Digital Sanskrit Buddhist Canon

३ बोधिचित्तपरिग्रहो नाम तृतीयः परिच्छेदः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
३ बोधिचित्तपरिग्रहो नाम तृतीयः परिच्छेदः।



अधुना पापदेशनानन्तरं पुण्यानुमोदनामाह-



अपायदुःखविश्रामं सर्वसत्त्वैः कृतं शुभम्।

अनुमोदे प्रमोदेन सुखं तिष्ठन्तु दुःखिताः॥१॥



नरकादिगतौ दुःखमनुभवन्तो हि परिश्रान्ताः सुकृतविपाकमधिगम्य प्रतिलब्धसुखा विश्राम्यन्ति कियत्कालम्। अनुमोदे प्रसादेन इति संप्रहर्षयामि प्रसन्नचित्तः। अनुमोदनापि त्रिविधा-मनसा कायेन वाचा च। तत्र प्रसन्नचित्तः संप्रहर्षयति मनसा, कायेन रोमहर्षश्रुपातगात्रकम्पादिकमनुभवन्, वाचा च संप्रहृष्टचेतनः तथाविधामेव वाचमुच्चारयन्, साधु कृतं भद्रकं कृतमिति। सुखं तिष्ठन्तु दुःखिता इति यदर्थं तैस्तत्कर्म कृतम्, तदपि तेषां समृध्यतु इति भावः॥



लौकिकं कर्मानुमोद्य लोकोत्तरमनुमोदमानः प्राह-



संसारदुःखनिर्मोक्षमनुमोदे शरीरिणाम्।

बोधिसत्त्वत्वबुद्धत्वमनुमोदे च तायिनाम्॥२॥



दुःखनिर्मोक्षमिति श्रावकबोधिः प्रत्येकबुद्धबोधिर्वा। चित्तं वा तदर्थमुत्पादितं तथोच्यते। तदा बोधित्रयमपि तद्गाहः। शरीरिणामिति प्राणिनाम्। बोधिसत्त्वत्वबुद्धत्वमिति बोधिसत्त्वत्वं भगवतां हेत्ववस्थाम्, बुद्धत्वं फलावस्थामिति। तायिनामिति स्वाधिगतमार्गदेशकानाम्। यदुक्तम्-तायः स्वदृष्टमार्गोक्तिः इति। तद्विद्यते येषामिति। अथवा-तायः संतानार्थः आसंसारमप्रतिष्ठितनिर्वाणतयावस्थायिनाम्॥



बोधिसत्त्वानां पुण्यानुमोदनां कुर्वन्नाह-

चित्तोत्पादसमुद्रांश्च सर्वसत्त्वसुखावहान्।

सर्वसत्त्वहिताधानाननुमोदे च शासिनाम्॥३॥



चित्तोत्पादाः प्रतिक्षणभाविनोऽपर्यन्तागाधतया समुद्रा इव समुद्राः तान्। किंभूतान् ? सर्वसत्त्वसुखावहान् सर्वसत्त्वानां सुखमावहन्तीति तद्रसैकनिम्नस्वभावानित्यर्थः। सर्वसत्त्वहिताधानानिति हितविधायकान्। शासिनामिति शासनं शासः बुद्धत्वोपायाभ्यासः, तदर्थत्वादुपचारात्। तद्विद्यते येषामिति शासिनो बोधिसत्त्वाः। तदुक्तम्-



उपायाभ्यास एवायं तादर्थ्याच्छासनं मतम्। इति॥



अथवा-शासितुं शीलं येषामिति शासिनः। बोधिसत्त्वा हि दानादिभिः संग्रहवस्तुभिः सत्त्वान् संगृह्य सन्मार्गेऽवतारयन्ति॥



एतावता अनुमोदना कथिता। अध्येषणां कथयन्नाह-

सर्वासु दिक्षु संबुद्धान् प्रार्थयामि कृताञ्जलिः।

धर्मप्रदीपं कुर्वन्तु मोहाद्दुःखप्रपातिनाम्॥४॥



धर्मप्रदीपं कुर्वन्त्विति अज्ञानतमोवृतानां सत्त्वानां मार्गामार्गविशेषपरिज्ञानविकलानां धर्मदेशनात्मकमालोकं कुर्वन्तु॥



