Digital Sanskrit Buddhist Canon

१ बोधिचित्तानुशंसो नाम प्रथमः परिच्छेदः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
शान्तिदेवविरचितः

बोधिचर्यावतारः।



प्रज्ञाकरमतिविरचितया पञ्जिकाख्यव्याख्यया संवलितः।

॥ॐ नमो बुद्धाय॥



१ बोधिचित्तानुशंसो नाम प्रथमः परिच्छेदः।



सुगतान् ससुतान् सधर्मकायान्

प्रणिपत्यादरतोऽखिलांश्च बन्द्यान्।

सुगतात्मजसंवरावतारं

कथयिष्यामि यथागमं समासात्॥१॥



............ अखिलांश्च बन्द्यानिति कल्याणमित्रप्रभृतीनाम्। सुगतात्मजसंवरावतारमिति अभिधेयकथनम्। कथयिष्यामीति प्रयोजनाभिधानम्। संबन्धप्रतिपादनपदं तु न विद्यते, सामर्थ्यादेव तु स प्रतिपत्तव्यः। यथागममिति स्वातन्त्र्यपरिहारपदम्। समासादिति पुनरुक्ततापरिहारवचनम्। इति समुदायार्थः। अवयवार्थस्तु उच्यते। सुगतानित्यत्र गतशब्देन सर्वपृथग्जनेभ्यो भगवतां व्यवच्छेदं दर्शयति, तेषां संसारान्तर्गतत्वात्, भगवतां तु संसारविनिर्गतत्वात्। सुशब्दस्तु प्रशस्ताद्यर्थत्रयवृत्तिविशिष्टं सुग..........। तेनायमर्थः-प्रशस्तं यथा भवति एवं मध्यमप्रतिपदा क्लेशाद्यावरणप्रहाणं गताः सुगताः। अनेन प्रहाणसंपत्तिरुक्ता। यदि वा। प्रशस्तं सर्वधर्मनिःस्वभावतातत्त्वं गता अधिगताः सुगताः। अनेन अधिगमसंपदुपदर्शिता। य[दि वा]..............तीर्थिकशास्तृभ्यो भगवतां विशेषश्चोपदर्शितो भवति। तेषामात्मादिभावाभिनिवेशवशात् प्रशस्तगमनाभावात्। आत्मादीनां च प्रमाणबाधितत्वात्। संसाराप्रतिपक्षत्वाच्च अप्रशस्तं गमनम्। अपुनरावृत्त्या वा गताः, पुनर्जन्मनो रागादिना ......... हंकारशुद्धया अहंकारबीजस्य अविद्यायाः सर्वथा प्रहाणात् सुगताः। अनेन स्त्रोतआपन्नसकृदागामिबोधिसत्त्वेभ्योऽपि भगवतां विशेषो दर्शितः। तेषां प्रशस्तगमनेऽपि सर्वधात्वप्रहाणात् पुनरावृत्तिसंभवात्। निःशेषं वा ..........सर्ववासनाया अपि कायबाग्बुद्धिवैगुण्यलक्षणायाः स्वयमधिगतमार्गोक्तावपाटवस्य वा सर्वथा प्रहाणात् सुगताः। एतावता संपूर्णगामित्वं भगवतां प्रतिपादितम्। अनेनापि अनागामिश्रावकप्रत्येकबुद्धेभ्यो भगवतामसाधारणगुणत्वमावेदितम्। तेषां..........कायवाग्बुद्धिवैगुण्यस्य स्वाधिगतमार्गोक्तयपाटवस्य च संभवात्। एवं च बुद्धत्वमशेषगुणसरसमसाधारणमपरयोगिभिः सुगतशब्देन ख्यापितम्। तानेवंभूतान् सुगतानादरतः परमप्रसादेन प्रणिपत्येति नमस्कृत्य सुगतात्मजसंवरावतारं कथयिष्यामिति संबन्धः। किंभूतान् ? ससुतानिति। सुताश्च मुनीनामिह लब्धप्रमुदितादिभूमयो बोधिसत्त्वा एव गृह्यन्ते। तेषामेव अत्र अधिकृतत्वात्। तैः सह। अनेन विशेषणेन आर्यसंघस्य नमस्कारोऽन्तर्भावितः। अपरं विशेषणमाहसधर्मकायानिति। सर्वाप [द्विमु]क्तो भगवतां स्वाभाविको धर्मकायः। स एव च अधिगमस्वभावो धर्मः। समूहार्थो वा कायशब्दः जनकायो बलकाय इति यथा। तेन प्रवचनस्यापि ग्रहणम्। तेन सह। अनेनापि धर्मस्य नमस्कारोऽन्तर्भावितः इति। रत्नत्रयनमस्कारोऽयमित्यु[क्तं भवति]॥



ननु बुद्धाद्धर्मो धर्मतश्च आर्यसंघ इति क्रमः। तत् किमिति बुद्धानन्तरमार्यसंघः, तदनु धर्म इति व्यतिक्रमनिर्देशः ? सत्यम्। इह श्लोकबन्धानुरोधाद् व्यतिक्रमनिर्देशो वेदितव्यः। योजनात्तु सुगतान् सधर्मकायान् ससुतान् प्रणिपत्य, इति अनुक्रमेणैव। न कश्चिदत्र दोषः। अथवा। बोधिसत्त्वानामपि अधिगतधर्मत्वादानुरूप्येण धर्मकायो विद्यत एव। तेषामपि सह धर्मकायेन नमस्करणं प्रतिपादनीयम्। तेऽपि हि समधिगतधर्मतया सुगतत्वनियताः सुगतप्रायाः। इति धर्मात् पूर्वं निर्देशः। इति न किंचिदयुक्तम्। किमेतानेव ? नेत्याह-अखिलांश्च बन्द्यानिति। अपरानपि समस्तान् वन्दनीयान् आचार्योपाध्यायप्रभृतीनपि। आदरतः प्रणिपत्येति। इति पूर्वार्धेन सुगतादीनां नमस्कृतिमभिधाय अपरार्धेन अभिधेयादीनि प्रतिपादयन्नाह-सुगतात्मजेत्यादि। आत्मनो जाताः आत्मजाः। सुगतानामात्मजाः जिनपुत्राः, बोधिसत्त्वा इत्यर्थः। तेषां संवरावतारम्। संवरणं संव्रियते वा अनेनेति संवरः, बोधिचित्तग्रहणपूर्वकं बोधिसत्त्वशिक्षासमादानम्। तच्च यथावसरं वक्ष्यामः। तस्य अवतरणम्। अवतीर्यते तस्मिन् वा अनेनेत्यवतारो मार्गः, येन बोधिसत्त्वपदप्राप्तौ सुगतत्वमवाप्यते। तं कथयिष्यामि प्रतिपादयिष्यामि। अनेन ग्रन्थेनेत्यर्थः। एवमनेन प्रतिपाद्यमानत्वात् संवरावतारः अभिधेयमस्य, अयमभिधानं संवरावतारस्य, इति अभिधानाभिधेयलक्षणः संबन्धोऽप्यर्थात् कथितः। तत्कथनं च अभिधानप्रयोजनम्। परमार्थतस्तु अभिधेयस्वरूपव्युत्पत्तिरेव तत्प्रयोजनम्। अभिधेयस्य पुनः श्रुतमय्यादिप्रज्ञोत्पादनक्रमेण सर्वावरणविगमाद् बुद्धत्वमेव प्रयोजनमिति प्रयोजननिष्ठा। इदं च सुगतात्मजसंवरावतारशब्दे एव अन्तर्भावितम्। तदनन्तरमेवोक्तेः। यदनुशंसकथनेन च सूचयिष्यति।



अशुचिप्रतिमामिमां गृहीत्वा जिनरत्नप्रतिमां करोत्यनर्धाम्।



इति संबन्धाभिधेयप्रयोजनानि प्रवृत्त्यङ्गतया प्रतिपादितानि। अन्यथा अनभिधेयादिशङ्कया प्रेक्षावतामत्र प्रवृत्तिर्न स्यात्। ननु त्वया स्वातन्त्रयेण कथितं कथनं कथं ग्रहीष्यन्तीत्याह-यथागममिति। आगमानतिक्रमेण। यथैव प्रवचने भगवद्भिः प्रतिपादितः, तथा मयापि तदर्थानतिवृत्त्या प्रतिपादयितव्यः। अनेन आगमात् स्वातन्त्र्यं परिहृतं भवति। उत्सूत्रमिदं न भवतीत्यर्थः। प्रवचनार्थावगाहनमपि च अवक्रतया अनेन आत्मनो दर्शितम्। इदमपि प्रवृत्त्यङ्गमेव। ननु यदि यथागमं कथयितव्यः, तर्हि आगमे एव तदभिलाषिणः प्रवर्तिष्यन्ते, तत्किमनेनेत्याह-समासादिति। संक्षेपात्। यदि नाम आगमेऽपि कथितः, तथापि तत्र अतिविस्तरेण नानासूत्रान्तेषु प्रतिपादनात्। अहं तु पिण्डीकृत्य संक्षेपेण कथयिष्यामीति विशेषः। अनेन पुनरुक्तमिदं भवतीति परिहृतम्। अयमपि च अप्रवृत्त्यङ्गतापरिहारः। तस्मात् प्रवृत्त्यङ्गत्त्वादभिधेयादिकथनमसंगतं न भवति-तर्हि प्रणामकरणमपार्थकम्। तदपि श्रेयोलाभाद्यर्थमभिधीयमानं कथमपार्थकम् ? अयमस्याभिप्रायः-सुगतादिप्रणामसमुद्भूतपुण्यसंभारसमाक्रान्तचित्तसंतानस्य प्रतनुतरपुराकृतपापवृत्तेरूपशान्तविघ्नस्य आरब्धार्थपरिसमाप्तिरुपजायते। समस्तसाधुजनगतमार्गानुगमनमपि च अनेन आत्मनः प्रकाशितं भवेत्। इष्टदेवतादिनमस्कृतिश्रवणादास्तिकत्वसंभावनया श्रोतृणामात्मग्रन्थे च गौरवमापादितं स्यात्। अत्र च सुगतशब्देन उद्भावितभगवन्दुणमाहात्म्यश्रवणात् तदभिलाषिणः तदुपार्जनप्रवणमानसाः सुगतात्मजसंवरावतारपरिज्ञानाय यत्नवन्तः अस्मिन् प्रवर्तन्ते। इदमभिमतदेवतादिप्रणामफलम्। एतेन इदमपि-येन यदभिमतमभिप्रेतं कर्तुम्, स तदेव करोतु नान्यत्। अन्यकरणे अप्रस्तुताभिधानमतिप्रसङ्गश्च स्यात्। तदयमपि संवरावतारकथने कृताभिप्रायः किमप्रस्तुतमिष्टदेवतादिप्रणामं करोति ? प्रागुक्तदोषद्वयप्रसङ्गादिति यदुच्यते, तदपि निराकृतं भवति, तदुपयोगस्य वर्णितत्वात् नाप्रस्तुताभिधानम्। यत् प्रकृतोपयोगि तद्वक्तव्यं नान्यत्, इत्यतिप्रसङ्गो नास्तीति सर्वं सुस्थम्॥



