Digital Sanskrit Buddhist Canon

२ पापदेशना नाम द्वितीयः परिच्छेदः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
२ पापदेशना नाम द्वितीयः परिच्छेदः।



सांप्रतमेवं क्षणसंपत्समागमं दुर्लभमधिगम्य विदितबोधिचित्तानुशंसः बोधिचित्तग्रहणार्थं बुद्धबोधिसत्त्वानामुखीकृत्य वन्दनपूजनशरणगमनपापदेशनापुण्यानुमोदनबुद्धाध्येषणायाचनाबोधिपरिणामनां च कुर्वन्नाह-



तच्चित्तरत्नग्रहणाय सम्यक्

पूजां करोम्येष तथागतानाम्।

सद्धर्मरत्नस्य च निर्मलस्य

बुद्धात्मजानां च गुणोदधीनाम्॥१॥



तस्य समनन्तरप्रतिपादितानुशंसस्य चित्तरत्नस्य ग्रहणाय स्वीकाराय। तदुत्पादयितुमित्यर्थः। तथागतानां बुद्धानां भगवतां पूजां करोमि। एषोऽहमिति बोधिचित्तग्राहकोऽयमात्मानं निदर्शयति। अयं बुद्धरत्नस्य निर्देशः। सद्धर्मरत्नस्य चेति आगमाधिगमलक्षणस्य। निर्मलस्येति त्रिकल्याणतया त्रिकोटिशुद्धस्य प्रकृतिप्रभास्वरस्य च। सर्वदा सर्वमलानामस्थानत्वात्, क्लेशानामागन्तुकत्वात्, समस्तमलापहरणपटुत्वाच्च। अयं च धर्मरत्नस्य निर्देशः। तदात्मजानां च बुद्धसुतानाम्। गुणोदधीनां गुणरत्नसमुद्राणाम् आर्यावलोकितमञ्जुघोषप्रभृतीनाम्। अयं तु संघरत्नस्य निर्देशः। इत्यादौ रत्नत्रयपूजाविधिः। पूजां करोमीति सर्वत्र संबन्धनीयम्। सम्यगिति पूजाया एव विशेषणम्। सम्यगविपरीतं यथा भवति। तीव्रचित्तप्रसादेन वा ग्रहणस्य वा विशेषणम्। सम्यग्ग्रहणाय अतिशयप्रसन्नचित्तेन न परानुरोधादिना। यथा गृहीतं न पुनर्भ्रश्यति इति॥



पूजामेव कथयन्नाह-

यावन्ति पुष्पाणि फलानि चैव

भैषज्यजातानि च यानि सन्ति।

रत्नानि यावन्ति च सन्ति लोके

जलानि च स्वच्छमनोरमाणि॥२॥



यत् परिमाणमेषामिति यावन्ति निरवशेषाणि। पुष्पाणि फलानि चैव। आकाशधातुप्रसरावधीनि सर्वाण्यपीमानि अपरिग्रहाणि। आदाय बुद्धया मुनिपुंगवेभ्यो निर्यातयाम्येष सपुत्रकेभ्यः इति सर्वत्र पूर्वेषु योजनीयम्। भैषज्यजातानि औषधप्रकाराः। स्वच्छमनोरमाणीति रत्नानामपि विशेषणम्॥



महीधरा रत्नमयास्तथान्ये

वनप्रदेशाश्च विवेकरम्याः।

लताः सपुष्पाभरणोज्ज्वलाश्च

द्रुमाश्च ये सत्फलनम्रशाखाः॥३॥



देवादिलोकेषु च गन्धधूपाः

कल्पद्रुमा रत्नमयाश्च वृक्षाः।

सरांसि चाम्भोरुहभूषणानि

हंसस्वनात्यन्तमनोहराणि॥४॥



महीधराः पर्वताः। रत्नमया रत्नस्वभावाः। विवेकरम्या इति विवेकोपरम्या मनोहराः। विवेकानुकूला इति यावत्। सुपुष्पाभरणोज्ज्वलाश्चेति शोभनपुष्पाण्येवाभरणानि मण्डनानि तैरुज्ज्वला अतिभ्राजिष्णवः। सत्फलनम्रशाखा इति सन्ति च शोभनानि वर्णगन्धरससंपन्नानि तानि फलानि चेति तैर्नम्रा अवनता भूमिलग्ना इव शाखा येषां ते कल्पद्रुमाः कल्पवृक्षाः। अम्भोरुहभूषणानि पद्मान्येव भूषणानि येषां तानि तथा। हंसस्वनात्यन्तमनोहराणि हंसानां स्वनै रूतैरत्यन्तमनोहराणि रमणीयानि तानि तथा॥



अकृष्टजातानि च शस्यजाता-

न्यन्यानि वा पूज्यविभूषणानि।

आकाशधातुप्रसरावधीनि

सर्वाण्यपीमान्यपरिग्रहाणि॥५॥



अकृष्टान्येव हलविलेखनमन्तरेणैव जातानि प्रादुर्भूतानि। शस्यजातानि व्रीहिविशेषाः। अन्यानि वा पूज्यविभूषणानि पूज्यानामाराध्यानां विभूषणानि शोभाकराणि। अन्यानि अपराणि आकाशधातुप्रसरावधीनि आकाशधातोः प्रसरोऽवकाशः विस्तारो वा, तावदवधीनि तत्पर्यन्तानि। सर्वाण्यपीमानि उक्तानि उक्तसदृशानि अपरिग्रहाणि अममानि न केनचित् स्वीकृतानीत्यर्थः॥



आदाय बुद्ध्या मुनिपुंगवेभ्यो

निर्यातयाम्येष सपुत्रकेभ्यः।

गृह्णन्तु तन्मे वरदक्षिणीया

महाकृपा मामनुकम्पमानाः॥६॥



आदाय बुद्धया गृहीत्वा मनोविज्ञानेन। मुनिपुंगवेभ्यो मुनिवृषभेभ्यो निर्यातयामि प्रयच्छामि। सपुत्रकेभ्यः सबोधिसत्त्वगणेभ्यः। गृह्णन्तु तन्मे स्वीकुर्वन्तु तदेतत् सर्वं मम पूजोपहारवस्तु। वरदक्षिणीया अनुत्तरदक्षिणापात्राणि बुद्धबोधिसत्त्वाः। महाकृपाः सर्वसत्त्वहितसुखविधानैकमनसः। मां दीनदुःखितसत्त्वमनुकम्पमानाः करुणायमानाः। ममानुग्रहायेति यावत्॥



