Digital Sanskrit Buddhist Canon

६ क्षान्तिपारमिता नाम षष्ठः परिच्छेदः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
६ क्षान्तिपारमिता नाम षष्ठः परिच्छेदः।



तदेवं बहुधा शीलविशुद्धिं प्रतिपाद्य आत्मभावादीनां रक्षां शुद्धिं प्रतिपाद्य शुभविशुद्धिं प्रतिपादयितुम्, यच्चोक्तम्-



क्षमेत श्रुतमेषेत संश्रयेत वनं ततः।

समाधानाय युज्येत भावयेदशुभादिकम्॥

[शिक्षा. स. कारिका-२०]



इत्येतच्च अभिधातुमुपक्रमते सर्वमित्यादिना-

सर्वमेतत्सुचरितं दानं सुगतपूजनम्।

कृतं कल्पसहस्रैर्यत्प्रतिघः प्रतिहन्ति तत्॥१॥



सर्वमेतदिति शीलसंवरसमादानप्रसूतम्। सुचरितं कुशलं कर्म। दानं त्रिविधम्। सामान्येन सुगतपूजनमपि त्रिविधम्। कृतम् उपार्जितमनेकैः कल्पसहस्रैर्यत् तत् सर्वं प्रतिघः सत्त्वविद्वेषः प्रतिहन्ति निर्दहति बह्निलव इव तृणसंघातम्॥



आर्यमञ्जुश्रीविक्रीडितसूत्रे चाह-प्रतिघः प्रतिघ इति मञ्जुश्रीः कल्पशतोपचितं कुशलं प्रतिहन्ति, तेनोच्यते प्रतिघ इति॥



आर्यसर्वास्तिवादिना पठ्यते-पश्यथ भिक्षव एतं भिक्षुं केशनखस्तूपे सर्वाङ्गेन प्रणिपत्य चित्तमभिप्रसादयन्तम् ? एवं भदन्त। अनेन भिक्षवो भिक्षुणा यावती भूमिराक्रान्ता, अधश्चतुरशीतियोजनसहस्राणि, यावत् काञ्चनवज्रमण्डलान्तरे यावन्त्यो वालिकाः, तावन्त्यनेन भिक्षुणा चक्रवर्तिराज्यसहस्राणि परिभोक्तव्यानि। यावत्। अथायुष्मानुपालिर्येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत्-यदुक्तं भगवता अस्य भिक्षोरेवं महान्ति कुशलमूलानि। कुत्रेमानि भगवन् कुशलानि तनुत्वं परिक्षयं पर्यादानं गच्छन्ति ? नाहमुपाले एवं क्षतिमुपहतिं च समनुपश्यामि यथा सब्रह्मचारी सब्रह्मचारिणोऽन्तिके दुष्टचित्तमुत्पादयति। तत्रोपाले इमानि महान्ति कुशलमूलानि तनुत्वं परिक्षयं पर्यादानं गच्छन्ति। तस्मात्तर्हि उपाले एवं शिक्षितव्यं यद्दग्धस्थूणायामपि चित्तं न प्रदूषयिष्यामः, प्रागेव सविज्ञानके काये इति॥



अत एवाह-



न च द्वेषसमं पापं न च क्षान्तिसमं तपः।

तस्मात्क्षान्तिं प्रयत्नेन भावयेद्विविधैर्नयैः॥२॥



न च द्वेषेण समं पापमशुभं पुण्याभिभवहेतुरस्ति। न च क्षान्त्या तितिक्षया समं तुल्यं तपः। सुमहत्परिश्रमसाध्यत्वात् सुकृतम्। यत एवम्, तस्मात् क्षान्तिं क्षमां सर्वतात्पर्येण भवयेदभ्यसेत्। विविधैर्नानाप्रकारैरुपायैर्वक्ष्यमाणैः॥



दृष्टधर्म एव द्वेषस्य दोषान् वृत्तत्रयेणोपदर्शयन्नाह-



मनः शमं न गृह्णाति न प्रीतिसुखमश्रुते।

न निद्रां न धृतिं याति द्वेषशल्ये हृदि स्थिते॥३॥



पूजयत्यर्थमानौर्यान् येऽपि चैनं समाश्रिताः।

तेऽप्यनं हन्तुमिच्छन्ति स्वामिनं द्वेषदुर्भगम्॥४॥



सुहृदोऽप्युद्विजन्तेऽस्माद् ददाति न च सेव्यते।

संक्षेपान्नास्ति तत्किंचित् क्रोधनो येन सुस्थितः॥५॥



शमं प्रशमं न गृह्णाति नाश्रयते। अनुपशान्त एव सदा द्वेषानलप्रज्वलितत्वात् न प्रीतिसुखं सौमनस्यसुखमश्नुते आप्नोति, तेनैवाक्रान्तत्वात्। न निद्रां न धृतिं चित्तसुखं लभते कायचित्तसंतापकारिणि द्वेषशल्ये हृदयनिवासिनि। पूजयति सत्करोति लाभसत्कारैर्यान्। येऽपि चानुजीविनः, एवं द्वेषिणं स्वामिनमपकर्तुमिच्छन्ति। किमिति ? द्वेषदुर्भगम् अप्रियमिति हेतुपदमेतत्। सुहृदो भित्राण्यपि उद्विजन्ते उत्त्रसन्ति अस्माद् द्वेषिणः। दानोन्मुखोऽपि भृत्यवर्गैर्न सेव्यते नोपगम्यते। किं बहुना ? इदमिह संक्षेपेणावधार्यताम्-नास्ति तदुपशमकारणं किंचिद्येन कोपनः सुखं लभेत॥



चित्तस्य कर्कशावस्था द्वेषः। तस्योद्भूतवृत्तिस्तु क्रोधः, यद्वशात् दण्डादिग्रहणं क्रियते। इति अनयोर्भेदेऽपि द्वयोरपि परिहर्तव्यतया अभेदेनैव निर्देशः॥



एवमिह दृष्टधर्मेऽपि द्वेषदोषानवगम्य तत्परित्यागाय यत्नवता भवितव्यमित्याह-



एवमादीनि दुःखानि करोतीत्यरिसंज्ञया।

यः क्रोधं हन्ति निर्बन्धात् स सुखीह परत्र च॥६॥



एवं यथोक्तप्रकारेण दुःखानि जनयति यस्मात्, तस्माद् यः सुकृतात्मा निर्बन्धात्, गाढाभिनिवेशात्। आरब्धवीर्य इत्यर्थः। स सुखी इहलोके परलोके च॥



इदानीं द्वेषोपघाताय तत्कारणमुपहन्तुं व्यवस्थां कुर्वन्नाह-



अनिष्टकरणाज्जातमिष्टस्य च विघातनात्।

दौर्मनस्याशनं प्राप्य द्वेषो दृप्तो निहन्ति माम्॥७॥

तस्माद्विघातयिष्यामि तस्याशनमहं रिपोः।



आत्मात्मीयग्रहप्रसूते इष्टानिष्टे। आत्मात्मीययोः सुखसाधनमिष्टम्, तद्विपरीतमनिष्टम्, इति कल्पनाकृतमेवैतत्। न तु परमार्थतः किंचिदिष्टमनिष्टं वा संभवति। तस्मान्मिथ्याभिनिवेशवासनावशात् अनिष्टस्य करणात्, इष्टस्य चोपहननाद् दौर्मनस्यं मानसं दुःखमुपजायते, तस्मात् तत्कारिणि तद्विरोधिनि वा द्वेष उत्पद्यते। इति दौर्मनस्यमेव बलबद्भोजनं लब्धसामर्थ्यः सन् द्वेषो निहन्ति माम् इति निश्चित्य तत्पुष्टिकारणं च हनिष्यामि प्रथमतः। तस्मिन् हते सुखमेव। तस्य हननात्, समूलघातं हतस्य पुनरुत्थानायोगाच्च॥



ननु कोऽयमत्यर्थमभिनिवेशो भवत इत्याह-

यस्मान्न मद्वधादन्यत्कृत्यमस्यास्ति वैरिणः॥८॥



यस्मात् मम वधं विहाय रात्रिंदिवमपरं न किंचिद् द्वेषस्य वैरिणः करणीयमस्ति॥



एवं द्वेषदोषान् विभाव्य सर्वोपायेन तद्विपक्शभूतां क्षान्तिमुत्पादयेत्। तत्र क्षान्तिस्त्रिविधा धर्मसंगीतिसूत्रेऽभिहिता। तद्यथा-दुःखाधिवासनाक्षान्तिः, धर्मनिध्यानक्षान्तिः, परापकारमर्षणक्षान्तिश्च। तत्र तावद्दुःखाधिवासनाक्षान्तिमधिकृत्याह-

अत्यनिष्टागमेनापि न क्षोभ्या मुदिता मया।

दौर्मनस्येऽपि नास्तीष्टं कुशलं त्ववहीयते॥९॥



दुःखाधिवासनाक्षान्तिविपक्षः अनिष्टागमप्राप्तदुःखभीरुता, इष्टविघातप्राप्तश्च सुखाभिष्वङ्गः। ताभ्यां दौर्मनस्यम्। ततो द्वेषो लीनचित्तता वा। अत एवाह चन्द्रप्रदीपसूत्रेसुखेऽनभिष्वङ्गः, दुःखेऽवैमुख्यम्। इति। रत्नमेघसूत्रेऽप्युक्तम्-य इमे आध्यात्मिकाः शोकपरिदेवदुःखदौर्मनस्योपायासाः, तान् क्षमते अधिवासयतीति॥



अतो यदि नाम मम शिरश्छिद्यते, तथापि न क्षोभ्या न विकोपयितव्या मुदिता मया। मुदिता हि दौर्मनस्यप्रतिपक्षः। दुःखागमेऽपि प्रमुदितचित्तस्य दौर्मनस्यानवकाशात्, इति दौर्मनस्यनिरासाय मुदिता यत्नेन रक्षितव्या। कुतः ? दौर्मनस्येऽपि कृते इष्टविघाते सति नास्तीष्टं नाभिलषितं सेत्स्यति। अयं तु विशेषः स्यात्-कुशलं पुनरुपहन्यते॥



मुदिता च आर्याक्शयमतिसूत्रे वर्णिता-तत्र कतमा मुदिता ? या बुद्धधर्माणामनुस्मरणात् प्रीतिः प्रसादः प्रामोद्यं चित्तस्यानवलीनता अनवमृद्यता अपरितर्षणता, सर्वकामरतीनामपकर्षणात् सर्वधर्मरतीनां प्रतिष्ठानम्, चित्तस्य प्रामोद्यम्, कायस्यौद्विल्यम्, बुद्धेः संप्रहर्षणम्, मनस उत्पलवः, तथागतकायाभिनन्दनरतिः। इति विस्तरः॥



किं चेदमविचारयतो दौर्मनस्यमुत्पद्यते इत्याह-

यद्यस्त्येव प्रतीकारो दौर्मनस्येन तत्र किम्।

अथ नास्ति प्रतीकारो दौर्मनस्येन तत्र किम्॥१०॥



यदि च इष्टविघातनिवर्तनाय अनिष्टोपनिपातप्रतिषेधाय च प्रतीकारः उपायान्तरमस्ति, तदा दौर्मनस्येन तत्र किम् ? तदेव अनुष्ठीयताम्। अथ नास्ति, तदापि दौर्मनस्येन तत्र किम् ? न किंचित् प्रयोजनम्। उपायाभावात् सर्वथा गतमेतत्। इति विचार्य दौर्मनस्यनिवर्तनमेव वरम्॥



अभ्यासाद् दुःखमबाधकं भवतीति प्रसाधयितुमुपक्रमते-

दुःखं न्यक्कारपारुष्यमयशश्चेत्यनीप्सितम्।

प्रियाणामात्मनो वापि शत्रोश्चैतद्विपर्ययात्॥११॥



दुःखं कायिकं मानसिकं चेति द्विविधम्। तत्र कायिकं दण्डादिघातजम्। मानसिकं न्यक्कारादिनिमित्तम्। तत्र न्यक्कारो धिक्कारः। पारूष्यं मर्मघट्टनावचनम्। अयशश्च अकीर्तिः वैगुण्यप्रकाशनम्। इत्येतत्सर्वमनभिलषितम्। यदि परेषां शिवं ननु ? तदर्थमाह-प्रियाणाम्। आत्मीयत्वेन ये स्वीकृताः, प्रेमस्थानं तेषामात्मनश्च। दुःखादिकारकस्य पुनः शत्रोरेतद्विपर्ययात्। तस्य दुःखादिकमभीष्टमेव॥



तत्र दुःखसहिष्णुतां तावन्निराकर्तुमाह-

कथंचिल्लभ्यते सौख्यं दुःखं स्थितमयत्नतः।

दुःखेनैव च निःसारः चेतस्तस्माद् दृढीभव॥१२॥



महता प्रायत्नेन कुशलपक्षमुपसेव्य कदाचित् कर्हिचित् सुदुर्लभं संसारे सास्रवं सुखं लभ्यते। दुःखं तु सर्वदा सुलभम्, अयत्नसिद्धत्वात्, इति तदभ्यासो न दुष्करः, सर्वदा परिचितत्वात्। किं च। संसारनिःसरणोपायोऽपि दुःखमेव। तथापि पाथेयरूपतया तत्परिग्रहो युक्त एव। यत एवम्, तस्मात् हे चित्त, दुःखानुभवनाय दृढीभव, मा कातरतामाश्रयस्व॥



अपि च। इदं दुःखं महार्थसाधकत्वात् सोढुमुचितम्, इति मनसि कर्तव्यम्, इत्याह-

दुर्गापुत्रककर्णाटा दाहच्छेदादिवेदनाम्।

वृथा सहन्ते मुक्त्यर्थमहं कस्मात्तु कातरः॥१३॥



दुर्गापुत्रकाः चण्डीसुताः। महानवमीसमयादिषु त्रिरात्रमेकाहं वा उपोष्य गात्रदाहच्छेदनभेदनं कुर्वन्तो दुःखां वेदनां निष्फलमेवानुभवन्ति। तथा कर्णाटदेशादिसमुद्भूता दाक्षिणात्या उपरिनामलिखनमात्राभिमानतः परस्परं स्पर्धमाना अनेकाभिः कारणाभिर्दुःखमनुभवन्तो जीवितमप्युत्सृजन्ति। अहं तु स्वपरात्मनोः परमदुर्लभबुद्धत्वसाधनाय कृतोत्साहः दुःखैः कस्मात् कारणात् कातरीभवामि ?



