Digital Sanskrit Buddhist Canon

४ बोधिचित्ताप्रमादो नाम चतुर्थः परिच्छेदः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
४ बोधिचित्ताप्रमादो नाम चतुर्थः परिच्छेदः।



एवं गृहीत्वा सुदृढं बोधिचित्तं जिनात्मजः।

शिक्षानतिक्रमे यत्नं कुर्यान्नित्यमतन्द्रितः॥१॥



सहसा यत्समारब्धं सम्यग् यदविचारितम्।

तत्र कुर्यान्न वेत्येवं प्रतिज्ञायापि युज्यते॥२॥



विचारितं तु यद्बुद्धैर्महाप्राज्ञैश्च तत्सुतैः।

मयापि च यथाशक्ति तत्र किं परिलम्ब्यते॥३॥



यदि चैवं प्रतिज्ञाय साधयेयं न कर्मणा।

एतां सर्वां विसंवाद्य का गतिर्मे भविष्यति॥४॥



मनसा चिन्तयित्वापि यो न दद्यात्पुनर्नरः।

स प्रेतो भवतीत्युक्तमल्पमात्रेऽपि वस्तुनि॥५॥



किमुतानुत्तरं सौख्यमुच्चैरुद्धुष्य भावतः।

जगत्सर्वं विसंवाद्य का गतिर्मे भविष्यति॥६॥



वेत्ति सर्वज्ञ एवैतामचिन्त्यां कर्मणो गतिम्।

यद्बोधिचित्तत्यागेऽपि मोचयत्येव तां नरान्॥७॥



बोधिसत्त्वस्य तेनैवं सर्वापत्तिर्गरीयसी।

यस्मादापद्यमानोऽसौ सर्वसत्त्वार्थहानिकृत्॥८॥



योऽप्यन्यः क्षणमप्यस्य पुण्यविघ्नं करिष्यति।

तस्य दुर्गतिपर्यन्तो नास्ति सत्त्वार्थघातिनः॥९॥



एकस्यापि हि सत्त्वस्य हितं हत्वा हतो भवेत्।

अशेषाकाशपर्यन्तवासिनां किमु देहिनाम्॥१०॥



एवमापत्तिबलतो बोधिचित्तबलेन च।

दोलायमानः संसारे भूमिप्राप्तौ चिरायते॥११॥



तस्माद्यथाप्रतिज्ञातं साधनीयं मयादरात्।

नाद्य चेत्क्रियते यत्नस्तलेनास्मि तलं गतः॥१२॥



अप्रमेया गता बुद्धाः सर्वसत्त्वगवेषकाः।

नैषामहं स्वदोषेण चिकित्सागोचरं गतः॥१३॥



अद्यापि चेत्तथैव स्यां यथैवाहं पुनः पुनः।

दुर्गतिव्याधिमरणच्छेदभेदाद्यवाप्नुयाम्॥१४॥



कदा तथागतोत्पादं श्रद्धां मानुष्यमेव च।

कुशलाभ्यासयोग्यत्वमेवं लप्स्येऽतिदुर्लभम्॥१५॥



आरोग्यं दिवसं चेदं सभक्तं निरुपद्रवम्।

आयुःक्षणं विसंवादि कायोपाचितकोपमः॥१६॥



न हीदृशैर्मच्चरितैर्मानुष्यं लभ्यते पुनः।

अलभ्यमाने मानुष्ये पापमेव कुतः शुभम्॥१७॥



यदा कुशलयोग्योऽपि कुशलं न करोम्यहम्।

अपायदुःखैः संमूढः किं करिष्याम्यहं तदा॥१८॥



अकुर्वतश्च कुशलं पापं चाप्युपचिन्वतः।

हतः सुगतिशब्दोऽपि कल्पकोटिशतैरपि॥१९॥



अत एवाह भगवान्-मानुष्यमतिदुर्लभम्।

महार्णवयुगच्छिद्रकूर्मग्रीवार्पणोपमम्॥२०॥



एकक्षणकृतात् पापादवीचौ कल्पमास्यते।

अनादिकालोपचितात् पापात् का सुगतौ कथा॥२१॥



न च तन्मात्रमेवासौ वेदयित्वा विमुच्यते।

तस्मात्तद्वेदयन्नेव पापमन्यत् प्रसूयते॥२२॥



नातः परा वञ्चनास्ति न च मोहोऽस्त्यतः परः।

यदीदृशं क्षणं प्राप्य नाभ्यस्तं कुशलं मया॥२३॥



यदि चैवं विमृष्यामि पुनः सीदामि मोहितः।