ननु आगमानतिरिक्तं संक्षेपेणाभिधीयमानमपि कथमर्थविशेषाद्यभावाद्विशेषेण प्रवृत्त्यङ्गतया कस्यचिदुपादेयं स्यात् ? तस्मादागमादधिकमपि किंचिदत्र वक्तव्यमित्याशङ्कयाह-



न हि किंचिदपूर्वमत्र वाच्यं

न च संग्रथनकौशलं ममास्ति।

अत एव न मे परार्थचिन्ता

स्वमनो वासयितुं कृतं मयेदम्॥२॥



नैव किंचिदपूर्वमपरमागमादतिरिक्तमस्मिन् वक्तव्यमस्ति मम। यस्मादर्थे वा हिशब्दः। तर्हि तदधिकप्रमेयानभिधानेऽपि पदार्थरचनाविशेषो भविष्यति। तस्मादपि विशेषेण प्रवृत्तिः स्यादिति। अत्राह-न चेति। नापि संग्रथनमर्थपदविन्यासविशेषः, तत्र कौशलं नैपुण्यं ममास्ति। अवधारणे वा चकारः। यद्येवम्, कथमस्य परार्थोपयोगित्व मिति। आह-अत एवेति। परप्रसञ्जितमेव अभ्युपगच्छति। यस्मादपूर्वं वक्तुं मम शक्तिर्नास्ति। नापि संग्रथनकौशलमस्ति। न च परार्थचिन्तापि। परार्थोपयुक्तमिदं भवतीति विकल्पोऽपि मे नास्ति, तत्र श्क्तिवैगुण्यात्। किमर्थं करणाय यत्न इति चेदाह-खमन इति। आत्मचित्तं सुगतात्मजसंवरावताराभ्यासरसेन अधिकाधिकं वासयितुं कृतं प्रणितं मया प्रकरणमिदम्। संवरावतारकथनं वा। अतीतकालनिर्देशः अन्तस्तत्त्वनिष्पन्नं (?) मनसि निधायेति॥



ननु नात्मार्थं ग्रन्थप्रणयनं दृष्टम्, न च स्वयंकृतेनैव आत्मनि विशेषाधानम्, तावतः संस्कारविशेषस्य प्रागेवात्मनि विद्यमानत्वादिति। अत्राह-



मम तावदनेन याति वृद्धिं

कुशलं भावयितुं प्रसादवेगः।

अथ मत्समधातुरेव पश्ये-

दपरोऽप्येनमतोऽपि सार्थकोऽयम्॥३॥



अनेन ग्रन्थेन वा। कुशलं शुभमनस्कारं भावयितुमाराधयितुम्। वृद्धिं याति प्रसादवेगः। उत्तरोत्तरवर्धमानस्य प्रसन्नचित्तसंतानस्य प्रवाहवाहितया प्रवृत्तिः। अनेन स्वार्थकारित्वमनुभवसिद्धमस्य निदर्शयति। परार्थकारित्वमपि लेशतः संभवति इति दर्शयन्नाह-अथ मत्समेत्यादि। अथेति प्रकारान्तरोपन्यासे। स्वार्थकारित्वमस्य तावदनुभवसिद्धम्। यदि पुनर्मम समानप्रकृतिरेव कश्चिदन्यः पश्येदीक्षेत, एनं ग्रन्थमर्थं वा, अतोऽपि परार्थोपयुक्तत्वादपि सार्थकः सप्रयोजनोऽयम्। परार्थोपयोगस्यापि कथंचित् संभवात्। अनेन श्लोकेन निरभिमानतामात्मनो दर्शयति॥



इदानीं संवरावतारकथां ग्राहयितुमुपोद्धातं रचयन्नाह-



क्षणसंपदियं सुदुर्लभा

प्रतिलब्धा पुरुषार्थसाधनी।

यदि नात्र विचिन्त्यते हितं

पुनरप्येष समागमः कुतः॥४॥



अष्टाक्षणविनिर्मुक्तस्य क्षणस्य संपत्तिः समग्रता। इयं सुदुर्लभा सुष्ठु दुःखेन लभ्यत इति कथंचित्प्राप्या।



महार्णवयुगच्छिद्रकुर्मग्रीवार्पणोपमा।



प्रतिलब्धा प्राप्ता, सा च पुरुषार्थसाधनी। पुरुषस्य अर्थः अभ्युदयनिःश्रेयसलक्षणः, तस्य साधनी निष्पादनी। तदङ्गत्वात् तत्र समर्थेति यावत्। यदि च एवंभूतायामपि अस्यां न हितं विचिन्त्यते, स्वपरसुखहेतुः स्वर्गापवर्गसाधनं नोपादीयते, तदा पुनरपि भूयोऽपि एष तथागतोत्पादः श्रद्धाक्शणविमुक्तो मनुष्यभावः इत्ययं समागमः समावेशो मिलनमिति यावत्। कुतः कथम् ? न कथंचिद्भविष्यति सुदुर्लभत्वात्। अक्षणावस्थायां धर्मप्रविचयस्य कर्तुमशक्यत्वात्, इत्यभिप्रायः। यथोक्तमार्यगण्डव्यूहसूत्रे आर्यजयोष्मायतनविमोक्षे-



दुर्लभा अष्टाक्षणविनिवृत्तिः। दुर्लभो मनुष्यभावप्रतिलम्भः। दुर्लभा क्षणसंपद्विशुद्धिः। दुर्लभो बुद्धोत्पादः। दुर्लभा अविकलेन्द्रियता। दुर्लभो बुद्धधर्मश्रवणः। दुर्लभं सत्पुरुषसमवधानम्। दुर्लभानि भूतकल्याणमित्राणि। दुर्लभो भूतनयानुशासन्युपसंहारः। दुर्लभं सम्यग्जीवितं मनुष्यलोके इति॥



इदमेवाभिसंधायोक्तम्-

मानुष्यं दुर्लभं लोके बुद्धोत्पादोऽतिदुर्लभः।

ततोऽपि श्रद्धाप्रव्रज्याप्रतिपत्तिः सुदुर्लभा॥

बोधौ चित्तं दृढं सर्वसत्त्वानामनुकम्पया।

सर्वदुःखप्रशान्त्यर्थं दुर्लभानां परंपरा॥इति॥



अक्षणाः पुनरिमे-

नरकप्रेततिर्यञ्चो म्लेच्छा दीर्घायुषोऽमराः।

मिथ्यादृग्बुद्धकान्तारौ मूकताष्टाविहाक्षणाः॥इति॥



तस्मादिदानीमेव उद्योगः कर्तव्य इति॥



सांप्रतं बोधिचित्तग्रहणाय तत्राभिलाषमुत्पादयितुमनुशंसामवतारयन्नाह-



रात्रौ यथा मेघघनान्धकारे

विद्युत् क्षणं दर्शयति प्रकाशम्।

बुद्धानुभावेन तथा कदाचि-

ल्लोकस्य पुण्येषु मतिः क्षणं स्यात्॥५॥



निशायां यथा जलदागमसमये मेघैर्बहुले तमसि सति सौदामनी क्षणलवमात्रमालोकयति किंचिद्वस्तुजातं प्रकाशयति। सैवोपमा अत्रापि इत्याह- बुद्धानुभावेनेत्यादि। बुद्धा एव हि भगवन्तो हितसुखोपसंहाराय सदा भव्याभव्यतया सर्वसत्त्वसंतानमवलोकयन्तस्तिष्ठन्ति। यदा यत्र येनोपायेन यस्मै यं भव्यं पश्यन्ति तदा तत्र तेनोपायेन तस्मै तमधितिष्ठन्ति। अभव्यावस्थायामुपेक्ष्य विहरन्ति। इति तथागताधिष्ठानेन कथंचिद्दुर्लभोत्पत्तिकत्वात्। लोकस्य जनस्य पुण्येषु हितसुखहेतुषु कुशलेषु कर्मसु बुद्धिर्मुहूर्तमेकं भवेत्। तत्र तस्या अस्थिरत्वात्। अनादिसंसारे लोकेन अकुशलपक्षस्यैव अभ्यस्तत्वात्॥