स्यादेतत्-अत्यल्पदुःखं कथंचित्सोढुं शक्यते। करचरणशिरश्छेदनादिदुःखं नरकादिदुःखं वा मुक्तयर्थं कथं नु सोढव्यमित्यत्राह-

न किंचिदस्ति तद्वस्तु यदभ्यासस्य दुष्करम्।

तस्मान्मृदुव्यथाभ्यासात् सोढव्यापि महाव्यथा॥१४॥



शास्त्राभ्यासकलादि कौशलादि मृदुमध्यातिमात्रदुःखानुभवनादि वा वस्तु न तद्विद्यते किंचित् यदभ्यासगोचरो न भवति। सर्वमेव अभ्यासादात्मसात्कर्तुं शक्यत इति भावः। यस्मात् तस्मात् अत्यल्पतरादिव्यथाभ्यासान्नरकादिमहाव्यथापि सोढुं [शक्यते]। यथोक्तम्-तत्र अल्पदुःखाभ्यासपूर्वकं कष्टकष्टतराभ्यासः सिध्यति। यथा च अभ्यासवशात् सत्त्वानां दुःखसुखसंज्ञा, तथा सर्वदुःखोत्पादेषु सुखसंज्ञाप्रत्युपस्थानाभ्यासात् सुखसंज्ञैव प्रत्युपतिष्ठते। एवं निष्पन्दफलं च सर्वधर्मसुखाक्रान्तं नाम समाधिं प्रतिलभते। उक्तं हि पितापुत्रसमागमे-



अस्ति भगवन् सर्वधर्मसुखाक्रान्तो नाम समाधिः, यस्य समाधेः प्रतिलम्भाद् बोधिसत्त्वः सर्वारम्बणवस्तुषु सुखामेव वेदनां वेदयते न दुःखाम्, नादुःखसुखाम्। तस्य नैरयिकामपि वेदनां कार्यमाणस्य सुखसंज्ञैव प्रत्युपस्थिता भवति। मानुषीमपि कारणां कार्यमाणस्य, हस्तेष्वपि छिद्यमानेषु पादेष्वपि कर्णेष्वपि नासास्वपि, सुखसंज्ञैव प्रत्युपस्थिता भवति। वेत्रैरपि ताड्यमानस्य अर्धवेत्रैरपि कशाभिरपि ताडयमानस्य सुखसंज्ञा प्रवर्तते। बन्धनागारेष्वपि प्रक्षिप्तस्य, तैलपाचिकां वा क्रियमाणस्य, इक्षुकुट्टितिकं वा कुट्यमानस्य, नडचिप्पितिकं वा चिप्यमानस्य, तैलप्रद्योतिकं वा आदीप्यमानस्य यावत् कार्षापणच्छेदिकां छिद्यमानस्य पिष्टपाचनिकां वा पाच्यमानस्य, हस्तिभिर्वा मर्द्यमानस्य सुखसंज्ञैव प्रवर्तते॥ इति विस्तरः॥



स्यादेवैतद् यदि प्रथमत एव मृदुव्यथाभ्यसः स्यात्। यावता स एव नास्तीति। अत्राह-



उद्दंशदंशमशकक्षुत्पिपासादिवेदनाम्।

महत्कण्ड्वादिदुःखं च किमनर्थं न पश्यसि॥१५॥



उद्दंशादिकृतदुःखमनर्थं किं न पश्यसि ? तदयत्नसिद्धं मृदुव्यथाभ्यासनिमित्तमस्त्येव इति भावः॥



पुनरन्यथा स्वचित्तं द्रढयितुमाह-

शीतोष्णवृष्टिवाताध्वव्याधिबन्धनताडनैः।

सौकुमार्यं न कर्तव्यमन्यथा वर्धते व्यथा॥१६॥



सुकुमारतरचित्तस्य हि दुःखमतितरां बाधकं भवति, दुःखेऽपि दृढचित्तस्य विपर्ययः॥



ननु दृढीकरणेऽपि चित्तस्य दुःखमसह्यमेवेति। अत्राह-

केचित्स्वशोणितं दृष्ट्वा विक्रमन्ते विशेषतः।

परशोणितमप्येके दृष्ट्वा मूर्च्छां व्रजन्ति यत्॥१७॥



तच्चित्तस्य दृढत्वेन कातरत्वेन चागतम्।

दुःखदुर्योधनस्तस्माद्भवेदभिभवेद्वयथाम्॥१८॥



न खलु दृढचित्तस्य किंचिदशक्यं नाम। तथाहि-केचिद्वीरपुरुषाः संग्रामभूमौ स्वशोणितमपि पश्यन्तोऽधिकतरं शौर्यमाभजन्ते। केचित्पुनः कातरचित्तसंततयः पररुधिरदर्शनादपि मरणान्तिकं दुःखमनुभवन्ति। एतदुभयमपि चित्तस्य इतरेतराभ्यासविपर्ययात् इति मत्वा दुःखदुर्योधनो नाधिगम्यो भवेत्, दुःखैरप्यकम्प्यत्वात्। ततोऽभिभवेद् व्यथाम्, न पुनस्तयामिभूयते॥



इत्थमप्यभिभवेद् व्यथामित्याह-

दुःखेऽपि नैव चित्तस्य प्रसादं क्षोभयेद् बुधः।

संग्रामो हि सह क्लेशैर्युद्धे च सुलभा व्यथा॥१९॥



प्रसादं पूर्वोक्तं नावसादयेद्विचक्षणः। कुतः ? यस्मात् क्लेशशत्रुभिः सह संग्रामोऽयमारब्धः। संग्रामे च व्यथा नाम न भवेदिति दुर्लभम्, व्यथा तु सुलमैव॥



ननु तथापि दुष्करमिदमतीव दृश्यत इति। अत्राह-

उरसारातिघातान् ये प्रतिच्छन्तो जयन्त्यरीन्।

ते ते विजयिनः शूराः शेषास्तु मृतमारकाः॥२०॥



अभिमुखमभिभवन्तः शत्रुम्। तत्प्रहारान् वक्षःस्थलेन प्रतीच्छन्तो ये जयन्ति समरे रिपून्, ते ते शूरपुरुषाः पररिपुविजयादिह लब्धविजयाः प्रशस्यन्ते। ये पुनरन्ये छलप्रहारादिभिरभिभवन्ति शत्रुम्, ते च अकिंचित्करतया मृतमारका जुगुप्सनीया एव शूरैः॥



इतोऽपि गुणदर्शनाद्दुःखमधिवासयितव्यमित्याह-

गुणोऽपरश्च दुःखस्य यत्संवेगान्मदच्युतिः।

संसारिषु च कारुण्यं पापद्भीतिर्जिने स्पृहा॥२१॥



अयमपरः शुभहेतुर्गुणो दुःखस्यास्य संबोधिमार्गानुकूलः, यद्दुःखस्य समावेशे मनसि संवेग उपजायते। तस्माच्च यौवनधनादिकृतस्य मदस्य च्युतिर्भङ्गो जायते, संसारिषु च संसारदुःखपीडितेसु करुणाचित्तम्, पापस्य फलमिदमिति मत्वा पापाद् भयमकरणचित्तं च, बुद्धे च भगवति स्पृहा भक्तिः श्रद्धा चित्तप्रसादश्च। भगवानेव हि दुःखक्षयगामिनं मार्गमुपदिष्टवानिति॥



परप्रत्ययोत्पन्नदुःखाधिवासनाय परामृशन्नाह-

पित्तादिषु न मे कोपो महादुःखकरेष्वपि।

सचेतनेषु किं कोपः तेऽपि प्रत्ययकोपिताः॥२२॥



पित्तादिदोषत्रयात्मकमेव शरीरम्। ते च तथाविधाहारविहारवैगुण्याद् विषमावस्थां प्राप्ता व्याधीन् जनयन्तः सर्वदुःखहेतवो भवन्ति। तथापि न तेषु मम कोपः, अचेतनत्वात्। न ते संचिन्त्य दुःखदायकाः, किं तर्हि स्वकारणसामग्रीबलेन प्रकोपमुपागताः। यद्येवम्, सचेतनेषु किं कोपः ? किं न स्यादिति चेत्, तेऽपि पूर्वकर्मापराधात् स्वकारणसामग्रीप्रकोपिता दुःखदायका भवन्ति। इति पित्तादिवत् तेष्वपि न युज्यते मम क्रोधः॥



उभयत्रापि समानं कारणाधीनत्वमित्युपदर्शयन्नाह-

अनिष्यमाणमप्येतच्छूलमुत्पद्यते यथा।

अनिष्यमाणोऽपि बलात्क्रोध उत्पद्यते तथा॥२३॥



स्वप्रत्ययोपजनितसामर्थ्येभ्यः पित्तादिभ्योऽनभिप्रेतमपि शूलमवश्यमुत्पद्यते यथा, तथा स्वहेतुमपरिणामाधिगतशक्तिभ्यो दौर्मनस्यादिभ्यः क्रोध उत्पद्यते, इति साधारणमनयोर्हेतुप्रत्ययाधीनत्वम्॥



अथ स्यात्-उक्तमत्र सचेतनाः संचिन्त्य तथाविधानिष्टकारिणः, न तु पुनरितरे तथेत्याह-

कुप्यामीति न संचिन्त्य कुप्यति स्वेच्छया जनः।

उत्पत्स्य इत्यभिप्रेत्य क्रोध उत्पद्यते न च॥२४॥



तत्प्रत्ययसामग्रीमन्तरेण कुप्यामीत्येवं बुद्धिपूर्वकं संचिन्त्य न जनः स्वैरं प्रकुप्यति। क्रोधोऽपि उत्पत्स्य इत्यभिसंघाय स्वातन्त्र्येण नैवोत्पद्यते॥



तस्मादिदमेवात्र प्रमाणसिद्धमित्याह-

ये केचिदपराधाश्च पापानि विविधानि च।

सर्व तत्प्रत्ययबलात् स्वतन्त्रं तु न विद्यते॥२५॥



इदंप्रत्ययतामात्रसमुपस्थितस्वभावं सर्वमिदम्। न तु स्वातन्त्र्यप्रवृत्तं किंचिदपि विद्यते॥



न च प्रत्ययसामग्र्या जनयामीति चेतना।

न चापि जनितस्यास्ति जनितोऽस्मीति चेतना॥२६॥



प्रत्ययसामग्र्यपि न स्वकार्यं जनयन्ती संचिन्त्य जनयति। सा हि स्वहेतुपरिणामोपनिधिधर्मतया तथाविधं कार्यं जनयति न तु संचिन्त्य। न चापि जनितस्य कार्यस्यापि अनया सामग्र्या जनितोऽस्मीति चेतना मनसिकारोऽस्ति। तस्मान्निर्व्यापारतया सर्वधर्माणाम्, अस्मिन् सति इदं भवति, अस्योत्पादादिदमुत्पद्यते, इति इदंप्रत्ययतामात्रमिदं जगत्, नात्र कश्चित्स्वतन्त्रः संभवति। हेतुप्रत्ययाधीनत्वात्सर्वधर्माणाम्॥



स्यादेतत्-अस्त्येव स्वतन्त्रं यथा सांख्यानां प्रधानमात्मा च, नैयायिकानामाकाशादयः। तत् किमुच्यते न किंचित्स्वतन्त्रमिह विद्यते, इत्याशङ्कयाह-



यत्प्रधानं किलामीष्टं यत्तदात्मेति कल्पितम्।

तदेव हि भवाभीति न संचिन्त्योपजायते॥२७॥



यत्तद्भवतां सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः प्रधानमित्यभिमतम्। किलेति प्रमाणासंगतमेतदित्यरुचिं प्रकाशयति। यदपि तद्वस्तु किंचिदात्मेति कल्पितमध्यवसितं प्रमाणासंगतमेव। आह-यस्मात्तदेव स्वयमेव तदपरकारणाभावाद् भवामि समुत्पद्य इति नाभिसंधाय जायते।



कुतः ? यस्मात्-

अनुत्पन्नं हि तन्नास्ति क इच्छेद्भवितुं तदा।



तत् प्रधानादि प्रागसदेव। असतश्च वन्ध्यासुतादेरिव का भवितुमुत्पत्तुमिच्छा भवेत् ? अथ नासदुत्पद्यते किंचित्, केवलमव्यक्तावस्थातो व्यक्तावस्थायां परिणाममात्रम्। यद्येवम्, परिणामोऽपि कथमसन्नुत्पंद्यते व्यक्तावस्था वा ? परिणामस्य व्यक्तावस्थायाश्च तत्स्वभावत्वे तस्याप्युत्पत्तिप्रसङ्गः। व्यतिरेके संबन्धाभावः। संबन्धकल्पनायां च अनवस्था। परतो विस्तरेण प्रधानं निराकरिष्यते [९. १२७-१३८]॥



स्यादेतत्-आत्मन्ययमदोष एव। न हि तस्य वयमुत्पादमिच्छामः। सर्वदा नित्यस्वभावतया अनुत्पन्न एवासौ। भवतु नाम एवम्। तथापि सर्वथा खरविषाणकल्प एवासौ, उत्पादाभावात्। ततो नात्रापि निवर्तते-



अनुत्पन्नं हि तन्नास्ति क इच्छेद्भवितुं तदा। इति।



भावेऽपि वा नास्य स्वात्मन्यपि प्रभुत्वमस्ति। प्रकृत्युपनामितमेव हि विषयमपि स भुङ्क्ते। तदा च विषयोपभोगात्प्राक् तद्भोक्तृत्वमस्य नासीत्, पश्चादुत्पन्नं च तत्स्वभावमेव। अन्यथा तस्य भोक्तृत्वायोगात्। तदुत्पादे च तस्याप्युत्पाद इति कथं नात्मन उत्पाद इष्यत इति। तदेवं पुनः



अनुत्पन्नं हि तन्नास्ति क इच्छेद्भवितुं तदा।



इत्यायातम्॥

अपरमपि दूषणमत्राह-

विषयव्यापृतत्वाच्च निरोद्धुमपि नेहते॥२८॥



यद्यप्यसौ प्रधानोपहितविषयोपभोगाय प्रवर्तत इतीष्यते, तदा प्रागप्रवृत्तस्य पश्चात्प्रवृत्तिर्न युज्यते। अथ कथंचित् प्रवर्तते, तदापि विषये व्यापृतस्य निवृत्तिर्न स्यात्। एतदेवाह-निरोद्धुमपि नेहते। विषयोपभोगान्निवर्तितुमपि नोत्सहते, तदा तस्य तत्स्वभावत्वात्, तस्य च नित्यतया अनिवृत्तेः। निवृत्तौ वा अनित्यत्वप्रसङ्गात्। नैयायिकादीनामात्मनो व्यपदेशो नित्यत्वात्॥



विशेषमपि तस्याह-

नित्यो ह्यचेतनश्चात्मा व्योमवत् स्फुटमक्रियः।



अचैतन्यं सांख्यादिह विशेषः। अन्यत्र समानता। तत्र नित्यः पूर्वापरकालयोरेकस्वभावः। अचेतनश्च अचित्स्वभावः। जड इत्यर्थः। अन्यचैतन्ययोगाच्चेतयते। व्योमवद् व्यापी। अत एव स्फुटं व्यक्तमक्रियः। यदाह-



अन्ये पुनरिहात्मानमिच्छादीनां समाश्रयम्।

स्वतोऽचिद्रूपमिच्छन्ति नित्यं सर्वगतं तथा॥



शुभाशुभानां कर्तारं कर्मणां तत्फलस्य च।

भोक्तारं चेतनायोगाच्चेतनं न स्वरूपतः॥

[तत्त्वसंग्रह-१७१-७२]



तथा च अकिंचित्कर एवासौ, क्वचिदपि कार्येऽनुपयोगात्। अथ अपरसहकारिप्रत्ययसंनिधौ निष्क्रियस्यापि तस्य क्रिया[भ्यु]पगम्यते। यदुक्तम्-



ज्ञानयत्नादिसंबन्धः कर्तृत्वं तस्य भण्यते।इति।

अत्राह-

प्रत्ययान्तरसङ्गेऽपि निर्विकारस्य का क्रिया॥२९॥



ज्ञानयत्नादिप्रत्ययान्तरसंपर्केऽपि नित्यत्वान्निर्विकारस्य पूर्वस्वभावादप्रच्युतस्यात्मनः का क्रिया ? नैव क्रिया युज्यते॥



यः पूर्ववत् क्रियाकाले क्रियायास्तेन किं कृतम्।

तस्य क्रियेति संबन्धे कतरत्तन्निबन्धनम्॥३०॥



यथा पूर्वमक्रियाकाले तथाक्रियाकालेऽपि यः, तेन कारकस्वभावविकलेन क्रियायाः किं कृतम्, येन प्रत्ययान्तरसङ्गे तस्य क्रिया व्यवस्थाप्येत ? अपि च। उभयसंबन्धाभावात् तस्य आत्मनः क्रियेयमिति संबन्धे कतरत्तदन्यनिमित्तम् ? नैवास्ति किंचित्॥