एतावता अध्येषणा कथिता। याचनामुपदर्शयन्नाह-

निर्वातुकामांश्च जिनान् याचयामि कृताञ्जलिः।

कल्पाननन्तांस्तिष्ठन्तु मा भुदन्धमिदं जगत्॥५॥



कृतकृत्यतया परिनिर्वाणं गन्तुमनसः। अपर्यन्तकल्पान् स्थितये याचयामि। मा भूदन्धमिति पूर्ववन्मार्गाज्ञाननिश्चेतनं मा भूत्। अनेनापि याचना प्रोक्ता॥



याचनानान्तरमिदानीं परिणामनामाह-



एवं सर्वमिदं कृत्वा यन्मयासादितं शुभम्।

तेन स्यां सर्वसत्त्वानां सर्वदुःखप्रशान्तिकृत्॥६॥



एवमुक्तक्रमेण सर्वमिदं पूजापापदेशनापुण्यानुमोदनादि कृत्वा विधाय यन्मया आसादितं प्राप्तं शुभं सुकृतं तेन शुभेन स्यां भवेयं सर्वसत्त्वानां समस्तप्राणभृतां सर्वदुःखप्रशान्तिकृदिति निःशेषव्यसनप्रशमनसमर्थो भवेयम्॥



इति सामान्येन परिणमय्य पुनर्विशेषेणाह-

ग्लानानामस्मि भैषज्यं भवेयं वैद्य एव च।

तदुपस्थायकश्चैव यावद्रोगापुनर्भवः॥७॥



तेनेति सर्वत्र यथायोगं संबन्धनीयम्। ग्लानानामिति व्याधिपीडितानाम्। भैषज्यमिति औषधम्। वैद्यश्चिकित्सकः। तदुपस्थायकः तस्य ग्लानस्य परिचारकः। रोगापुनर्भव इति यावद् व्याधिनिवृत्तिः स्यात्॥



क्षुत्पिपासाव्यथां हन्यामन्नपानप्रवर्षणैः।

दुर्भिक्षान्तरकल्पेषु भवेयं पानभोजनम्॥८॥



क्षुद् बुभुक्षा। पिपासा तृष्णा। तयोर्व्यथा, ताभ्यां वा व्यथा। तां हन्यां निवर्तेयम्। अन्नपानप्रवर्षणैः प्रबन्धाहारपानसंपादनैः। दुर्भिक्षान्तरकल्पेष्विति-



कल्पस्य शस्त्ररोगाभ्यां दुर्भिक्षेण च निर्गमः। इति॥



तत्र दशवर्षायुषि प्रजायामन्तरकल्पपर्यन्ते दुर्भिक्षेण संवर्तः प्रादुर्भवति वर्षान् सप्त, मासान् सप्त, दिवसानपि सप्तैव। यदुक्तम्-



कल्पस्य शस्त्ररोगाभ्यां दुर्भिक्षेण विनिर्गमः।

दिवसान् सप्त मासांश्च वर्षाश्चैव यथाक्रमम्॥इति।



तत्र अन्नपानाभावादन्योन्यमांसास्थिभक्षणमेव आहारः। तदपि केचिदलभमाना आहारवैकल्याच्च म्रियन्ते। तत्र भवेयं पानभोजनम्॥



दरिद्राणां च सत्त्वानां निधिः स्यामहमक्षयः।

नानोपकरणाकारैरुपतिष्ठेयमग्रतः॥९॥



दरिद्राणामिति धनविकलानाम्। अक्षय इति आकृष्यमाणधनोऽपि यो न क्षीयते। नानोपकरणाकारैरिति शयनासनवसनभोजनाभरणविलेपनप्रभृति यद्यदभिलषन्ति सत्त्वाः, तैस्तैरुपकरणविशेषाकारैः अहमेव उपतिष्ठेयं प्रत्युपस्थितो भवेयम्। तेषां दरिद्राणां सत्त्वानामग्रतः पुरतः। इदं च परिणामनमार्यवज्रध्वजसूत्रे विस्तरेण प्रतिपादितम्। तत्रेदमुक्तम्-