यदि नाम एवम्, ततः किमित्याह-



तस्माच्छुभं दुर्बलमेव नित्यं

बलं तु पापस्य महत्सुघोरम्।

तज्जीयतेऽन्येन शुभेन केन

संबोधिचित्तं यदि नाम न स्यात्॥६॥



यत एवम्, तस्माच्छुभं पुण्यं दुर्बलं सामर्थ्यविकलमेव, विद्युदुन्मेषप्रायत्वात् अति कृशम्। नित्यं सर्वकालम्। कस्य तर्हि अतिशयवद् बलमस्तीत्याह-बलं त्विति। सामर्थ्यं पुनरशुभस्य महत्, मेघघनान्धकारसदृशत्त्वात्तस्य। सुघोरमतिभयंकरं नरकादिदुःखदायकत्वात्, सुदुर्जयत्वाच्च। भवतु नाम महत् सामर्थ्यमस्य, तथापि तदपरेण बलवता पुण्येन जेष्यते, तथा च न काचित् क्षतिरिति, आह-तदित्यादि। तत् तादृशं महासामर्थ्यं जीयते अभिभूयते। अन्येन इतरेण। केन ? न केनापीत्यर्थः। कुतः पुनरेवमुच्यते ? संबोधीत्यादि। सम्यक्संबोधौ बुद्धत्वे यच्चित्तं सर्वसत्त्वसमुद्धरणाभिप्रायेण तत्प्राप्त्यर्थमध्याशयेन मनसिकारः। तद्यदि नाम न भवेत्, महासामर्थ्यं हि तदपरेण महीयसा पराजीयते सूर्येणेव निशान्धकारः। न च संबोधिचित्तात् प्रतिपक्षो महीयानपरः संभवति। तस्मात् तत्प्रतिघाताय संबोधिचित्तमेव उपादेयं नान्यदित्यभिप्रायः॥



इतोऽपि संबोधिचित्तमुपादेयमित्याह-



कल्पाननल्पान् प्रविचिन्तयद्भि-

र्दृष्टं मुनीन्द्रैर्हितमेतदेव।

यतः सुखेनैव सुखं प्रवृद्ध-

मुत्प्लावयत्यप्रमिताञ्जनौघान्॥७॥



एकोऽन्तरकल्पः कल्पः। विंशतिरन्तरकल्पाः कल्पः। अशीतिरन्तरकल्पाः कल्पः। स च महाकल्प इत्यभिधीयते। तदिह महाकल्पस्यैव ग्रहणम्। अनल्पान् बहून् प्रथमासंख्येयान्तर्गतान्। प्रविचिन्तयद्भिः तात्पर्येण परिभावयद्भिः। दृष्टमधिगतम्। मुनीन्द्रैः बुद्धैर्भगवद्भिर्बोधिसत्त्वावस्थायाम्। हितं सर्वार्थसाधनयोग्यम्, तद्बीजभूतत्वात्। एतदेव संबोधिचित्तमेव। कथं पुनरिदमेव हितमित्याह-यत इत्यादि। यस्मात् सुखं प्रवृद्धं प्रकर्षगतं बुद्धत्वलक्षणम्। अप्रमितान् अप्रमेयान्। जनौघान् सत्त्वसमूहान्। उत्प्लावयति उत्तारयति संसारदुःखमहार्णवात्। तस्मादिदमेव हितम्॥



अथवा। यस्मात् सुखं देवमनुष्यसंपत्तिलक्षणम्। प्रवृद्धं वृद्धिं गतम्। अर्थात् संबोधिचित्तादेव। उत्प्लावयति अतिशयेन संतर्पयति। सौकर्यादधिकतरं यद्भवति तदुत्प्लावनमुच्यते। यथा दध्ना वयमुत्प्लाविता इति सौकर्यादधिकतरं दधि भूतमित्यर्थः॥



यदि वा। यतः संबोधिचित्तात् सुखं प्रवृद्धमिति योजनीयम्॥



कथं प्रवृद्धमित्याह-सुखेनैवेति। न अकृच्छ्रेण। न शिरोलुञ्चनादिना महता कष्टेन। तथा हि बोधिचित्तसंवरादेव बोधिसत्त्वोऽमितपुण्यज्ञानसंभारात् प्रवर्धमानो देवमनुष्यसंपत्तीः सुखमधिगच्छन् सत्त्वानेव अधिकतरं ताभिः संतर्पयतीति। यद्वक्ष्यति-



एवं सुखात्सुखं गच्छन् को विषीदेत्सचेतनः।

बोधिचित्तरथं प्राप्य सर्वखेदश्रमापहम्॥इति॥



ननु भगवतामपि मैत्रीबलादिजातकेषु [जातकमाला-८] महद्दुष्करं श्रूयते। तत् कथं सुखेनैव सुखं प्रवृद्धमिति ? नैष दोषः। यतः उत्पाद्यमेव परहितसुखाधायकं दुःखं स्वपरयोः। कृपात्मभिः। सुखमेव तादृशं दुःखं परदुःखदुःखिनां धिमतामिति प्रतिपादयिष्यते॥



अस्मादपि स्वपरहितहेतुत्वाद्बोधिचित्तं न परित्याज्यमेवेति दर्शयन्नाह-



भवदुःखशतानि तर्तुकामै-

रपि सत्त्वव्यसनानि हर्तुकामैः।

बहुसौख्यशतानि भोक्तुकामै-

र्न विमोच्यं हि सदैव बोधिचित्तम्॥८॥



संसारदुःखशतानि नरकादिगतिदुःखानामसातवेदितानां शतानि अपर्यन्तसमूहां स्तर्तुकामैः परित्यक्तुमिच्छद्भिः श्रावकप्रत्येकबुद्धगोत्रैः। न केवलमात्मीयानि, लोकानां जात्यादिदुःखान्यपि हर्तुकामैरपनेतुकामैर्बोधिसत्त्वगोत्रैः। न केवलं स्वपरदुःखानि हर्तुकामैः, अपि च, बहूनि सुखान्येव सौख्यानि तेषां शतानि देवमनुष्योपपत्तिलभ्यानि अनुभवितुकामैः संसारसुखाभिलाषुकैरपि। सदैव सर्वकालं न विमोच्यमपरित्याज्यं बोधिचित्तम्। स्वीकर्तव्यमित्यर्थः। अथवा संबोधिकाङ्क्षिणामेव विशेषणानि॥



अस्मादपि गुणविशेषाद्बोधिचित्तं ग्राह्यमित्याह-



भवचारकबन्धनो वराकः

सुगतानां सुत उच्यते क्षणेन।

सनरामरलोकवन्दनीयो

भवति स्मोदित एव बोधिचित्ते॥९॥



संसार एव बन्धनागारम्, तत्र बन्धनं बन्धो रागादय एव यस्येति विग्रहः। तादृशो वराकस्तपस्वी सन्। उदिते एव बोधिचित्ते प्रथमतरं बोधिचित्तसंवरग्रहणसमये। सुगतानां सुत उच्यते, बुद्धपुत्र इत्यभिधीयते। क्षणेन तत्क्षणमेव। न केवलमेवमित्याहसनरामरेत्यादि। सह नरामरैः मनुष्यदेवैर्वर्तन्ते ये असुरादयो लोकाः, तेसामपि वन्दनीयो नमस्करणीयः स्तवनीयश्च भवति स्म। स्मशब्देन अतीतकालाभिद्योतनाद्बोधिचित्तोदयसमये एव भूतः॥



अस्मादपि गुणानुशंसदर्शनाद्बोधिचित्तग्रहणे यत्नः करणीय इत्याह-



अशुचिप्रतिमामिमां गृहीत्वा

जिनरत्नप्रतिमां करोत्यनर्घाम्।

रसजातमतीव वेधनीयं

सुदृढं गृह्णत बोधिचित्तसंज्ञम्॥१०॥



अमेध्यप्रतिमामिमां मनुष्यादिकलेवरस्वभावां तद्धातुकां तत्स्वभावाम्। तेन संवर्धितामित्यर्थः। तां गृहीत्वा आदाय। जिन एव रत्नम्, दुर्लभप्रतिलम्भादिगुणयोगात्। तस्य प्रतिमां करोति निष्पादयति बोधिचित्तम्। तथागतविग्रहं निर्वर्तयतीत्यर्थः। किं भूताम् ? अनर्घाम्। न विद्यते अर्घो मूल्यं यस्याः। सर्वत्रैधातुकातिशायिगुणत्वाद् गुणपर्यन्तापरिज्ञानाच्च। तथोक्तां ताम्। अत एव रसजातं रसप्रकारम्। अत्युच्चवेधकारित्वादतीव वेधनीयम्। कर्तरि अनीयः करणे वा। तत् तादृशम्। बोधिचित्तं संज्ञा अस्य रसजातस्य। बोधिचित्तापरव्यपदेशम्। सुदृढं गृह्णत यथा गृहीतं पुनर्न चलति गृह्णीतेति प्राप्ते गृह्णतेति यथागमपाठात्। तस्माज्जिनरत्नमात्मानं कर्तुकामैर्बोधिचित्तमहारसः सुदृढं ग्रहीतव्यः। उक्तं च आर्यमैत्रेयविमोक्षे [गण्डव्यूहसूत्र५०२]



तद्यथा कुलपुत्र अस्ति हाटकप्रभासं नाम रसजातम्। तस्यैकं पलं लोहपलसहस्रं सुवर्णीकरोति। न च तद्रसपलं शक्यते तेन लोहपलसहस्रेण पर्यादातुं लोहीकर्तुं वा। एवमेव एकः सर्वज्ञताचित्तोत्पादरसधातुः कुशलमूलपरिणामनाज्ञानसंगृहीतः सर्वकर्मक्लेशावरणलोहानि पर्यादाय सर्वधर्मान् सर्वज्ञतासुवर्णान् करोति। न च सर्वज्ञताचित्तोत्पादरसधातुः शक्यते सर्वकर्मक्लेशावरणलोहादिभिः पर्यादातुं तत्कर्तुं वेति॥



