Digital Sanskrit Buddhist Canon

आपत्तिदेशनाविधिः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Āpattideśanāvidhiḥ
आपत्तिदेशनाविधिः

नमो बुद्धाय

"गुरवो महावज्रधरादजः, दशदिगवस्थिताश्च सर्वबुद्धबोधिसत्त्वाः माम् समन्वाहरन्तु। भदन्तो मां समन्वाहरतु। अहमेवंनामा अनादिसंसारात् प्रभृतिप्रत्युत्पन्नपर्यन्तं राग-द्वेष-मोहवशात् कायवाङ्मनसा दशाकुशलानि कृतवान्, पञ्चानन्तर्याणि, पञ्च तत्सभागानि, प्रातिमोक्षसंवरविरोधः, बोधिसत्त्वशिक्षाविरोधः, गुह्यमन्त्र-समयादि-विरोधः, समासतोऽभ्युदय-निःश्रेयसविघ्नभूताः, संसारापायहेतुभूताश्च ये केऽपि आपत्तिदोषराशयः (सन्ति) तान् सर्वान् गुरुवज्रधरादीनां, दशदिगवस्थितानां सर्वबुद्धबोधिसत्त्वानां, भदन्तस्य च अग्रतो देशयामि, आविष्करोमि, न प्रतिच्छादयामि। आविष्कृतेन मम स्पर्शविहारो भवति,अनाविष्कृतेन एवन्न भवती ति त्रिर्वदेत्।



ततो दर्शन-संवर-पृच्छानन्तरम् "उपायं","साधु" चेति वदेत्।



प्रथमसंयोजनविधिः- एवन्नामाऽहं अनादिसंसारात् प्रभृति क्लेशबाहुल्यात् प्रमादादिवशाद् वा दोषापत्तिराशिबहुलः, तान् संघस्य अग्रतः प्रतिदेष्टुकामः, अतोऽनुगृह्यताम् इति। अन्ते आपत्तित उद्धृतोऽस्मीत्यतीव कृतज्ञोऽस्मीति धर्मानुरुपकार्यम् अनुमोदये इति वदेत्।



"आपत्तिदेशनाविधिः आचार्यदीपङ्करश्रीज्ञानविरचितः समाप्तः।



तेनैव भारतीयोपाध्यायेन भोटीयलोकचक्षुषा भिक्षु-जयशीलेन च अनूद्य निर्णीतः।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project