥५९॥



त एव मानिन उच्यन्ते ये बोधिसत्त्वाः तं स्फुरन्तमपि प्रभवन्तमपि मानवैरिणं निहत्य विधूय। कामं यथेष्टम्। उद्दामेति यावत्। जने लोके सदेवकादिके जयफलं प्रकाशयन्ति बुद्धत्वावस्थायाम्। एतादृशं तन्मानशत्रुविजयफलं यादृशमस्मासु दृश्यते इत्यभिप्रायः। त एव विजयिनश्च लब्धविजयाः। त एव शूरास्तेजस्विन इति पदद्वयं यथासंभवं योज्यम्॥



उपक्लेशेषु मानं प्रतिपाद्य शक्तौ मानमाह-

संक्लेशपक्षमध्यस्थो भवेद्दुप्तः सहस्रशः।



संक्लेशानां पक्षो वर्गः, तस्य मध्ये तिष्ठन् सहस्रगुणेन दृप्ततरो भवेत्, अतिशयवच्छौर्यबलमवलम्बेत। किंभूतः सन्नित्याह-

दुर्योधनः क्लेशगणैः सिंहो मृगगणैरिव॥६०॥



दुःखेन योध्यत इति दुर्योधनः। कथंचिदपि न पराजीयते इत्यर्थः। कथमिव ? यथा हि सिंहो मृगराजः मृगकुलमध्ये महातेजोबलसमन्वागतो विहरन् वने सर्वमृगानभिभवति, न च तैरभिभूयत इति, एवं बोधिसत्त्वो दुर्योधनो भवेत्॥



इदमपरमपि निमित्तमुद्गहीतव्यमित्याह-

महत्स्वपि हि कृच्छ्रेषु न रसं चक्षुरीक्षते।

एवं कृच्छ्रमपि प्राप्य न क्लेशवशगो भवेत्॥६१॥



अतिप्रकर्षवत्सु अपि कृच्छ्रेषु दुःखेषु सत्सु रसं मधुरादिकं जिह्वेन्द्रियग्राह्यं न चक्षुरीक्षते न प्रतिपद्यते। न विषयीकरोतीत्यर्थः। तस्याविषयत्वात्। नाविषये प्रवर्तत इति भावः। एवमुक्तरसचक्षुर्न्यायेन कष्टमपि प्राप्य न क्लेशवशं गच्छेत्॥



इत्युक्तेन प्रबन्धेन स्थामबलं विधाय रतिबलमावेदयितुमाह-

यदेवापद्यते कर्म तत्कर्मव्यसनी भवेत्।

तत्कर्मशौण्डोऽतृप्तात्मा क्रीडाफलसुखेप्सुवत्॥६२॥



कर्म संभारनिबन्धनं ध्यानाध्ययनादिलक्षणं यदेवापद्यते, क्रमकरणयोगेनापतितं भवेत्, तस्मिन्नेव कर्मणि व्यसनी भवेत् तत्क्रियारसनिमग्नचित्तः। तत्कर्मशौण्डः तत्प्रवृत्तिलम्पटः। अतृप्तात्मा पुनःपुनरभिलाषयुक्तः। क इव ? क्रीडाफलसुखेप्सुवत् द्यूतादिक्रीडाया यत्फलं सुखं तदाप्तुमिच्छुरिव॥



इतोऽपि विचारयता कर्मणि रतिरुत्पादयितव्येत्युपदर्शयन्नाह-

सुखार्थ क्रियते कर्म तथापि स्यान्न वा सुखम्।

कर्मैव तु सुखं यस्य निष्कर्मा स सुखी कथम्॥६३॥



सर्वैरेव कर्मफलसुखलिप्सया कर्म क्रियते। अन्यथा तत्र प्रवृत्तिर्न स्यात्। तथापि एवं चेतसा प्रवृत्तावपि कस्यचित् कर्मणोऽभिवाञ्छितफलं स्यात्, कस्यचित् पुनर्न स्यात्। निष्फलारम्भस्यापि संभवात्। तथापि कर्मारम्भात् पुनः फलसंभावनया नैव निवर्तते जनः। यस्य पुनः कर्मैव सुखम्, न तदुत्तरमपरसुखाभिलाषः, स निष्कर्मा कर्मविरहितः कथं सुखी स्यात् ? न कथंचिदित्यर्थः॥