भवगतिषु विभूतिकामैरपि नात्र संशयो विपर्यासो वा कर्तव्यः इत्युपदर्शयन्नाह-



सुपरीक्षितमप्रमेयधीभि-

र्बहुमूल्यं जगदेकसार्थवाहैः।

गतिपत्तनविप्रवासशीलाः

सुदृढं गृह्ण् अत बोधिचित्तरत्नम्॥११॥



गतय एव पत्तनानि पण्यद्रव्यक्रयविक्रयनगराणि इह पत्तनानि। तद्वत् शुभाशुभकर्मपण्यद्रव्यक्रयविक्रयस्थानानि गतिपत्तनानि। तेषु विप्रवासो विप्रवसनमेव शीलं स्वभावो येषां ते तथोक्ताः। तेषां संबोधनम्। हे गतिपत्तनविप्रवासशीलाः, सुदृढं गृह्णत बोधिचित्तरत्नम्। बोधिचित्तमेव रत्नं रत्नमिव। यथा चिन्तामणिमहारत्नं सर्वदारिद्यदुर्गतिप्रशमनहेतुः, तथा इदमपि बोधिचित्तरत्नम्। अयमभिप्रायः-वणिज एव सुखसंपत्तिलाभार्थिनो यूयम्। अतः इदमेव महारत्नं महतादरेण गृह्णत। कुतः ? बहुमूल्यमिति हेतुपदमेतत्। यस्मादनर्घमिदं सर्वातिशायि लौकिकलोकोत्तरसंपत्तिनिदानभूतत्वात्, तस्मादिदमेव ग्राह्यमित्यर्थः। कथमिदं ज्ञायत इति चेदाह-सुपरीक्षितमिति। सुष्ठु निरूपितं सम्यङ् निर्णीतमित्यर्थः। कैरित्याह-अप्रमेयधीभिः। अप्रमेया प्रमातुमशक्या धीर्बुद्धिर्येषां तैः महाप्राज्ञैः बुद्धबोधिसत्त्वैः। एतावता परीक्षायां स्खलितमपि नास्ति इति सुपरीक्शितमुच्यते। पुनरपि किंभूतैः ? जगदेकसार्थवाहैः। सार्थं वाहयन्तीत्यण्। जगतामेक एव सार्थवाहाः करुणावशवर्तिनो बुद्धा भगवन्तो बोधिसत्त्वाश्च, तैः। यथा खलु वणिजां हिताहितप्राप्तिपरिहारयोर्हितैषिणो ज्ञानवन्तश्च सार्थवाहा नेतारो भवन्ति, इति न तत्र विसंवादसंभावना, तथा अत्रापीत्यभिप्रायः। तस्मादिदमेव बोधिचित्तरत्नमनर्घं सुदृढं ग्राह्यमिति। एतच्च तत्रैवोक्तम्-



तद्यथा कुलपुत्र यावच्चन्द्रसूर्यौ मन्डलप्रभया अवभासेते। अत्रान्तरे ये केचिद्धन धान्यरत्नजातरूपरजतपुष्पधूपगन्धमाल्यविलेपनपरिभोगाः, ते सर्वे वशिराजमहामणिरत्नस्य मूल्यं न क्षमन्ते, एवमेव यावत् त्रिष्वपि अध्वसु सर्वज्ञज्ञानं धर्मधातुविषयमवभासयति। अत्रान्तरे यानि कानि चित् सर्वदेवमनुष्यसर्वसत्त्वसर्वश्रावकप्रत्येकबुद्धकुशलमूलानि सास्रवानास्रवाणि सर्वाणि तानि बोधिचित्तोत्पादवशिराजमहामणिरत्नस्य मूल्यं न क्षमन्ते। [गण्डव्यूहसूत्र-५००] इति॥



इदमपरमसाधारणमतिशयवत् कल्पतरोरिव माहात्म्यमस्य उपदर्शयन्नाह-



कदलीव फलं विहाय याति

क्षयमन्यत् कुशलं हि सर्वमेव।

सततं फलति क्षयं न याति

प्रसवत्येव तु बोधिचित्तवृक्षः॥१२॥



कदली यथा पलमेकवारं दत्वा न पुनः फलति, तथा बोधिचित्तादन्यदपि कुशलं सर्वमेव किंचिदेव विपाके परिपक्वे न पुनः फलदानसमर्थं भवति। तावतैवास्य परिक्षयात्, विपाकस्य च अव्याकृततया पुनः फलानुबन्धाभावात्। बोधिचित्तस्य पुनरयं विशेषः इत्याह-सततमित्यादि। सर्वकालं फलति देवमनुष्योपपत्तिषु सुखसंपत्तिप्रदानात् क्षयं न याति तदन्यकुशलवत्, स्थिरस्वभावत्वात्। प्रतिक्षणमनेकप्रकारैः शुभमेघप्रवाहैरापूर्यमाणत्वाच्च प्रसवत्येव तु बोधिचित्तवृक्षः, अविच्छिन्नसुखसंपत्तिफलप्रसवनात्, उत्तरोत्तरमपरा परगुणविशेषजननाच्च। बोधिचित्तं वृक्श इव। उपमितं व्याघ्रादिभिः इति समासः। यस्मादेवम्, तस्मादनुपरतमतिशयवत्सर्वसुखसंपदः प्राप्तुकामैः प्रेक्षावद्भिरिदमेव ग्राह्यम्। कथितं चैतदार्याक्षयमतिनिर्देशे-



तद्यथापि नाम भदन्त शारद्वतीपुत्र महासमुद्रपतितस्योदकबिन्दोर्नास्त्यन्तरा परिक्षयः पर्यादानं यावन्न कल्पपर्यन्तः इति, एवमेव बोधिपरिणामितस्य कुशलमूलस्य नास्त्यन्तरा परिक्षयः पर्यादानं यावन्न बोधिमण्डनिषदनम्॥इति॥



न केवलं सर्वशुभसंचयकारणम्, अकुशलपक्षक्षयहेतुरपि बोधिचित्तमिति सार्धश्लोकेनाह-



कृत्वापि पापानि सुदारुणानि

यदाश्रयादुत्तरति क्षणेन।

शूराश्रयेणेव महाभयानि

नाश्रीयते तत्कथमज्ञसत्त्वैः॥१३॥



बोधिचित्तग्रहणात्पूर्वं कृत्वापि पापानि अकुशलकर्माणि नरकादिषु दुःसहदुःखदायकत्वात् सुदारुणानि अतिभयंकराणि महान्ति वा यस्य बोधिचित्तस्याश्रयादाश्रयणात् तदुत्पादनरक्षणवर्धनसेवनलक्षणात् उत्तरति निस्तरति। तत्सामर्थ्याभिभवेन अतिक्रामतीत्यर्थः। क्षणेन एकस्मिन्नेव क्षणे महतः पुण्यराशेः समुपार्जनात्। तदुत्पादनमात्रेण। कथमिवोत्तरति ? शूराश्रयेणेव महाभयानि बलवत्पुरुषाश्रयेण यथा महापराधं कृत्वापि कश्चिदुत्तरति तदपराधफलान्निर्भयो भवति, तथा प्रकृतेऽपि। तदेवंभूतं बोधिचित्तं कथं किमिति नाश्रीयते न सेव्यते ? अज्ञसत्त्वैः प्रज्ञाविकलैर्मूढजनैरित्यर्थः। आश्रयणीयमेव तद्भवेदिति भावः। इदमपि तत्रैवोक्तम्-



तद्यथा कुलपुत्र शूरसंनिश्रितः पुरुषः सर्वशत्रुभ्यो न बिभेति, एवमेव बोधिचित्तोत्पादशूरसंनिश्रितो बोधिसत्त्वः सर्वदुश्चरितशत्रुभ्यो न बिभेतीति॥

अपरमपि बोधिचित्तात्पापक्षयदृष्टान्तमाह-



युगान्तकालानलवन्महान्ति

पापानि यन्निर्दहति क्षणेन।



युगान्तकाले प्रलयसमये अनलो बह्निः सप्तसूर्योदयसमुद्भूतः यथा सर्वं कामाधातुं सप्रथमध्यानं निर्दहति, निःशेषं दहति यथा भस्मापि नावशिष्यते, तद्वत् पापानि। किंभूतानि? महान्ति सुमेरुप्रख्यानि महारौरवादिदुःखविपाकानि यद् बोधिचित्तं निर्दहति तद्विपाकोपघातान्निर्मूलयति। क्षणेन नचिरेण। नाश्रीयते तत्कथमज्ञसत्त्वैरिति संबन्धः कार्यः॥ एतदपि तत्रैवोक्तम्-कल्पोद्दाहाग्निभूतं सर्वदुष्कृतनिर्दहनतया। पातालभूतं सर्वाकुशलधर्मपर्यादानकरणतया इति॥



ननु कृतकर्माविप्रणाशवादी भगवान्, तत् कथमिदमभिधीयते ? सत्यमुच्यते। बोधिचित्तप्रसूते प्रतिक्षणमाकाशधातुव्यापके महति पुण्यौघेऽन्तर्भूततया लवणपलोपमन्यायेन अप्रज्ञायमानत्वात्, बलवता प्रतिपक्षेण अभीभूतत्वाच्च, फलदानासमर्थं दग्धमेव तदित्यदोषः। यदि वा निरुपायाभिसंधिना तदुक्तम्-नाभुक्तं क्षीयते कर्मेति। इदं तु सर्वपापनिर्मूलने महानुपायः। तथा हि -यदा बोधिसत्त्वः सर्वसत्त्वानाकाशधातुव्यापिनः सर्वदुःखात् समुद्धृत्य सर्वसुखसंपन्नान् करिष्यामीत्यध्याशयेन विचिन्तयति। पूर्वकृतं च पापं विदूषणासमुदाचारादिभिः क्षपयति, तदा बोधिचित्तबलादेव तत्संताने पापस्य कः सद्भावः, येन चोद्यस्यावकाशः स्यादिति सर्वं निराकुलम्। एतावता यदुक्तम्-तज्जीयतेऽन्येन शुभेन केन इति, तदपि विस्पष्टीकृतम्। अन्ये पुनः-अनियतविपाकापेक्षया सर्वमेतदुच्यते, नियतविपाकस्य तु कर्मणः केनचित्प्रतिषेद्धुमशक्यत्वादित्याहुः॥



इत्थमपि बोधिचित्तमुपादेयमित्याह-

यस्यानुशंसानमितानुवाच

मैत्रेयनाथः सुधनाय धीमान्॥१४॥



यस्य बोधिचित्तस्य अनुशंसान् स्वाभाविकान् गुणान् अमितान् अप्रमाणान् मैत्रेयनाथः भगवानजितः। किंभूतः ? धीमान् बोधिसत्त्वः। उवाच उक्तवान्। सुधनाय सुधननाम्ने बोधिसत्त्वाय। तथा च आर्यगण्डव्यूहसूत्रे [वर्णितम्-