विस्तरेण चात्मनो निराकरिष्यमाणत्वात् [९. ५८-६०] ईश्वरस्य च [९.११९-१२६], न स्वतन्त्रः कश्चिदपि संभवति। एवमस्वातन्त्र्यं सर्वत्र प्रसाध्योपसंहरन्नाह-



एवं परवशं सर्वं यद्वशं सोऽपि चावशः।

निर्माणवदचेष्टेषु भावेष्वेवं क्क कुप्यते॥३१॥



एवमुक्तनयेन परवशं परायत्तं सर्वं बाह्याध्यात्मिकं वस्तुजातम्। तर्हि यद्वशे तदपरायत्तं भविष्यतीति चेत्, न। यद्वशं सोऽपि चावशः स्वहेतुपरतन्त्रः। एवं स हेतुरपि स्वहेतोरित्यनादिसंसारपरंपरायां न स्ववशिता क्वचिदपि संभवति। अतो निर्व्यापाराः सर्वधर्मा इति। कः कस्मै द्रुह्यति परमार्थतः येनापराधिनि क्वचित् कस्यचिदपराधे तस्य द्वेषो युक्तः। इदमेवाह-निर्माणवत् सर्वव्यापारकल्पनाविगमात्, अचेष्टेषु निरीहेषु सर्वधर्मेषु एवं सत्सु क्व कुप्यताम् ? न युज्यते प्रेक्षावतां क्वचिदपि कोप इति भावः॥



स्यादेतत्-एवं हि एकं समर्थयतो द्वितीयं विघटते इत्याशङ्कयन्नाह-

वारणापि न युक्तैवं कः किं वारयतीति चेत्।



समर्थितन्यायेनैव वारणापि निवर्तनमपि निर्माणवदचेष्टेषु भावेषु न युक्ता। एवमिति यदा किंचिदपि स्वतन्त्रं न दृश्यते, सर्वं प्रत्ययसामग्रीं प्रतीत्य जायते, तदा वारणापि न युक्ता। यदि वा-मैवम्, तथापि कथं न युक्ता ? को वारयति, स्वतन्त्रः कर्ता किं निषेध्यं स्वतन्त्रप्रवृत्तं वारयतीति चेत्। अयमभिप्रायः-न हि समानेऽपि न्याये क्वचित् प्रवृत्तिः सामान्यत्वात्। तस्माद्युक्तमेतत्-वारणा न युक्तेति॥



यद्येवं मन्यसे, अत्रोत्तरमाह-

युक्ता प्रतीत्यता यस्माद्दुःखस्योपरतिर्मता॥३२॥



युक्ता वारणा, कुतः ? प्रतीत्यता, इदं प्रतीत्येदमुत्पद्यते इति प्रतीत्यसमुत्पन्नता यस्मादस्ति निर्व्यापारेष्वपि भावेषु, अतो वारणा युक्ता, ततो न व्याघातः। एतदुक्तं भवति-यद्यपि निर्व्यापाराः सर्वधर्माः, तथापि प्रतीत्यसमुत्पादवशात् पारतन्त्र्यमुपदर्शितम्- एवं परवशं सर्वम् [६. ३१] इत्यादिवचनात्। ततः अविद्यादिप्रत्ययबलादुत्तरोत्तरः कार्यप्रवाहः संस्कारादिरूपः प्रवर्तते, पूर्वपूर्वनिवृत्तौ निवर्तते। एतच्च उत्तरत्र [९. ७५] विस्तरेण प्रतिपादयिष्यते। तस्माद्दुःखस्य संसारस्य उपरतिर्निवृत्तिरभिमता। अतो द्वेषादिपापप्रवृत्तिवारणा संगच्छते। तां प्रतीत्य तथाविधमभ्युदयनिःश्रेयसस्वभावं फलमुत्पद्यते॥



सांप्रतं प्रकृतमेव योजयन्नाह-

तस्मादमित्रं मित्रं वा दृष्ट्वाप्यन्यायकारिणम्।

ईदृशाः प्रत्यया अस्येत्येवं मत्वा सुखी भवेत्॥३३॥



यस्मात् प्रतीत्यजं सर्वम्, तस्मादमित्रेतरं [अमित्रमितरं च ] अपकारिणं प्रतीत्य सुखमेवालम्बनीयम्। कुतः ? ईदृशा अपकारकरणशीलहेतवः अस्य अमित्रस्य इतरस्य वा, इति एवं निश्चित्य सुखी भवेत्, दौर्मनस्यं न कुर्वीत॥



किं च। दुःखोपनिपातेन चित्तक्षोभेऽपि न दुःखस्य निवृत्तिरस्तीत्युपदर्शयन्नाह-

यदि तु स्वेच्छया सिद्धिः सर्वेषामेव देहिनाम्।

न भवेत्कस्यचिद्दुःखं न दुःखं कश्चिदिच्छति॥३४॥



नहि आत्मेच्छामात्रेण अनविमतं निवर्तते, अभिमतं चोपतिष्ठते हेतुमन्तरेण। तथात्वे स ति न भवेत् कस्यचित् सत्त्वस्य दुःखम्। किमिति ? न दुःखमात्मनः कश्चिदिच्छति। स्वसुखाभिलाषिण एव हि सर्वसत्त्वाः॥



दुःखाधिवासनाक्षान्तिमभिधाय इदानीं परापकारमर्षणक्षान्तिमुपदर्शयन्नाह-

प्रमादादात्मनात्मानं बाधन्ते कण्टकादिभिः।

भक्तच्छेदादिभिः कोपाद्दुरापस्त्यादिलिप्सया॥३५॥



उद्बन्धनप्रपातैश्च विषापथ्यादिभक्षणैः।

निघ्नन्ति केचिदात्मानमपुण्याचरणेन च॥३६॥



यदैवं क्लेशवश्यवाद् घ्रन्त्यात्मानमपि प्रियम्।

तदैषां परकायेषु परिहारः कथं भवेत्॥३७॥



असमीक्षितकारिता प्रमादः। स्वयमेव स्वकायं कण्टकखाणुकठल्लपाषाणशर्करादिभिर्दुर्गमार्गेषु कर्मप्रवृत्ताः कण्टकास्तरणशयनादिभिर्वा बाधन्ते। तथा भोजनपानपरिहारादिभिः। किमिति ? कोपात् अगम्यपरदारधनादि लब्धुमिच्छया वा॥



उद्बन्धनमूर्ध्वलम्बनम्। प्रपातः प्रपतनं पर्वतादेः। जलाग्निप्रवेशादिभिः, विषापथ्यादिभक्षणैः, अत्याहारातिपानादिभिः, निघ्नन्ति मारयन्ति केचिन्मोहपुरुषा आत्मानं स्वकायम्। परवधादिभिः, अपुण्याचरणेन च। परवधाभिप्रायाः संग्रामादिष्वकुशलक्रियया च॥



यदैवमुक्तक्रमेण क्लेशवश्यत्वात् क्लेशपरतन्त्रत्वात् एते सत्त्वा आत्मानमपि प्रियं वल्लभं घ्नन्ति पीडयन्ति, तदा एषां परकायेषु परशरीरेषु अपकारविरतिः कथं स्यात् ?



इत्थं च कृपापात्रमेवैते, न द्वेषस्थानमित्याह-

क्लेशोन्मत्तीकृतेष्वेषु प्रवृत्तेष्वात्मघातने।

न केवलं दया नास्ति क्रोध उत्पद्यते कथम्॥३८॥



पिशाचैरिव ग्रस्तेषु एषु अपकारकारिषु उक्तनयेन प्रवृत्तेषु आत्मघातने परापकारद्वारेण वा न केवलं न तावत् कृपा नास्ति, औदासीन्यमपि साधूनां तत्रायुक्तम्। द्वेष उत्पद्यते कथं कृपास्थानेष्विति विपर्ययो महान्॥



एवमपि स्वचित्तं निवारयेदित्याह-

यदि स्वभावो बालानां परोपद्रवकारिता।

तेषु कोपो न युक्तो मे यथाग्नौ दहनात्मके॥३९॥



तथा हि विकल्पद्वयमत्र। बालानां पृथग्जनानां यदि एतादृश एव स्वभावः परोपद्रवकारिता नाम, तदा न खलु स्वभावाः पर्यनुयोगमर्हन्ति-किमिति परापकारं कुर्वन्ति ते ? इति परिभाव्य तेषु द्वेषो न युक्तो मे। तद्यथा अग्नौ दहनस्वभावे दाहकरणात्। अन्यथा तदभावे तत्स्वभावताहानिप्रसङ्गात्॥



द्वितीयं विकल्पमधिकृत्याह-

अथ दोषोऽयमागन्तुः सत्त्वाः प्रकृतिपेशलाः।

तथाप्ययुक्तस्तत्कोपः कटुधूमे यथाम्बरे॥४०॥



अथ दोषोऽयमागन्तुः अन्य एव न तत्स्वभावभूतः। सत्त्वाः पुनः प्रकृतिप्रभास्वरचित्तसंतानतया पेशला अकुटिलस्वभावाः। दोषा हि दुष्टस्वभावाः, न तत्स्वभावाः सत्त्वाः। तथापि अयुक्तस्तेषु सत्त्वेषु पेशलस्वभावेषु कोपः। कस्मिन्निव ? कटुधूमो यथा इव अम्बरे। न हि कटुता नाम निर्मलस्याकाशस्य स्वभावः, अपि तु धूमस्य। अतश्च तद्दोषेण धूम एव दोषो युज्यते, नाकाशे प्रकृतिपरिशुद्धे। तस्माद्दोषेष्वेव कोपो युज्यते न सत्त्वेषु।



अपि च। यदेव हि प्रधानं दुःखकारणम्, तत्र युक्तो भवेत् कोपो नाप्रधाने इत्याह-

मुख्यं दण्डादिकं हित्वा प्रेरके यदि कुप्यते।

द्वेषेण प्रेरितः सोऽपि द्वेषे द्वेषोऽस्तु मे वरम्॥४१॥



काये हि दण्डप्रहारादभावितचित्तस्य दुःखं समुत्पद्यते। ततो दण्ड एव मुख्यं दुःखकारणमिति तत्रैव कोपो युक्तः। अथ परप्रेरितस्य दण्डस्य को दोषः ? तेन प्रेरक एव द्वेष्यो भवति। एवं तर्हि द्वेषेण सोऽपि दण्डप्रेरकः प्रेरित इति द्वेषे द्वेषो मम युक्तो न प्रेरके॥



अपि च। नादत्तं किंचिदुपभुज्यते सुखं वा दुःखं वा। इति विचिन्त्य परापकारेऽपि न तत्र चित्तं प्रदूषयेदित्याह-

मयापि पूर्वं सत्त्वानामीदृश्येव व्यथा कृता।

तस्मान्मे युक्तमेवैतत्सत्त्वोपद्रवकारिणः॥४२॥



पूर्वं जन्मान्तरे मयापि सत्त्वानामेवंविधैव पीडा कृता यस्मात्, ऋणपरिशोधनन्यायेन उचितमेव ममैतत् परापकारकारिणः। तत्कर्मफलपरिपाकादिति भावः॥



यद्यस्य कारणं तस्मादेतदुत्पद्यते नान्यस्मादिति परामृश्य परापकारं मर्षयेदित्युपदशर्यन्नाह-

तच्छस्रं मम कायश्च द्वयं दुःखस्य कारणम्।

तेन शस्रं मया कायो गृहीतः कुत्र कुप्यते॥४३॥



अविकलकारणसामग्री हि सर्वकार्यस्य कारणमिति प्रमाणपरिनिश्चितम्। सा चात्र तथाविधा विद्यते। तथाहि तस्यापकारिणः शस्त्रं खङ्गादि मम कायश्च, एतद्द्वयं सामग्रीरूपं दुःखस्य कारणम्। इति समर्थकारणसद्भावेऽपि कार्यं कथं नोत्पद्येत ? अन्यथा तत्तस्य कारणमेव न स्यात्। ततोऽन्यदपि, तत् उत्पादयोगः ? [=तत्सामग्रीतोऽन्यदपि कारणं स्यात्, ततः..........] तस्माद्यादि कारणोपनायके कुप्यते, तदा स्वात्मन्यपि कोपो युक्तः। यतः स्वयमपि दुःखकारणं वहत्युपनयति च भवान्। आत्मन्यकोपे परत्रापि न युक्त इति भावः॥



प्रकारान्तरेणोक्तमेवार्थं स्पष्टयन्नाह-

गण्डोऽयं प्रतिमाकारो गृहीतो घट्टनासहः।

तृष्णान्धेन मया तत्र व्यथायां कुत्र कुप्यते॥४४॥



शरीराकृतिरयं पक्वगण्डो मया गृहीतः। सर्वदुःखहेतुत्वात् सर्वोपमर्दसहः। आकोटनताडनादिभिरप्यभेद्यत्वात्। दुःखपरिहाराय सुखप्राप्तये च या तृष्णा अभिलाषः, तदन्धेन पिहितप्रज्ञालोचनेन तस्यां व्यथायां सत्यां कुत्र कुप्यते ? न हि गण्डस्य कुड्यादिसंपर्कजे दुःखे क्वचिद्विवेकतः कोपो युक्तः॥



अपि च। यः कार्येणानर्थी, तेन तत्कारणमेव परिहर्तव्यं भवेत्। अहं तु विपर्यस्तमतिरिति विमर्शमुपदर्शयन्नाह-

दुःखं नेच्छामि दुःखस्य हेतुमिच्छामि बालिशः।

स्वापराधागते दुःखे कस्मादन्यत्र कुप्यते॥४५॥



दुःखं दण्डाद्यभिघातजं नेच्छामि। तस्य पुनः कारणं शरीरं प्रत्यपकारिणं चेच्छामि। बालिश इति बालधर्मो विपर्यासः। तस्मात्कारणात् स्वकाये यद्दुःखं तत् स्वापराधागतमेव। इति कस्मादन्यत्र तत्सहकारिमात्रे कुप्यते ?



आत्मवधाय स्वयं संस्कृतशस्त्रस्यैव अन्यत्र मम कोपो न युक्त इत्याह-

असिपत्रवनं यद्वद्यथा नारकपक्षिणः।

मत्कर्मजनिता एव तथेदं कुत्र कुप्यते॥४६॥



असिपत्रवनं नरकसमुद्भवम्। असय एव पत्राण्यस्येति कृत्वा। असिग्रहणं प्राधान्यात्। अन्यदपि शस्त्रं नारकदुःखहेतुर्यन्त्रं च। वने तस्मिन्निवासिनो गृध्रोलूकवायसादयः पक्षिणो यथा मत्कर्मजनिता एव दुःखहेतवो भवन्ति। नान्यदत्र दुःखकारणमस्ति। तथा इदमपि परशस्त्रादिकं दुःखहेतुर्मत्कर्मजनितमेव, इति कुत्र कुप्यते ?