स्यादेतत्-किं पुनरेवं मनोमयपूजामात्रं विधीयते यावता तत्तद्वस्तु मनोहरं साक्षादेव कस्मान्नोपनीयते इत्याशङ्कयाह-



अपुण्यवानस्मि महादरिद्रः

पूजार्थमन्यन्मम नास्ति किंचित्।

अतो ममार्थाय परार्थचित्ता

गृह्णन्तु नाथा इदमात्मशक्त्या॥७॥



अकृतपुण्योऽस्मि, अत एव महादरिद्रः। पुण्ये सर्वोपकरणसंपत्तिभिर्भवति। तदभावात् पूजार्थमन्यदुपकरणं मम नास्ति किंचित्। अतो ममार्थाय मम पुण्यकामतया भगवन्तश्च परार्थचित्ताः परहितसुखाभिलाषिणो महाकारुणिकत्वात्। अतो गृह्णन्तु नाथा इदमुक्तं पूजोपकरणं मया निर्यातितम्। आत्मशक्त्येति स्वसामर्थ्येन॥



अयं पुनरात्मभावो ममायत्तोऽस्ति। तं निर्यातयामीत्याह-

ददामि चात्मानमहं जिनेभ्यः

सर्वेण सर्वं च तदात्मजेभ्यः।

परिग्रहं मे कुरुताग्रसत्त्वा

युष्मासु दासत्वमुपैमि भक्त्या॥८॥



आत्मानं च प्रयच्छामि जिनेभ्यः। सर्वेण सर्वं च सर्वप्रकारेण। आत्मस्वीकारं परित्यज्य तदात्मजेभ्योऽपि। मां प्रतिगृह्णीत नरवृषभाः। युष्मासु दासत्वं दासभावं स्वीकरोमि। न जीविकादिलोभात्, अपि तु भक्त्या परमगौरवेण। श्रद्धाविलेन चेतसेत्यर्थः॥



ननु कः पुनरत्र गुणोऽस्तीत्याह-

परिग्रहेणास्मि भवत्कृतेन

निर्भीर्भवे सत्त्वहितं करोमि।

पूर्वं च पापं समतिक्रमामि

नान्यच्च पापं प्रकरोमि भूयः॥९॥



भवत्कृतेन युष्मदीयेन महदाश्रयेण विगतभयः संसारे लोकानां हितमर्थं संपादयामि। महदाश्रयेऽपि नाकुशलकर्मावृतस्य स्वहितकरणेऽपि सामर्थ्यमस्तीत्याह-पूर्वं चेत्यादि। पूर्वमपरिज्ञानात् कृतमकुशलकर्म समतिक्रमामि, विदूषणासमुदाचारादिभिर्निर्हरामि। समतिक्रामतीत्युक्ते समतिक्रमामीत्युक्तं शाब्दव्यवहारेष्वनादरात्, अर्थप्रतिशरणताधातुप्रधानत्वाच्च। अपरं च पापं न पुनः करोमि। आयत्यां पुनरकरणसंवरं विदधे॥



इति सर्वमात्मनिर्यातनाप्रभृतिपूजोपहारं निर्यात्य पुनर्विशेषेण पूजां विधातुमाह-

रत्नोज्ज्वलस्तम्भमनोरमेषु

मुक्तामयोद्भासिवितानकेषु।

स्वच्छोज्ज्वलस्फाटिककुट्टिमेषु

सुगन्धिषु स्नानगृहेषु तेषु॥१०॥



रत्नैरिन्द्रनीलादिभिरुज्ज्वलाः प्रभास्वरा ये स्तम्भाः तैर्मनोहराः कमनीयाः। तेषु स्नानगृहेषु स्नानं करोमीति योज्यम्। पुनः किंभूतेषु ? मुक्तामया मौक्तिकरचनाखचिता उद्भासिनः उद्भास्वराः विताना इव वितानकाः येषु ते तथा, तेषु। स्वच्छाः सुनिर्मलाः , उज्ज्वला दीप्तिमन्तः, स्फटिकस्येमे स्फाटिकाः, कुट्टिमाः भूमिरचनाविशेषा येषु, तेषु। सुगन्धिषु कृष्णागुरुचन्दनादिधूपितवासितेषु। स्नानाय गृहाः तेषु॥



मनोज्ञगन्धोदकपुष्पपूर्णैः

कुम्भैर्महारत्नमथैरनेकैः।

स्नानं करोम्येष तथागतानां

तदात्मजानां च सगीतिवाद्यम्॥११॥



उदकं च पुष्पाणि च मनोज्ञगन्धानि च तानि। तैः पूर्णाः कुम्भा घटाः, तैः। महारत्नमयैः महान्ति वैदूर्या(दी)नि च रत्नानि च तानि, तत्स्वभावैः। अनेकैः शतसहस्रकोटिभिः। सगीतवाद्यं सह मनोहरगीतनृत्तमुरजादिवाद्यैः॥



प्रधूपितैर्धौतमलैरतुल्यै-

र्वस्त्रैश्च तेषां तनुमुन्मृषामि।

ततः सुरक्तानि सुधूपितानि

ददामि तेभ्यो वरचीवराणि॥१२॥



प्रधूपितैरगुरुप्रभृतिधूपैः। धौतमलैः प्रक्षालितकल्मषैः। निर्मलैरित्यर्थः। अतुल्यैरप्रतिसमैः। वस्त्रैर्दुकूलैः। तेषां तथागतानां तदात्मजानां च। तनुं शरीरम्। उन्मृषामि संमार्जयामि। ततस्तस्मादुन्मर्षणानन्तरम्। सुरक्तानि शोभनरागैः सुष्ठु वा रक्तानि। शोभनधूपेन धूपितानि। ददामि तेभ्यो जिनेभ्यः। वरचीवराणि अनुत्तराण्याच्छादनानि॥



दिव्यैर्मृदुश्लक्ष्णविचित्रशोभै-

र्वस्त्रैरलंकारवरैश्च तैस्तैः।

समन्तभद्राजितमञ्जुघोष-

लोकेश्वरादीनपि मण्डयामि॥१३॥



दिव्यैर्दिविभवैर्देवार्हैः। मृदूनि च सुकुमारस्पर्शानि, श्लक्ष्णानि च सूक्श्माणि। विचित्रा नानावर्णकृता शोभा येषां तैर्वस्त्रैः। अलंकारवरैश्च विभूषणप्रधानैः। तैस्तैरिति मुकुटकटककेयूरहारनूपुरादिभिः। समन्तभद्राजितमञ्जुघोषलोकेश्वरादीनपि बोधिसत्त्वान् मण्डयामि अलंकरोमि॥