शोचिष्यामि चिरं भूयो यमदूतैः प्रचोदितः॥२४॥



चिरं धक्ष्यति मे कायं नारकाग्निः सुदुःसहः।

पश्चात्तापानलश्चित्तं चिरं धक्ष्यत्यशिक्षितम्॥२५॥



कथंचिदपि संप्राप्तो हितभूमिं सुदुर्लभाम्।

जानन्नपि च नीयेऽहं तानेव नरकान् पुनः॥२६॥



अत्र मे चेतना नास्ति मन्त्रैरिव विमोहितः।

न जाने केन मुह्यामि कोऽत्रान्तर्मम तिष्ठति॥२७॥



हस्तपादादिरहितास्तृष्णाद्वेषादिशत्रवः।

न शूरा न च ते प्राज्ञाः कथं दासीकृतोऽस्मि तैः॥२८॥



मच्चित्तावस्थिता एव घ्नन्ति मामेव सुस्थिताः।

तत्राप्यहं न कुप्यामि धिगस्थानसहिष्णुताम्॥२९॥



सर्वे देवा मनुष्याश्च यदि स्युर्मम शत्रवः।

तेऽपि नावीचिकं बन्हिं समुदानयितुं क्षमाः॥३०॥



मेरोरपि यदासङ्गान्न भस्माप्युपलभ्यते।

क्षणात् क्षिपन्ति मां तत्र बलिनः क्लेशशत्रवः॥३१॥



न हि सर्वान्यशत्रूणां दीर्घमायुरपीदृशम्।

अनाद्यन्तं महादीर्घं यन्मम क्लेशवैरिणाम्॥३२॥



सर्वे हिताय कल्पन्ते आनुकूल्येन सेविताः।

सेव्यमानास्त्वमी क्लेशाः सुतरां दुःखकारकाः॥३३॥



इति संततदीर्घवैरिषु व्यसनौघप्रसवैकहेतुषु।

हृदये निवसत्सु निर्भयं मम संसाररतिः कथं भवेत्॥३४॥



भवचारकपालका इमे नरकादिष्वपि वध्यघातकाः।

मतिवेश्मनि लोभपञ्जरे यदि तिष्ठन्ति कुतः सुखं मम॥३५॥



तस्मान्न तावदहमत्र धुरं क्षिपामि

यावन्न शत्रव इमे निहताः समक्षम्।

स्वल्पेऽपि तावदपकारिणि बद्धरोषा

मानोन्नतास्तमनिहत्य न यान्ति निद्राम्॥३६॥



प्रकृतिमरणदुःखितान्धकारान्। रणशिरसि प्रसभं निहन्तुमुग्राः।

अगणितशरशक्तिघातदुःखा न विमुखतामुपयान्त्यसाधयित्वा॥३७॥



किमुत सततसर्वदुःखहेतून् प्रकृतिरिपूनुपहन्तुमुद्यतस्य।

भवति मम विषाददैन्यमद्य व्यसनशतैरपि केन हेतुना वै॥३८॥



अकारणेनैव रिपुक्षतानि गात्रेष्वलंकारवदुद्वहन्ति।

महार्थसिद्ध्यै तु समुद्यतस्य दुःखानि कस्मान्मम बाधकानि॥३९॥



स्वजीविकामात्रनिबद्धचित्ताः कैवर्तचण्डालकृषीवलाद्याः।

शीतातपादिव्यसनं सहन्ते जगद्धितार्थं न कथं सहेऽहम्॥४०॥



दशदिग्व्योमपर्यन्तजगत्क्लेशविमोक्षणे।

प्रतिज्ञाय मदात्मापि न क्लेशेभ्यो विमोचितः॥४१॥



आत्मप्रमाणमज्ञात्वा ब्रुवन्नुन्मत्तकस्तदा।

अनिवर्ती भविष्यामि तस्मात्क्लेशवधे सदा॥४२॥



अत्र ग्रही भविष्यामि बद्धवैरश्च विग्रही।

अन्यत्र तद्विधात्क्लेशात् क्लेशघातानुबन्धिनः॥४३॥



गलन्त्वन्त्राणि मे कामं शिरः पततु नाम मे।

न त्वेवावनतिं यामि सर्वथा क्लेशवैरिणाम्॥४४॥



निर्वासितस्यापि तु नाम शत्रोर्देशान्तरे स्थानपरिग्रहः स्यात्।

यतः पुनः संभृतशक्तिरेति न क्लेशशत्रोर्गतिरीदृशी तु॥४५॥



नाय, न तु क्लेशशत्रोः। न तस्य इतरशत्रुवत्समाचारो दृश्यते। कुतः पुनरेवमिच्छया लभ्यत इत्याह-