स तानि कुशलमूलानि परिणामयन् एवं परिणामयति-अनेनाहं कुशलमूलेन सर्वसत्त्वानां लयनं भवेयं सर्वदुःखस्कन्धविनिवर्तनतया। सर्वसत्त्वानां त्राणं भवेयं सर्वक्लेशपरिमोचनतया। सर्वसत्त्वानां शरणं भवेयं सर्वभयारक्षणतया। सर्वसत्त्वानां गतिर्भवेयं सर्वभूम्यनुगमनतया। सर्वसत्त्वानां परायणं भवेयमत्यन्तयोगक्षेमप्रतिलम्भनतया। सर्वसत्त्वानामालोको भवेयं वितिमिरज्ञानसंदर्शनतया। सर्वसत्त्वानामुल्का भवेयमविद्यातमोन्धकारविनिवर्तनतया। इत्यादि विस्तरः। इदमुक्त्वा पुनरिदमाह-तत्राध्याशयतः परिणमयति न वचनमात्रेण। तच्चोदग्रचित्तः परिणमयति। हृष्टचित्तः परिणमयति। प्रसन्नचित्तः परिणमयति। प्रमुदितचित्तः स्त्रिग्धचित्तः परिणमयति। मैत्रचित्तः प्रेमचित्तोऽनुग्रहचित्तो हितचित्तः सुखचित्तः परिणमयति। इति विस्तरः॥



इदानीमात्मभावादिपरित्यागं कुर्वन्नाह-

आत्मभावांस्तथा भोगान् सर्वत्र्यध्वगतं शुभम्।

निरपेक्षस्त्यजाम्येष सर्वसत्त्वार्थसिद्धये॥१०॥



आत्मभावानिति सर्वगतिच्युत्युपपत्तिषु सर्वकायान्। निरपेक्षः सर्वप्रकारेण निरासङ्ग इत्यर्थः। त्यजामि उत्सृजामि। ददामीत्यर्थः। भोगानिति उपभोग्यवस्तूनि हयगजरथप्रासादाद्याश्रयस्त्रक्‍चन्दनवस्त्राभरणकन्यादीनि। सर्वत्र्यध्वगतं शुभमिति सर्वत्रैधातुकसंगृहीतं पुण्यानेञ्जयस्वभावम्। यदि वा दानशीलादिप्रसूतं भावनामयं च। त्र्यध्वगतम् अतीतानागतप्रत्युत्पन्नम्। स्यादेतत्-अनागतस्य असत्स्वभावस्य कोऽयमुत्सर्गो नाम ? सत्यम्। किं तु तत्संभवकाले तत्रासङ्गनिवारणार्थमेवमुच्यते, इदानीमेव तत्परित्यागात्, आशयस्य विशुद्धिवर्धनार्थं च। एतदेवाह-निरपेक्ष इति। तद्विपाकस्य स्वार्थेऽनपेक्षः। किमर्थमेवमनुष्ठीयते इत्याह-सर्वसत्त्वार्थसिद्धये इति। सर्वसत्त्वानां त्रैधातुकवर्तिनामभ्युदयनिःश्रेयसलक्षणार्थनिष्पत्तये। अतीतानागतशुभोत्सर्गस्तु आर्याक्षयमतिसूत्रेऽभिहितः। यदुक्तम्-



कुशलानां च चित्तचैतसिकानामनुस्मृतिः, अनुस्मृत्य च बोधिपरिणामना, इद मतीतकौशल्यम्। या अनागतानां कुशलमूलानां निध्यप्तिर्बोधेरामुखीकर्मसमन्वाहारः, ये ये उत्पत्स्यन्ते कुशलाश्चित्तोत्पादाः, ताननुत्तरायां सम्यक्संबोधौ परिणामयिष्यामि। इदमनागतकौशल्यम्। इति विस्तरः। सर्वत्यागाधिमुक्तिं परिपूर्ये परित्यागचित्तवेगात् तेन कायप्रयोगेण उत्सृष्टसर्वपरिग्रहः। सर्वपरिग्रहमूलाद्भवदुःखाद्विमुक्तो मुक्त इत्युच्यते। इति विस्तरः॥



ननु च आत्मार्थमपि किंचिद्रक्षितुमुचितमिति मात्सर्यं निराकुर्वन्नाह-

सर्वत्यागश्च निर्वाणं निर्वाणार्थि च मे मनः।

त्यक्तव्यं चेन्मया सर्व वरं सत्त्वेषु दीयताम्॥११॥



सर्वेषां सास्रवात्मभावादीनां निर्वाणं मोक्षः। तदर्थि च मे मनः, तदर्थि च मम चित्तम्। त्यक्तव्यं चेदिति। निर्वाणसमये यदि सर्वमात्मभावादि अवश्यं परित्यज्य यातव्यं मया, तदा वरं सत्त्वेषु दीयताम्, किमनेन मात्सर्यहेतुना विधृतेनेति भावः॥