सर्वत्रिसाहस्रविसारिगन्धै-

र्गन्धोत्तमैस्ताननुलेपयामि।

सूत्तप्तसून्मृष्टसुधौतहेम-

प्रभोज्ज्वलान् सर्वमुनीन्द्रकायान्॥१४॥



सहस्रं चतुर्द्वीपिकानां तथा चन्द्रसूर्यमेरूणां प्रत्येकं कामदेवानां ब्रह्मलोकानां च। साहस्रश्चूलिको मतः। स एव सहस्रगुणिते द्विसाहस्र। तत्सहस्रं त्रिसाहस्रः। शतकोटिः चातुर्द्वीपिकानामित्यर्थः। एवं सर्वासु दिक्षु लोकधातुरनन्तोऽपर्यन्तश्च। सर्वत्रिसाहस्त्राणि। विसर्तुं शीलं येषां ते तथा। तथाविधा गन्धाः परिमला येषां ते तथा। तैर्गन्धोत्तमैर्यक्षकर्दमहरिचन्दनादिभिः। तान् मुनीन्द्रकायाननुलेपयामि समालभे। किंभूतान् ? सूत्तप्तं पुटपाकादिना परिशोधितान्तर्मलम्। सून्मृष्टं रोषाणादिमणिसंमार्जितम्। सुधौतं क्षाराम्ललवणादिप्रक्षालितबहिर्मलम्। तथाभूतं च तद्धेम चेति। तस्य प्रभा, द्युतिरित्यर्थः। तद्वदुज्ज्वलान् द्युतिमतः। एतच्च यथालोकप्रसिद्धितः कथितम्। न तु तथागतकायशोभाया लौकिकं किंचिदुपमानमस्ति॥



सांप्रतं माल्यपूजामुपक्षिपति-

मान्दारवेन्दीवरमल्लिकाद्यैः

सर्वैः सुगन्धैः कुसुमैर्मनोज्ञैः।

अभ्यर्चयाभ्यर्च्यतमान् मुनीन्द्रान्

स्त्रग्भिश्च संस्थानमनोरमाभिः॥१५॥



मान्दारवं देवेषु पुष्पविशेषः। इन्दीवरमुत्पलम्। मल्लिका वार्षिकी। एतत्प्रमुखैः सर्वैः शोभनगन्धैः पुष्पैर्मनोहारिभिः पूज्यतमान् मुनीन्द्रान् पूजयामि। स्त्रग्भिश्च मालाभिश्च ग्रथनरचनाविशेषकमनीयाभिः॥



धूपपूजामाह-

स्फीतस्फुरद्गन्धमनोरमैश्च

तान् धूपमेघैरुपधूपयामि।



स्फीता मांसलाः। स्फुरन्तश्च दिगन्तव्यापिनः बहुलगन्धोद्गारिणो वा। तादृशा गन्धा येषां धूपमेघानां ते तथा, तैः। धूपा मेघा इव अम्बरतलावलम्बिबिम्बाः। उपमितं व्याघ्रादिभिः इति समासः। धूपानां वा मेघाः, तैः, मेघवदुद्गच्छद्भिरित्यर्थः। तानिति मुनीन्द्रान् उपधूपयामि॥



नैवेद्यपूजामाह-

भोज्यैश्च खाद्यैर्विविधैश्च पेयै-

स्तेभ्यो निवेद्यं च निवेदयामि॥१६॥



भोज्यं यन्मुखमापूर्य भुज्यते। खाद्यं यत् कवलशः। छेद्यं धृतपूरादि। पेयं यत् पीयते एव पानकादि। एभिर्विविधैर्नानाप्रकारोपसंस्कृतैः। तेभ्यो मुनीन्द्रेभ्यो निवेद्यं च निवेदयामि॥



दीपपूजामाह-

रत्नप्रदीपांश्च निवेदयामि

सुवर्णपद्मेषु निविष्टपङ्क्तिन्।

गन्धोपलिप्तेषु च कुट्टिमेषु

किरामि पुष्पप्रकरान् मनोज्ञान्॥१७॥



रत्नमयाः प्रदीपाः तान्। निविष्टा पङ्क्तिर्माला येषां ते तथा। क्वेति ? सुवर्णपद्मेषु। सापेक्षत्वेऽपि गमकत्वात् समासः। गन्धोपलिप्तेषु चन्दनकुङ्कुमादिगन्धैश्चर्चितेषु॥



प्रलम्बमुक्तामणिहारशोभा-

नाभास्वरान् दिङ्मुखमण्डनांस्तान्।

विमानमेघान् स्तुतिगीतरम्यान्

मैत्रीमयेभ्योऽपि निवेदयामि॥१८॥



प्रलम्बैर्मुक्तामणिहारैः शोभा येषां तान् विमानमेघान् विमानसमूहान् आलोककारिणः सर्वदिकूशोभाकरान्॥



सुवर्णदण्डैः कमनीयरूपैः

संसक्तमुक्तानि समुच्छ्रितानि।

प्रधारयाम्येष महामुनीनां

रत्नातपत्राण्यतिशोभनानि॥१९॥



कनकमयदण्डैः कान्तिमत्संस्थानैः। मुक्ताखचितानि रत्नमयानि छत्राणि। समुच्छ्रितानीति उद्दण्डितानि॥



इदानीं पूजोपहारमुपसंहरन्नाह-

अतः परं प्रतिष्ठन्तां पूजामेघा मनोरमाः।

तूर्यसंगीतिमेघाश्च सर्वसत्त्वप्रहर्षणाः॥२०॥



इतः प्रभृति एते पूजामेघा मया निर्यातिताः, अन्ये वा देवादिभिरुपनीताः कल्पं वा कल्पावशेषं वा प्रतिष्ठन्ताम् प्रकर्षवृत्तिस्थिता भवन्तु। तूर्यसंगीतिमेघाश्च तूर्याणि मुरजादिवाद्यानि। संगीतयः समेत्य गीतयः। समुदायगीतानीत्यर्थः। अथवा। संगीतकानि नुत्तगीतवादितानि समुदितान्युच्यन्ते। तेषां मेघाः अनेकसमुदायाः। ते च सर्वसत्त्वप्रहर्षणाः सर्वसत्त्वानां प्रमोदकारिणः, न पुनरशक्यश्रवणाः। प्रतिष्ठन्तामिति संबन्धः॥



