Digital Sanskrit Buddhist Canon

शून्यतासप्ततिः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Śūnyatāsaptatiḥ

शून्यतासप्ततिः



स्वोपज्ञवृत्त्या समन्विता



उत्पादस्थितिभङ्गास्तिनास्तिहीनसमोत्तमम्।

लौकिकव्यवहारात्तु बुद्धेनोक्तं न तत्त्वतः॥१॥



आत्मा कश्चिन्न चानात्मा ह्यात्मानात्मेतरश्च न।

वाच्यः सर्वः स्वभावेन शून्यो निर्वाणसदृशः॥२॥



हेतुप्रत्ययसामग्रयां सर्वस्यां वा पृथक् पृथक्।

सर्वभावस्वभावो न तस्माच्छून्यं हि विद्यते॥३॥



भावो नोत्पद्यते भावान् नाभावोऽविद्यमानतः।

सदसन्न विरोधान्न स्थितिभङ्गौ ह्यजातितः॥४॥



न जायते यदा जातं नाजातमपि जायते।

जाताजाताच्च नैवं हि जायमानोऽपि जायते॥५॥



फले स्यात् फलवान् हेतुः नास्तित्वेऽहेतुना समः।

सदसत्त्वे विरोधित्वं त्रैकाल्ये नोपपद्यते॥६॥



नैकत्वेऽनेकवृत्तिर्न नोऽनेकत्वे हि नैकता।

तत्प्रतीत्यसमुत्पन्नभावास्ते ह्यनिमित्तकाः॥७॥



द्वादशाङ्गो ह्यनुत्पादः समुत्पादः प्रतीत्यजः।

एकचित्ते न तद् युक्तं बहुष्वपि न युज्यते॥८॥



आत्मा नास्ति न चानात्मा नित्यानित्ये दुःखं सुखम्।

शुचिर्नाशुचिरप्यस्ति विपर्यासा न सन्त्यतः॥९॥



तदभावे न चाविद्या विपर्यासचतुष्कजा।

तदभावान्न संस्काराः स्युः शेषा अपि तादृशाः॥१०॥



संस्कारेऽसत्यविद्या न नैव स तदभावतः।

परस्परं हेतुभूते स्वभावेन न सिध्यतः॥११॥



स्वयं स्वभावतोऽसिद्धं परंस्तज्जनयेत् कथम्।

अतोऽसिद्धपरैस्तैर्न जन्येरन् प्रत्ययैः परे॥१२॥



पिता पुत्रो न पुत्रोऽपि पिताऽन्योन्यं न तौ विना।

तथा न युगपत्तौ हि द्वादशाङ्गं तथैव च॥१३॥



प्रतीत्य विषयान् स्वप्ने न स्याद् दुःखं सुखं यथा।

विषयो न तथैवापि तं प्रतीत्य प्रतीत्यजः॥१४॥



स्वभावाद्धि न भावाश्चेदुत्तमाधममध्यमाः।

नानात्वेऽसति हेतुभ्योऽभिनिर्वृत्तिर्न सिध्यति॥१५॥



भावाः स्वभावतः सिद्धा नोऽप्रतीत्य प्रतीत्य सत्।

निःस्वभावाः कुतो भावाः स्वभावोऽपि नस्थाप्यते॥१६॥



स्वभावपरभावौ वा भङ्गोऽभावेऽपि वा कुतः।

स्वभावपरभावौ चाभावस्तेऽतो विपर्ययाः॥१७॥



शून्यत्वे सति नोत्पादो निरोधोऽपि न विद्यते।

स्वभावशून्यतायां हि कुतः स्यादुदयव्ययौ॥१८॥



अभावेऽसति भावो न भावाभावौ न चैकदा।

ऋते भावं न चाभावो भावोऽभावः सदा भवेत्॥१९॥



न स्वतो नापि परतोऽभावो भावं विना न हि।

अत एव न भावोऽस्त्यभावो न तदभावतः॥२०॥



सति भावे शाश्वतत्वं व्युच्छेदस्तदभावतः।

उभयं हि सतो भावाद् भावोऽतो नाभ्युपेयते॥२१॥



सन्तानात्तन्न सन्तानं भावो निर्वर्त्य नश्यति।

सिध्यतीदं न सन्तानोच्छेददोषश्च पूर्ववत्॥२२॥



दृष्ट्वा निर्वृत्तिमार्गोक्तिः शून्यत्वान्नोदयव्ययौ।

अदोऽन्योन्यविरोधाद्धि विरुद्धानं च दर्शनात्॥२३॥



यद्युत्पादनिरोधौ न निर्वाणं किन्निरोधतः।

न निर्वाणमनुत्पादानिरोधौ यौ स्वभावतः?॥२४॥