क्वासौ यायान्मन्मनःस्थो निरस्तः

स्थित्वा यस्मिन् मद्वधार्थं यतेत।

नोद्योगो मे केवलं मन्दबुद्धेः

क्लेशाः प्रज्ञादृष्टिसाध्या वराकाः॥४६॥



मम चित्तान्निर्वासितः असौ क्लेशरिपुः कुत्र गत्वा अवस्थानं कुर्यात्, यत्रावस्थितिं कृत्वा मम वधाय यतेत ? नैव तत्स्थानमुत्पश्यामि, निर्मूलितस्य पुनरुत्थानायोगादिति भावः। अहमेव तु केवलमनुत्साही, अपटुबुद्धिप्रचारत्वात्। क्लेशाः पुनरिमे निर्मूलत्वात् परमार्थतत्त्वदर्शनमात्रप्रहेयास्तपस्विनः॥



एतदेव प्रसाधयन्नाह-



न क्लेशा विषयेषु नेन्द्रियगणे नाप्यन्तराले स्थिता

नातोऽन्यत्र कुह स्थिताः पुनरमी मथ्नन्ति कृत्स्नं जगत्।



मनोज्ञादिविषयदर्शनेऽपि केषांचित्संवृतेन्द्रियाणां क्लेशानुत्पत्तेः परमाणुशो विचारेऽपि तत्रादर्शनात्। न विषयेषु, नापि चक्षुरादीन्द्रियगणे पूर्ववत्, धर्मचिन्ताद्यवस्थायामिन्द्रियसद्भावेऽप्यनुपलब्धेः। नापि विषयेन्द्रिययोरन्तराले मध्ये तिष्ठन्ति, दृश्यानामनुपलब्धेरेव। न च एतेभ्योऽन्यस्मिन् स्थाने क्वचिदवस्थिता निश्चिताः। अतो निर्मूलतया तत्त्वशून्या आगन्तुका एव, अभूतपरिकल्पमात्रप्रसूतत्वात्। तथाभूता अपि जगदशेषं मथ्नन्ति। तथा च किमत्र समुचितमस्ति ? आह-



मायैवेयमतो विमुञ्च हृदयं त्रासं भजस्वोद्यमं

प्रज्ञार्थं किमकाण्ड एव नरकेष्वात्मानमाबाधसे॥४७॥



यथा हि माया हस्त्याकारतया तदाकारशून्यापि मन्त्रौषधप्रभावादिदंप्रत्ययतया मन्त्रेण तत्त्वरहितापि प्रतिभासते, तथा अमी अपि क्लेशा विपर्यासनिमित्ता अयोनिशोमनसिकारसमुद्भूता इदंप्रतीत्यतामात्रतो निस्तत्त्वा एव प्रकाशन्ते। अतो विजहीहि हृदय त्रासं क्लेशेभ्यः। के नाम अमी वराकाः परमार्थतो विचार्यमाणाः ? अतो भजस्व उद्यमम्, उत्साहं कुरुष्व प्रज्ञार्थं तत्त्वप्रविचयाधिगमाय। किमकाण्ड एव निष्प्रयोजनमेव नरकेषु संघातादिषु क्लेशवशगतया आत्मानमाबाधसे, पीडयसि ?



इदानीं प्राक्तनमर्थमशेषमुपसंहरन्नाह-

एवं विनिश्चित्य करोमि यत्नं

यथोक्तशिक्षाप्रतिपत्तिहेतोः।

वैद्योपदेशाच्चलतः कुतोऽस्ति

भैषज्यसाध्यस्य निरामयत्वम्॥४८॥



एवं समनन्तरसकलपरिच्छेदप्रतिपादितमर्थं विनिश्चित्य दृढीकृत्य अनन्तरमायास्वभावतां वा, करोमि यत्नम्। किमर्थम् ? यथोक्तशिक्षाप्रतिपत्तिहेतोः, यथोक्तशिक्षा बोधिसत्त्वस्य तेषु तेषु सूत्रान्तेषु याः करणीयतया प्रतिपादिताः, इहैव वा शास्त्रे संक्षेपेण तत्र तत्रोपदर्शिताः, तासां शिक्षणार्थम्॥



उक्तानि च भगवता सूत्रान्तेषु बोधिसत्त्वशिक्षापदानि। यथोक्तमार्यरत्नमेघे-



कथं च कुलपुत्र बोधिसत्त्वो बोधिसत्त्वशिक्षासंवरसंवृतो भवति ? इह बोधिसत्त्व एवं विचारयति- न प्रातिमोक्षसंवरमात्रकेण मया शक्यमनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम्। किं तर्हि यानीमानि तथागतेन तेषु तेषु सूत्रान्तेषु बोधिसत्त्वसमुदाचारा बोधिसत्त्वशिक्षापदानि प्रज्ञप्तानि, तेषु मया शिक्षितव्यम्। इति विस्तरः॥



तस्मादस्माद्विधेन मन्दबुद्धिना

दुर्विज्ञेयो विस्तरोक्तत्वाद् बोधिसत्त्वस्य संवरः।

ततः किं युक्तम् ?

