Digital Sanskrit Buddhist Canon

सत्यद्वयावतारनाम

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Satyadvayāvatāranāma

सत्यद्वयावतारनाम



॥ नमो महाकारुणिकाय॥



द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना।

लोक-संवृति-सत्यं च सत्यं च परमार्थतः॥१॥



संवृत्तिर्मन्यते द्वेधा मिथ्या च तथता तथा।

आद्या द्विधोदचन्द्रश्च कुसिद्धान्तवितर्कणा॥२॥



अविचारैकरम्या च विनाशोत्पादधर्मिणी।

अर्थक्रिया-समर्था च तथता-संवृतिर्मता॥३॥



एक एवपरो ह्यर्थः परैश्च द्विविधो मतः।

न काचिद् धर्मता सिद्धा कुतो द्वित्र्यादिकं भवेत्॥४॥



अनुत्पादनिरोधादि देशनावाक्यलक्षितम्।

परमार्थाभिन्नशीलत्वान् नैव धर्मा न धर्मता॥५॥



शून्यतायां विभेदस्तु किञ्चिन्मात्रं न विद्यते।

निर्विकल्पतया बोधे शून्यतादृष्टिरुच्यते॥६॥



उक्तं सूत्रे सुगम्भीरे तद्दर्शनमदर्शनम्।

तत्र द्रष्टा न दृश्यं चाप्यनादिनिधनं शिवम्॥७॥



निर्विकल्पं निरालम्बं भावाभावविवर्जितम्।

अनाश्रयाप्रतिष्ठानम् अतुल्यं निर्गतागतम्॥८॥



अनिर्वाच्यमनाभासं निर्विकारमसंस्कृतम्।

योगिगम्यमिदं क्लेशज्ञेयावरणवर्जितम्॥९॥



प्रत्यक्षमनुमानञ्च तद्‍द्वयं बौद्धसम्मतम्।

उभाभ्यां शून्यता गम्येत्यर्वाग्दृङ्मोहभाषितम्॥१०॥



प्रसज्येद्धर्मताज्ञानं तीर्थिके श्रावकेऽपि च।

विज्ञानिनाञ्च किं वाच्यं माध्यमिकेऽविरुद्धता॥११॥



तर्हि सर्वेऽपि सिद्धान्ता मानमेयतया समाः।

सर्वतर्कविरुद्धत्वान् मानमेयाऽपि धर्मता॥१२॥



बाहुल्येन कथं न स्यात् प्रत्यक्षं चानुमा वृथा।

तीर्थ्यवादनिवृत्यर्थं विद्वद्भिः कृतयः कृताः॥१३॥



सविकल्पाविकल्पाभ्यां ज्ञानाभ्यां नावगम्यते।

आगमेऽपि स्फुटं विद्वानाचार्यो भव्य आह च॥१४॥



शून्यतावगता केन व्याकृता या तथागतैः।

नागान्तेवासिचन्द्रो हि धर्मतासत्यदर्शकः॥१५॥



ततः परम्पराम्नायैर्धर्मतासत्यगम्यता।

धर्मस्कन्धसहस्राणि चत्वार्युक्तान्यशीति च॥१६॥



धर्मतान्तर्गतं सर्वम् मुक्तिस्तु शून्यताबोधे-

स्तदर्था शेषभावना तथ्यसंवृतिमाधूय॥१७॥



शून्यताऽभ्यसने सति संवृतिहेतोःपुण्यादेः।

परलोकाच्च वञ्च्यते विविक्तार्थमजानानः॥१८॥



स्वल्पश्रुतिसमाश्रितः यो नरः पुण्यकृन्नास्ति।

नष्टः कापुरुषस्तु सः विनाशयति दुर्दृष्टा॥१९॥



शून्यता मन्दमेधसम् चन्द्राचार्य उवाचैवम्।

उपायभूतं व्यवहारसत्यमुपेयभूतं परमार्थसत्यम्॥२०॥



द्वयोर्विभेदं न हि वेद यो स व्रजेदपायं विपरीतबोधात्।

व्यवहारमनागम्य परमार्थो न देश्यते॥२१॥



तथ्यसंवृतिसोपानमन्तरेण विपश्चितः।

तत्त्वप्रासादशिखरारोहणं न हि युज्यते॥२२॥



यथाऽयं संवृतेर्भासो युक्त्या किञ्चिन्न लभ्यते।

परमार्थस्त्वलब्धत्वम् आदिसंस्थितधर्मता॥२३॥



हेतुप्रत्ययजन्यत्वात् संवृतिर्भासवन्मता।

अयुक्तं शोधितुम् चेत् कैर्जलचन्द्रादिविनिर्मितम्॥२४॥



नानाप्रत्ययजन्यत्वात् सिद्धो भासोऽखिलस्ततः।

प्रत्ययानां तु विच्छेदात्संवृत्त्यापि न सम्भवः॥२५॥



एवं दृष्टेरसंमोहाज् जाते चर्याविशोधने।

उन्मार्गेऽगमनं कृत्वाऽकनिष्ठं स्थानमाप्नुयात्॥२६॥



आयुष्यमल्पं बाहुलाश्च विद्या आयुःप्रमाणं च कियन्न विद्मः।

स्वाभीष्टमेव प्रतिलम्भनीयं हंसैर्यथा क्षीरमिवाम्बुमध्यात्॥२७॥



अर्वाग्दृशा मोहवशेन चापि क्षमो न सत्यद्वयनिर्णयेऽपि।

उक्तीर्गुरूणामिह सम्प्रतीत्य न्यस्तं द्वयं नागमतं हि सत्यम्॥२८॥



राज्ञोऽनुरोधेन सुवर्णद्वीपे कृतेऽत्र श्राद्धो यदि वा जनोऽद्य।

गृह्णातु सम्यक् सुपरीक्षणेन न श्रद्धया नैव च गौरवेण॥२९॥



सौवर्णराजेन गुरोःफलेन

संप्रेषितो देवमतिर्हि भिक्षुः।

तस्याग्रहात् सत्यद्वयावतारो

युक्त्या सुधीभिस्त्विह वीक्षणीयः॥३०॥



आचार्यदीपङ्करश्रीज्ञानविरचितः सत्यद्वयावतारः समाप्तः।



तेनैव पण्डितेन अनुवादकेन वीर्यसिंहेन चानूद्य संशोध्य च निर्णीतः।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project