निरोधो यदि निर्वाणं ह्युच्छेदः शाश्वतोऽन्यथा।

तस्माद् भावो न चाभावोऽप्यनुत्पादानिरोधता॥२५॥



काचित्स्थितिर्हि निर्वाणमभावोऽपि च तद् भवेत्।

अभावेऽपि हि तन्नैवाभावाभावेऽपि तच्च न॥२६॥



न स्वतो लक्षणं लक्ष्याल्लक्ष्यं सिध्यति लक्षणात्।

नाप्यन्योन्यमसिद्धस्यासिद्धो नैव हि साधकः॥२७॥



एतेन कारणं कार्यं वेदनावेदकादयः।

दृश्य-द्रष्ट्रादिकाः सर्वे केऽपि चोक्ता अशेषतः॥२८॥



अस्थितेश्च मिथः सिद्धेः स्वतोऽसिद्धेश्च सम्प्लवात्।

भावाभावाच्च त्रैकाल्यमसन्मात्रं विकल्पना॥२९॥



उत्पादस्थितिभङ्गा न त्रयं संस्कृतलक्षणम्।

तस्मान्न विद्यते किञ्चित्संस्कृतं नाप्यसंस्कृतम्॥३०॥



भग्नो न भज्यतेऽभग्नोऽप्यस्थितस्य न च स्थितिः।

स्थितस्यापि स्थितिर्नासन् संश्चाप्युत्पद्यते न हि॥३१॥



न सन्नासन्न सदसन्नैको नानेक इत्यपि।

संस्कृतोऽसंस्कृतः सर्वे कोटिष्वास्वेव ते गताः॥३२॥



अस्ति कर्मस्वकत्वं हि कर्म-कर्मफलं तथा।

कर्मणोऽविप्रणाशश्च दिदेश भगवान् गुरुः॥३३॥



अनिरुद्धमनुत्पन्नं कर्मोक्तं निःस्वभावकम्।

आत्मग्रहाद्धि तज्जातं जनकोऽपि विकल्पतः॥३४॥



यदि स्वभावतः कर्म तज्जः कायोऽपि शाश्वतः।

विपाकदुःखवन्न स्यात्, स्यादात्मैवापि कर्म च॥३५॥



कर्म प्रत्ययजं किञ्चिनास्त्यप्रत्ययजं न च।

मायावत्सर्वसंस्काराः गन्धभुक्पुर्मरीचिवत्॥३६॥



क्लेशकारणकं कर्म संस्काराः क्लेशकर्मतः।

कर्महेतुश्च कायोऽपि त्रयं शून्यं स्वभावतः॥३७॥



कर्मण्यसति कर्ता न द्वयाभावे न तत्फलम्।

तदभावे न भोक्ता स्यादसत्त्वाच्च विविक्तता॥३८॥



योऽपश्यत्कर्मशून्यत्वं सम्यग्ज्ञानेन कम न।

कर्मण्यसति कर्मभ्यः समुत्पन्ना न सन्ति वै॥३९॥



निर्मिमीते यथा ऋद्ध्या भगवांश्च तथागतः।

तेन निर्मितकेनापि ह्यन्यो निर्मीयते पुनः॥४०॥



बुद्धनिर्मितकः शून्यः का तन्निर्मितके कथा।

यत्किञ्चित्कल्पनामात्रसत्त्वं तच्चोभयोस्तथा॥४१॥



कर्ता निर्मितकेनेव कर्म निर्मितसदृशम्।

शून्यं स्वभावतो यत्सत् कल्पनामात्रमेव तत्॥४२॥



कर्मकर्ता न निर्वाणं यदि कर्म स्वभावतः।

इष्टानिष्टफलं न स्यात्तद्भावो यदि नास्ति वै॥४३॥



सच्चाप्यस्ति ह्यसच्चापि सदसच्चापि विद्यते।

सुगमा न हि बुद्धानामाभिप्रायिकदेशना॥४४॥



रूपं चेद् भूततो जातं तद्रूपं स्यादतत्त्वतः।

स्वभावान्न हि तन्नापि परतस्तदभावतः॥४५॥



एकस्मिन्न चतुःसत्त्वं सन्नैकं हि चतुर्ष्वपि।

असच्चतुर्महाभूतापेक्षं रूपं क्व सिध्यति॥४६॥



लिङ्गादिति न तल्लिङ्गमत्यन्ताग्रहणान्ननु।

हेतुप्रत्ययजं सत्त्वे न लिङ्गं नेति युज्यते॥४७॥



रूपस्य ग्रहणं चेत् स्यात्स्वस्वभावग्रहो भवेत्।

असन्निमित्तया बुद्ध्या ह्यसद्रूपग्रहः कथम्॥४८॥



बुद्ध्या क्षणिकया रूपं नाप्यते क्षणिकं यदा।

तदाऽनागतरूपं चातीतं किमिव गृह्यते॥४९॥



कदापि वर्णसंस्थाने यदा नैव पृथक् पृथक्।