इत्थमपि विपर्यास एवायमित्युपदर्शयितुमाह-

मत्कर्मचोदिता एव जाता मय्यपकारिणः।

येन यास्यन्ति नरकान्मयैवामी हता ननु॥४७॥



येन मदीयेन कर्मणा चोदिताः प्रेरिता एव मयि पूर्वकृतापकारे अपकारिणो जाताः सन्तो नरकान् यास्यन्ति, तेन मयैवामी अपकारिणो हता ननु। स्वचित्तं संबोधयति-न अमीभिरहं हतः। अयमभिप्रायः-यदि नाकरिष्यमहमीदृशं कर्म, तदा एतेऽपि नापकारिणोऽभविष्यन्निति मत्कृतेनैव कर्मणा अपकारिणो भवन्ति॥



उपकारिष्वेव मोहादपकारिबुद्धिर्ममेति कारिकाद्वयेन दर्शयन्नाह-

एतानाश्रित्य मे पापं क्षीयते क्षमतो बहु।

मामाश्रित्य तु यान्त्येते नरकान् दीर्घवेदनान्॥४८॥



अहमेवापकार्येषां ममैते चोपकारिणः।

कस्माद्विपर्ययं कृत्वा खलचेतः प्रकुप्यसि॥४९॥



एतानपकारिण आश्रित्य निमित्तीकृत्य मम पापं पूर्वजन्मकृतपरापकारजनितं क्षीयते तद्दुःखानुभवनविपाकेन क्षयं याति। क्षमतः क्षान्तिमालम्बमानस्य। बहु अनेकपर्यायेण कृतम्। मामाश्रित्य मत्कर्मचोदिताः एवमप्यपकारं कृत्वा पुनरेते नरकान् तीव्रवेदनान् दुःसहदुःखानुभवान् यान्ति। अत उक्तक्रमेण अहमेव अपकारी एषामित्यादि सुबोधम्॥



ननु यद्यपकारी भवान्, तर्हि भवत एव नरकगमनमुचितम्, न त्वेषामित्याह-

भवेन्ममाशयगुणो न यामि नरकान् यदि।

एषामत्र किमायातं यद्यात्मा रक्षितो मया॥५०॥



या प्रत्यपकारनिवृत्तिनिष्ठा एतन्ममाशयमाहात्म्यं नरकगतिनिवृत्तिहेतुः। नरकान् न यामि तदात्माशयमाहात्म्यबलेन। न तु पुनरेषां दुराशयतया नरकेषु ममापतनमिति भावः। एतदेवाह-एषामित्यादिना। अयमत्र समुदायार्थः-यद्यहमपकारी सन्नपि केनचिदुपायकौशलेन नरकान् न यामि, तदैषामु[म ?]पकारिणां किमायातम्, किमपक्षीयते ? का क्षतिरित्यर्थः। मया तावदेकेन रक्षिता न भवन्तामन्ये, रक्षित आत्मा च भवेत्। न चैतावता किंचिदेषां न्यूनाधिकं गुणदोषेषु स्यात्॥



ननु यदि नाम एवम्, तथापि भवतोऽपि न युक्तमात्मरक्षणमुपकारिकृतज्ञतया इत्याशङ्कयाह-

अथ प्रत्यपकारी स्यां तथाप्येते न रक्षिताः।

हीयते चापि मे चर्या तस्मान्नष्टास्तपस्विनः॥५१॥



यदि दण्डादिघातं कुर्वत्सु प्रत्यपकारी भवेयम्, तथापि एते रक्षिता न भवन्ति। न कश्चिदेषां प्रतीकारो नरकगमनादिषु कृतः स्यात्। प्रत्युत ताडितेनापि मया न प्रतिताडितव्यम्। तथा सर्वसत्त्वेषु न मैत्रचित्तं मया निश्चि[क्षेप्त ?]तव्यम्। अन्तशो न दग्धस्थूणायामपि प्रतिघचित्तमुत्पादयितव्यम्। इत्यादेर्बोधिसत्त्वचर्याया मम हानिरेव स्यात्। तस्मादेतर्हि प्रतीकारोपायाभावात्तपस्विनो वराका रक्शितुमशक्यत्वान्नष्टा दुर्गतिपतिता एव। इत्युपेक्ष्यन्ते तावदिदानीम्। पश्चात्तदुपायमधिगम्य तत्करिष्यामि यथैषां दुःखमणुमात्रकमपि न स्यात्॥



तदेवं परापकारमर्षणक्षान्तिं प्रतिपाद्य अधुना धर्मनिध्यानक्षान्तिमुपदर्शयितुमाह-

मनो हन्तुममूर्तत्वान्न शक्यं केनचित्क्वचित्।

शरीराभिनिवेशात्तु चित्तं दुःखेन बाध्यते॥५२॥



द्विविधं दुःखमविचारतो बाधकमुपजायते कायिकं मानसिकं चेति। तत्र मनसि न कश्चिद्दण्डादिकं दातुं शक्तः, अमूर्तत्वान्मनसः। इति तदुद्भवं दुःखं परमार्थतो न संभवति। कल्पनाकृतं तु दौर्मनस्यादिकं विद्यते। एतदेव दर्शयति शरीरेत्यादिना। ममेदं शरीरमिति विकल्पाभ्यासवासनावशात् कायदुःखेन चित्तं विहन्यते॥



तत्रापि प्रतिनियतमेव दुःखकारणमित्याह-

न्यक्कारः परुषं वाक्यमयशश्चेत्ययं गणः।

कायं न बाधते तेन चेतः कस्मात्प्रकुप्यसि॥५३॥



न्यक्कारादिगणः समूहः कायस्य दुःखहेतुर्न भवति। न हि कायस्यायं कंचिदुपघातं करोतीति येन, तेन चेतः कस्माद्धेतोः प्रकुप्यसि ?



अथापि स्यात्-यदि नाम न्यक्कारादयः कायस्य बाधका न भवन्ति, तथापि तच्छ्रुत्वा मयि लोकानामप्रसन्नं चित्तमुत्पद्यते, इति मया नेष्यते इत्याशङ्कयाह-

मय्यप्रसादो योऽन्येषां स मां किं भक्षयिष्यति।

इह जन्मान्तरे वापि येनासौ मेऽनभीप्सितः॥५४॥



भवतु नाम एवम्, तथापि विचारणीयमेव। मयि न्यक्कारादिश्रवणाद् योऽयमप्रसादो जनानाम्, स किं मां भक्षयिष्यति इहलोके परलोक वा, येनासौ लोकाप्रसादो ममाप्रियः, इति विचार्य न कर्तव्योऽत्राभिनिवेशः॥



अस्ति वा अत्राभिनिवेशकारणं लाभविघातो नामेत्याह-

लाभान्तरायकारित्वाद् यद्यसौ मेऽनभीप्सितः।

नङ्क्ष्यतीहैव मे लाभः पापं तु स्थास्यति ध्रुवम्॥५५॥



तथाहि न्यक्कारादिश्रवणादप्रसादो लोकानाम्, तस्माच्च लाभोपनामनवैमुख्यम्। ततोऽसौ न्यक्कारादिगणो ममानिष्ट इति चेत्, तदयुक्तम्। नङ्क्ष्यति विनश्वरधर्मतया अपगमिष्यति। इहैव प्रतिनियतैरेव दिनैर्मम लाभः। न तु परलोकानुबन्धी भविष्यति। तन्निमित्तं न्यक्कारादिकर्तृषु क्रुध्यतो यत्पापं तदेव परं स्थास्यति परलोकानुबन्धि भविष्यति। ध्रुवमिति अपरिमुक्ते तत्फले तस्याविनाशात्॥



इदमपि चात्रालोचनीयम्-

वरमद्यैव मे मृत्युर्न मिथ्याजीवितं चिरम्।

यस्माच्चिरमपि स्थित्वा मृत्युदुःखं तदेव मे॥५६॥



इदमेव वरं श्रेष्ठं यल्लाभाभावादस्मिन्नेवाहनि मे मरणमस्तु, न तु पुनः परापकारद्वारेण लाभप्रतिलम्भान्मिथ्याजीवितं चिरं दीर्घकालम्। कुतः ? यस्माद्वहुतरकालमपि जीवित्वा मरणान्तं हि जीवितम् इत्यवश्यंभाविनो मृत्योर्दुःखं तदेव मम। यत्पश्चाद्वर्षशतात्यये भविष्यति, तदेवेदानीं मम म्रियमाणस्य इति चिरजीवितेष्वविशेषः॥



इतोऽप्यविशेष एवेति श्लोकद्वयेन दर्शयन्नाह-

स्वप्ने वर्षशतं सौख्यं भुक्त्वा यश्च विबुध्यते।

मुहूर्तमपरो यश्च सुखी भूत्वा विबुध्यते॥५७॥



ननु (नूनं ?) निवर्तते सौख्यं द्वयोरपि विबुद्धयोः।

सैवोपमा मृत्युकाले चिरजीव्यल्पजीविनोः॥५८॥



यथा कश्चित्स्वप्नोपलब्धं वर्षशतं सुखमुपभुज्य विबुध्यते, अन्यः पुनः क्षणमात्रम्। स तावन्मात्रेण सुखिनमात्मानं मन्यते। अनयोर्द्वयोरपि स्वप्नोपलब्धोपभुक्तसुखयोः प्रतिविबुद्धयोः सतोः तदुपलब्धं विनष्टं सुखं न निवर्तते, जाग्रदवस्थायां नानुवर्तते, स्मरणमात्रावशेषत्वात्। सैवोपमा स्वप्नोपलब्धसुखयोरिव पुरुषयोर्मृत्युकाले मरणसमये चिरजीविनोऽल्पजीविनश्च। ननु निवर्तते सौख्यमिति स्वार्थेऽप्यण्। इत्यलं मिथ्याजीवितेन॥



अस्मादपि लाभालाभयोर्न कश्चिद्विशेष इत्युपदर्शयन्नाह-

लब्ध्वापि च बहूंल्लाभान् चिरं भुक्त्वा सुखान्यपि।

रिक्तहस्तश्च नग्रश्च यास्यामि मुषितो यथा॥५९॥



प्रचुरतरलाभान् लब्ध्वापि समासाद्य, चिरकालमुपभुज्य सुखान्यपि, पुनर्मृत्युमधिगम्य रिक्तहस्तश्च तुच्छहस्तः। न तस्माल्लाभादीषदपि पाथेयं गृहीतम्। नापि सुखात् किंचित् परिशिष्टमवस्थितम्। कटिसूत्रकमात्रमपि न परिशेषितमिति नग्नश्च चौरैः परिमुषित इव अस्माल्लोकात्परं लोकं यास्यामि॥



स्यादेतत्-अस्त्येव विशेषो लाभस्य चीवरादीनामनुपघातादायुःसंस्काराणामुपस्तम्भाच्चिरतरकालं जीवितं स्यात्। ततश्च पूर्वकृतपापस्य विदूषणासमुदाचारादिना परिक्षयं शिक्षासंवरपरिरक्षणेन बोधिचित्तसेवनादिना च कुशलपक्षस्य च वृद्धिं कुर्याम्। यदुक्तम्-



यावच्चिरं जीवति धर्मचारी

तावत्प्रसूते कुशलप्रवाहम्॥इति॥



अतो लाभान्तरायकारिणि युक्त एव प्रद्वेष इत्याशङ्कयन्नाह-

पापक्षयं च पुण्यं च लाभाज्जीवन् करोमि चेत्।



लाभादुक्तक्रमेण जीवन् ध्रियमाणः पापक्षयं च पुण्यं च करोमीत्यादि मन्यसे। ननु एतदितः समधिकं दोषमपश्यता अभिधीयत इत्याह-

पुण्यक्षयश्च पापं च लाभार्थं क्रुध्यतो ननु॥६०॥



लाभार्थं लाभनिमित्तं तदन्तरायकारिणि द्वेषं कुर्वतः सुकृतक्षय एवोपजायते। यदुक्तम्-सर्वमेतत्सुचरितम् [६.१] इत्यादिना। अयं तु विशेषः-अक्षान्तिसमुद्भवस्य पापस्य राशिरभिवर्धते॥



अथापि स्यात्-यथाकथंचित् तावच्चिरकालं लाभाज्जीवितं स्यात्। तावतैव नः प्रयोजनमित्याह-

यदर्थमेव जीवामि तदेव यदि नश्यति।

किं तेन जीवितेनापि केवलाशुभकारिणा॥६१॥



न खलु बोधिसत्त्वस्य इतरसत्त्ववज्जीवितं निष्प्रयोजनमेवाभिलषितम्, किं तर्हि संभाराभिसंवर्धनार्थं पापक्षयार्थं च। तद् यदि सुकृतक्षयनिमित्तमेव तत् स्यात्, तदा किं तेन तादृशेन जीवितेनापि केवलाशुभकर्मकरणशीलेन ? निन्दितमेव तदिति भावः॥



स्यादेतत्-न लाभान्तरायकारितया ममावर्णवादिनि प्रतिघचित्तमुत्पद्यते, किं तु गुणप्रच्छादनादिकर्मणा, दुःखहेतुत्वादित्याह-

अवर्णवादिनि द्वेषः सत्त्वान्नाशयतीति चेत्।

परायशस्करेऽप्येवं कोपस्ते किं न जायते॥६२॥



अयशोभिधायिनि योऽयं भवतो विद्वेषः, सोऽवर्णवादी दोषाविष्करणाद्गुणप्रच्छादनाच्च त्वां नाशयति। इति मत्वा चेद्यदि तन्निमित्तकः। अथवा। सत्त्वान् लोकान्नाशयति। अवर्णवादेन मयि निग्राहयति। स्वयमप्रसन्नचित्तस्तेषामपि चित्तमप्रसादयतीत्यर्थः। इति अवर्णवादिनि द्वेषश्चेत्, उच्यते। तदा योऽपि परेषामन्यसत्त्वानामयशः प्रकाशयति, तत्रापि कोपस्ते किं न जायते ? सोऽपि च अवर्णवादी सत्त्वान्नाशयति। तदस्मिन्नपि युक्तरूप एव कोपः॥



अत्रोत्तरमाशङ्कयन्नाह-

परायत्ताप्रसादत्वादप्रसादिषु ते क्षमा।



परेषु अन्येषु सत्त्वेषु आयत्त आश्रितोऽप्रसादोऽस्य। अन्यसत्त्वान् विषयीकृत्य समुत्पन्न इति। तस्य भावस्तत्त्वं तस्मात्। पराश्रिताप्रसादत्त्वादप्रसादिषु अप्रसन्नचित्तेषु अवर्णवादिषु तव क्षमा क्षान्तिरूत्पद्यते। आत्मचित्तमेव पृच्छति। अत्राह-

क्लेशोत्पादपरायत्ते क्षमा नावर्णवादिनि॥६३॥



यदि यः परायत्ताप्रसादः तत्र क्षमा भवतो भवति, तदा स्वस्मिन्नवर्णवादिनि किं न क्षमा ? किंरूपे ? क्लेशोत्पादनपरायत्ते क्लेशानामुत्पादपरतन्त्रे। परायत्ताप्रसादत्वं क्षमाहेतुः तुल्यमुभयत्रापि इत्यर्थः॥



प्रतिमाद्युपघातकारिषु श्रद्धावशादपि प्रतिघचित्तं नोत्पादयितव्यमित्याह-

प्रतिमास्तूपसद्धर्मनाशकाक्रोशकेषु च।

न युज्यते मम द्वेषो बुद्धादीनां न हि व्यथा॥६४॥



नाशका विकोपयितारः। आक्रोशका दोषबुद्धया वैरूप्याभिधायिनः। तेषु न युक्तो मम द्वेषः। कुतः ? यस्माद्बुद्धादीनां बोधिसत्त्वार्यश्रावकप्रत्येकबुद्धानां वितथाभिनिवेशप्रसूतात्मग्राहनिवृत्तेरभिष्वङ्गाभावान्न व्यथा चित्तपीडालक्षणं दौर्मनस्यं नास्ति। इति भावः। अतः प्रतिमाविनाशकेषु द्वेषचित्तं नोत्पादयितव्यम्। तथा विरुद्धधर्मकारिषु करुणैव तु युज्यते तेषु साधूनाम्। अन्यथा तत्र विशेषाभावात् पापमेव केवलमुपजायते। यदि पुनर्धर्मतो निवारयितुं शक्यते, तदा न दोषः॥