इदमपि भावयता कर्मण्यभिनिवेष्टव्यमित्याह-

कामैर्न तृप्तिः संसारे क्षुरधारामधूपमैः।

पुण्यामृतैः कथं तृप्तिर्विपाकमधुरैः शिवैः॥६४॥



रूपादिविषयैः। संसार इति संसरति पुनः पुनः। अभूतैरतृप्तिः अनाप्यायनम्। किंभूतैः ? क्षुरधारामधूपमैः क्षुरधारायां यन्मधु मधुरसं यदास्वाद्य तृष्णावशाज्जिह्वोच्छेदनोत्तरकालं दुःखमुपजायते, तेनोपमा उपमानं यादृशं येषां ते। आपातमात्रमाधुर्येऽपि परिणतिदुःखेन कटुकरसत्त्वात्तेषामित्यभिप्रायः। पुण्यान्येव अमृतानीव, तैः कथं तृप्तिरस्तु ? किंविशिष्टैः ? विपाकमधुरैरभ्युदयफलसुखहेतुतया परिणामेन मधुररसत्वात्। परमसुखजनकैः शिवैः कल्याणकारिभिर्निःश्रेयसावाहकतया। अजरामरफलदानपरत्वात् सर्वदुःखनिर्वर्तकैरित्यर्थः। अत एव पुण्यामृतैरित्यत्र हेतुपदमेतत्॥



तस्मादित्युपसंहारेण पुनः कर्माभिरामं द्रढयन्नाह-

तस्मात्कर्मावसानेऽपि निमज्जेत्तत्र कर्मणि।

यथा मध्याह्नसंतप्त आदौ प्राप्तसराः करी॥६५॥



तस्य आरब्धस्य कर्मणः अवसानेऽपि निमज्जेत्, तदभिनिवेशरसनिमग्न एव विमुञ्चेत्। कथमिव ? यथा ग्रीष्मसमये मध्यंदिनवर्तिनि सूर्ये सर्वतो जलमलभमानश्च आतापतापितो हस्ती परमाभिनिवेशसंयुक्तः अतिशयवदाह्लादकारिशीतलजलपरिपूरितं हदमासाद्य प्रथमतो निमज्जति तथा इति समुदायार्थः। प्राप्तं सरो येन स तथा। पश्चात्कर्मधारयः। आदावित्यस्य निमज्जतीत्यनेन संबन्धः॥



इदानीं रतिबलं व्याख्याय मुक्तिबलं व्याख्यातुमाह-

बलनाशानुबन्धे तु पुनः कर्तुं परित्यजेत्।

सुसमाप्तं च तन्मुञ्चेदुत्तरोत्तरतृष्णया॥६६॥



आरब्धकर्मनिष्पादने सामर्थ्यक्षयमात्मनोऽवगम्य सामर्थ्यप्रतिलम्भे सति पुनः करिष्यामि इत्यभिप्रायेण तावत्कालं परित्यजेत् मुञ्चेत्। न तावतास्य विक्षेपः स्यात्। अन्यथा तथापि तदपरित्यागेऽनर्थसमावेश एव स्यात्। यदापि सुनिष्पन्नं तदारब्धं कर्म भवेत्, तदापि मोक्तव्यम्। अन्यथा स्वरसवाहितयापि तस्मिन् प्रवृत्ते पुनर्व्यापाराद्विक्षेप एव स्यात्। तस्मादपरापरविशेषाकाङ्क्षया तन्मुञ्चेत् परित्यजेत्। एतेन यदुक्तं प्राक्-पूर्वं समीक्ष्य सामग्रीम् [७.४७] इत्यादि, तस्योत्सर्गस्यायमपवाद उक्तः॥



तदेवमवान्तरविशेषोपदर्शनेन बलव्यूहं सर्वथाभिधाय प्रथमोद्देशप्रतिपादितमपि पुनश्छन्दादिगणे [७.१६] कथितं तात्पर्यं व्याचक्षाण आह-