बोधिचित्तं हि कुलपुत्र बीजभूतं सर्वबुद्धधर्माणाम्। क्षेत्रभूतं सर्वजगच्छुक्लधर्मविरोहणतया। धरणिभूतं सर्वलोकप्रतिशरणतया। यावत् पितृभूतं सर्वबोधिसत्त्वारक्षणतया। पे.........। वैश्रवणभूतं सर्वदारिद्यसंछेदनतया। चिन्तामणिराजभूतं सर्वार्थसंसाधनतया। भद्रघटभूतं सर्वाभिप्रायपरिपूरणतया। शक्तिभूतं क्लेशशत्रुविजयाय॥ इत्यादि विस्तरः॥



नाश्रीयते तत् कथमज्ञसत्त्वैः इति अत्रापि योजनीयम्॥

इदानीं बोधिचित्तस्य प्रभेदं दर्शयन्नाह-



तद्बोधिचित्तं द्विविधं विज्ञातव्यं समासतः।

बोधिप्रणिधिचित्तं च बोधिप्रस्थानमेव च॥१५॥



तत् समनन्तरप्रदर्शितानुशंसं बोधिचित्तं द्विविधं द्विप्रकारं विज्ञातव्यं वेदितव्यम्। गोत्रभूम्यादिगतानेकप्रकारसंभवेऽपि कथं द्विविधमित्याह-समासतः। अपरप्रकारसंभवेऽपि संक्षेपतः इदं द्विविधमुच्यते। द्विविधमपि कथम् ? बोधिप्रणिधिचित्तमित्येकम्, बोधिप्रस्थानमिति द्वितीयम्। बोधौ प्रणिधिः, तदेव चित्तं तत्र वा चित्तम्। यच्चित्तं प्रणिधानादुत्पन्नं भवति दानादिप्रवृत्तिविकलं च, तत् प्रणिधिचित्तम्। तद्यथा-सर्वजगत्परित्राणाय बुद्धो भवेयमिति प्रथमतरं प्रार्थनाकारा चेतना। प्रस्थाने चित्तं प्रस्थानमेव वा चित्तम्। चित्तस्य तत्स्वभावत्वात्। पूर्वकमनस्कारपुरःसरमेव यतः प्रभृति संवरग्रहणपूर्वकं संभारेषु प्रवर्तते, तत् प्रस्थानचित्तम्। इति उक्तक्रमेण द्वैविध्यम्। इयानेव भेदः इति एवकारेण प्रतिपादयति। चकारद्वयं परस्परसमुच्चये। द्वयोरपि बोधिचित्तत्वं दर्शयति। तेन पूर्वकं बोधिचित्तं न भवतीति शङ्कां निरस्यति। शूरंगमसूत्रे आद्योत्पादितस्यापि बोधिचित्तस्य बुद्धत्वहेतुत्वाभिधानात्। तथा आर्यगण्डव्यूहे चोक्तम्-



दुर्लभाः कुलपुत्र ते सत्त्वाः सत्त्वलोके ये अनुत्तरस्यां सम्यक्संबोधौ चित्तं प्रणिदधति। ततोऽपि दुर्लभतमास्ते सत्त्वाः ये अनुत्तरां सम्यक्संबोधिमनुप्रस्थिताः॥इति॥



इदानीमुक्तमेव प्रभेदमुदाहरणेन व्यक्तीकुर्वन्नाह-

गन्तुकामस्य गन्तुश्च यथा भेदः प्रतीयते।

तथा भेदोऽनयोर्ज्ञेयो याथासंख्येन पण्डितैः॥१६॥



यथा कश्चित् पुरुषः अभिमतदेशप्राप्तये गन्तुकामः गमनाभिप्रायः, न तु पुनर्गच्छत्येव, अन्यः पुनस्तत्प्राप्तये प्रस्थितो गच्छत्येव। यद्वद्यथा। तयोर्भेदो विशेषः प्रतीयते अवगम्यते, तद्वत्तथा भेदो नानात्वमनयोर्बोधिप्रणिधिप्रस्थानचेतसोर्ज्ञेयः अवबोद्धव्यः पण्डितैर्विचक्षणैः। कथम् ? याथासंख्येन। स्वार्थेऽप्यण्। प्राक्तनं प्रणिधिचित्तस्य निदर्शनं पश्चात्तनं प्रस्थानचेतसः इति संख्यार्थः॥



तदेतत् प्रणिधिचित्तं प्रतिपत्तिविकलमपि संसारे महाफलं भगवता वर्णितमित्याह-

बोधिप्रणिधिचित्तस्य संसारेऽपि फलं महत्।



यदि नाम तत् प्रतिपत्तिविकलम्, तथापि तस्य आस्तां तावद् बुद्धत्वम्, संसारेऽपि देवमनुष्योपपत्तिस्वभावं सुखसंपत्तिलक्षणं फलं महत्, अन्यस्मात् कुशलाद् बृहत्। सततं फलतीत्यादिविशेषणविशिष्टत्वात्। तथा चोक्तमार्यमैत्रेयविमोक्षे [=गण्डव्यूहसूत्र-५०८]-



तद्यथापि नाम कुलपुत्र भिन्नमपि वज्ररत्नं सर्वप्रतिविशिष्टं सुवर्णालंकारमभिभवति, वज्ररत्ननाम च न विजहाति, सर्वदारिद्यं च विनिवर्तयति, एवमेव कुलपुत्र प्रतिपत्तिभिन्नमपि सर्वज्ञताचित्तोत्पादवज्ररत्नं सर्वश्रावकप्रत्येकबुद्धगुणसुवर्णालंकारमभिभवति, बोधिचित्तनाम च न विजहाति, संसारदारिद्यं च विनिवर्तयतीति॥



तस्माद् योऽपि पारमितासु सर्वेण सर्वं सर्वथा शिक्षितुमसमर्थः, तेनापि बोधिचित्तमुत्पादनीयम्। एवमुपायपरिग्रहेण महाफलत्वात्। यथोक्तमार्यापरराजाववादकसूत्रे-



यस्मात् त्वं महाराज बहुकृत्यो बहुकरणीयः, असहः सर्वेण सर्वं सर्वथा सर्वदा दानपारमितायां शिक्षितुम्, यावत् प्रज्ञापारमितायां शिक्षितुम्। तस्मात्तर्हि त्वं महाराज एवमेव संबोधिच्छन्दं श्रद्धां प्रार्थनां प्रणिधिं च, गच्छन्नपि तिष्ठन्नपि निषण्णोऽपि शयानोऽपि जाग्रदपि भुञ्जानोऽपि पिबन्नपि, सततममितमनुस्मर, मनसि कुरु, भावय। सर्वबुद्धबोधिसत्त्वप्रत्येकबुद्धार्यश्रावकपृथग्जनानामात्मनश्च अतीतानागतप्रत्युत्पन्नानि कुशलमूलानिपिण्डयित्वा तुलयित्वा अनुमोदयस्व अग्रया अनुमोदनया। अनुमोद्य च सर्वबुद्धबोधिसत्त्वप्रत्येकबुद्धार्यश्रावकाणां पूजाकर्माणि निर्यातय। निर्यात्य च सर्वसत्त्वसाधारणानि कुरु। ततः सर्वसत्त्वानां यावत् सर्वज्ञताप्रतिलम्भाय सर्वबुद्धधर्मपरिपूरणाय दिने दिने त्रैकाल्यमनुत्तरायां सम्यक्संबोधौ परिणामय। एवं खलु त्वं महाराज प्रतिपन्नः सन् राज्यं च कारयिष्यसि, राज्यकृत्यानि च न हापयिष्यसि, बोधिसंभारांश्च परिपूरयिष्यसि॥इत्यादिकमुक्त्वाह-स खलु पुनस्त्वं महाराज सम्यक्संबोधिचित्तकुशलमूलविपाकेन अनेककृत्वो देवेषु उपपन्नोऽभूः। अनेककृत्वो मनुष्येषु उपपन्नोऽभूः। सर्वासु च देवमनुष्योपपत्तिषु आधिपत्यं कारयिष्यसि। इति विस्तरः॥



इति चर्याविकलेऽपि बोधिचित्ते नावमन्यना कार्या। तस्यापि अनन्तसंसारे सुखप्रसवनात्। यत् पुनः प्रतिपत्तिसारं बोधिचित्तं तदतितरां विपुलफलमेवेति सिद्धमित्याह-



न त्वविच्छिन्नपुण्यत्वं यथा प्रस्थानचेतसः॥१७॥



न तु न पुनः। यथा प्रस्थानचित्तस्य अविच्छिन्नपुण्यत्वं निरन्तरशुभप्रवाह वाहित्वम्, न तथा अस्येति भावः॥



इदमेव अविच्छिन्नपुण्यत्वं वृत्तद्वयेन प्रसाधयन्नाह-

यतः प्रभृत्यपर्यन्तसत्त्वधातुप्रमोक्षणे।

समाददाति तच्चित्तमनिवर्त्येन चेतसा॥१८॥



ततःप्रभृति सुप्तस्य प्रमत्तस्याप्यनेकशः।

अविच्छिन्नाः पुण्यधाराः प्रवर्तन्ते नभःसमाः॥१९॥



यतःप्रभृतिः यस्मादारभ्य। न विद्यते पर्यन्तः इयत्ता अस्येति अपर्यन्तस्य आकाशधातुव्यापिनः सत्त्वधातोः। प्रमोक्षणे प्रमोक्षे सर्वदुःखोपशमनिमित्ते। समाददाति तच्चित्तम्, सम्यक्संबोधिचित्तं समादाय वर्तते। कथम् ? अनिवर्त्येन चेतसा अप्रवृत्तिभ्रष्टेन मनसा। ततःप्रभृति तदादिं कृत्वा। सुप्तस्य मिद्धाक्रान्तचित्तस्य प्रमत्तस्य विक्षिप्तचित्तस्यापि। उभयत्रापि संबध्यते। उपलक्षणं चैतत्। गच्छतोऽपि तिष्ठतोऽपि निषण्णस्यापि भुञ्जानस्यापि मूर्च्छाद्यवस्थायामपीत्यादि द्रष्टव्यम्। अनेकश इति। प्रतिक्षणमनेकवारम्। अविच्छिन्नाः पुण्यधाराः निरन्तरसंततयः शुभवेगाः प्रवर्तन्ते। नभःसमाः प्रतिक्षणमाकाशधातुप्रमाणाः। तस्मात् प्रतिपत्तिसारेण बोधिसत्त्वेन भवितव्यम्। आर्यसमाधिराजे चोक्तम्-