सामान्येनाभिसंक्षिप्य सद्धर्मादिषु पूजामाह-

सर्वसद्धर्मरत्नेषु चैत्येषु प्रतिमासु च।

पुष्परत्नादिवर्षाश्च प्रवर्तन्तां निरन्तरम्॥२१॥



द्वादशाङ्गप्रवचनात्मकेषु सर्वसद्धर्मरत्नेषु। रत्नमिव रत्नं वस्तुतत्त्वालोककारित्वात्, परमनिर्वृतिहेतुत्वाच्च। स्तूपेषु भगवच्चैत्येषु। प्रतिमासु चेति बुद्धबोधिसत्त्वविग्रहप्रतिकृतिषु। पुष्पवृष्टयो रत्नवृष्टयश्च। आदिशब्दाच्चन्दनचूर्णवस्त्रादिवर्षाः। निरन्तरमिति आसंसारमनवच्छिन्नम्॥



अनुत्तरपूजामतिदिशन्नाह-

मञ्जुघोषप्रभृतयः पूजयन्ति यथा जिनान्।

तथा तथागतान्नाथान् सपुत्रान् पूजयाम्यहम्॥२२॥



मञ्जुघोषसमन्तभद्राजितलोकनाथप्रमुखा दशभूमीश्वरा बोधिसत्त्वाः यथा येन अध्याशयेन तथागतान् पूजयन्ति, तथा तेन अधिमोक्षेण अहमपि तथागतान् सह पुत्रैः बोधिसत्त्वगणैः पूजयामि॥



स्तुतिपूजामाह-

स्वराङ्गसागरैः स्तोत्रैः स्तौमि चाहं गुणोदधीन्।

स्तुतिसंगीतिमेघाश्च संभवन्त्वेष्वनन्यथा॥२३॥



स्वराः सप्त गान्धारादयः। तेषामङ्गानि प्रभेदाः कामोदादयः। तेषां सागरवदतिबाहुल्यात् सागराः, तैः स्तोत्रैः। स्तुतय एव संगीतयः, स्तुतीनां वा संगीतयः समुदायाः। तासां मेघाः संभवन्तु उपतिष्ठन्ताम्। एषु बुद्धबोधिसत्त्वेषु। अनन्यथा अविपरीता यथा मयोपकल्पितास्तथैवेत्यर्थः॥



बुद्धधर्मसंघरत्नेषु प्रणामपूजामाह-

सर्वक्षेत्राणुसंख्यैश्च प्रणामैः प्रणमाम्यहम्।

सर्वत्र्यध्वगतान् बुद्धान् सहधर्मगणोत्तमान्॥२४॥



यावन्ति दशसु दिक्षु बुद्धक्षेत्राणि, तेषु यावन्तोऽणवः, तत्संख्यैः प्रणामैः। सर्वत्र्यध्वगतानिति अतीतप्रत्युत्पन्नानागतान् तथागतान्। किंभूतान् ? सहधर्मगणोत्तमान् गणानामुत्तमोऽग्रभूतो बोधिसत्त्वगणः। धर्मश्च गणोत्तमश्च ताभ्यां सह॥



तथागतस्तूपेषु प्रणाममाह-

सर्वचैत्यानि वन्देऽहं बोधिसत्त्वाश्रयांस्तथा।

नमः करोम्युपाध्यायानभिवन्द्यान् यतींस्तथा॥२५॥



ऊर्ध्वतिर्यगधस्तनासु दिशासु विदिशासु च। सशरीराशरीरेषु स्तूपेषु प्रणमाम्यहमित्यर्थः। बोधिसत्त्वाश्रयानपीति जातकावदानजन्मादिस्थानानि। अभिवन्द्यानिति वृद्धान् वन्दनार्हान्। तदनेन पूजावन्दनाविधिरुक्तः॥



अयं च पूजाविधिस्त्रिसमयराजे कथितः। यथोक्तम्-स्थलजा रत्नपर्वताः। जलजा रत्नपर्वताः। स्थलजजलजानि रत्नानि दशदिगवस्थितानि। अममान्यपरिग्रहाणि। देयानीत्युक्तम्। अनया च दिशा सर्वभैषज्यानि सर्वरसायनानि सर्वसलिलानि। अनवद्यानि आमण्डलानि (?) सर्वकाञ्चनमण्डलानि। विवृत्तेषु वा लोकधातुषु परमरसस्पर्शसंपन्ना भूपर्पटका अमृतलता। अकृष्टोप्ताः शालयः। सर्वोत्तरकुरुद्वीपेषु च परिशुद्धेषु च लोकधातुषु ये रमणीयाः परिभोगाः।



यथा आर्यरत्नमेघे चाह-

स यानीमानि सूत्रान्तेषु उदाराणि पूजोपस्थानानि शृणोति, तान्याशयतस्तीव्रेणाध्याशयेन बुद्धबोधिसत्त्वेभ्यः परिणामयति। तथा स विविधानि पूजोपस्थानान्यनुविचिन्तयति इति॥



सांप्रतं रत्नत्रयशरणगमनपूर्वकं पापदेशनामाह-

बुद्धं गच्छामि शरणं यावदा बोधिमण्डतः।

धर्मं गच्छामि शरणं बोधिसत्त्वगणं तथा॥२६॥



त्राणार्थं शरणार्थम्। गमनं तदाज्ञापरिपालनम्। यो हि यं शरणं गच्छति, स तदाज्ञां नातिक्रमतीति भावः। बोधिमण्डत इति। मण्डशब्दोऽयं सारवचनम्, घृतमण्ड इति यथा। तथा च सति बोधिप्रधानं यावत्। यावत् सम्यक्संबोधिं नाधिगच्छामि इत्यर्थः॥



विज्ञापयामि संबुद्धान् सर्वदिक्षु व्यवस्थितान्।

महाकारुणिकांश्चापि बोधिसत्त्वान् कृताञ्जलिः॥२७॥



विज्ञापयामीत्यनेन बुद्धबोधिसत्त्वानामग्रगतमात्मानं ध्यात्वा अध्याशयेनैतद्वक्तव्यमित्युपदर्शितम्। कृताञ्जलिरिति कायविज्ञप्तिरुक्ता। अञ्जलिः करद्वयेन संपुटं कृत्वेत्यर्थः॥