क्लेशप्रहारान् संरक्षेत् क्लेशांश्च प्रहरेद्दृढम्।

खङ्गयुद्धमिवापन्नः शिक्षितेनारिणा सह॥६७॥



क्लेशानां प्रहारान् उपघातान् संरक्षेत् निवारयेत्। यथा तेषां प्रहरो न प्रभवतीत्यर्थः। क्लेशान् पुनः प्रहरेत् निहन्यात्। दृढं गाढप्रहारेण। यथा पुनरवकाशं न लभेरन्। अत्र निदर्शनमाह-यथा शिक्षितेन शस्त्रविद्याकौशलसमन्वागतेन शत्रुणा सह निपुणतरः खङ्गेन संग्रामयन् तमभिभवति, न च तेनाभिभूत इति॥



तथा तत्रेत्यादिना पुनस्तात्पर्यं शिक्षयितुमाह-

तत्र खङ्गं यथा भ्रष्टं गृह्णीयात्सभयस्त्वरन्।

स्मृतिखङ्गं तथा भ्रष्टं गृह्णीयान्नरकान् स्मरन्॥६८॥



तत्र तस्मिन् खङ्गयुद्धे यथा खङ्गं हस्तात् कथंचित् विचलितं पुनः संवृत्य गृह्णीयात् समयः, मा मामयं छलमनुप्रविश्य शत्रुर्वधीत्। त्वरन्निति शीघ्रमेव। न कालप्रतिलम्बेनेति यावत्। तथा तद्वदेव स्मृतिप्रमोषे। स्मृतिरेव खङ्ग इव क्लेशशत्रुविजयाय। तं भ्रष्टमपगतं गृह्णीयात् आमुखीकुर्यात्। नरकान् रौरवादीन् स्मरन्। स्खलिते सति तद्दुःखभागितां मनसिकुर्वन्॥



ननु सूक्ष्मक्लेशसमुदाचारेऽपि का क्षतिः येन तत्र उपेक्षा न क्रियते इत्यत्राह-

विषं रुधिरमासाद्य प्रसर्पति यथा तनौ।

तथैव च्छिद्रमासाद्य दोषश्चित्ते प्रसर्पति॥६९॥



अणुमात्रस्यापि दोषस्य अवकाशो न दातव्यः। अन्यथा तन्मात्रस्याप्यनुप्रवेशे चित्ते तत्प्रसरावरोधस्य कर्तुमशक्यत्वात्। यथा हि स्वल्पव्रणेऽपि रुधिरसंपर्कवतो विषस्य शरीरे। तस्मादणुमात्रक्लेशप्रहारनिवारणेऽपि तात्पर्यं कुर्यात्॥



पुनरन्यथा तात्पर्यं दृढीकुर्वन्नाह-

तैलपात्रधरो यद्वदसिहस्तैरधिष्ठितः।

स्खलिते मरणत्रासात्तत्परः स्यात्तथा व्रती॥७०॥



यथा कश्चित् पुरुषश्चण्डनृपाज्ञया तैलपरिपूर्णपात्रमादाय पिच्छलसंक्रमेण असिहस्तै राजपुरुषैः बिन्दुमात्रतैलभ्रंशेऽपि अद्यैव त्वां प्राणैर्वियोजयिष्याम इति ब्रुवाणैरधिष्ठितो गच्छन् यदि ममात्र कथंचित् स्खलितं स्यात्, तदा नूनममी मां व्यापादयेयुरिति मरणभयात्तत्परो भवति, तथा व्रती गृहीतसंवरः प्रकृतस्खलिते नरकादिदुःखत्रासात् तदनवकाशाय तत्परः स्यात् यत्नवान् भवेत्॥



उक्तमुपसंहृत्य दर्शयन्नाह-

तस्मादुत्सङ्गगे सर्पे यथोत्तिष्ठति सत्वरम्।

निद्रालस्यागमे तद्वत् प्रतिकुर्वीत सत्वरम्॥७१॥



यत एवम्, तस्मादुत्सङ्गगे क्रोडगते सर्पे आशीविषे यथा त्वरितमेवोत्तिष्ठति-मा मामयमहिर्दक्षीत्, तथैव निद्रालस्यागमे मिद्धस्त्यानप्रादुर्भावे प्रतिकुर्वीत तत्प्रतिपक्षानित्यतादिभावनय प्रतीकारं कुर्यात्॥



अस्य चैवं यत्नवतोऽपि कथंचित् किंचित् स्खलितं शूरस्खलितन्यायेन स्यात्। तदा प्रतीकारं कृत्वा पुनर्यत्नवान् भवेत्। इत्युपदर्शयन्नाह-