तस्मात् प्रतिपत्तिसारो भविष्यामि, इत्येवं कुमार शिक्षितव्यम्। तत् कस्य हेतोः ? प्रतिपत्तिसारस्य कुमार न दुर्लभा भवति अनुत्तरा सम्यक्संबोधिरिति [समाधि-१०]॥



अविच्छिन्नपुण्यंत्वमस्य भगवतैवोक्तमित्युपदर्शयन्नाह-



इदं सुबाहुपृच्छायां सोपपत्तिकमुक्तवान्।

हीनाधिमुक्तिसत्त्वार्थं स्वयमेव तथागतः॥२०॥



इदमेव अप्रमेयपुण्यत्वं स्वयमेव आत्मनैव तथागतो बुद्धो भगवानुक्तवान् कथितवान्। क्व ? सुबाहुपृच्छायां सुबाहुपृच्छानाम्नि सूत्रे। कथम् ? सोपपत्तिकं सयुक्तिकम्। किमर्थम् ? हीनाधिमुक्तिसत्त्वार्थम्। हीने श्रावकप्रत्येकबुद्धयाने अधिमुक्तिः श्रद्धा छन्दो वा येषां ते। ते सत्त्वाश्च। तेभ्य इदं तदर्थम्। तत् प्रयोजनमुद्दिश्येत्यर्थः। तथा हि-ये अनियतगोत्राश्चिरतरकालेन बहुतरसंभारोपार्जनभीता महायानाच्चित्तं व्यावर्त्य लघुतरकालेन अल्पतरसंभारसाध्ये श्रावकप्रत्येकबुद्धयाने चित्तमुत्पादयन्ति, तद्वयावर्तनार्थं भगवानुपपत्तिमाह॥



तामेवोपपत्तिं वृत्तद्वयेन कथयन्नाह-

शिरःशूलानि सत्त्वानां नाशयामीति चिन्तयन्।

अप्रमेयेण पुण्येन गृह्यते स्म हिताशयः॥२१॥



किमुताप्रतिमं शूलमेकैकस्य जिहीर्षतः।

अप्रमेयगुणं सत्त्वमेकैकं च चिकीर्षतः॥२२॥



कतिपयजनानां मस्तकपीडां नाशयामि मन्त्रेण अगदेन वा, इत्येवं मनसि कुर्वन् अप्रमाणेन सुकृतेन असौ कल्याणाभिप्रायो गृहीतो द्रष्टव्यः। किं पुनरप्रमाणं संसारदुःखं प्रतिसत्त्वमप्रमाणस्य जगतो हर्तुमिच्छतः। अपि च तच्छूलमपनीय सर्वसत्त्वान् सर्वगुणसमङ्गिनः कर्तुमिच्छतः किमप्रमेयं पुण्यं न भवति ? इति विभक्तिविपरिणामेन योजनीयम्। अविच्छिन्नाः पुण्यधाराः किमुत तस्य न प्रवर्तन्ते नभःसमा इति। तस्माद् यथा संभारबाहुल्यसाध्यं बुद्धत्वम्, यथा संभारवैपुल्येऽपि प्रतिक्षणमिति हेतुविशेषादत्रैव महायाने महान्लाभः। अतो नास्मच्चित्तमभयस्थाने कातरतया विनिवर्तनीयमित्युपदर्शितं भवति। यद्वक्ष्यति-



क्षपयन् पूर्वपापानि प्रतीच्छन् पुण्यसागरान्।

बोधिचित्तबलादेव श्रावकेभ्योऽपि शीघ्रगः॥



इति॥

यश्चैवं सर्वसत्त्वानां हितसुखार्थमुद्युज्यते, स देवादिभ्योऽप्यसाधारणगुणात्वात् प्रशस्य इत्युपदर्शयन्नाह-



कस्य मातुः पितुर्वापि हिताशंसेयमीदृशी।

देवतानामृषीणां वा ब्रह्मणां वा भविष्यति॥२३॥



कस्य सत्त्वस्य। मातुर्जनन्याः। कस्य पितुर्वा जनकस्य। देवतानां सोमवरुणादीनाम्। ऋषीणां वा वसिष्ठगोतमादीनाम्। ब्रह्मणां वा वेधसाम्। इयमीदृशी हीताशंसा हितोपसंहारमतिः यादृशी समनन्तरं प्रतिपादिता बोधिसत्त्वस्य भविष्यति इति। आस्तां तावत् भूता भवति वा, भविष्यत्यपि नैव कस्यचिद्बोधिसत्त्वमन्तरेणान्यस्य॥



कुतः पुनरेतदित्याह-

तेषामेव च सत्त्वानां स्वार्थेऽप्येष मनोरथः।

नोत्पन्नपूर्वः स्वप्नेऽपि परार्थे संभवः कुतः॥२४॥



तेषां मात्रादीनां स्वार्थेऽपि आत्मनः कृतेऽपि एष मनोरथः सर्वदुःखमपहर्तुम्, अप्रमाणगुणानाधातुं नोत्पन्नपूर्वः अभूतपूर्वः स्वप्नेऽपि। आस्तां तावज्जाग्रदवस्थायां बुद्धिपूर्वकमुत्पन्नः। परार्थे कदाचिदुत्पद्येत इत्याह-परार्थे संभवः कुतः। आत्मा हि वल्लभो लोकस्य परस्मात्। तत्रैव चेन्नास्ति, परार्थे संभावनापि कुतः ? अथवा। स्वप्नेऽपि परार्थे संभवः कुतः इति योज्यम्॥



तदेवमसाधारणत्वं बोधिसत्त्वस्य प्रतिपाद्य उपसंहरन्नाह-

सत्त्वरत्नविशेषोऽयमपूर्वो जायते कथम्।

यत्परार्थाशयोऽन्येषां न स्वार्थेऽप्युपजायते॥२५॥



एवमत्यद्भुतकर्मकारितया दुर्लभोत्पादात् सत्त्व एव रत्नविशेषः अपूर्वः अनुपलब्धपूर्वः। अयमिति यादृशगुणोऽत्र कथितः। जायते कथम्। कथमित्यद्भुते। कस्मात् पुनरेवमुच्यते ? आह-यत्परार्थेति। यस्य महात्मनः परार्थाशयः अन्येषां सत्त्वानामुक्तक्रमेण न स्वार्थेऽप्युपजायते इत्यस्मात्॥



अत्र च अन्येऽपि बोधिचित्तोत्पादकस्य गुणा वक्तव्याः। यथा आर्यगण्डव्यूहे भगवता आर्यमैत्रेयेण सुधनमधिकृत्य उद्भाविताः। ते च अतिविस्तरेण शास्त्रकृता शिक्षासमुच्चये दर्शिताश्च, तत्रैव अवधारयितव्या॥



पुनरपि बोधिचित्तानुशंसाद्वारेण बोधिसत्त्वस्याप्रमेयपुण्यत्वमाह-

जगदानन्दबीजस्य जगद्दुःखौषधस्य च।

चित्तरत्नस्य यत्पुण्यं तत्कथं हि प्रमीयताम्॥२६॥



सर्वसत्त्वानां सर्वप्रामोद्यकारणस्य देवादिसर्वसंपत्तिनिदानभूतत्वात्। चित्तरत्नस्य बोधिचित्तस्य यत् पुण्यं तत् कथं हि प्रमीयताम्, केन प्रकारेण नाम संख्येयताम्। अतिविपुलतया प्रमातुमशक्यत्वात्। एतदुक्तमार्यवीरदत्तपरिपृच्छायाम्-



बोधिचित्ताद्धि यत्पुण्यं तच्च रूपि भवेद्यदि।

आकाशधातुं संपूर्य भूयश्चोत्तरि तद्भवेत्॥इति॥



यदि नाम सामान्येन निर्देशः, तथापि प्रस्थानचित्तस्येति द्रष्टव्यम्, तस्यैव प्रकृतत्वात्। पुनरपि तस्यैव विशेषणमाह-जगद्दुःखौषधस्य चेति। सर्वप्राणभृतां कायिकचैतसिकसर्वदुःखनिवर्तनतया सर्वव्याधिहरणमहागदस्वभावत्वात्। तदनेन अभ्युदयनिःश्रेयसहेतुत्वं बोधिचित्तस्य प्रतिपादितं भवति। अतो युक्तमेव अस्य असंख्येयपुण्यत्वमित्युक्तं भवति॥



कथं पुनरेतद्युक्तमित्याशङ्कय प्रतिपादयन्नाह-

हिताशंसनमात्रेण बुद्धपूजा विशिष्यते।

किं पुनः सर्वसत्त्वानां सर्वासौख्यार्थमुद्यमात्॥२७॥



सर्वजगत्परित्राणाय बुद्धो भवेयमित्यध्याशयेन आशंसनात् प्रार्थनात् केवलात् प्रतिपत्तिविकलाद्बोधिचित्तादित्यर्थः। यत्पुण्यं भवति तद्बुद्धपूजामतिशेते इत्यागमाद्भवत्येव पुण्यस्कन्धप्रसवहेतुः। इति प्रथमस्य बोधिचित्तस्य माहात्म्यमुक्तम्। एतदपि तत्रैवोक्तम्-



