Digital Sanskrit Buddhist Canon

हस्तवालप्रकरणवृत्तिः

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Milan Shakya
  • Input Date:
    March 2014
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Instiute of Exact Methods
  • Sponsor:
    University of the West
  • Other Version
    N/A
हस्तवालप्रकरणवृत्तिः।

मञ्जुश्रिये ज्ञानसत्त्वाय नमः।

त्रैलोक्ये व्यवहारमात्रे सति परमार्थभिमानात् तत्त्वार्थानवगाहिभिः सत्त्वैर्वस्तुस्वभावविवेकद्वारेण विपर्ययज्ञानसंप्राप्तये [शास्त्र]रचनेयम्॥

रज्जौ सर्पमनस्कारो रज्जुं दृष्ट्वा निरर्थकः।

अत्रानतिदूरेऽप्यालोकमात्रया भासमाने देशे रज्जुरूपसाधारणधर्मोपलब्धितो भ्रान्त्या सर्प एवायमिति निश्चयरूपं ज्ञानं जायते। विशेषस्वरूपानवगाहनात्। तद्विशेषं गृहीत्वा। अयथार्थतोऽभिमानपरिस्फुरणत्वात् तज्ज्ञानं भ्रान्तज्ञानं निरर्थकमेव भवति।

तदंशान् वीक्ष्य तत्रापि भ्रान्ता बुद्धिरहाविव॥

रज्जावपि तस्यामंशविभागेन परीक्ष्य रज्जुस्वरूपं नोपलभ्यते। तदनुपलब्धौ रज्जूपलब्धिरपि सर्प इति बुद्धिवद् भ्रममात्रा कुत्रापि लीयते। अथ यथा रज्जुज्ञानं भ्रान्तं तथा तेऽप्यवयवाः। तत्खण्डच्छेदादिषु दृश्यमानेषु तेषां स्वरूपं न निर्धार्यते। तदनिर्धारणात् तदुपलब्ध्याकारवुद्धिरपि रज्जुबुद्धिवद् भ्रममात्रैव।

सर्वाण्याश्रितवस्तूनि स्वरूपे सुविचारिते।
आश्रितान्यन्यतो यावत् संवृतिज्ञानगोचरः॥

यथावयवादिविभागेन पृथग्रज्ज्वादिषु विचार्यमाणेषु स्वरूपानुपलब्धितो रज्ज्वादिबुद्धिरपि सर्प इति बुद्धिवद भ्रान्ता तथा दिग्भागादीनपेक्ष्य घटपटादयो व्यवहारज्ञानगोचरो यावत् सर्वे चिदात्मका एव (आश्रिता एव)। तेष्वन्ततो विभज्यमानेषु प्रत्येकघटादयो व्यवहाराश्रिता भवन्ति। अन्यत इति परमार्थः।

निरंशानामचिन्त्यत्वादन्त्योऽप्यवस्तुना समः।

यत्त्वाश्रितवस्तूनां सर्वेषामन्त्यं परमाणुद्रव्यं निरवयवमेकं तस्याप्यचिन्त्यस्वरूपत्वेनानुपलभ्यत्वात् तदपि खपुष्पमालाशशशृङ्गादिभिः सममवस्तुकमेव सिध्यते। किंच कथमचिन्त्यन्नक्षणत्वहेतुना परमाणुद्रव्यं सदप्येकं नास्तीति ज्ञातुं शक्यते। यतः सत्त्वे दिग्भागनानात्वात्। तथा हि यथा सतां घटपटशकटादीनां द्रव्याणि प्राक्पत्यगादिनानादिग्भागवत्त्वान् नानावयवीनि विद्यन्ते यदि परमाणुद्रव्यमप्यस्ति तदावश्य दिग्भागनानात्वात् प्राक्प्रत्यगादिनानावयवाः स्वीकर्तव्याः। सत्सु तु नानावयवेषु परमाणुद्रव्यमेकं न सिध्यते। विद्यमानेषु बहुषु द्रव्यविभागेष्वेकत्वं नास्ति। परमाण्वनुपलब्धेः परमाणुद्रव्यत्वकथनमिदं त्यक्तव्यम्॥

भ्रान्तमात्रमतः प्राज्ञैर्न चिन्त्यं परमार्थतः॥

कस्मात्। एवं त्रैलोक्ये भ्रान्तमात्रमस्ति तस्मात्। प्राज्ञैः श्रेयस्कामिभिरत्र परमार्थचिन्ता न कर्तव्या। यद्येतन्मते तानि घटादिबाह्यवस्तून्यचिन्त्यरूपत्वादभावतः संकल्पितानीति सत्यम्। तदुपलब्ध्याकारभ्रान्तज्ञानमिदमस्त्येव। यथासत्स्वपि मार्यागन्धर्वनगरादिषु तदुपलब्ध्याकारज्ञानमिवेतीष्यते।

भ्रान्तं तदप्यसम्यक्वाद् यथा भानं तथास्ति न।
अनर्थकं भासमानं तत्सदृशात्मकं भवेत्॥

भ्रान्त्यापि तया यद् द्रव्यस्वरूपं ज्ञायते तथारूपं द्रव्यं तन्नास्ति। इदं प्रागुक्तम्। असति तु तस्मिन्नर्थे सा स्वरूपेणाशक्तत्वादसम्यग्भवति। असम्यक्त्वाद् भ्रान्तरूपैव तद्वद् भवति। तत् कथं ज्ञायते। तथा हि लोकेऽपि बीजादिजनकाभावे जन्याङ्कुरादयः सन्तीति धर्म ईदृङ् न दृश्यते। अत एव मायासादृश्यमसिद्धमस्माभिर्निर्दिष्टम्।

सर्वमेवाश्रितं येन विद्यते सूक्ष्मबुद्धिना।
त्यजेत्स बुद्धिमान् सुष्ठु रागाद्यहिभयं यथा॥

यथोक्तप्रकारेणाश्रितमात्रे सति त्रैलोक्येऽस्मिन् यो घटादिस्थूलबुद्धिं विहाय सूक्ष्मबुद्ध्या द्रव्यहीनं व्यवहारमात्रं निश्चिनोति यथा रज्ज्जौ सर्प इति ज्ञानादागतभयो विशेषं विचार्य रज्जुनिश्चये सर्पान्निर्भयो भवति तथा रागादिजनकवस्तूनि परीक्ष्य तेनापि रागादिक्लेशजालानि सुष्ठु अकृच्छ्रेण अचिरेणैव त्यज्यन्ते।

लौकिकार्थविचारेषु लोकसिद्धिमनुव्रजेत्।
क्लेशान् सर्वांस् त्यक्तुमना यतेत परमार्थतः॥

यथा लौकिका(क) घटाद्यर्थेषु सद्रूपेण चिन्त्यमानेषु अयं घटः पटः शकटः इति व्यवहारानाबध्नन्ति तथा पूर्वसिद्धतो व्यवहारः कर्तव्यः। ततः परं रागादिक्लेशांस् त्यक्तुकामेन यथोक्तपरमार्थलक्षणेन वस्तूनि परीक्षितव्यानि। तथा परीक्ष्यमाणेषु वस्तुषु कामादिक्तेशजालानि न पुनरुत्पद्यन्ते॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project