अनादिमति संसारे जन्मन्यत्रैव वा पुनः।

यन्मया पशुना पापं कृतं कारितमेव वा॥२८॥



यच्चानुमोदितं किंचिदात्मघाताय मोहतः।

तदत्ययं देशयामि पश्चात्तापेन तापितः॥२९॥



अनादिमतीति पूर्वजन्मपरंपरासु। जन्मन्यत्रैवेति अस्मिन्नपि जन्मनि, न केवलं पूर्वत्र। पशुनेति मोहबहुलतामात्मनो दर्शयति। त्रिविधं कर्म कायवाङ्मनोभिस्तत्र कृतम्। त्रिभिरपि कारितमिति। वाङ्मनोभ्यामनुमोदितमित्यपि। आत्मघातायेति तत्पापकर्मफलस्य मम आत्मन्येव विपाकात्। तदत्ययमिति तदापत्तिम्। देशयामि प्रकाशयामि उत्तानीकरोमि, न प्रच्छादयामि। पश्चात्तापेनेति अकुशलकर्मणो नरकादौ दुःखविपाकश्रवणात्॥



अधुना यथाप्रधानमत्ययदेशनामाह-

रत्नत्रयेऽपकारो यो मातपितृषु वा मया।

गुरुष्वन्येषु वा क्षेपात् कायवाग्बुद्धिभिः कृतः॥३०॥



रत्नत्रये इति अनुत्तरगुणक्षेत्रे। मातेत्यादिना उपकारिक्षेत्रे। तत्रापकारस्य विस्तरतीव्रदुःखविपाकत्वात्॥



अनेकदोषदुष्टेन मया पापेन नायकाः।

यत्कृतं दारुणं पापं तत्सर्वं देशयाम्यहम्॥३१॥



अनेकदोषदुष्टेनेति रागादिक्लेशदूषितेन, न स्वतन्त्रेणेत्यर्थः॥

पापकर्मणि संवेगमाह-

कथं च निःसराम्यस्मात् परित्रायत सत्वरम्।



कथं केन प्रकारेण। अस्मादशुभात्। सत्वरं शीघ्रम्। केयं त्वरा भवत इत्याह-

मा ममाक्षीणपापस्य मरणं शीघ्रमेष्यति॥३३॥



यावत् पापक्षयं न करोमि, तावन्मम मृत्युर्भविष्यति न। अन्यथा दुर्गति गमनभयात्॥



ननु च अकृतपापपरिक्षयस्य भवतो मृत्योः कोऽवकाश इत्याह-

कृताकृतापरीक्षोऽयं मृत्युर्विश्रम्भघातकः।

स्वस्थास्वस्थैरविश्वास्य आकस्मिकमहाशनिः॥३४॥



इदं कृतमिदमकृतं तावदिति न परीक्षते मृत्युः। विश्रम्भो विश्वासः। तेन घातकः। नापि नीरोगोऽहं युवा बलवत्कायो वेति विश्वसनीयम्। कुतः ? आकस्मिकमहाशनिरिति अचिन्तितवज्रपातसदृशः॥



यद्येवं पापाद् भयम्, किमर्थं तर्हि तत् कृतमित्याह-

प्रियाप्रियनिमित्तेन पापं कृतमनेकधा।

सर्वमुत्सृज्य गन्तव्यमिति न ज्ञातमीदृशम्॥३५॥



प्रिय आत्मा आत्मीयश्च, अप्रियस्तदपकारी। प्रियस्य हितसुखमप्रियस्य च तद्विपरीतमिच्छता कृतं पापमनेकधा प्राणातिपातादत्तादानादिभेदेनानेकप्रकारम्। ननु सर्वमेतन्नचिरेण परित्यज्य गन्तव्यम्, तत् किमिति निरर्थकं पापकमुपचीयते इत्याह- सर्वमित्यादि। सर्वं प्रियमप्रियं वा उत्सृज्य विहाय गन्तव्यम्। एतत्तु न मया मुग्धेन परिभावितम्॥



अप्रिया न भविष्यन्ति प्रियो मे न भविष्यति।

अहं च न भविष्यामि सर्वं च न भविष्यति॥३६॥



किमिदानीं परिशिष्टमवस्थितमित्याह-

तत्तत्स्मरणतां याति यद्यद्वस्त्वनुभूयते।

स्वप्नानुभूतवत्सर्वं गतं न पुनरीक्ष्यते॥३७॥



यद्यद्वस्त्विति सुखहेतुर्दुःखहेतुर्वा। अनुभूयते संवेद्यते। कथं पुनरेवमित्याहस्वप्नानुभूतवदिति। यथा स्वप्नावस्थायामुपलब्धं विनष्टं न पुनरीक्ष्यते, तत्र स्मरणमात्रमेव अवशिष्यते॥



तथा अन्यदपि सर्वं प्रियादिसंगतमस्थिरमस्मिन्नेव जन्मनीत्युपदर्शयन्नाह-



इहैव तिष्ठतस्तावद्गता नैके प्रियाप्रियाः।

तन्निमित्तं तु यत्पापं तत्स्थितं घोरमग्रतः॥३८॥



तिष्ठतः आसीनस्यैव मम पश्यतः। गता अनित्यतया ग्रसिताः। यद्येवं तर्हि तदर्थं कृतं पापमपि तैः सह यास्यतीत्याह-तन्निमित्तमित्यादि। तेषां प्रियादीनां निमित्तं तदर्थं यत्कृतं पापं तत्पुनरग्रत एव स्थितं मे। तन्मया सह यास्यतीत्यर्थः॥



नन्वेवं पश्यन्नपि कथं मूर्च्छितोऽसीत्याह-

एवमागन्तुकोऽस्मीति न मया प्रत्यवेक्षितम्।

मोहानुनयविद्वेषैः कृतं पापमनेकधा॥३९॥



नाहं कस्यचित् परितः, न मे कश्चित्, इत्येवं न मया प्रत्यवेक्षितं विचारितम्। तेन कारणेन। अनुनय आसङ्गः आत्मनि आत्मीये च। विद्वेषः प्रतिघः। तत् प्रतिकूलमाचरति॥