यदपि च धर्मकामतया गुरुमातापित्राद्युपघातकारिषु द्वेषचित्तमुत्पद्यते, तदपि विनिवार्यमेवेत्याह-

गुरुसालोहितादीनां प्रियाणां चापकारिषु।

पूर्ववत्प्रत्ययोत्पादं दृष्ट्वा कोपं निवारयेत्॥६५॥



गुरवो धर्ममार्गोपदेष्टारोऽकुशलपक्षनिवर्तयितारः। सालोहिताः सोदराः। अन्येऽपि ज्ञातिसगोत्रबान्धवादयः। तेषामपकारिषु। तथा प्रियाणां प्रेमस्थानानां चापकारिषु कोपं निवारयेदिति संबन्धः। कथम्? पूर्ववत्प्रत्ययोत्पादं दृष्ट्वा। यदुक्तम्-ये केचिदपराधाश्च इत्यादिना। अतः सर्वेऽप्यमी पूर्वकर्मोपजनितमेव फलमुपभुञ्जते। नात्र कश्चित् प्रतीकारहेतुरस्ति। तदनेन यथा अपरसमये देवगुरुद्विजातिमातापितृप्रभृतीनामर्थे पापं कुर्वतोऽपि न दोष इति मतम्, न तथा इहाभिमतमित्युक्तं भवति॥



किं च। इदमपि वस्तुतत्त्वं मनसि कुर्वता न सत्त्वेषु चित्तं दूषयितव्यमित्याह-

चेतनाचेतनकृता देहिनां नियता व्यथा।

सा व्यथा चेतने दृष्टा क्षमस्वैनां व्यथामतः॥६६॥



समस्तकार्यस्य अन्वयव्यतिरेकाभ्यां जनकत्वेनावधारितं सामग्रीलक्षणं कारणम्। सा च सामग्री वस्तुधर्मतया काचित् क्वचित् समर्थस्वभावा। तत्र चेतनेन कृता हस्तपादादिप्रहारेण। अचेतनेन दण्डशस्त्ररोगादिना। तत्रापि चेतनावद्वयापारोऽस्त्येव। साक्षात् पारंपर्यकृतस्तु विशेषः। स्वयमेव यदृच्छया वा लोष्टकुड्याद्यभिघातजनिता वा देहिनां शरीरिणां नियता व्यथा नियमेन समुत्पद्यते। नान्यदितो व्यथाकारणमस्ति। सा चैवं द्विविधकारणसामग्रीप्रसूतापि चेतने सविज्ञानके काये दृष्टा प्रमाणपरिनिश्चिता। अतस्तदेव तदुत्पत्तिस्थानं नान्यत्। अचेतने। वेदनायोगात्। ततो यद् यस्योत्पत्तिस्थानं तत् तत्रैव भवति नान्यत्र, यथा पङ्के पङ्कजं न स्थले। अतः अस्मान्यायात् क्षमस्व सहस्व एनामनन्तरकथितोभयरूपां व्यथाम्॥



तदानीमुभयोरपि साधारणदूषणतया क्वचिदपि कोपो न युक्त इति कथयितुमाह-

मोहादेकेऽपराध्यन्ति कुप्यन्त्यन्ये विमोहिताः।

ब्रूमः कमेषु निर्दोषं कं वा ब्रूमोऽपराधिनम्॥६७॥



आत्मात्मीयग्राहाभिनिवेशविपर्यासादेके केचिदपराध्यन्ति दण्डादिना। समाक्रोशादि वा वदन्तः सदोषमात्मानं कुर्वन्ति। अन्ये पुनस्तदपराधेन कुप्यन्ति। विमोहिता मोहादेव स्वकृतकर्मफलसंबन्धमननुसरन्तोऽविद्यावरणात्, प्रतिताडनाक्रोशादिकमारभन्ते। इत्थं ब्रूमः-कम् एषु क्लेशराक्षसावेशवशीकृतेषु निर्दोषम्, कं वा ब्रूमोऽपराधिनम् ? उभयेषामपि साधारणदोषत्वात्॥



इदमपि च आत्मगतमेव चिन्तयता प्रतिघचित्तं निवर्तयितव्यमित्याह-

कस्मादेवं कृतं पूर्वं येनैवं बाध्यसे परैः।

सर्वे कर्मपरायत्ताः कोऽहमत्रान्यथाकृतौ॥६८॥



कस्मात्कारणात् किमित्येवम् एतत्फलं हेतुकर्म कृतम्। येनेति लोकोक्तिरेषा यदित्यस्यार्थे। यदेवम्। यदि वा येन कर्मसामर्थ्येन हेतुना। आक्रोशबन्धनताडनादिभिः बाध्यसे पीड्यसे परैरन्यैः। ननु यदि नाम एवम्, तथापि प्रतीकारो युक्त इत्याह-सर्व इत्यादि। सर्वे दुःखहेतवः कर्मप्रत्ययोपजनितप्रवृत्तयः इति कोऽहमत्र अन्यथाकृतौ तत्फलनिवर्तनाय ? न कश्चित्। फलदानोन्मुखस्य कर्मणः केनचिन्निवर्तयितुमशक्यत्वात्॥



इदं पुनरत्र युक्तरूपमित्याह-

एवं बुद्ध्वा तु पुण्येषु तथा यत्नं करोम्यहम्।

येन सर्वे भविष्यन्ति मैत्रचित्ताः परस्परम्॥६९॥



एते सत्त्वाः कर्मक्लेशपरायत्ताः परस्परमसमञ्जसकर्मकारिणो निवर्तयितुमशक्या इति। एवं बुद्ध्वा ज्ञात्वा पुनः पुण्येषु कुशलेषु कर्मसु तथा यत्नं करोम्यहम्, तेन प्रकारेण वीर्यं समारभे, येन तथाविधं सामर्थ्यं प्रतिलभ्य सन्मार्गे प्रवर्तिताः सन्तः सर्वे मैत्रचित्ता हितसुखविधानतत्पराः परस्परमन्योन्यं भविष्यन्ति॥



द्रोहचित्तं विनिवर्त्य प्रियवस्तूपघातकारिणि लौकिकोदाहरणेन द्वेषं निवर्तयेदिति श्लोकद्वयमुपदर्शयन्नाह-

दह्यमाने गृहे यद्वदग्निर्गत्वा गृहान्तरम्।

तृणादौ यत्र सज्येत तदाकृष्यापनीयते॥७०॥



एवं चित्तं यदासङ्गादह्यते द्वेषवह्निना।

तत्क्षणं तत्परित्याज्यं पुण्यात्मोद्दाहशङ्कया॥७१॥



एकस्मिन् गृहेऽग्निना दह्यमाने यथा तस्माद् गृहादन्यद् गृहं गृहान्तरं गत्वा। अग्निर्यत्र तृणकाष्ठादौ सज्जते लगति, तदन्तर्गतमन्यदपि वस्तु मा धाक्षीदिति शङ्कया तदाकृष्यापनीयते, पृथक् कृत्वा निर्धार्यते, इति दृष्टक्रमं प्रकृतेऽपि योजयन्नाह। एवमुक्तोदाहरणन्यायेन चित्तं मनो यस्य वस्तुन आसङ्गादासक्तो दह्यते परितप्यते द्वेषवह्निना प्रतिघानलेन तदासङ्गस्थानं वस्तु तत्क्षणं न कालान्तरपलिम्बेन परित्याज्यं तत्राभिनिवेशः परिहर्तव्यः। किं कारणम् ? पुण्यस्यात्मा शरीरम्। पुण्यस्कन्ध इति यावत्। तस्य उक्तक्रमेण उद्दाहः परिक्षयो मा भूत्। अन्यथा गृहान्तर्गतपदार्थवत् प्रद्वेषवह्निः तमपि दहेत्॥



अपि च। लाभ एवायं लब्धः, यन्मनुष्यदुःखैर्नरकफलं कर्म विपच्यते इति प्रतिपादयन्नाह-

मारणीयः करं छित्त्वा मुक्तश्चेत्किमभद्रकम्।

मनुष्यदुःखैर्नरकान्मुक्तश्चेत्किमभद्रकम्॥७२॥



यो हि मारणमर्हति, स यदि हस्तमात्रं छित्त्वा मुच्यते, तदा न काचित् क्षतिरस्य। प्रत्युत लब्धलाभमात्मानं मन्यते अत्यल्पमिदं मरणदुःखात् करच्छेदनदुःखमिति। तथा योऽपि मनुष्यदुःखं ताडनबन्धनतिरस्कारादिकृतमनुभूय नरकदुःखाद्विमुक्तो भवति, तस्यापि न किंचिदपचीयते। न किंचिदिदं दुःखं नरकदुःखात्, सुखमेव तत्। ततो यदि विचक्षणः स्यात्, तदा सौमनस्यमेवात्र युक्तमस्य॥



अथापि स्यात्-न मया स्वल्पमात्रेऽपि दुःखे क्षमा कर्तुं शक्यत इति, अत्राह-

यद्येतन्मात्रमेवाद्य दुःखं सोढुं न पार्यते।

तन्नारकव्यथाहेतुः क्रोधः कस्मान्न वार्यते॥७३॥



खटचपेटलोष्टादिप्रहारकृतमीषन्मात्रमपि दुःखमिदानीं सोढुं मर्षितुं न पार्यते न शक्यते। तदत्र भवन्तं पृच्छामः-यदि एवमेव, तदयं नारकदुःखसंवर्तनीयः क्रोधः कोपः कस्मात्कारणान्न वार्यते ? अयमेव हि अतितरां नरकेषु दुःखदायक इति दुःखभीरूणामेव क्रोधं निवर्तयितुं युक्तं स्यात्॥



किं च। यद्यपि सोढुं न शक्यते, तथापि तद्धेतुककर्मसंभवादनिच्छतोऽपि दुःखमापतिष्यति भवतः। न च किंचित्फलमुत्पत्स्यते। मर्षणात् पुनस्तस्य महार्थलाभो भविष्यतीति वृत्तद्वयेन शिक्षयितुमाह-

कोपार्थमेवमेवाहं नरकेषु सहस्रशः।

कारितोऽस्मि न चात्मार्थः परार्थो वा कृतो मया॥७४॥



न चेदं तादृशं दुःखं महार्थं च करिष्यति।

जगद्दुःखहरे दुःखे प्रीतिरेवात्र युज्यते॥७५॥



कोपनिमित्तमेव। एवमेव निष्फलमेव। नरकेषु संजीवादिषु। सहस्रशः अनेकवारम्। अहं कारितः छेदनभेदनपाटनादिकारणाभिः पीडितः। एवं दुःखमनुभवतापि मया न च नैव आत्मार्थः दृष्टादृष्टफलसाधनः कृतो निष्पादितः। परस्य अन्यस्य वा अर्थः सुखविधानलक्षणः। इति निष्प्रयोजनमेव नारकदुःखसहस्रशः परिभवो जातः। तदद्यापि न तथैव ममासहिष्णुता युक्तेत्याह-इदं दुःखं नैव तादृशं यादृशं नरकसमुद्भवम्। अथ च महार्थं सर्वसत्त्वहितसुखविधानभूतं बुद्धत्वं साधयिष्यति। अतो जगतो दुःखहरे त्रिजगत्पर्यापन्नसर्वसत्त्वदुःखप्रशमनकरे दुःखे प्रीतिरेवात्र युज्यते नारुचिरिति भावः॥



परगुणश्रवणेर्ष्यामलप्रक्षालनायाह-

यदि प्रीतिसुखं प्राप्तमन्यैः स्तुत्वा गुणोर्जितम्।

मनस्त्वमपि तं स्तुत्वा कस्मादेवं न हृष्यसि॥७६॥



गुणाधिकं स्तुत्वा यदि प्रीतिसुखं कैश्चित् प्राप्तम्, तदा हे मनः त्वमपि तद्गुणसंवर्णनेन किमिति हर्षसुखं नानुभवसि ? किमकाण्डमेव तदीर्ष्यानलज्वालायामात्मसंतानमिन्धनीकरोषि? ननु सर्वसुखमासङ्गात्मतया निषिद्धमेव सेवितुम्। ततः अहं सर्वसुखवैमुख्यादिदमपि नोपाददे। वक्ष्यति हि-

यत्र यत्र रतिं याति मनः सुखविमोहितम्।

तस्मात्सहस्रगुणितं दुःखं भूत्वोपतिष्ठते॥इति।

[बोधि. ८. १८]



आह-

इदं च ते हृष्टिसुखं निरवद्यं सुखोदयम्।

न वारितं च गुणिभिः परावर्जनमुत्तमम्॥७७॥



न हि सर्वं हृष्टिसुखमपाकृतम्, अपि तु यत् सावद्यमकुशलहेतुः। इदं च परगुणाश्रयं हृष्टिसुखं निरवद्यं तव, न च अकुशलहेतुः। अतः सुखोदयं सुखस्योदयोऽस्मादिति कृत्वा। अत एव न वारितं च गुणिभिर्भगवच्छासनविधिज्ञैः। अयमपरोऽस्य गुणः, यत् परावर्जनमुत्तमं परगुणेषु प्रीत्या। गुणेषु एवमयं मत्सरीति मन्यमाना अन्येऽपि सत्त्वा आवर्जिता भवन्ति, अतो युक्तमेवात्र प्रीतिसुखमुपादातुम्॥



स्यादेतत्-न परगुणेषु अक्षमा काचिन्मम। किं तर्हि तावत्तस्यैव सुखमेतदिति मया सोढुमशक्यमिति। अत्राह-

तस्यैव सुखमित्येवं तवेदं यदि न प्रियम्।

भृतिदानादिविरतेर्दृष्टादृष्टं हतं भवेत्॥७८॥



तस्यैव स्तुतिकर्तुः सुखमिति एवमनेनाभिप्रायेण भवतो यदि इदं परगुणस्तुतिप्रतिसमुद्भवं सुखं न प्रियम्, तदा अतिसंकटे पतितोऽसि। कथम् ? भृतिदानादिविरतेः। यदपि च भवतः स्वात्मसुखनिमित्तं स्वभृत्यादिषु भृतिदानं कर्ममूल्यदानम्, तथा उपकारकारिणि प्रत्युपकारकरणम्। इत्यादेर्विरतेर्वैमुख्यात्, तदपि न कर्तव्यमेव स्यात् परसुखविद्वेषिणा। यतस्तेनापि तस्य सुखमेव संपत्स्यते। ततो दृष्टमैहिकं फलम्, अदृष्टं पारलौकिकम्। उभयमपि हतं भवेत् परसुखसंपदमर्षिणा॥



किं च। मिथ्योत्तरमेवेदं भवत इति प्रतिपादयन्नाह-

स्वगुणे कीर्त्यमाने च परसौख्यमपीच्छसि।

कीर्त्यमाने परगुणे स्वसौख्यमपि नेच्छसि॥७९॥



यदि कश्चिद्भवतो गुणमुदीरयति, तदा तस्य परस्यानिष्टमपि सौख्यमिच्छसि। अथ परगुणाननुवर्णयति, तदा पुनरीर्ष्याशल्यवितुद्यमानमानसः। स्वसौख्यमपि नेच्छसि। आस्तां तावत् परसौख्यमित्यपिशब्दः। तस्मात् परसुखसंपदीर्ष्यैव भवतः, न स्तावकसुखासहिष्णुता॥ यदुक्तम्-



तस्यैव सुखमित्येवं तवेदं यदि न प्रियम्। इति।

[बोधि. ६.७८]