मर्मस्थानान्यतो विद्याद्येनानापत्तिको भवेत्।

[शिक्शा. स. कारिका-३]



कतमानि च तानि मर्मस्थानानि ? यदुत-

आत्मभावस्य भोगानां त्र्यध्ववृत्तेः शुभस्य च।

उत्सर्गः सर्वसत्त्वेभ्यस्तद्रक्षाशुद्धिवर्धनम्॥

[शिक्शा. स. कारिका-४]



इत्युक्तम्। एष बोधिसत्त्वसंग्रहो यत्र बोधिसत्त्वानामभ्यासविश्रामेऽपि आपत्तयो व्यवस्थाप्यन्ते। यथोक्तं बोधिसत्त्वप्रातिमोक्शसूत्रे-



यो बोधिसत्त्वेन मार्गः परिगृहीतः सर्वसत्त्वानां कृते दुःखक्षयगामी, सचेद्बोधिसत्त्वस्य तं मार्गं परिगृह्यावस्थितस्य अपि कल्पकोटेरत्ययेन एकं सुखचित्तमुत्पद्येत, अन्तशो निषद्याचित्तमपि, तत्र बोधिसत्त्वेन एवं चित्तमुत्पादयितव्यम्-सर्वसत्त्वानामात्ययिकं परिगृह्य एतदपि मे बहु यन्निषीदामीति॥



अत एवाह-वैद्योपदेशादिति। यथा वैद्योपदेशमकुर्वाणस्य भैषज्यसाध्यं करणीयं यस्य भैषज्येन वा साध्यस्य रोगिणः कुतोऽस्ति निरामयत्वं नीरोगता ? तथा सर्वज्ञमहावैद्योपदिष्टशिक्षाप्रतिपत्तिमकुर्वतः कुतो निरामयत्वं कर्मक्लेशोपजनितजात्यादिदुःदुखमहाभयाद्विमुक्तिः?



तदेवं समात्तसंवरस्य सामान्यमापत्तिलक्षणमुच्यते येन आपत्तिलक्षणेन युक्तं वस्तु स्वयमप्युत्प्रेक्ष्य परिहरेत्। न च आपत्तिप्रतिरूपकेषु अनापत्तिप्रतिरूपकेषु च संमुह्येत्। बोधिसत्त्वः सर्वसत्त्वानां वर्तमानानागतसर्वदुःखदौर्मनस्योपशमाय वर्तमानानागतसर्वसुखसौमनस्योत्पादाय च निःशाठ्यतः कायवाङ्मनःपराक्रमैः प्रयत्नं न करोति, तत्प्रत्ययसामग्रीं नान्वेषते, तदन्तरायप्रतीकाराय न घटते, अल्पदुःखदौर्मनस्यं बहुदुःखदौर्मनस्यप्रतीकारभूतं नोत्पादयति, महार्थसिद्धयर्थं वा अल्पहानिं न करोति, क्षणमप्युपेक्षते, सापत्तिको भवति। संक्षेपतोऽनापत्तिः स्वशक्त्यविषयेषु कार्येषु, तत्र निष्फलतया शिक्षाप्रज्ञप्त्यभावात्। प्रकृतिसावद्यतया वा अन्यद् गृह्यत् एव। यत्र तु स्वशक्त्यगोचरेऽपि योगसामर्थ्यादापत्तिः स्यात्, तन्न चिन्त्यम्, सामान्यपापदेशनान्तर्भावात्ततो मुक्तिः। एतत् समासतो बोधिसत्त्वशिक्षाशरीरम्। विस्तरतस्तु अप्रमेयकल्पपर्यवसाननिर्देश्यम्॥



अथवा संक्षेपतो द्वे बोधिसत्त्वस्यापत्ती। यथाशक्त्या युक्तायुक्तमसमीक्ष्यारभते, न निवर्तते उपेक्षते वा, सापत्तिको भवति। निरूप्य यथार्हमतिक्रामति अन्तशश्चण्डालदासेनापि चोदितः, सापत्तिको भवति। यः पुनरेतदभ्यासार्थं व्युत्पादमिच्छति, तेन शिक्षासमुच्चये तावच्चर्यामुखमात्रशिक्षणार्थमभियोगः करणीयः, शिक्षणारम्भस्यैव महाफलत्वात्। यथोपवर्णितं प्रशान्तविनिश्चयप्रातिहार्यसूत्रे-



इति बोधिसत्त्वशिक्षा समासतो यथोपदेशतः कथितेति॥



इति प्रज्ञाकरमतिविरचितायां बोधिचर्यावतारपञ्जिकायां

बोधिचित्ताप्रमादश्चतुर्थः परिच्छेदः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project