तस्मादिदमिहानुरूपमित्याह-

यश्चासुखीकृतश्चात्मा मयायं सर्वदेहिनाम्।



यथाकामंगमकारितायां नियुक्तो मयायमात्मा कायः। सर्वदेहिनां सर्वसत्त्वानां कृते। एतदेव दर्शयन्नाह-

घ्रन्तु निन्दन्तु वा नित्यमाकिरन्तु च पांसुभिः॥१२॥



क्रीडन्तु मम कायेन हसन्तु विलसन्तु च।

दत्तस्तेभ्यो मया कायश्चिन्तया किं ममानया॥१३॥



कारयन्तु च कर्माणि यानि तेषां सुखावहम्।



दण्डादिभिस्ताडयन्तु वा, अवर्णवादैर्जुगुप्सन्तु, आकिरन्तु च पांसुभिः, धूलिभिरवकिरन्तु। दत्तस्तेभ्यो मया काय इति, सर्वः सर्वेण मया तेषां परित्यक्तः, किं मम समविषमचिन्तया ? कारयन्तु कर्माणीति अनवद्यानि। एतदेवाह-



अनर्थः कस्यचिन्मा भून्मामालम्ब्य कदाचन॥१४॥



अनिष्टं कस्यचित्प्राणिनो मा भूत्, मामाश्रित्य कदाचन, इह परत्र वा॥

येषां क्रुद्धाप्रसन्ना वा मामालम्ब्य मतिर्भवेत्।

तेषां स एव हेतुः स्यान्नित्यं सर्वार्थसिद्धये॥१५॥



येषां क्रुद्धा येषामप्रसन्ना वा मतिश्चित्तं भवेत्, तेषां क्रुद्धाप्रसन्नमतीनां स एव हेतुः स्यात्, क्रुद्धा अप्रसन्ना मतिरेव। पुंस्त्वं तु तच्छब्दस्य हेतुसमानाधिकरणतया। सर्वार्थसिद्धय इति आत्मपराभ्युदयनिःश्रेयसनिष्पत्तये॥



अभ्याख्यास्यन्ति मां ये च ये चान्येऽप्यपकारिणः।

उत्प्रासकास्तथान्येऽपि सर्वे स्युर्बोधिभागिनः॥१६॥



अभ्याख्यास्यन्ति इति मिथ्यारोपितदोषेण दूषयिष्यन्ति। अन्येऽपि ये कायिकं मानसिकं वा अपकारं करिष्यन्ति। उत्प्रासका इति उपहासकाः, विडम्बकारिणो वा। तथा अन्येऽपि उदासीनाः प्रसन्नाश्च। सर्वे भवेयुर्बुद्धत्वलाभिनः॥



अनाथानामहं नाथः सार्थबाहश्च यायिनाम्।

पारेप्सूनां च नौभूतः सेतुः संक्रम एव च॥१७॥



अनाथानामिति सांनाय्यान्वेषिणाम्। सार्थवाहश्च यायिनामिति सार्थमुख्यो मार्गप्रपन्नानाम्। पारेप्सूनामिति नद्यादीनां पारिमकूलं गन्तुकामानाम्॥



दीपार्थिनामहं दीपः शय्या शय्यार्थिनामहम्।

दासार्थिनामहं दासो भवेयं सर्वदेहिनाम्॥१८॥



दीपार्थिनामिति अन्धकारावस्थितानाम्। शय्यार्थिनामिति शयनाभिलाषिणाम्। दासार्थिनामिति उपस्थानार्थं ये भृत्यकर्मकरादीनिच्छन्ति॥



चिन्तामणिर्भद्रघटः सिद्धविद्या महौषधिः।

भवेयं कल्पवृक्षश्च कामधेनुश्च देहिनाम्॥१९॥



चिन्तामणिरिति चिन्तितफलदाता रत्नविशेषः। भद्रघट इति यद्यद्वस्तु अभिलषितमभिसंधाय अस्मिन् हस्तं प्रक्षिपेत्, तत्सर्वं संपद्यते। सिद्धविद्येति सिद्धमन्त्रः यद्यत्कर्म तया क्रियते, तत्सर्वं सिध्यति। महौषधिरिति यदेकैव सर्वोपद्रवपीडाप्रशमनहेतुः। कल्पवृक्षश्चेति कल्पितार्थसंपादको वृक्षविशेषः। कामधेनुश्चेति या वाञ्छितदोहं दुह्यते॥