तत्र विशेषेण दूषणमाह-

बोधिचित्तं समुत्पाद्य सर्वसत्त्वसुखेच्छया।

स्वयं लब्धसुखेष्वद्य कस्मात्सत्त्वेषु कुप्यसि॥८०॥



इदमतिगर्हितमेव विशेषेण समुत्पादितबोधिचित्तस्य, यत् परसुखसंपदसहिष्णुता नाम। यतः सर्वसत्त्वाः त्रिधातुकान्तश्चराः समस्तसुखसंपत्तिसंतर्पिता बुद्धत्वमधिगम्य मया कर्तव्याः इति मनसिकारेण बोधिचित्तमुत्पाद्यते। तदुत्पाद्य कस्मात् सत्त्वेषु कुप्यते ? अद्य इदानीम्। किंभूतेषु प्रसादस्थानेषु ? स्वचित्तमभिप्रसाद्य स्वयमात्मनैव प्राप्तसुखेषु। इति अकरणीयमेव तत् परसुखवैमुख्यचित्तं बोधिसत्त्वस्येति भावः॥



यः पुनरुत्पादितबोधिचित्तोऽपि परस्य लाभसत्कारसंपत्तिमभिसमीक्ष्य तदीर्ष्याकषायितहृदयः तेनैव शोकेन दह्यते, तस्य परिभाषणार्थमाह-

त्रैलोक्यपूज्यं बुद्धत्वं सत्त्वानां किल वाञ्छसि।

सत्कारमित्वरं दृष्ट्वा तेषां किं परिदह्यसे॥८१॥



अथवा स्यादेतत्-न खलु मया तत्सुखमेव न मृष्यते, किं तर्हि तदुद्भावितान्यगुणश्रवणाभिप्रसन्नमानसैः तेषामुपनामितं लाभसत्कारमित्यत्राह-त्रैलोक्येत्यादि। त्रयो लोका‍एव कामरूपारूप्यधातुलक्षणाः लोकप्रसिद्धया वा स्वर्गादिस्वभावाः त्रैलोक्यम्, तत्समुदायो वा। तस्य पूजामर्हतीति पूज्यमभ्यर्चनीयम्। अनेन सर्वातिशायित्वं प्रतिपादितम्। तथाभूतं बुद्धत्वं सत्त्वानां किल वाञ्छसि। किलेत्यनेन विपर्ययं दृष्ट्वा अरुचिं प्रकाशयति। सत्कार मित्युपलक्षणम्। लाभमपि। शेषं सुबोधम्॥



लाभमभिसंधायाह-

पुष्णाति यस्त्वया पोष्यं तुभ्यमेव ददाति सः।

कुटुम्बजीविनं लब्ध्वा न हृष्यसि प्रकुप्यसि॥८२॥



त्वया पोषणीयं प्रियपुत्रकादिकं त्वदीयं यः पुष्णाति, स तुभ्यमेव ददाति। तवैव तेनोपचयः कृतो भवेत्। अतः त्वत्कुटुम्बजीविनं त्वदीयं कुटुम्बं जीवयति यः, तं तथाविधं पुरुषं लब्ध्वा प्राप्य प्रहृष्यसि न ? काक्वा पृच्छति-प्रकुप्यसि, न प्रहृष्यसे चेत्यर्थः। तथा प्रकृतेऽपि येन सर्वसत्त्वा आत्मीयत्वेन गृहीताः, तस्य तत्सुखैः सुखमेवोचितमिति॥



स्यादेतत्-बुद्धत्वमेव त्वया तेषां प्रतिज्ञातम्, न तु पुनरन्यसुखमित्याशङ्कयाह-

स किं नेच्छसि सत्त्वानां यस्तेषां बोधिमिच्छति।

ननु एतदपि न सम्यक्। यस्मात्-

जगदद्य निमन्त्रितं मया

सुगतत्वेन सुखेन चान्तरा॥



इति प्रतिज्ञातम्। भवतु नाम एवम्, तथापि यः समुत्पादितबोधिचित्तः तेषां सत्त्वानां बोधिं बुद्धत्वमिच्छति, स किमन्यलौकिकलोकोत्तरमर्थजातं नेच्छति ? अथ नैवमिष्यते, तदा बोधिचित्तमपि हीयते इत्याह-

बोधिचित्तं कुतस्तस्य योऽन्यसंपदि कुप्यति॥८३॥



बोधिचित्तं कुतस्तस्य ? मिथ्यैव बोधिचित्तप्रतिज्ञस्य। कस्य ? योऽन्यसंपदि कुप्यति। इतरविभूतौ लाभसत्कारप्रसूतायाम्, इति मर्मचोदना बोधिसत्त्वस्य कुशलकर्मनिवृत्तिहेतुः॥



अपि च। अपरस्य लाभसत्कारसंपदभावेऽपि न भवतस्तद्भावसंभवः। तत्किमकारणमेव तद्विद्वेषिणा आत्मघाताय यत्नः क्रियते इति प्रतिपादयन्नाह-

यदि तेन न तल्लब्धं स्थितं दानपतेर्गृहे।

सर्वथापि न तत्तेऽस्ति दत्तादत्तेन तेन किम्॥८४॥



यदि नाम तेन तव अक्षमाविषयेण सत्त्वेन तद्दीयमानं वस्तु न लब्धम्, तथापि स्थितं दानपतेर्गृहे। भवतस्तु किं तस्माज्जातम् ? सर्वथापि तेन लब्धेन गृहावस्थितेन वा न तद्वस्तु तवास्ति। इति दत्तादत्तेन ते किम् ? न किंचित् प्रयोजनं भवतः। अतस्तत्र उपेक्षैव युक्ता विदुषः॥



किं च। इदमपि तावत् परिभाव्यतामित्युपदर्शयन्नाह-

किं वारयतु पुण्यानि प्रसन्नान् स्वगुणानथ।

लभमानो न गृह्णातु वद केन न कुप्यसि॥८५॥



योऽसौ अतिप्रसन्नैर्दायकदानपतिभिर्लाभसत्कारैः पूज्यते, स किं वारयतु पुण्यानि पूर्वजन्मकृतानि विपाकोन्मुखानि, यद्वशात्तस्य लाभसत्काराः। उत प्रसन्नान् दायकदानपतीन् वारयतु, अथ स्वगुणान् वारयतु, यानाश्रित्य एषां प्रसादो जातः। मा प्रसादमप्येषां जनयिष्यथेति। अथवा। लभमानोऽपि तेभ्यो न स्वीकरोतु। ब्रूहि केन प्रकारेण अत्र न भवतोऽपरितोषः स्यात्। तत्र पुण्यादीनां वारयितुमशक्यत्वात् लभ्यमानाग्रहणेऽपि सर्वथापि न तत्तेऽस्तीत्यादिना बाधकस्योक्तत्वादिति न किंचित् परितोषकारणमस्ति॥



अथापि स्यात्-परस्यैव लाभसत्कारसंपत्तिरस्ति, न मम। अथ मम नास्ति, तदा परस्यापि मा भूत्, इत्येतन्ममासंतुष्टिनिबन्धनमित्याशङ्कयाह-

न केवलं त्वमात्मानं कृतपापं न शोचसि।

कृतपुण्यैः सह स्पर्धामपरैः कर्तुमिच्छसि॥८६॥



सुबोधम्। "यत् किंचिद्दुःखं तत्सर्वं पापसमुद्भूतम्। अभिलाषविघातोऽपि दुःखम्। यदपि पर्येषमाणो न लभते, तदपि दुःखम्" इति वचनात्॥ यद्वक्ष्यति-

अभिलाषविघाताश्च जायन्ते पापकारिणाम्। इति।

[बोधि . ७.४१]



यत् किंचित् सुखं तत् सर्वं पुण्यप्रसूतम्। इति सुखाभिलाषिणा शुभे कर्मणि उद्योगः करणीयः। यद्वक्ष्यति-

पुण्यकारिसुखेच्छा तु............ इत्यादि।

[बोधि. ७.४२-४३]



इति कथं कृतपुण्यैः सह स्पर्धा युज्यते ? सुकृतक्रियायामेव तत्सुखाभिलाषिणां स्पर्धा युक्तेत्यर्थः॥



अपि च। इदमपि प्रष्टव्योऽसि-

जातं चेदप्रियं शत्रोस्त्वत्तुष्टया किं पुनर्भवेत्।



तव शत्रोर्द्वेषविषयस्य त्वदभिलाषमात्रेण अप्रियमनिष्टं जातमुत्पन्नं चेद् यदि, एतावता भवतः किं पुनर्भवेत् ? भवतु तावत् तस्यानिष्टम्, अन्यस्य तु भवतु, मा वा।



मम किंचिदेव तावन्मात्रेण प्रयोजनमिति पराभिप्रायमाशङ्कयाह-

त्वदाशंसनमात्रेण न चाहेतुर्भविष्यति॥८७॥



तवाशंसनम् इच्छा। अभिलाष इति यावत्। तावन्मात्रेण न चाहेतुः, न विद्यते हेतुरस्य, इत्यहेतुरर्थो भविष्यति॥



अप्रियस्य भवतु नाम एवमित्यभ्युपगम्योच्यते-

अथ त्वदिच्छया सिद्धं तद्दुःखे किं सुखं तव।



यदि नाम तवेच्छया सिद्धं निष्पन्नमप्रियं शत्रोः, तथापि तस्य दुःखे समुत्पन्ने किं सुखं तव ? न किंचित्। निष्प्रयोजनमिदमभिप्रेतमिति यावत्। ननु इदमेव प्रयोजनं यत् तद्दुःखे मम संतुष्टिरित्यत आह-

अथाप्यर्थो भवेदेवमनर्थः को न्वतः परः॥८८॥



एवमपि परदुःखपरितोषे यदि अर्थः प्रयोजनं भवेत्, तदा अतः परः अनर्थः को नु ? नुरित्यतिशये। अयमेवानर्थो महानित्यर्थः॥



कथं पुनरयमनर्थ इत्याह-

एतद्धि बडिशं घोरं क्लेशबाडिशिकार्पितम्।

यतो नरकपालास्त्वां क्रीत्वा पक्ष्यन्ति कुम्भिषु॥८९॥



यस्मादेतदिदमेवंविधं परानर्थचित्तं बडिशं घोरं महाभयंकरम्। किंभूतम् ? क्लेशबाडिशिकार्पितम्। क्लेशा एव बडिशेन चरन्तीति बाडिशिकाः तैरर्पितमादत्तम्। यतः क्लेशबाडिशिकात्। बाडिशिकादिव मत्स्यम्। नरकपाला यमपुरुषाः त्वां क्रीत्वा पक्ष्यन्ति पक्ष्यन्ते। क्वचिन्नीत्वेति पाठः। कुम्भिषु नरकविशेषेषु। तस्मादत्राभिलाषं मा कार्षीरिति भावः॥



यदपि स्तुत्यादिविघाते दुःखमुत्पद्यते, तदपि अविवेचयत एवेत्युपदेशयन्नाह-

स्तुतिर्यशोऽथ सत्कारो न पुण्याय न चायुषे।

न बलार्थं न चारोग्ये न च कायसुखाय मे॥९०॥

एतावांश्च भवेत्स्वार्थो धीमतः स्वार्थवेदिनः।



पञ्चप्रकार एवार्थः पुरुषार्थत्वेनाभिमतो विदुषाम्। तद्यथा-पुण्यम्, आयुर्वृद्धिः, बलवृद्धिः, आरोग्यलाभः, कायसुखं चेति। न चैतेषु क्वचिदुपयुज्यन्ते स्तुत्यादयः। इयानेव हि स्वार्थो भवतो भवेत् प्रज्ञावतः स्वार्थवेदिनः। अन्यस्य पुनरन्यथापि भवेत्, इति आत्मनि परामृशति। जानन्तु यद्यपि स्वार्थम्, तथापि स्वार्थवेदिनः अनुपायत्वात् पृथगुपदर्शितः। धीमत इत्यनेन तदसङ्गतया तदपि कथितम्॥



ननु मानसमपि सुखमस्ति, तेन अवधारणमयुक्तमित्यत्राह-

मद्यद्यूतादि सेव्यं स्यान्मानसं सुखमिच्छता॥९१॥



मानसं सुखं सौमनस्यम्। तदिच्छता मद्यं द्यूतं गणिका पारदारिकं सेवनीयं स्यात्। यत्पुनः सद्धर्मश्रवणात् सौमनस्यम्, तत् पुण्यग्रहणेन संगृहीतमित्यदोषः। तस्मात् सौमनस्य हेतुर्भवतोऽपि स्तुत्यादयो बालजनानन्दकारिणोऽनुपादेया एव॥



इत्थमपि बालजनोल्लापकारिणः स्तुत्यादय इत्याह-

यशोर्थं हारयन्त्यर्थमात्मानं मारयन्त्यपि।



केचिन्मोहपुरुषाः तादृशगुणात् स्वयमतिसुदूरे वर्तमाना अपि शक्रादिगुणैः स्तूयमाना बन्दिजनैरन्यैश्च प्रोत्फुल्लनयनवदना यशोर्थिनो हस्त्यश्वादिधनं तृणवत् तेभ्यः प्रयच्छन्ति। तथा तैरेव गुणैः संभावितात्मनामपि शक्रवत् शत्रुविजयसमुद्भूतं यशो मम जगति विपुलतां गमिष्यति, इत्यभिनिवेशाद्दुःसहसंग्रामारोहणान्मारयन्ति।



न चात्र परमार्थतः किंचित् प्रयोजनम्, अन्यत्र मिथ्याविकल्पादिति प्रतिपादयन्नाह-

किमक्षराणि भक्ष्याणि मृते कस्य च तत्सुखम्॥९२॥



स्तुत्याद्यभिधायकानि अक्षराणि वर्णाः किं भक्ष्याणि चर्वितव्यानि ? यशोर्थं मृते सति कस्य च तत् सुखं यशःश्रवणसमुत्थम् ?



