Digital Sanskrit Buddhist Canon

शरणगमनदेशना

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Śaraṇagamanadeśanā

शरणगमनदेशना

नमो रत्नत्रयाय



त्र्यपायपञ्चयोनीनां सर्वदुःखविघातकम्।

श्रेयोऽभ्युदयसौख्यानां दातारं प्रणमामि तम्॥१॥



अत्र शरणगमनमभिधास्ये। समासतः।

अधिष्ठानस्थिती चिन्ता कालप्रकृतिमानकम्।

नयः शिक्षा निरुक्तिश्च कर्मौपम्यविभक्तयः।

आदीनवार्थशंसाश्च प्रोक्ताः पञ्चदश क्रमात्॥२॥



तत्र अधिष्ठानपुद्गलस्तु द्विविधः- महायानगोत्रीयो हीनयानगोत्रीयश्च। स्थितिर्द्विविधा- महा-हीन-यानभेदतः। तत्रैवं हि तावद् महायानशास्त्रेषु रत्नत्रयम्- तथतारत्नत्रयम्, अभिसमयरत्नत्रयं, सम्मुखस्थं च रत्नत्रयम्।



तच्चैवम्- ज्ञेयाविपर्यस्तज्ञानम्, निर्विकल्पाद्वयज्ञानम्, धर्मधात्ववस्थितत्वं च। तदेव विशुद्ध-धर्मधातुप्रज्ञापारमिता, समाहितावस्थायां गगनतलवत् समस्तधर्मसाक्षात्कारिण्यां महाभूमौ अवस्थिताः बोधिसत्त्वाश्च ( तथतारत्नत्रयम्)।



अथ चैवं- द्विविधो रुपकायः , सन्तानावस्थिताश्चतुःसत्य-सप्तत्रिंशद्बोधिपाक्षिकधर्म-भूमि-पारमितादयो धर्माः, प्रयोगमार्गीयाश्च बोधिसत्त्वाः।



पुनश्चैवम्- चित्राङ्किततोत्कीर्णनिषिक्तमृण्मयादि (बुद्धप्रतिमादि) - नवाङ्गप्रवचनमयपोथीपुस्तकादि, संभारमार्गीयाश्च बोधिसत्वाः। हीनयानशास्त्रं तावत्-

बुद्धसंघकरान्धर्मान् अशैक्षानुभयांश्च सः।

निर्वाणं चेति शरणं यो याति शरणत्रयम्॥३॥ इति।



तत्र आशयो महायानिनान्तु अशेषसत्त्वार्थचिन्तनम्। इतरस्य च आत्मार्थमेव चिन्तनम्।



तत्र अवधिर्महायानिनान्तु बोधिमण्डपर्यन्तम्। इतरस्य तु यावज्जीवनं प्रतिज्ञा।



तत्र स्वभावो ह्री-अपत्रपायुक्तता अविज्ञप्त्पादश्च।

तत्र मानं तु स्वीकरणम्, शरणकरणं विज्ञप्त्युत्पादश्च।

तत्र नयस्तु शरणगमनविधिः। स च गुरोरवगन्तव्यः।

तत्र शिक्षा साधारणी असाधारणी च गुरुपादेभ्यो ज्ञेया।

तत्र निरुक्तिस्तु दासभावः तदितरस्वामिनमनन्विष्य शरणगमनम्।



तत्र कारित्रं तु बोधिचित्तमहावृक्षोत्पादस्य मूलत्वम्, मोक्षमहानगरस्य प्रवेशद्वारत्वम्, उपवासादिसर्वसंवराणाम् आश्रयत्वम्।



तत्रौपम्यं तावद् राज्ञः मन्त्रिणो वा प्रजागणस्य तद्वचनानतिक्रमणम्, तदाराधनमिव च।



तत्र भेदस्तु साधारणासाधारणत्वेन विशिष्टः।



तत्र आदीनवौ द्वौ। शरणच्युतिरज्ञानं वा। च्यवनं च्युतिर्वा यथा चन्द्रकीर्तिपादानाम्-



गृहीत्वा सदधिष्ठानं पुनर्हीनसमाश्रये।

च्युतिपक्षाश्रयत्वात् सो याति सज्जनहास्यताम्॥४॥ इत्युक्तिर्निदर्शनमात्रम्।



तत्रार्थस्तु यथोक्तं भगवता-



"बहवः शरणं यान्ति पर्वतांश्च वनानि च।

आरामान्वृक्षांश्चैत्यांश्च मनुष्या भयवर्जिताः॥५॥



न त्वेतच्छरणं श्रेष्ठं नैतच्छरणमुत्तमम्।

नैतच्छरणमागम्य सर्वदुःखात्प्रमुच्यते॥६॥



यस्तु बुद्धं च धर्म च संघं च शरणं गतः।

चत्वारि चार्यसत्यानि पश्यति प्रज्ञया यदा॥७॥



दुःखं दुःखसमुत्पादं दुःखस्य समतिक्रमम्।

आर्य चाष्टाङ्गिकं मार्ग क्षेमं निर्वाणगामिनम्॥८॥



एतद्धि शरणं श्रेष्ठं एतच्छरणमुत्तमम्।

एतच्छरणमागम्य सर्वदुःखात् प्रमुच्यते॥९॥ इति।



शरणगममार्थः तादृशः।



तत्रानुशंसास्तिम्नः। हेतुकालानुशंसा मार्गकालानुशंसा फलकालानुशंसा च। हेतुकाला एहिकी आमुष्मिकी च। एहिकानुशंसा अष्टमहाभयमोक्षः, अनन्तरायः, शासनप्रियदेवसाहाय्यम्, मरणकाले च चित्तहर्षादि। आमुष्मिकी तु संसारदुर्गति-दुःखेभ्य उद्धरणम्, निर्वाणाभ्युदयसुखप्रदत्त्वञ्च। मार्गानुशंसा तु चतु-(रार्य-) सत्यार्याष्टाङ्गिकमार्ग-सप्तबोध्यङ्गादियोजनम्। फलानुसंसा द्विविधनिर्वाणस्य त्रिकायस्य च प्राप्तिः।



इदं हि संक्षिप्तम्, विस्तरं तु गुरुशास्त्रभ्यो ज्ञेयम्।



शरणगमनदेशना-नाम गुरुबोधिसत्त्व-दीपङ्कर-श्रीज्ञानविरचिता समाप्ता॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project