चिरतरमतिदीर्घायुषो भवतः का मरणाशङ्का ? तत् किमेवं बिभेषीत्याह-



रात्रिंदिवमविश्राममायुषो वर्धते व्ययः।

आयस्य चागमो नास्ति न मरिष्यामि किं न्वहम्॥४०॥



अहर्निशम्। आयुषो वर्धते व्ययः, आयुःसंस्काराः क्षीयन्ते। अविश्राममिति क्षणमपि न व्ययविच्छित्तिरस्ति। आगमनमागमः अनुप्रवेशः। स च आयस्य उपचयस्य लेशतोऽपि न संविद्यते तदहमेवं किं नु न मरिष्यामि ? अपि तु चिरमपि स्थित्वा जीवितं मरणपर्यवसानमिति॥



स्यादेतत्। यन्निमित्तं कृतं पापं तेऽपि न नरकादिषु तत्फलदुःखानुभवकाले संविभागिनो भविष्यन्ति। तत् किमिति कातरभावमवलम्बसे इत्यत्राह। आस्तां तावत्परलोके-



इह शय्यागतेनापि बन्धुमध्येऽपि तिष्ठता।

मयैवेकेन सोढव्या मर्मच्छेदादिवेदना॥४१॥



इह अस्मिन्नेव भवे मरणान्तिकादिदुःखबाधायां स्वजनपरिजनमध्यगतेनापि। मर्मच्छेदादिवेदनेति पिपासागात्रसंतापादिदुःखं मयैवैकेन सोढव्यम्। न तत्र अल्पीयानपि भागोऽन्यस्य संभवति॥



किं पुनर्नरकादावित्याह-

यमदूतैर्गृहीतस्य कुतो बन्धुः कुतः सुहृत्।

पुण्यमेकं तदा त्राणं मया तच्च न सेवितम्॥४२॥



कालदूतैर्गृहीतस्य अधिष्ठितस्य गलपाशेन बद्धस्य मुद्गरैराकोट्यमानस्य अटवीकान्तारगहनकण्टकविषमशिलाशकलैर्वितुद्यमानचरणस्य असहायस्य कर्मानुभवभूमिं नीयमानस्य। कुतो बन्धुः कुतः सुहृत् इति न तत्र केचित् सहायास्राणं संभवन्ति। पुण्यमेवैकं तदा त्राणं स्यात्। मया तच्च न सेवितम्, तच्च पुण्यं त्राणभूतं मया नोपार्जितम्॥



पुनरपि पापात् संवेगमाह-

अनित्यजीवितासङ्गादिदं भयमजानता।

प्रमत्तेन मया नाथा बहु पापमुपार्जितम्॥४३॥



अस्थायिनि जीविते। आसङ्गादाग्रहात्। इदमागामि नरकादिदुःखभयमजानता अपश्यत। प्रमत्तेनेति यौवनरूपधनाधिपत्यादिमदमत्तेन॥



किं पुनरेवं संवेगबहुलो भवानित्याह-

अङ्गच्छेदार्थमप्यद्य नीयमानो विशुष्यति।

पिपासितो दीनदृष्टिरन्यदेवेक्षते जगत्॥४४॥



अत्यल्पमिदं करचरणादिच्छेदनं दुःखं नरकदुःखात्। तथापि तत्रेयमवस्था भवति। विशुष्यति सर्वात्मना शोषमुपयाति। पिपासितस्तृष्णार्तः। दीनदृष्टिरिति कृपणदृष्टिः। अन्यदेवेति विपरीतम्॥



नरकदुःखस्यातिशयमाह-



किं पुनर्भैरवाकारैर्यमदूतैरधिष्ठितः।

महात्रासज्वरग्रस्तः पुरीषोत्सर्गवेष्टितः॥४५॥

कातरैर्दृष्टिपातैश्च त्राणान्वेषी चतुर्दिशम्।

भैरवाकारैरिति भयंकररूपैः। अधिष्ठितः आत्मसात्कृतः। महात्रासनज्वरस्तेन ग्रस्तो गृहीतः। पुरीषमुच्चारः, तस्योत्सर्गो विनिर्गमः, तेन वेष्टितो विलिप्तः। कातरैरिति दीनैः। चतुर्दिशं त्राणान्वेषी। कथमित्याह-



को मे महाभयादस्मात्साधुस्त्राणं भविष्यति॥४६॥



साधुरकारणवत्सलः। त्राणं परित्राता॥

त्राणशून्या दिशो दृष्ट्वा पुनः संमोहमागतः।

तदाहं किं करिष्यामि तस्मिन् स्थाने महाभये॥४७॥



एवमपि यदा कुत्रचिदपि त्राणं न पश्यति, तदा त्राणाभावात् पुनः संमोहमागतः।

तदा तस्मिन् काले किं करिष्यामि ? सर्वक्रियासु असमर्थः सन्। तस्मिन् स्थाने प्रतापनादिनरकभूमौ॥



तस्मादिदानीमेव प्रतीकारानुष्ठानं युक्तमित्याह-

अद्यैव शरणं यामि जगन्नाथान् महाबलान्।

जगद्रक्षार्थमुद्युक्तान् सर्वत्रासहरान् जिनान्॥४८॥



जगतां नाथान् सर्वाश्वासनिर्वृतिस्थानभूतान् नायकान्। महाबलानिति सर्वत्राप्रतिहतसामर्थ्यान्। जगद्रक्षार्थमुद्युक्तानिति सर्वसत्त्वपरित्राणार्थमुद्युक्तान्। एवमपि त्राणानाश्रित्य भयोपशमो न स्यात्, तदा किं शरणगमनेनेत्यत्राह-सर्वत्रासहरानिति सर्वव्यसनापहर्तॄन्॥



धर्मसंघशरणगमनमाह-

तैश्चाप्यधिगतं धर्मं संसारभयनाशनम्।

शरणं यामि भावेन बोधिसत्त्वगणं तथा॥४९॥



तैर्बुद्धैर्भगवद्भिः। अधिगतं साक्षात्कृतम्। धर्मं निर्वाणमित्यर्थः। संसारभयनाशनं सर्वक्लेशप्रतिपक्षत्वात्। भावेनेति परमप्रसादेन न मायाशाठ्येन विचिकित्सया वा। बोधिसत्त्वगणमिति संघम्। तथेति भावेन॥