तस्माद्बालक्रीडासमानमेतदित्युपदर्शयन्नाह-

यथा पांशुगृहे भिन्ने रोदित्यार्तरवं शिशुः।



यथा कश्चिद् बालो धूलिमयगृहेण परमपरितोषेण परिक्रीडमानः केनचित् तस्मिन् भग्ने महद्दुःखेन परिगृहीतः परमार्तिपीडित इव मद्गृहं भग्नमिति करुणस्वरं क्रन्दति, सैवोपमा अत्रापि इत्याह-

तथा स्तुतियशोहानौ स्वचित्तं प्रतिभाति मे॥९३॥



तथैव स्तुतियशोहानौ विघाते स्वचित्तं दुःखमाविशत् प्रतिभासते विचारयतो मम। अत्रापि न वस्तुसता केनचिद् विप्रलम्भ इति परामर्ष्टव्यम्॥



पुनरन्यथा विचारेण बालधर्म एवायमिति चतुर्भिः श्लोकैः परामृशयन्नाह-

शब्दस्तावदचित्तत्वात् स मां स्तौतीत्यसंभवः।



शब्दो वर्णात्मको बाह्यार्थतया अचित्तः अचेतनः। तस्य भावः तस्मात्। स शब्दो मां स्तौति मदीयं वर्णमुदीरयति। असंभवः न संभवत्येतत्। तत् कथं सौमनस्यं जायते इत्याह-

परः किल मयि प्रीत इत्येतत्प्रीतिकारणम्॥९४॥



अन्यः पुरुषश्चेतनात्मकः। किलेति निरर्थकमेतदपीत्यरुचिप्रतिपादकम्। मयि प्रीतः अभिप्रसन्नः इत्येतदभिसंधानं प्रीतिकारणम्।



तत्राप्येवमसंबन्धात्केवलं शिशुचेष्टितम्।

[बोधि. ६. ९७]



इति संबन्धः॥

असंबन्धमेव कल्पयन्नाह-

अन्यत्र मयि वा प्रीत्या किं हि मे परकीयया।

तस्यैव तत्प्रीतिसुखं भागो नाल्पोऽपि मे ततः॥९५॥



यस्मादन्यस्मिन् मयि वा प्रीत्या परसंतानवर्तिन्या किमायातं मम ? न किंचित्। कुतः ? तस्यैव ततो य एव प्रीतः स्तुतिकर्ता, तत् प्रीतिसुखं नान्यस्य। अतो भागो नाल्पोऽपि ईषदपि मम ततः परसंतानवर्तिनः प्रीतिसुखात्॥



स्यादेतत्-परसुखेनैव सुखित्वं बोधिसत्त्वानाम्। तत् किमिति ततो भागो नास्तीति ? अत्राह-

तत्सुखेन सुखित्वं चेत्सर्वत्रैव ममास्तु तत्।

कस्मादन्यप्रसादेन सुखितेषु न मे सुखम्॥९६॥



यदि परसुखेन सुखित्वम्। तदा तस्मिन्नन्यत्र प्रसादेन सुखितेऽपि ममास्तु तत्सुखित्वम्। किमात्मन्यभिप्रसादेन प्रीते परस्मिन् प्रीतिः ? न त्वन्यस्मिन् प्रसादेन सुखितेषु मम सुखम्॥



तस्माद्वचनमात्रमेवैतत्, न परमार्थ इति दर्शयितुमाह-

तस्मादहं स्तुतोऽस्मीति प्रीतिरात्मनि जायते।

तत्राप्येवमसंबन्धात् केवलं शिशुचेष्टितम्॥९७॥



तदन्यनिमित्ताभावात् अहं स्तुत इत्येवं विकल्पनात् प्रीतिरात्मब्नि जायते, न पुनः परसुखेन सुखित्वात्। तत्रापि न केवलमन्यप्रसादेन सुखिते सति। आत्मन्यपि एवमुक्तक्रमेण असंबन्धादप्रत्यासत्तेः कारणात् केवलं बालविलसितमेतत्॥



अपि च। स्तुत्यादयो मम अपचयमेव दधतीत्युपदर्शयन्नाह-

स्तुत्यादयश्च मे क्षेमं संवेगं नाशयन्त्यमी।

गुणवत्सु च मात्सर्यं संपत्कोपं च कुर्वते॥९८॥



अमी स्तुत्यादयः मम क्षेमं कल्याणम्। अथ क्षेमं कुशलपक्षपरिपालनम्। तथा संवेगं संसारदुःखनिर्वेदनम्। नाशयन्ति घ्नन्ति। न तावन्मात्रमेव, किं तु गुणवत्सु च मात्सर्यम्। आत्मनि गुणाधिकमानेन परगुणप्रच्छादनात्। तद्गुणासहनतया वा संपदि लाभसत्कारादिस्वभावायां कोपं च अमर्षं कुर्वते तेष्वेव। अहमेव गुणाधिकः, ममैव सर्वा संपत्तिरुचिता नान्येषामिति मत्वा॥



यत एते दोषाः स्तुत्यादिषु संभविनः,

तस्मात्स्तुत्यादिघाताय मम ये प्रत्युपस्थिताः।

अपायपातरक्षार्थं प्रवृत्ता ननु ते मम॥९९॥



तस्मात् कारणात्। स्तुत्यादिघाताय विरोधाय ये सत्त्वा मम प्रत्युपस्थिता उद्यताः। अपायपातो नरकादिपतनम्। ततो रक्षार्थं त्राणार्थं रक्षणनिमित्तं प्रवृत्ता उद्युक्ता ननु ते मम। अतः कल्याणमित्राणि ते, नापकारिण इति॥



लाभादिविरोधिनि सर्वथा प्रतिघचित्तमयुक्तं मम इत्युपदर्शयितुमाह-

मुक्त्यर्थिनश्चायुक्तं मे लाभसत्कारबन्धनम्।

ये मोचयन्ति मां बन्धाद्वेषस्तेषु कथं मम॥१००॥



विमुक्तिकामस्य लाभसत्कारौ बन्धनमिव, सङ्गस्थानत्वात्, अयुक्तं नोचितं मुमुक्षोर्बन्धनम्। कल्याणमित्रकृत्यकारिणः शत्रुत्वेनाभिमता विमोचयन्ति वियोजयन्ति मां बन्धात् संसारदुःखलक्षणात् लाभादिस्वभावाद्वा। द्वेषस्तेषु परमोपकारिषु प्रीतिस्थानेषु कथं मम ? न युक्त इत्यभिप्रायः॥



कथं न युक्तमित्याह-

दुःखं प्रवेष्टुकामस्य ये कपाटत्वमागताः।

बुद्धाधिष्ठानत इव द्वेषस्तेषु कथं मम॥१०१॥



लाभसत्काराभिष्वङ्गप्रसङ्गात् संसारदुःखैर्विमोक्तुकामस्य ये सत्पुरुषविशेषाः कपाटत्वमपद्वारत्वमागताः। कुतः ? बुद्धानामधिष्ठानतोऽनुभावादिव। द्वेषस्तेषु कथं मम?



कुशलापघातकारिण्यपि द्वेषं निवारयन्नाह-

पुण्यविघ्नः कृतोऽनेनेत्यत्र कोपो न युज्यते।

क्षान्त्या समं तपो नास्ति नन्वेतत्तदुपस्थितम्॥१०२॥



कुशलविघातः कृतोऽनेन इत्येवं मनसि निधाय अत्र पुण्यविघातकारिणि द्वेषो न युज्यते। कस्मात् ? यतः क्षान्त्या तितिक्षया समं तुल्यं तपः सुकृतं नास्ति सर्वशुभकर्महेतुत्वात्। "न च क्षान्तिसमं तपः" (बोधि. ६.२) इति वचनात्। ननु तदेवेदमयत्नत एव उपस्थितमुपनतम्। पुण्यविघ्नकारिच्छलेन पुण्यहेतुसंनिधेः॥



तत्र प्रद्वेषे तु आत्मनैव पुण्यविघातः कृतो भवेदित्याह-

अथाहमात्मदोषेण न करोमि क्षमामिह।

मयैवात्र कृतो विघ्नः पुण्यहेतावुपस्थिते॥१०३॥



अथ यदि आत्मन एव दोषेण असहिष्णुतात्मकेन न करोमि क्षमां क्षान्तिमिह विघ्नकारिणि, तदा मयैव न पुनरन्येन अत्र पुण्ये कृतो विघ्नः। कुतः ? पुण्यहेतौ पुण्यविघातकारित्वेनाभिमते उपस्थिते संनिहितीभूते। अत्रेत्यस्मिन् पुण्यहेताविति वा संभाव्यते॥



यदि पुण्यविघातकारी, कथमसौ पुण्यहेतुः ? यावत् स एव विघ्न इत्याह-

यो हि येन विना नास्ति यस्मिंश्च सति विद्यते।

स एव कारणं तस्य स कथं विघ्न उच्यते॥१०४॥



यो भावः कार्याभिमतः येन कारणाभिमतेन विना नास्ति, तद्वयतिरेके न भवति, स एव यद्भावेन भवति, नान्यः कारणं जनकः तस्य कार्याभिमतस्य, तदन्वयव्यतिरेकानुविधानात्। एवं प्रकृतेऽपि स जनक एव कथं तस्य जन्यस्य विघ्न उच्यते विघातहेतुरभिधीयते ? तथाविधेऽपि तथा व्यवहारं कुर्वतो नास्ति विप्रतिपत्तिः॥



उक्तमेवार्थं दृष्टान्तोपदर्शनेन व्यक्तं कुर्वन्नाह-

न हि कालोपपन्नेन दानविघ्नः कृतोऽर्थिना।

न च प्रव्राजके प्राप्ते प्रव्रज्याविघ्न उच्यते॥१०५॥



न यस्मात् कस्यचिद्दानपतेर्दित्साकाले एव संप्राप्तेनार्थिना याचनकेन दानविघ्नः कृतः इत्युच्यते, यतः स कारणमेव दानस्य। तथा कस्यचित् प्रव्रजितुकामस्य प्रव्राजकसमवधानं प्रव्रज्या संवरादिग्रहणस्वभावा, न च तस्या विघ्न उच्यते, अपि तु कारणमेव स तस्याः। तमन्तरेण तस्या असंभवात्। एवं प्रकृतेऽपि द्रष्टव्यम्।



अपि च। क्षान्तिहेतुरतिदुर्लभ इति तत्समागमे प्रीतिरेव युज्यते इत्युपदर्शयन्नाह-

सुलभा याचका लोके दुर्लभास्त्वपकारिणः।



अतिप्रचुरप्राप्तिका याचनका लोके सर्वत्र सर्वेषां दीयमानग्रहणावैमुख्यात्, न तु पुनरपकारिणः। अतस्ते दुर्लभाः शतसहस्रेषु, यदि कथंचित् कश्चित् स्याद्वा न वेति। कुतः पुनरेतदेवमित्याह-

यतो मेऽनपराधस्य न कश्चिदपराध्यति॥१०६॥







यस्मादनपराधस्य निवृत्तपरापकारस्य मम निर्निमित्तं न कश्चिदेकोऽपि अपराध्यति, नापकरोति। कर्मणि षष्ठी॥



एवमतिदुर्लभतया परमोपकारित्वाच्च अभिनन्दनीय एव अपकारीत्याह-

अश्रमोपार्जितस्तस्माद्गृहे निधिरिवोत्थितः।

बोधिचर्यासहायत्वात् स्पृहणीयो रिपुर्मम॥१०७॥



यस्मात् कथंचित् प्राप्यन्ते अपकारिणः, तस्माद् गृहे प्रादुर्भूतो निधिरिव श्रममन्तरेणैवाधिगतो रिपुरभिलषणीय एव मया स्यात्, बोधिचर्यायां बुद्धत्वसंभारोपार्जने सहकारित्वाच्च॥



एवंविधे परमपुरुषार्थे साहाय्यं भजमानस्य प्रत्युपकारकरणमेव कृतज्ञतया मम युक्तमित्युपदर्शयन्नाह-

मया चानेन चोपात्तं तस्मादेतत् क्षमाफलम्।

एतस्मै प्रथमं देयमेतत्पूर्वा क्षमा यतः॥१०८॥



यस्मादसौ तत्र साहाय्यं कुर्वन् कारणमेव न विघ्नः तस्मान्मया क्षमामभ्यस्तता, अनेन चापकारं कुर्वता, इति द्वाभ्यामेवोपार्जितम्। एतदिति यस्य साधनाय साहाय्यं भजते। क्षमाफलं धर्माधिगमलक्षणम् एतस्मै धर्मसहायाय प्रथममग्रतो दातव्यं मया इति प्रणिधातव्यम्। यथा मैत्रीबलेन बोधिसत्त्वेन प्रणिहितं पञ्चकानुद्दिश्य। तत्र कारणमाह-यस्मादेतत्पूर्वा, एष एव पूर्वं कारणं यस्याः सा तथोक्ता। न हि अपकारिणमन्तरेण अन्यत् क्षान्तिकारणमस्ति॥



युक्तमेवैतद् यदि तेनैवाभिप्रायेण असौ प्रवर्तते, केवलमपकाराशय एवायमित्याशङ्कयन्नाह-

क्षमासिद्धयाशयो नास्य तेन पूज्यो न चेदरिः।

सिद्धिहेतुरचित्तोऽपि सद्धर्मः पूज्यते कथम्॥१०९॥



क्षमा अस्य बोधिसत्त्वस्य निष्पद्यताम्, इत्याशयो नास्य अपकारोद्यतस्य। तेन कारणेन कुशलहेतुरपि यदि शत्रुः पूजनीयो न भवति, एवं तर्हि कुशलनिष्पत्तिहेतुः निरभिप्रायोऽपि सद्धर्मः प्रवचनलक्षणः कथं पूज्यते ? सोऽपि तदाशयशून्यत्वात् पूजनीयो न स्यात्, इति भावः॥



अथ सद्धर्मस्य निरभिप्रायतया अपकाराशयोऽपि नास्ति, अस्य पुनस्तद्विपर्ययो दृश्यते, इत्याह-

अपकाराशयोऽस्येति शत्रुर्यदि न पूज्यते।

अन्यथा मे कथं क्षान्तिर्भिषजीव हितोद्यते॥११०॥



अपकारः आशयः अस्य शत्रोः, इत्येवमभिसंधाय शत्रुर्यदि न पूज्यते दानमानैर्न सत्क्रियते। अन्यथेति अपकारिणि द्वेषचित्तमनिवारयतः कथं मम क्षान्तिः ? तदपकारमसहमानस्य प्रत्यपकारं वा कुर्वतो नैव युक्तेत्यर्थः। अन्यत्रपि कथं क्षान्तिः ? भिषजीव हितोद्यते, सुवैद्यवद् हितसुखविधायके यत्र प्रेमगौरवमेव सदा, द्वेषनिबन्धनस्य गन्धोऽपि न विद्यते॥



द्वेषचित्तनिवर्तनाच्च क्षान्तिरुच्यते। तस्मादपकारिण्येव प्रतिघचित्तं निवर्तयतः क्षान्तिरिति। एतदेव दर्शयन्नाह-

तद्दुष्टाशयमेवातः प्रतीत्योत्पद्यते क्षमा।

स एवातः क्षमाहेतुः पूज्यः सद्धर्मवन्मया॥१११॥



यतो भिषजीव हितोद्यते क्षान्तिर्न युक्ता, अतः अस्माद्धेतोः तस्य दुष्टाशयमेव प्रतीत्य निमित्तीकृत्य समुपजायते क्षमा। न पुनः कस्यचिच्छुभाशयम्। अतः अस्मात् स एव यस्याशयं प्रतीत्योत्पद्यते क्षमा क्षमाहेतुः, न तु पुनर्यो वैद्यवददुष्टाशयः। इति पूज्यः क्षमासिद्ध्याशयरहितोऽपि सद्धर्मवदसौ मया। एतदुक्तं भवति-किं ममानेन आशयविचारेण प्रयोजनम् ? अभिमतसाध्यसिद्धौ चेदुपयुज्यते, तावतैव ममोपादेयः स्यात्। विगुणाशयफलं तु तस्यैव, यस्यासौ विगुणाशयः। मम तु शुभोदयहेतुरेवायम्, इति कथमिव पूजनीयो न भवेदिति। तस्मात् संभारोपयोगिनि हेतौ किं स्वरूपनिरूपणेन?