पृथिव्यादीनि भूतानि निःशेषाकाशवासिनाम्।

सत्त्वानामप्रमेयाणां यथाभोगान्यनेकधा॥२०॥



एवमाकाशनिष्ठस्य सत्त्वधातोरनेकधा।

भवेयमुपजीव्योऽहं यावत्सर्वे न निर्वृताः॥२१॥



पृथिव्यादीनीति पृथिवी वसंधरा। आदिशब्दादापस्तेजो वायुरिति चत्वारि महाभूतानि। तानि यथा शयनाशनसस्यफलमूलाद्याधारतया , तथा यानावगाहनादिहेतुतया। एवमन्यत्रापि योज्यम्। अनन्ताकाशधतुव्यापिनामसंख्यानां सत्त्वानां परिभोगमुपयान्ति, एवमेव अहमपि सर्वसत्त्वानामनेकप्रकारेण उपभोग्यो भवेयम्। यावत्सर्वे न निर्वृता इति यावत् सर्वे न संसारदुःखविनिर्मुक्ताः॥



तस्मादेषामात्मभावादीनामुत्सर्गः कार्यो बोध्यर्थिना। एतच्च दानमतिविस्तरेण शिक्षासमुच्चये प्रदर्शितम्। तद्यथा तत्रैव बोधिसत्त्वप्रातिमोक्षे कथितम्-



पुनरपरं शारिपुत्र बोधिसत्त्वः सर्वधर्मेषु परकीयसंज्ञामुत्पादयति, न कंचिद्भावमुपादत्ते। तत्कस्य हेतोः ? उपादानं हि भयमिति।



इदमुक्त्वा तत्रैव पुनरिदमुक्तम्-

तथा चित्तशूराः खलु पुनः शारिपुत्र बोधिसत्त्वा भवन्ति। यावत् स्वहस्तपरित्यागी भवति, पादपरित्यागी नासापरित्यागी शीर्षपरित्यागी अङ्गप्रत्यङ्गपरित्यागी, यावत् सर्वस्वपरित्यागीति॥



एवं नारायणपरिपृच्छायामप्यभिहितम्-

न तद्धस्तु उपादातव्यं यस्मिन् वस्तुनि नास्य त्यागचित्तमुत्पद्येत, न त्यागबुद्धिः क्रमेत, इति यावत्, अपि तु खलु पुनः कुलपुत्र बोधिसत्त्वेन महासत्त्वेन एवं चित्तमुत्पादयितव्यम्-अयं ममात्मभावः सर्वसत्त्वेभ्य उत्सृष्टः परित्यक्तः, प्रागेव बाह्यानि वस्तूनि। इति विस्तरः॥



तथा आर्याक्षयमतिसूत्रेऽपि देशितम्-



अयं मया कायः सर्वसत्त्वानां किंकरणीयेषु क्षपितव्यः। तद्यथा इमानि चत्वारि महाभूतानि पृथिवीधातुरब्धातुस्तेजोधातुर्वायुधातुश्च नानासुखैः नानापर्यायैः नानारम्बणैः नानोपकरणैः नानापरिभोगैः सत्त्वानामुपभोगं गच्छन्ति, एवमेव अहमिमं चतुर्महाभूतसमुच्छ्रयं कायं नानासुखैः नानापर्यायैः नानारम्बणैः नानोपकरणैः नानापरिभोगैर्विस्तरेण सर्वसत्त्वानामुपजीव्यं करिष्यामीति विस्तरः॥



तच्चित्तरत्नेन्त्यारभ्य सर्वमिदं पूर्वकं बोधिचित्तसंवरग्रहणाय प्रयोगो वेदितव्यः। तदेवं पूजादि विधाय आत्मभावादिदानमुत्सृज्य प्रतिपन्नबोधिचित्तानुशंसः क्षणसंपदं परमदुर्लभामवेत्य श्रद्धामूलं दृढमुपस्थाप्य सत्त्वानत्राणानपरायणान् करुणायमानः स्वसुखनिरपेक्षः परदुःखदुःखी तत्समुद्धरणाशयाभिप्रायो बुद्धत्वमेव तदुपायं समुत्पश्यन् तत्र बद्धसंनाहः-