इदानीं यथाप्रधानं बोधिसत्त्वेभ्य आत्मनिर्यातनं कुर्वन्नाह-

समन्तभद्रायात्मानं ददामि भयविह्वलः।

पुनश्च मञ्जुघोषाय ददाम्यात्मानमात्मना॥५०॥



समन्तभद्राय बोधिसत्त्वाय। आत्मानं ददामि निर्यातयामि। भयविह्वलो नरकादिभयव्याकुलः। पुनश्च मञ्जुघोषाय मञ्जुनाथाय। आत्मनेति न परप्रेरणया। स्वयमेव प्रसन्नचित्त इत्यर्थः॥



तं चावलोकितं नाथं कृपाव्याकुलचारिणम्।

विरौम्यार्तरवं भीतः स मां रक्षतु पापिनम्॥५१॥



आर्यावलोकितेश्वरम्। कृपया व्याकुलं चरितं शीलमस्येति कृपाव्याकुलचारिणमिति तस्यैव विशेषणम्। विरौमि आरवं करोमि। आर्तरवमिति क्रियाविशेषणम्। दुःखदीनकातरस्वरम्। भीतः त्रस्तः पापकर्मफलात्। स भगवानवलोकितः मां रक्षतु पापिनं कृतपापं मां त्रायताम्॥



आर्यमाकाशगर्भं च क्षितिगर्भं च भावतः।

सर्वान् महाकृपांश्चापि त्राणान्वेषी विरौम्यहम्॥५२॥



आर्यमाकाशगर्भं च बोधिसत्त्वम्। क्षितिगर्भं च बोधिसत्त्वम्। विरौमीति परेण संबन्धः। सर्वान् महाकृपांश्चापि, येऽपि न नामग्रहणेनोदाहृताः, तानपि परमकारुणिकान् परदुःखदुःखिनः॥

यं दृष्ट्वैव च संत्रस्ताः पलायन्ते चतुर्दिशम्।

यमदूतादयो दुष्टास्तं नमस्यामि वज्रिणम्॥५३॥



यस्य दर्शनमात्रेण यमदूतादयः। आदिशब्दादन्येऽपि यक्षराक्षसादयो दुष्टा भीताः सन्तः पलायन्ते, दूरमपगच्छन्ति। तं नमस्यामि नमस्करोमि। वज्रिणमिति वज्रमस्यास्तीति वज्रपाणिं बोधिसत्त्वम्। तदनेन शरणगमनादिना पापक्षयार्थमाश्रयबलमुपदर्शितम्। यदुक्तं चतुर्धर्मकसूत्रे-



तत्राश्रयबलं बुद्धधर्मसंघशरणगमनमनुत्सृष्टबोधिचित्तता च। स बलवत्संनिश्रयेण न शक्यते पापेनाभिभवितुम्। इति॥



पुनरन्यथात्वशंकां निराकर्तुमाह-



अतीत्य युष्मद्वचनं सांप्रतं भयदर्शनात्।

शरणं यामि वो भीतो भयं नाशयत द्रुतम्॥५४॥



अतिक्रम्य युष्मदाज्ञाम्। सांप्रतमिदानीम्। भयदर्शनात्, तदतिक्रमे यस्मादनिष्टफलसंभवदर्शनात्, वो युष्मान् शरणं यामि भीतः अनिष्टफलादुत्त्रस्तः। तस्मात्पुनरन्यथाशङ्का न कर्तव्या। अतो भयं नाशवत, पूर्वकृतपापाद् भयमपनयत। द्रुतं शीघ्रम्। ममेत्यध्याहार्यम्॥



ननु एवमपि कः प्रत्येष्यति। त्वद्वचनादित्याशङ्कय पुनरत्रार्थे दृढतामाह-

इत्वरव्याधिभीतोऽपि वैद्यवाक्यं न लङ्घयेत्।

किमु व्याधिशतैर्ग्रस्तश्चतुर्भिश्चतुरुत्तरैः॥५५॥



इत्वरो गत्वरो नश्वरोऽचिरस्थायीत्यर्थः। लघुर्वा। स चासौ व्याधिश्चेति, तस्माद् भयेन। वैद्यवाक्यं न लङ्घयेत् वैद्योपदेशं नातिक्रमेत्। मा अयं व्याधिर्मम वृद्धिमुपगच्छेत्। किमु किं पुनः। व्याधिशतैर्ग्रस्तो लङ्घयेत्। चतुर्भिश्चतुरुत्तरैरिति चतुरधिकैश्चतुर्भिः शतैरित्यर्थः। शतमकालमृत्यूनाम्, एकं कालमरणमित्येकोत्तरं शतं मृत्यूनाम्। ते च प्रत्येकं वातपित्तश्लेष्मकृताः तत्संनिपातकृताश्चेति चतुरुत्तराणि चत्वारि शतानि भवन्ति। इति कारणभेदात्कार्यभेदः, कार्यभेदाच्च कारणभेदव्यवस्था॥



ननु तथापि किमत्र भयकारणं यन्नास्तीत्याह-

एकेनापि यतः सर्वे जम्बुद्वीपगता नराः।

नश्यन्ति येषां भैषज्यं सर्वदिक्षु न लभ्यते॥५६॥



एकेनापि व्याधिना कुपितेन यस्मात्सर्वे जम्बुद्वीपगता नराः प्राणिनो नश्यन्ति म्रियन्ते। अन्यच्च। येषां व्याधीनां भैषज्यं औषधं चिकित्सार्थं क्वचिदपि न प्राप्यते। अत्र काशिराजपद्मकजातकमुपनेयम्। तद्यथानुश्रूयते-बोधिचर्यां चरन्नयमेव भगवानतीतेऽध्वनि पद्मो नाम काशिराजो बभूव। तस्मिन् समये सर्वे जम्बुद्वीपका मनुष्या महता रोगेण विकलीभूता म्रियन्ते च। तैरिदमालोचितम्-अयमेव अस्माकं स्वामी राजा परमकारुणिकः प्रतीकारं विधास्यतीति अस्यैव आत्मदुःखं निवेदयामः। ते च एवमवधार्य मिलित्वा, भो महाराज, भवति स्वामिनि परमहितैषिणि संविद्यमानेऽपि इयमस्माकमवस्था, इति तस्मिन् राजनि दुःखमाविष्कृतवन्तः। स च राजा करुणापरवशहृदयः तेषां दुःखमसहमानः शीघ्रममीषां रोगपीडामपनयत इति वैद्यानाज्ञापयामास। तेऽपि तथेति प्रतिश्रुत्य चिकित्साशास्त्राणि व्यवलोक्य सद्योरोहितमत्स्यमांसादन्यद् भैषज्यमलभमानाः तथैव राज्ञः प्रत्युक्तवन्तः। इति विस्तरः। इदमेव जातकं भवोपलक्षणं दर्शितम्॥