नैकग्रहो हि भिन्नानां ह्युभे रूपं प्रसिध्यतः॥५०॥



न रूपे नापि मध्ये हि चक्षुर्बुद्धिर्न चक्षुषोः।

चक्षुः प्रतीत्य रूपं च विपर्यासो विकल्पना॥५१॥



चक्षुः पश्यति नात्मानं रूपं पश्येन्नु तत्कथम्।

चक्षुर्निरात्मकं रूपं शेषाण्यायतनान्यपि॥५२॥



चक्षुः स्वभावतः शून्यं शून्यञ्च परभावतः।

शून्यं तथैव रूपञ्च शेषाण्यायतनान्यपि॥५३॥



संस्पर्शेन सहैकं स्यात्तदान्येषां हि शून्यता।

शून्यं नापेक्षतेऽशून्यं ह्यशून्यं चापि शून्यताम्॥५४॥



नास्ति स्वभावसंयोगः त्रिकमस्थितमप्यसत्।

तत्स्वभावात्मसंस्पर्शो नास्त्यतो वेदनापि सत्॥५५॥



अन्तरायतनं प्राप्य विज्ञानं बाह्यमेव वा।

जायतेऽतो न विज्ञानं शून्यं मायामरीचिवत्॥५६॥



विज्ञेयापेक्षयोत्पादाद्विज्ञानं नास्ति सद् ध्रुवम्।

ज्ञातुश्चाविद्यमानत्वमसत्त्वाज्ज्ञानज्ञेययोः॥५७॥



कश्चिन्नित्यो ह्यनित्यो वाऽनित्यं सर्वं च नास्ति वा।

भावे नित्यं ह्यनित्यं वा कथङ्कारं तथा भवेत्॥५८॥



रागो द्वेषश्च मोहो हि चेष्टानिष्टविपर्ययैः।

प्रत्ययजा ह्यतो रागो द्वेषो मोहश्च न स्वतः॥५९॥



यस्मिन् रागो भवेत्तस्मिन् द्वेषमोहौ यतस्ततः।

विकल्पतो हि जायन्ते नो विकल्पोऽपि तत्त्वतः॥६०॥



ये विकल्प्या न ते सन्ति कल्प्याभावे क्व कल्पनम्।

प्रत्ययैर्जनितत्त्वाद्धि शून्ये कल्प्यककल्पने॥६१॥



चतुर्विपर्ययै र्जाता नाविद्या तत्त्वदर्शनात्।

तदभावे न संस्काराः स्युः शेषा अपि तादृशाः॥६२॥



यद्यत्प्रतीत्य यज्जातं तदभावे न तत्ततः।

भावाभावाश्च संस्कारासंस्काराः शान्तनिर्वृताः॥६३॥



हेतुप्रत्ययजा भावाः कल्प्यन्ते ये च तत्वतः।

प्रोक्ता शास्त्रा ह्यविद्या सा द्वादशाङ्गं ततो भवेत्॥६४॥



भावशून्यत्वसज्ज्ञानान्नाविद्या तत्त्वदर्शनात्।

सो ह्यविद्यानिरोधोऽतो द्वादशाङ्गं निरुध्यते॥६५॥



मायामरीचिगन्धर्वपुरबुद्बुदफेनवत्।

संस्काराः स्वप्नसंकाशा विद्यन्तेऽलातचक्रवत्॥६६॥



भावः स्वभावतः कश्चिन्नात्राभावोऽपि विद्यते।

हेतुप्रत्ययतो जातो भावोऽभावश्च शून्यकः॥६७॥



सर्वभावस्वभावानां शून्यत्वादुपदिष्टवान्।

सर्वे प्रतीत्यजा भावा इत्यतुल्यस्तथागतः॥६८॥



तन्मात्रः परमार्थो हि भगवान् बुद्ध उक्तवान्।

लोकवर्तनमाश्रित्य सर्वं नाना यथार्थतः॥६९॥



लोकभासनभङ्गो न धर्मः कश्चिन्न तत्त्वतः।

भीतोऽज्ञोऽकल्पनिर्हारे सौगते वचने त्वतः॥७०॥



इदम्प्रतीत्य चास्तीदं न रोधो लोकपद्धतेः।

प्रतीत्यजः स निःसत्त्वः सन्त्येते निश्चयः कथम्॥७१॥



तत्त्वान्वीक्षारतः श्राद्ध उक्ते कुत्रापि न स्थितः।

प्राप्य युक्त्या नयं शान्तः भावाभावप्रहाणतः॥७२॥



इदम्प्रत्ययताज्ञानात् दृष्टिजालविनिर्गतः।

अस्पृष्टं याति निर्वाणं रागप्रतिघमोहहः॥७३॥



शून्यतासप्ततेर्वृत्तिः

आचार्यनागार्जुनपादकृता समाप्ता॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project