यदात्मनः परेषां च भयं दुःखं च न प्रियम्।

तदात्मनः को विशेषो यत्तं रक्षामि नेतरम्॥इति।



तेन आत्मनः सत्त्वधातोश्च-

दुःखान्तं कर्तुकामेन सुखान्तं गन्तुमिच्छता।

श्रद्धामूलं दृढीकृत्य बोधौ कार्या मतिर्दृढा॥इति॥



सम्यक्संबोधिचित्तमुत्पादयितुमुपक्रमते-

यथा गृहीतं सुगतैर्बोधिचित्तं पुरातनैः।

ते बोधिसत्त्वशिक्षायामानुपूर्व्या यथा स्थिताः॥२२॥



येनाशयेन सर्वसत्त्वानां सर्वदुःखप्रहाणार्थम्। यदि वा यथा गृहीतं तदेव भगवन्तो जानन्ति। बोधिचित्तमिति बोधिर्बुद्धत्वं सर्वावरणप्रहाणात् सर्वधर्मनिःस्वभावताधिगमः। एतच्च सप्रचयं प्रज्ञापरिच्छेदे वक्ष्यामः। तत्र चित्तमध्याशयेन तत्प्राप्तये मनसिकारः-बुद्धो भवेयं सर्वसत्त्वहितसुखसंपादनायेत्यर्थः॥ इति पूर्वार्धेन बोधिचित्तोत्पादं प्रतिपाद्य शिक्षासंवरग्रहणं प्रतिपादयन्नाह-ते बोधिसत्त्वेत्यादि। बोधिसत्त्वशिक्षा यदुत्पादितबोधिचित्तेन बोधिसत्त्वेन सदा करणीयम्, तत्रेत्यर्थः। आनुपूर्वीति अनु..........



तद्वदुत्पादयाम्येष बोधिचित्तं जगद्धिते।

तद्वदेव च ताः शिक्षाः शिक्षिष्यामि यथाक्रमम्॥२३॥



एवं गृहीत्वा मतिमान् बोधिचित्तं प्रसादतः।

पुनः पुष्टस्य पुष्टयर्थं चित्तमेवं प्रहर्षयेत्॥२४॥



अद्य मे सफलं जन्म सुलब्धो मानुषो भवः।

अद्य बुद्धकुले जातो बुद्धपुत्रोऽस्मि सांप्रतम्॥२५॥



तथाधुना मया कार्यं स्वकुलोचितकारिणाम्।

निर्मलस्य कुलस्यास्य कलङ्को न भवेद्यथा॥२६॥



अन्धः संकारकूटेभ्यो यथा रत्नमवाप्नुयात्।

तथा कथंचिदप्येतद् बोधिचित्तं ममोदितम्॥२७॥



जगन्मृत्युविनाशाय जातमेतद्रसायनम्।

जगद्दारिद्यशमनं निधानमिदमक्षयम्॥२८॥



जगद्वयाधिप्रशमनं भैषज्यमिदमुत्तमम्।

भवाध्वभ्रमणश्रान्तजगद्विश्रामपादपः॥२९॥



दुर्गत्युत्तरणे सेतुः सामान्यः सर्वयायिनाम्।

जगत्क्लेशोपशमन उदितश्चित्तचन्द्रमाः॥३०॥



जगदज्ञानतिमिरप्रोत्सारणमहारविः।

सद्धर्मक्षीरमथनान्नवनीतं समुत्थितम्॥३१॥



सुखभोगबुभुक्षितस्य वा जनसार्थस्य भवाध्वचारिणः।

सुखसत्रमिदं ह्युपस्थितं सकला भ्यागतसत्त्वतर्पणम्॥३२॥



जगदद्य निमन्त्रितं मया सुगतत्वेन सुखेन चान्तरा।

पुरतः खलु सर्वतायिनामभिनन्दन्तु सुरासुरादयः॥३३॥



इति प्रज्ञाकरमतिविरचितायां बोधिचर्यावतारपञ्जिकायां

बोधिचित्तपरिग्रहो नाम तृतीयः परिच्छेदः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project