गङ्गावालिकसंख्यानि बुद्धक्षेत्राणि यो नरः।

दद्यात्सद्रत्नपूर्णानि लोकनाथेभ्य एव हि॥



यश्चैकः प्राञ्जलिर्भूत्वा चित्तं बोधाय नामयेत्।

इयं विशिष्यते पूजा यस्यान्तोऽपि न विद्यते॥इति॥



किं पुनः सर्वदुःखितजनानां सर्वदुःखमपनीय सर्वसुखसंपन्नान् करिष्यामीत्युद्योगकरणादतिशयवत् पुण्यं न भवति॥



ननु हिताहितप्राप्तिपरिहारयोः स्वयमेव सत्त्वा विचक्षणाः। तत् कुत्रोद्यमस्योपयोग इति वृत्तत्रितयेन परिहरन्नाह-



दुःखमेवाभिधावन्ति दुःखनिःसरणाशया।

सुखेच्छयैव संमोहात् स्वसुखं घ्नन्ति शत्रुवत्॥२८॥



यस्तेषां सुखरङ्काणां पीडितानामनेकशः।

तृप्तिं सर्वसुखैः कुर्यात्सर्वाः पीडाश्च्छिनत्ति च॥२९॥



नाशयत्यपि संमोहं साधुस्तेन समः कुतः।

कुतो वा तादृशं मित्रं पुण्यं वा तादृशं कुतः॥३०॥



दुःखान्निःसरणाभिप्रायाः प्राणातिपातादिभिरकुशलैः कर्मभिः क्षुधादिदुःखप्रतीकारमिच्छन्तः। दुःखमेव नरकादिप्रपातवेदनास्वभावम्। अभिधावन्ति तदभिमुखाः प्रवर्तन्ते। दुःखमेव प्रविशन्तीत्यर्थः। शलभा इव दीपशिखामिति। अत एव सुखेच्छयैव सुखाभिलाषेणैव स्वसुखं घ्नन्ति शत्रुवत्। आत्मसुखघाताय कथमात्मनैव शत्रवो भवन्तीति चेत्, संमोहाद् विपर्यासवशात् हिताहितप्राप्तिपरिहारयोः परिज्ञानाभावात्॥



अतो यः पुण्यात्मा अकारणवत्सलः तेषां विपर्यस्तानां सुखरङ्काणां सुखभिलाषुकाणां सर्वशोऽलब्धसुखानां पीडितानां दुःखितानाम्। अनेकश इति अनेकैर्दुःखशतैर्बहुधा बाधितानां तृप्तिमाप्यायनं सर्वसुखैः कुर्यात् कायिकचैतसिकैः। यदि वा। अनेकशः अनेकप्रकारं तृप्तिं सर्वसुखैः कुर्यात् इति योजनीयम्। न सुखतृप्तिमात्रं जनयति, किं तर्हि सर्वाः पीडाः समस्ता दुःखा वेदनाश्च्छिनत्ति च शमयति च॥



न केवलं दुःखप्रशान्तिं सुखतृप्तिं च करोति, नाशयत्यपि संमोहम्, अपरिज्ञानमपि निवर्तयति।



अपथमिदमेष पन्था भयमत इत एत गात माऽऽसादम्।

इति हेयोपादेयमार्गप्रकाशनात्। यश्चैवं परव्यसननिवर्तनपरतन्नो हितसुखविधानतत्परश्च सर्वभूतानाम्। साधुस्तेन समः कुतः, तेन महात्मना तुल्यः साधुः कुतः ? नैव कुतश्चिद्विद्यते अकारणपरमवत्सलस्वभावत्वात्। कुतो वा तादृशं मित्रम्, हितसुखोपसंहारप्रवणमानसं परमविश्वासस्थानं तादृशं तत्समं मित्रम्, सुहृत् कुतः ? नैव संभवति। पुण्यं वा तादृशं कुतः ? एवं विहरतो बोधिसत्त्वस्य यत् पुण्यमुपजायते, तदपि न केनचित्पुण्येन समानम्॥



कृते यः प्रतिकुर्वीत सोऽपि तावत्प्रशस्यते।

अव्यापारितसाधुस्तु बोधिसत्त्वः किमुच्यताम्॥३१॥





पूर्वं भयसंकटव्यसनेषु उपकृतमनेन इत्युपकृते सति प्रत्युपकारं करोति यः, सोऽपि तावत् प्रशस्यते लोकेन स्तूयते साधुरयमिति। यः पुनरव्यापारितसाधुः अनभ्यर्थितकल्याणोपनेता बोधिसत्त्वः, किमुच्यतां किमपरमभिधीयताम् ? तस्य प्रशंसा कर्तुमशक्येत्यर्थः॥



दृष्टव्यवहारमपेक्ष्यापि बोधिसत्त्वस्य पुण्यमाहात्म्यमुद्भावयन्नाह-



कतिपयजनसत्त्रदायकः

कुशलकृदित्यभिपूज्यते जनैः।

क्षणमशनकमात्रदानतः

सपरिभवं दिवसार्धयापनात्॥३२॥



परिमितसत्त्वानामाहारपानमात्रदानसमादानमादिशन् पुण्यकर्मा अयमिति पूज्यते सत्क्रियते जनैः सत्कर्मरतैर्लोकैः। तदपि दानं क्षणम्, न सकलमहः, तदर्धं वा, अपि तु मुहूर्तमेकम्। अशनकमात्रदानत इति। कुत्सितमशनमशनकम्, अप्रणीतं भोजनम्, तदेव केवलं तन्मात्रम्, तथाविधव्यञ्जनरहितम्। तस्य दानतः परित्यागतः। कथम् ? सपरिभवम्। क्रियाविशेषणमेतत्। सतिरस्कारं नमस्कारापुरःसरम्। हठात्सत्रागारं प्रविशतः खटचपेटादिना प्रहृत्येति यावत्। पुनः किंभूतात् ? दिवसार्धयापनात् प्रहरद्वयोपस्तम्भनात्। मध्यान्हे भुक्त्वा सायं पुनराहारान्वेषणात्॥



बोधिसत्त्वस्य पुनरेतद्विपरीतं दानमिति प्रतिपादयन्नाह-

किमु निरवधिसत्त्वसंख्यया

निरवधिकालमनुप्रयच्छतः।

गगनजनपरिक्षयाक्षयं

सकलमनोरथसंप्रपूरणम्॥३३॥



न विद्यते अवधिरियत्ता। इयद्भयः शतसहस्रलक्षकोटिसंख्येभ्यो दास्यामि, ततः परं नेति न सत्त्वानां गणनया ददाति, किं तु निरवधिसत्त्वसंख्यया। नापि नियतकालम्, अपि तु निरवधिकालम्। कल्पशतसहस्रलक्षकोटिशतं यावद्दास्यामि, ततः परं नेति सावधिकं न ददाति। गगनेति। गगनमिव जनाः गगनजनाः। यथा आकाशमपर्यन्तं तथा जनोऽपीत्यर्थः। यदि वा। गगनं च जनाश्च ते गगनजनाः। तेषां परिक्षयः पर्यवदानम्। यावदाकाशधातुर्यावच्च सत्त्वा न परिनिर्वृताः तावदवधिकम्। यद्वक्ष्यति-



आकाशस्य स्थितिर्यावद्यावच्च जगतः स्थितिः।

तावन्मम स्थितिर्भूयात् इति।



तस्मादक्षयम्, न विद्यते क्षयः पर्यन्तोऽस्येति कृत्वा। अयमभिप्रायः-गगनजनपरिक्षयावधि यद्दानं तद्वस्तुतोऽक्षयमेव, तेषां परिक्षयाभावात्। नापि प्रतिनियतं वस्तु, अपि तु सकलमनोरथसंप्रपूरणम्। यद्यस्याभिमतं तत् सर्वमनवद्यमभिप्रायाल्हादनकरं परमप्रेमगौरवसत्कारप्रियवचनपुरःसरं प्रमुदितमनसा अनुप्रयच्छतो बोधिसत्त्वस्य किं पुनः पूजा न युज्यते ? तस्य सुतरां युज्यते इति योज्यम्। यदुक्तं नारायणपरिपृच्छायाम्-



न तद्वस्तु उपादातव्यं यस्मिन् वस्तुनि नास्य त्यागचित्तमुत्पद्यते। न त्यागबुद्धिः क्रमेत। यावत् अयं ममात्मभावः सर्वसत्त्वेभ्य उत्सृष्टः परित्यक्तः, प्रागेव बाह्यानि वस्तूनि। यस्य यस्य सत्त्वस्य येन येन यद्यत् कार्यं भविष्यति, तस्मै तस्मै तत्तद्दास्यामि। तत्संविद्यमानं हस्तं हस्तार्थिकेभ्यो दास्यामि, यावत् शिरः शिरोर्थिकेभ्यः परित्यक्ष्यामि, कः पुनर्वादो बाह्येषु वस्तुषु। यदुत धनधान्यजातरुपरजतरत्नाभरणहयरथगजवाहनग्रामनगरनिगमजनपदराज्यराष्ट्रराजधानीपत्तनदासीदासकर्मकरपौरुषेयपुत्रदुहितृपरिवारेषु। इति विस्तरः॥



एवं च गुणरत्नसमुच्चयस्थाने परहितसुखविधानैकपरममहाव्रते बोधिसत्त्वे स्वात्महितकामैः स्वचित्तं रक्षितव्यं प्रयत्नतः इत्युपदर्शयन्नाह-



इति सत्त्रपतौ जिनस्य पुत्रे

कलुषं स्वे हृदये करोति यश्च।

कलुषोदयसंख्यया स कल्पान्

नरकेष्वावसतीति नाथ आह॥३४॥



इत्येवमुक्तक्रमेण सत्त्रपत्तौ सर्वदा सुखदानपतौ जिनस्य पुत्रे सुगतस्य सुते। बोधिसत्त्वे इत्यर्थः। कलुषं पापचित्तं स्वे हृदये आत्मचित्तसंताने करोति उत्पादयति दुरात्मा यः, स नरकेष्वावसति इति नाथो बुद्धो भगवानाह ब्रूते। उपान्वध्याड्वसः इति कर्मत्वे प्राप्ते अधिकरणविवक्षा। कियद् यावत् कलुषोदयसंख्यया कल्पान्। यावतः क्षणांस्तत्संताने कलुषचित्तमुत्पद्यते, तावतः कल्पान् कलुषचित्तक्षणसंख्यान् नरकेषु तिष्ठतीति भावः। यदुक्तं प्रशान्तविनिश्चयप्रातिहार्यसूत्रे-