एकैकस्मिंश्छले सुष्ठु परितप्य विचिन्तयेत्।

कथं करोमि येनेदं पुनर्मे न भवेदिति॥७२॥



स्मृतिप्रमोषे सति एकैकस्मिन् प्रत्येकं छले स्खलिते कथंचित् क्लेशानामनुप्रवेशे सति परितप्य अध्याशयेन मनस्तापं कृत्स्न विचिन्तयेत्-अहो बत जानन्नेव स्खलितोऽस्मि, तत्केन प्रकारेणात्र प्रतिविधानं करोमि येन पुनरिदं छलं न स्यात् ? इत्येवं दृढसमारम्भं समादाय विहरेत्। न तु पुनः शिथिलः स्यादिति भावः॥



अत एव विवेककामानां प्रतिषिद्धमप्यनुजानन्नाह-

संसर्गं कर्म वा प्राप्तमिच्छेदेतेन हेतुना।



आचार्योपाध्यायतदन्यसब्रह्मचारिप्रभृतिभिः बहुश्रुतैः त्रिपिटकवेदिभिः कौकृत्यविनोदनकुशलैः सह संसर्गं समवधानमिच्छेदाशंसेत्। तन्निश्रित एव तिष्ठेदित्यभिप्रायः। कर्म वा प्राप्तं तदववादानुशासनीलक्षणम्, आपत्तिसमुद्धरणम्, तैर्दण्डकर्मप्रणयनं वा समुत्पन्नमिच्छेत्। एतेन हेतुना तेषामवतारसंरक्षणाभिप्रायेण। एतदेवाह-



कथं नामास्ववस्थासु स्मृत्यभ्यासो भवेदिति॥७३॥



केन विधिना नाम आसु अवस्थासु क्लेशावतारदशासु स्मृत्यभ्यासो भवेत्, अयत्नत एवालम्बनात् संप्रमोषो न स्यात्, इत्यनेन अभिप्रायेण। अयं समुदायार्थः-कल्याणमित्रसंनिधानात् तदववादानुशासनीतः तदाचारसंदर्शनाच्च सदा स्मृतिसंप्रजन्यविहारिणः क्लेशा नावतारं लभन्ते। ततोऽस्य अविरोधत एव उत्साहो वर्धत इति युक्तम्।



सदा कल्याणमित्रं च जीवितार्थेऽपि न त्यजेत्। इति।

[बोधि. ५.१०२]



तथा-

उपाध्यायानुशासन्या भीत्याप्यादरकारिणाम्।

धन्यानां गुरुसंवासात् सुकरं जायते स्मृतिः॥इति॥

[बोधि. ५.३०]



अधुना तात्पर्यमुपदर्श्य आत्मविधेयतामुपदर्शयितुमाह-

लघुं कुर्यात्तथात्मानमप्रमादकथां स्मरन्।

कर्मागमाद्यथा पूर्वं सज्जः सर्वत्र वर्तते॥७४॥



सर्वकर्मण्यमात्मानं कायवाक्चित्तलक्षणं तथा कुर्यात्, उत्साहाभ्यासादायत्तिं नयेदित्यर्थः। यथा कर्मागमात् कर्मारम्भात् पूर्वं प्रागेव सज्जः आयत्तीकृतः सुदान्ताश्ववत् तन्मार्गनिरीक्षणासीन इव कर्मणि प्रवर्तते॥



उक्तमेवार्थमुदाहरणेन व्यक्तीकुर्वन्नाह-

यथैव तूलकं वायोर्गमनागमने वशम्।

तथोत्साहवशं यायादृद्धिश्चैवं समृध्यति॥७५॥



तूलकं कर्पासादिसमुद्भूतं यथा वायोर्गमने च आगमने च वशमायत्तम्, तथा तद्वदेव उत्साहवशं यायात् वीर्यवशवर्ती भवेत्। एवमभ्यासपरायणस्य ऋद्धिश्च आकाशगमनादिलक्षणा समृध्यति संपद्यते॥



परात्मसमतापरात्मपरिवर्तने पुनः उभयत्रापि उपयुक्ते इति ध्यानपरिच्छेदे एव व्याख्येये॥



इति प्रज्ञाकरमतिविरचितायां बोधिचर्यावतारपञ्जिकायां

वीर्यपारमिता नाम सप्तमः परिच्छेदः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project