तत्र सर्वज्ञवैद्यस्य सर्वशल्यापहारिणः।

वाक्यमुल्लङ्घयामीति धिङ् मामत्यन्तमोहितम्॥५७॥



कायिकमानसिकानेकशल्योद्धारिणः। आत्मानं जुगुप्सते। धिङ् मामत्यन्तमोहितमिति। एवं जानन्नपि यदि तथागताज्ञाया वैमुख्यमासेवे, तदा मम मोहस्य पर्यन्तो नास्ति। कुत्सनीयोऽस्मीत्यर्थः॥



किं पुनरेवमित्याह-

अत्यप्रमत्तस्तिष्ठामि प्रपातेष्वितरेष्वपि।

किमु योजनसाहस्रे प्रपाते दीर्घकालिके॥५८॥



पर्वतादिप्रपातेषु अल्पतरेषु यत्रास्थिभङ्गमात्रं मरणमात्रं वा दुःखं स्यात्। किमु योजनसाहस्र इति। योजनसहस्रं परिमाणमस्य इत्यण्। अनेकयोजनसहस्रपरिमाणे अवीच्यादिकप्रपाते इत्यर्थः। दीर्घकालिक इति। यत्रान्तरकल्पादिभिरायुषः क्षयः॥



सद्यो मरणमदृष्ट्वैव किमकाण्डे कातरतया सुखासिकां जहासीत्याह-

अद्यैव मरणं नैति न युक्ता मे सुखासिका।

अवश्यमेति सा वेला न भविष्याम्यहं यदा॥५९॥



अवश्यमिति निश्चितमेतत्॥



तथापि भयमयुक्तमित्याह-

अभयं केन मे दत्तं निःसरिष्यामि वा कथम्।

अवश्यं न भविष्यामि कस्मान्मे सुस्थितं मनः॥६०॥



अभयं मा भैरिति केन सत्पुरुषेण मम दत्तं येन निर्भयो विहरिष्यामीति भावः। यदि वा निःसरणोपायोऽपि यदि भवेत्, तथापि भयमयुक्तम्। तदपि नास्ति। निःसरिष्यामि वा कथं ततो दुःखात्। अवश्यं न भविष्यामीति। सर्वजीवितं मरणपर्यवसानमित्युक्तं भगवता॥



इत्थमपि न युक्ता मे सुखासिकेत्याह-

पूर्वानुभूतनष्टेभ्यः किं मे सारमवस्थितम्।

येषु मेऽभिनिविष्टेन गुरूणां लङ्घितं वचः॥६१॥



अभिनिविष्टेनेति आसक्तेन। गुरूणामिति बुद्धबोधिसत्त्वकल्याणमित्राणाम्॥



तस्मादिदमहर्निशं मम मनसि कर्तुमुचितमित्याह-

जीवलोकमिमं त्यक्त्वा बन्धून् परिचितांस्तथा।

एकाकी क्वापि यास्यामि किं मे सर्वैः प्रियाप्रियैः॥६२॥



जीवलोकं सत्त्वलोकम्, इमं मनुष्यादिसभागतालक्षणम्। एकाकीत्यसहायः। क्वापीत्यनिश्चितस्थानम्॥



इयमेव तु मे चिन्ता युक्ता रात्रिंदिवं तदा।

अशुभान्नियतं दुःखं निःसरेयं ततः कथम्॥६३॥



अशुभादिति अकुशलात् कर्मणः। तत इत्यशुभात्॥

सांप्रतं कृतकर्मफलसंबन्धनिश्चयो महताभिनिवेशेन पुनरत्ययदेशनामारभत इत्याह-

मया बालेन मूढेन यत्किंचित्पापमाचितम्।

प्रकृत्या यच्च सावद्यं प्रज्ञप्त्यावद्यमेव च॥६४॥



तत्सर्वं देशयाम्येष नाथानामग्रतः स्थितः।

कृताञ्जलिर्दुःखभीतः प्रणिपत्य पुनः पुनः॥६५॥



अत्ययमत्ययत्वेन प्रतिगृह्णन्तु नायकाः।



बालेनेति अजानता। मूढेनेति मोहान्धेन। यत्किंचिदिति कायेन वाचा मनसा वा। प्रकृतिसावद्यं प्राणातिपातादिदशाकुशलस्वभावम्। प्रज्ञप्तिसावद्यं यद् भगवता गृहीतसंवराणामेव प्रज्ञप्तमकालभोजनादिरूपम्। देशयामीति वाग्विज्ञप्तिमुत्थापयति। कृताञ्जलिरिति कायविज्ञप्तिः। प्रणिपत्य पुनःपुनरिति अतिशयवच्चित्तसंवेगमुपदर्शयति। अति यतत्यनेन नरकादिषु इति अत्ययः, अशुभं कर्म। तमत्ययत्वेन दोषत्वेन प्रतिगृह्णन्तु जानन्तु पश्यन्तु विदन्तु व्यक्तीकृतं मया। अनावरणचित्तेन, प्रच्छादना अत्र ममास्तीति भावः॥



पुनः स्खलितशङ्कामपाकर्तुं पुनरकरणसंवरं कुर्वन्नाह-न भद्रकमित्यादि।

न भद्रकमिदं नाथा न कर्तव्यं पुनर्मया॥६६॥



यदार्यकान्तं विज्ञप्रशस्तं न भवति तदभद्रकं गर्हितम् अनार्यं कर्मेत्युच्यते। तदद्यप्रभृति जानता पश्यता बुद्धिपूर्वकं संचिन्त्य पुनर्मया न कर्तव्यम्। आयत्यां पुनरकरणसंवरमापत्स्ये इत्यर्थः। एतच्च त्रिस्कन्धप्रवर्तनप्रस्तावे [बोधे, ५.९८-९९]व्यक्तीकरिष्यते॥



इति प्रज्ञाकरमतिविरचितायां बोधिचर्यावतारपञ्जिकायां

पापदेशना नाम द्वितीयः परिच्छेदः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project