यावन्ति मञ्जुश्रीर्बोधिसत्त्वो बोधिसत्त्वस्यान्तिके प्रतिघचित्तान्युत्पादयति अवमन्यनाचित्तानि वा, तावतः कल्पांस्तेन संनाहः संनद्धव्यः-वस्तव्यं मया महानरकेषु इति॥



ननु तथागतस्य दुष्टचित्तेन रुधिरमुत्पादयतो नावीचौ चित्तोत्पादनक्षणसंख्यया कल्पान् अवस्थितिरुक्ता। न तथागतात् कश्चिदधिकतरः संभवति त्रैलोक्ये। तत् कथमिदमतिदुर्घटं नीयते? सत्यम्। न खलु यथाभूतमस्मिन् नये वस्तुतत्त्वव्यवस्था। सर्वस्य प्रवचनस्य नेयनीतार्थतया व्यवस्थापनात्। न हि कश्चित् तथागते सदेवकोऽपि लोको दुष्टचित्तमुत्पादयितुं क्षमते। अनल्पकल्पसंख्यया अभ्यासेन सर्वसत्त्वेषु मैत्रचित्तस्य सात्मीभावात्, नास्य काये शस्त्रं क्रमतीति मैत्रचित्तस्यानुशंसकथनात्। न च कर्मप्लुतिरिह वस्तुतो दर्शिता। कर्मावरणस्य बुद्धानां प्रहीणत्वात्। तस्माद्वैनेयजनाभिसंधिना तदुपदर्शितं न परमार्थतः। बोधिसत्त्वापकारे तु बुद्धत्वमेव समूलोपघातमुपहतं भवेत्। तथा च सदेवकस्य लोकस्य अर्थः उपहतो भवेत्। यथागममिदमुक्तम्। परमार्थमिह भगवानेव जानाति। इदमुक्तं च श्रद्धाबलाधानावतारमुद्रासूत्रे-



यः कश्चिन्मञ्जुश्रीः कुलपुत्रो वा कुलदुहिता वा गङ्गानदीवालुकासमान् स्तूपान् विनिपातयेद्दहेद्वा, यश्चान्यः कुलपुत्रो वा कुलदुहिता वा महायानाधिमुक्तस्य बोधिसत्त्वस्य महासत्त्वस्य व्यापादखिलक्रोधचित्तमुत्पाद्य आक्रोशयेत् परिभाषयेत्, अयं ततोऽसंख्येयतरं पापं प्रविशति। तत् कस्माद्धेतोः ? बोधिसत्त्वनिर्जाता हि बुद्धा भगवन्तः, बुद्धनिर्जाताश्च स्तूपाः सर्वसुखोपधानानि च सर्वदेवनिकायाश्च। बोधिसत्त्वमसत्कृत्य सर्वबुद्धा असत्कृता भवन्ति। बोधिसत्त्वं सत्कृत्य सर्वबुद्धाः सत्कृता भवन्ति। इत्यादि॥



यस्य पुनस्तत्र प्रसन्नं चित्तमुत्पद्यते, तस्य कियत् पुण्यफलमुपजायते, इत्याह-



अथ यस्य मनः प्रसादमेति

प्रसवेत्तस्य ततोऽधिकं फलम्।

महता हि बलेन पापकं

जिनपुत्रेषु शुभं त्वयत्नतः॥३५॥



यस्य पुनः पुण्यात्मनो मनः प्रसादमुपयाति बोधिसत्त्वे, प्रसवेत्तस्य ततोऽधिकं फलम्, तस्य प्रसन्नचित्तस्य प्रसवेदुपजायेत ततोऽधिकं फलं तस्मात्पूर्वकपापफलाद् बहुतरं पुण्यकर्मफलं विपाकविशेषात् प्रसवेदुत्पद्येत। यदि वा। तत्समधिकविपाकफलाधायकं कर्मैव फलमुच्यते। अधिकतरफलजनकं कर्म उपजायते इति यावत्। उक्तं च नियतानियतावतारमुद्रासूत्रे-



सचेन्मञ्जुश्रीः दशसु दिक्षु सर्वलोकधातुषु सर्वसत्त्वा उत्पाटिताक्षा भवेयुः परिकल्पमुपादाय। अथ कश्चिदेव कुलपुत्रो वा कुलदुहिता वा तेषां सर्वसत्त्वानां मैत्रचित्तस्तान्यक्षीणि जनयेत् परिकल्पमुपादाय। योऽन्यो वा मञ्जुश्रीः कुलपुत्रो वा कुलदुहिता वा महायानाधिमुक्तं बोधिसत्त्वं प्रसन्नचित्तः पश्येत्, अयं ततोऽसंख्येयतरं पुण्यं प्रसवति। इति॥



तस्मादस्मिन् महति पुण्यक्षेत्रे शुभचित्तमेव करणीयमात्मज्ञैः॥



अपि च। इतोऽपि शुभचित्तमेव कर्तुमुचितम्। यस्मान्महता बलेन परमकृच्छ्रेण पापकं पापमेव पापकं कुत्सितत्वाद्वा दुष्कृतं कर्म बोधिसत्त्वेषु क्रियते, तेषां सकलकायवाङ्यनःप्रचारस्य प्रसादजनकत्वात्। बोधिचित्तप्रभावाच्च न बोधिसत्त्वेषु कस्यचिदपकारचित्तमुत्पद्यते। एतदुक्तमार्यमञ्जुश्रीविमोक्षे-



तद्यथा कुलपुत्र चिन्तामणिरत्न‍राजमुकुटावबद्धानां महानागराज्ञां नास्ति परोपक्रमभयम्, एवमेव बोधिचित्तमहाकरुणाचिन्तामणिरत्न‍राजमुकुटावबद्धानां बोधिसत्त्वानां नास्ति दुर्गत्यपायपरोपक्रमभयम्। इति॥



अतः किमर्थमनर्थोपार्जनं कटुकफलं तेषु प्रयत्नतः प्रारभ्यते ? अत एव शुभं त्वयत्नतः, संग्रहवस्त्वादिभिः सर्वसत्त्वहितसुखकर्मकारित्वात् परिशुद्धकर्मकारितया, क्वचिदपि स्खलिताभावाच्च। अप्रयत्नत एव प्रीतिप्रसादप्रामोद्यमुपजायते तेषु। अतः कुशलं पुनरयत्नत एव प्रसूयते॥



सांप्रतमुत्पादितबोधिचित्तेषु अतिशयवता आत्मना मनःप्रसादमाविष्कुर्वन् शास्त्रकारस्तान् नमस्यन्नाह-



तेषां शरीराणि नमस्करोमि

यत्रोदितं तद्वरचित्तरत्नम्।

यत्रापकारोऽपि सुखानुबन्धी

सुखाकरांस्तान् शरणं प्रयामि॥३६॥



तेषां पुरुषकुञ्जराणां शरीराणि आत्मभावान् नमस्करोमि प्रणिपत्य वन्दे। यत्र येषु (येषां ?) संतानेषु उदितमुत्पन्नं तदुक्तानुशंसं वरचित्तरत्नम्। चित्तमेव रत्नं चिन्तामणिसदृशम्। वरं श्रेष्ठं सर्वदारिद्यदुःखापहारित्वात्। तच्च तद्वरचित्तरत्नं चेति विग्रहः। तदिति भिन्नं वा। इयं च अधिकगुणाधारस्य सत्कृतिः। अपरमपि तद्विशेषणमाह-यत्रापकारोऽपीति। येषु परमकल्याणहृदयेषु बोधिसत्त्वेषु अपकारोऽपि पराभवोऽपि कृतः तत्कर्तुः सुखानुबन्धी परंपरया सुखमावहतीति। अयमभिप्रायः-तत्रापकारः कर्तुमशक्यः। संभवे वा कथंचित् तदपकारमेव निमित्तं कृत्वा प्रवृत्तानां दुष्टाभिप्रायाणां पुनः केनचिन्निमित्तेन तत्प्रसादसमुत्पादनात्। तत्र अपकारो निर्वाणे सुखमनुबन्धाति। तद्यथा मैत्रीबलजातके [जातकमाला-८] पञ्चकानधिकृत्योक्तम्। बोधिसत्त्वप्रणिधानाद्वा अपकारोऽपि सुखानुबन्धीत्युच्यते। यद्वक्ष्यति-



अभ्याख्यास्यन्ति मां ये च ये चान्येऽप्यपकारिणः।

उत्प्रासकास्तथान्येऽपि सर्वे स्युर्बोधिभागिनः॥इति॥



अथवा। यत्रापकारोऽपि येषामपकारोऽपि महाकरुणाध्याशयात् प्रियपुत्रेण कृत इव दुःखहेतुरपि सुखमेव जनयति, यथा क्षान्तिपरिच्छेदे कथयिष्यामः। एवं सर्वथा सुखहेतुत्वात् सुखार्थिनां रत्नाकर इव रत्नार्थिनामाश्र्यणीया बोधिसत्त्वा इत्युपदर्शयति। सुखाकरांस्तान् शरणं प्रयामि। सुखस्य आकराः सर्वसुखैकप्रभवत्वात्। तान् उक्तक्रमेण अपकारेऽपि सुखहेतून्। शरणं प्रयामि। ते मम त्राणं भवन्तु इति भावः॥



इति प्रज्ञाकरमतिविरचितायां बोधिचर्यावतारपञ्जिकायां

बोधिचित्तानुशंसाविवरणं नाम प्रथमः परिच्छेदः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project