एतदेव संभारहेतुत्वमस्य आगमतः प्रसाधयन्नाह-

सत्त्वक्षेत्रं जिनक्षेत्रमित्यतो मुनिनोदितम्।

एतानाराध्य बहवः संपत्पारं यतो गताः॥११२॥



संभारप्रसूतिप्रवृत्तिहेतुत्वात् सत्त्वाः क्षेत्रम्। बुद्धा भगवन्तस्तथैव क्षेत्रम्। इति एवम्। अतो बुद्धत्वकारणहेतुत्वात् अनेकप्रकारं भगवता वर्णितम्। कुतः ? यतो यस्मादेतान् सत्त्वान् जिनांश्च आराध्य आनुकूल्यानुष्ठानेन बहवो बुद्धत्वमधिगम्य सर्वलौकिकलोकोत्तरसर्वसंपत्तिपर्यन्तं प्राप्ताः॥



स्यादेतत्-यदि नाम सत्त्वा अपि सर्वसंपत्तिहेतवः, तथापि तथागतैः सह साधारणता न युक्तेति। अत्राह-

सत्त्वेभ्यश्च जिनेभ्यश्च बुद्धधर्मागमे समे।

जिनेषु गौरवं यद्वन्न सत्त्वेष्विति कः क्रमः॥११३॥



उभयेभ्योऽपि बुद्धधर्माणां बलवैशारद्यादीनामागमे प्रतिलम्भे तुल्ये अविशिष्टे। उभयमपि तत् प्रति हेतुत्वमविशिष्टमिति भावः। अतः साधारणेऽपि हेतुभावे जिनेषु गौरवं यद्वत्, तद्वन्न सत्त्वेषु। इत्येवं कःक्रमः परिपाटिः प्रेक्षावताम् ? नैव युक्तेत्यर्थः॥



ननु च सत्त्वानां रागादिमलैर्हीनाशयत्वात् कारणत्वेऽपि कथं भगवत्समानता युज्यते इत्याशङ्कयाह-

आशयस्य च माहात्म्यं न स्वतः किं तु कार्यतः।

समं च तेन माहात्म्यं सत्त्वानां तेन ते समाः॥११४॥



यद्यपि भगवतामपरिमितपुण्यज्ञानोपजनितमनुत्तरमिह माहात्म्यम्, तथापि उपयुक्तोपयोगित्वेन हेतुभावस्य तुल्यत्वात् समं माहात्म्यमुच्यते। तेन हेतुना ते सत्त्वाः समाः जिनैस्तुल्या उच्यन्ते इति नात्र विशेषः क्रियते॥



यत्र पुनः प्रतिनियतात्मगतो विशेषः, तमुपदर्शयितुमाह-

मैत्र्याशयश्च यत्पूज्यः सत्त्वमाहात्म्यमेव तत्।

बुद्धप्रसादाद्यत्पुण्यं बुद्धमाहात्म्यमेव तत्॥११५॥



सत्त्वेषु मैत्रचित्तविहारी पुनर्यत्पूज्यते जनैः, तत्तस्यैव मैत्र्याशयस्य प्रत्यात्मगतं माहात्म्यं नान्यस्य। तथा तथागतमाहात्म्यमालम्ब्य स्वचित्तं प्रसादयतो यत्पुण्यमुत्पद्यते, तद्भगवत एव माहात्म्यमसाधारणम्, अन्यस्य तथाविधगुणाभावात्॥



इत्यसाधारणं गुणमभिधाय प्रकृतमुपदर्शयन्नाह-

बुद्धधर्मागमांशेन तस्मात्सत्त्वा जिनैः समाः।

न तु बुद्धैः समाः केचिदनन्तांशैर्गुणार्णवैः॥११६॥



इदमत्र बीजं समतोपादाने इत्यर्थः। परमार्थतस्तु न बुद्धैर्भगवद्भिः समाः केचित् सत्त्वाः सन्ति। यदि भवेयुस्तथाविधाः, तदा तेऽपि बुद्धा एव स्युः। किंभूतैः ? गुणार्णवैः। गुणानामर्णवा गुणरत्नाकराः, अगाधापारत्वात्, तैः। पुनरपि तेषामपरमेव विशेषणमाह-अनन्तांशैः। अनन्तः अपर्यन्तः अंशः, एकदेशोऽपि येषां गुणार्णवानाम्, ते तथा, तैः॥



उक्तमेवार्थं व्यक्तीकुर्वन्नाह-

गुणसारैकराशीनां गुणोऽणुरपि चेत्क्वचित्।

दृश्यते तस्य पूजार्थं त्रैलोक्यमपि न क्षमम्॥११७॥



गुणेषु प्रधानानामेकराशयो ये भगवन्तः, तेषां गुणः अणुरपि परमाणुमात्रोऽपि। गुणकणिकापीति यावत्। यदि क्वचित् सत्त्वविशेषे दृश्यते प्रतीयते, तस्य तद्गुणाधारस्य पूजानिमित्तं त्रैलोक्यमपि न क्षमम्। त्रैलोक्यजातानि रत्नादीनि न प्रतिरूपाणीति यावत्॥



यद्येवम्, कथं तर्हि सत्त्वाराधनमुक्तमित्याह-

बुद्धधर्मोदयांशस्तु श्रेष्ठः सत्वेषु विद्यते।

एतदंशानुरूप्येण सत्त्वपूजा कृता भवेत्॥११८॥



व्याख्यातमेतत् पूर्वम्॥

इतोऽपि सत्त्वाराधनमुचितमित्याह-

किं च निश्छद्मबन्धूनामप्रमेयोपकारिणाम्।

सत्त्वाराधनमुत्सृज्य निष्कृतिः का परा भवेत्॥११९॥



निश्छद्मबन्धूनामकृत्रिमसुहृदां बुद्धानां बोधिसत्त्वानां च। अपर्यन्तोपकारिणां निष्कृतिः तत्कृतापकारस्य निष्क्रयणं परिशोधनमिति यावत्। किमपरं भवेत् सत्त्वाराधनमन्तरेण। एतदेव परं निष्क्रयणमित्यर्थः॥



प्रभुचित्तानुकूलवर्तिन एव भृत्यस्य वाञ्छितं सिध्यतीत्यवगम्य सत्त्वाराधनमेवोपादेयमिति प्रतिपादयन्नाह-

भिन्दन्ति देहं प्रविशन्त्यवीचिं

येषां कृते तत्र कृते कृतं स्यात्।

महापकारिष्वपि तेन सर्वं

कल्याणमेवाचरणीयमेषु॥१२०॥



करचरणशिरोनयनस्वमांसानि छित्त्वा छित्त्वा प्रदत्तानि येषां हितसुखविधानाय, तथा अवीचीमपि परदुःखदुःखिनो येषां कृते प्रविशन्ति तत्समुद्धरणाय। प्रकृतत्वाद् बुद्धा बोधिसत्त्वाः। तत्र तेषु सत्त्वेषु कृते कृतं स्यात्। अन्यथा तु कृतमपि न कृतं भवेत्। कृतशब्दोऽयमिह प्रकृताधिकारात् साधुकरणे वर्तते। येनैवम्, तेन परमापकारिष्वपि न चित्तं दूषयितव्यम्। किं तु सर्वमनेकप्रकारं कायवाङ्मनोभिर्वा कल्याणमेव हितसुखमेव विधातव्यमेतेषु॥



उक्तमेव प्रसाधयन्नाह-

स्वयं मम स्वामिन एव तावद्

यदर्थमात्मन्यपि निर्व्यपेक्षाः।

अहं कथं स्वामिषु तेषु तेषु

करोमि मानं न तु दासभावम्॥१२१॥



मम स्वामिन एव बुद्धादयः स्वयमेव आत्मनैव। तावदिति परामर्शे। यदर्थं येषां निमित्तम्। आत्मन्यपि स्वकायजीवितेऽपि। उक्तक्रमेण निरपेक्षा निरभिष्वङ्गाः तृणवत् परित्यजन्ति, तदहं पुनः तेषां भृत्यः तेषु सत्त्वेषु प्रभुपुत्रेष्वत्यन्तप्रियेषु कथं करोमि मानम्, किमिति जानन्नेव तान् प्रतिकूलयामि ? न तु दासभावम्, न पुनर्दासीभूयाराधयामि ?



इतोऽपि च सत्त्वापकारं परित्यज्य तदाराधनमेव कर्तव्यमित्याह-

येषां सुखे यान्ति मुदं मुनीन्द्राः

येषां व्यथायां प्रविशन्ति मन्युम्।

तत्तोषणात्सर्वमुनीन्द्रतुष्टि-

स्तत्रापकारेऽपकृतं मुनीनाम्॥१२२॥



येषां सत्त्वानां प्रियपुत्राणामिव पितरो मुनीन्द्रा बुद्धा भगवन्तः सुखे कायमनोजन्मनि मुदं हर्षं यान्ति, येषां च दुःखे मन्युं प्रविशन्ति अपरितोषमासादयन्ति। एतच्च अनिभिमतत्वाद् भगवतामित्थमभिधीयते, न तु वाणी (सी ?) चन्दनकल्याणा(ल्पव ?)त्(?) तच्छ्रावकाणामपि प्रतिघानुनयासंभवः(?)। अन्यत् सुबोधम्॥



कथं पुनस्तत्रापकारे मुनीनामपकृतं स्यादित्यत्राह-

आदीप्तकायस्य यथा समन्ता-

न्न सर्वकामैरपि सौमनस्यम्।

सत्त्वव्यथायामपि तद्वदेव

न प्रीत्युपायोऽस्ति दयामयानाम्॥१२३॥



समन्तात् सर्वावयवानभिव्याप्य वह्निना प्रज्वलितशरीरस्य यथा पञ्चकामगुणैर्न सौमनस्यम्, कायिकमपि सुखं नास्ति, तस्य प्रज्वलितत्वादेव दुःखेनाक्रान्तत्वात्, तद्वत् तथैव सत्त्वानां व्यथायां दुःखवेदनायां न प्रीतेः सौमनस्यस्य उपायो हेतुरस्ति कृपात्मकानां भगवताम्॥



तस्मादपरिज्ञानेन क्लेशग्रहावेशवशेन वा सत्त्वापकारकर्मणा यदकुशलमुपचितम्, तदपि इदानीमुपसंहारद्वारेण वान्तीकुर्वन्नाह-

तस्मान्मया यज्जनदुःखदेन

दुःखं कृतं सर्वमहाकृपाणाम्।

तदद्य पापं प्रतिदेशयामि

यत्खेदितास्तन्मुनयः क्षमन्ताम्॥१२४॥



यस्मादेवं सत्त्वापकारे मुनीनामपकृतं स्यात्, तस्मात् पापम् अद्य इदानीं प्रतिदेशयामि, संवेगबहुलस्तेषामेव महाकृपाणामग्रतः प्रकाशयामि। पुनरेवं संप्रजानन्न करिष्यामि, इति आयत्यां संवरमापद्ये। यदि प्रतिरूपमाचरितं तत्र मे क्षान्तिं कुर्वन्तु अनुकम्पामुपादाय॥



क्षमयित्वा सांप्रतमाराधनायेत्यादिना तदेकपरायणतामात्मनो दर्शयति-

आराधनायाद्य तथागतानां

सर्वात्मना दास्यमुपैमि लोके।

कुर्वन्तु मे मूर्ध्नि पदं जनौघा

विघ्नन्तु वा तुष्यतु लोकनाथः॥१२५॥



तथागतानामभिप्रेतसंपादनाय लोके लोकविषये सर्वात्मना कायेन वाचा मनसा वा दासीभावं स्वीकरोमि। तेऽपि मे प्रसादं कुर्वन्तो मस्तके पादं निदधतु। तेषां पादं प्रमुदितचित्तः शिरसा धारयामि। अनेन मयि पुर्वापराधमपास्य जगतां पतिर्भगवान् संतुष्टमानसो भवतु॥



भगवत्सु च गौरवकारिभिः सत्त्वेष्वनादरो न कर्तव्य इति प्रसाधयन्नाह-

आत्मीकृतं सर्वमिदं जगत्तैः

कृपात्मभिर्नैव हि संशयोऽस्ति।

दृश्यन्त एते ननु सत्त्वरूपा-

स्त एव नाथाः किमनादरोऽत्र॥१२६॥



सर्वत्रगधर्मधातुप्रतिवेधात् सर्वसत्त्वसमतापादनपरात्मपरिवर्तनादिना वा आत्मीकृतं स्वीकृतं सर्वमिदं जगत्, न कियदेव। तैर्बुद्धैर्भगवद्भिः करुणामयचित्तसंतानैः। सुनिश्चितमेवैतत्। अन्यथा बुद्धत्वायोगात्। तस्मात् सत्त्वरूपेण बुद्धा भगवन्त एवैते सत्त्वा दृश्यन्ते। तेन किमनादरोऽत्र मूढचेतसाम् ? नैव युक्त इति भावः॥



अनेकार्थत्वादपि सत्त्वाराधनस्य तत्रैव यतितव्यमित्याह-

तथागताराधनमेतदेव

स्वार्थस्य संसाधनमेतदेव।

लोकस्य दुःखापहमेतदेव

तस्मान्ममास्तु व्रतमेतदेव॥१२७॥



स्वार्थस्य बुद्धत्वसंभारलक्षणस्यैव। लोकस्य दुःखापहं तद्धेतुत्वात्। एतदेवेति। सर्वत्र सत्त्वाराधनमिति योज्यम्॥



आगामिभयदर्शनादपि च परापकारवैमुख्यमेव अभ्यसनीयमित्युदाहरणेनोपदर्शयन्नाह-

यथैको राजपुरुषः प्रमथ्नाति महाजनम्।

विकर्तुं नैव शक्नोति दीर्घदर्शी महाजनः॥१२८॥



यस्य राज्ञो देशनिवासिनं तस्यासौ राजपुरुषः। महाजनं नगरनिगमग्रामकर्वटादिवास्तव्यम्। प्रमथ्नाति विमर्दयति। स च आगामिराजदण्डभयदर्शितया महाजनो वचनमात्रेणापि यावद्विकारमुपगन्तुमसमर्थः। तेन ताडितोऽपि संकुचितवृत्तिरेवास्ति॥



कस्मात् ?

यस्मान्नैव स एकाकी तस्य राजबलं बलम्।



नैव स राजपुरुषोऽसहाय एव द्रष्टव्यः। कथं पुनरयमसहायो न भवतीत्याह-तस्येति। राज्ञो बलमेव तस्य बलम्, तत्पक्षग्रहणात्।



तथा न दुर्बलं कंचिदपराद्धं विमानयेत्॥१२९॥



तस्मात् कृशशक्तिमपि कृतापराधं नापकुर्यात्। सोऽपि न यस्मादेकाकी॥



यस्मान्नरकपालाश्च कृपावन्तश्च तद्वलम्।

तस्मादाराधयेत्सत्त्वान् भृत्यश्चण्डनृपं यथा॥१३०॥



तस्मादाराधयेत् सत्त्वान्। कुतः ? यस्मान्नरकपालाश्च तदपकारमिव प्रत्यपकारिणोऽन्वाचरन्तः (?) कृपावन्तश्च जिनादयः तत्पक्षपातिनो बलम्। कथमिवाराधयेत् ? अधृष्यं राजानं सर्वानुवृत्तिकरणानुजीविनो यथा, तथा॥



किं च। लोकप्रसिद्धित इदमेवमिहोक्तम्, न तु पुनः सत्त्वाप्रसक्तिफलस्य राजापराधफलेन समानता समस्तीत्याह-

कुपितः किं नृपः कुर्याद्येन स्यान्नरकव्यथा।

यत्सत्त्वदौर्मनस्येन कृतेन ह्यनुभूयते॥१३१॥



किमिति काक्वा पृच्छति। किं तद्दुःखजातमुत्पादयितुं नृपतिः समर्थो भवेत् ? नैवेति भावः। किंभूतम् ? येन दुःखजातेन नारकी वेदना अनुभूयते॥



तुष्टः किं नृपतिर्दद्याद्यद्बुद्धत्वसमं भवेत्।

यत्सत्त्वसौमनस्येन कृतेन ह्यनुभूयते॥१३२॥



आस्तां भविष्यद्बुद्धत्वं सत्त्वाराधनसंभवम्।

इहैव सौभाग्ययशःसौस्थित्यं किं न पश्यसि॥१३३॥



प्रासादिकत्वमारोग्यं प्रामोद्यं चिरजीवितम्।

चक्रवर्तिसुखं स्फीतं क्षमी प्राप्नोति संसरन्॥१३४॥



इति प्रज्ञाकरमतिविरचितायां बोधिचर्यावतारपञ्जिकायां

क्षान्तिपारमिता नाम षष्ठः परिच्छेदः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project