Digital Sanskrit Buddhist Canon

विग्रहव्यावर्तनी

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Romanized version Vigrahavyāvartanī
विग्रहव्यावर्तनी



सर्वेषां भावानां सर्वत्र न विद्यते स्वभावश्चेत्।

त्वद्वचनमस्वभावं न निवर्तयितुं स्वभावमलम्॥१॥



अथ सस्वभावमेतद्वाक्यं श्रुत्वा हता प्रतिज्ञा ते।

वैषमिकत्वं तस्मिन् विशेषहेतुश्च वक्तव्यः॥२॥



मा शब्दवदित्येतत् स्यात्ते बुद्धिर्न चैतदुपपन्नम्।

शब्देनात्र सता भविष्यतो वारणं तस्य॥३॥



प्रतिषेधः प्रतिषेद्ध्योऽप्येवमिति मतं भवेत् तदसदेव।

एवं तव प्रतिज्ञा लक्षणतो दुष्यते न मम॥४॥



प्रत्यक्षेण हि तावन् यद्युपलभ्य विनिवर्तयसि भावान्।

तन्नास्ति प्रत्यक्षं भावा येनोपलभ्यन्ते॥५॥



अनुमानं प्रत्युक्तं प्रत्यक्षेणागमोपमाने च।

अनुमानागमसाध्या येऽर्था दृष्टान्तसाध्याश्च॥६॥



कुशलानां धर्माणां धर्मावस्थाविदश्च मन्यन्ते।

कुशलं जनस्वभावं शेषेष्वप्येष विनियोगः॥७॥



नैर्याणिकस्वभावो धर्मो नैर्याणिकाश्च ये तेषाम्।

धर्मावस्थोक्तानामेव च नैर्याणिकादीनाम्॥८॥



यदि च न भवेत् स्वभावो धर्माणां निःस्वभाव इत्येवम्।

नामापि भवेन्नैवं नामापि निर्वस्तुकं नास्ति॥९॥



अथ विद्यते स्वभावः स च धर्माणां न विद्यते तस्मात्।

धर्मैर्विना स्वभावः स यस्यास्ति तद् युक्तमुपदेष्टुम्॥१०॥



सत एव प्रतिषेधो नास्ति घटो गेह इत्ययं यस्मात्।

दृष्टः प्रतिषेधोऽयं सतः स्वभावस्य ते तस्मात्॥११॥



अथ नास्ति स स्वभावः किं नु प्रतिविध्यते त्वयानेन।

वचनेनर्ते वचनात् प्रतिषेधः सिध्यते ह्यसतः॥१२॥



बालानामिव मिथ्या मृगतृष्णायां यथा जलग्राहः।

एवं मिथ्याग्राहः स्यात्ते प्रतिषिध्यतो ह्यसतः॥१३॥



नन्वेवं सत्यस्ति ग्राहो ग्राह्यं च तग्दृहीतं च।

प्रतिषेधः प्रतिषेध्यं प्रतिषेद्धा चेति षट्कं तत्॥१४॥



अथ नैवास्ति ग्राहो न च ग्राह्यं न च ग्रहीतारः।

प्रतिषेधः प्रतिषेध्यं प्रतिषेद्धारोऽस्य तु न सन्ति॥१५॥



प्रतिषेधः प्रतिषेध्यं प्रतिषेद्धारश्च यद्युत न सन्ति।

सिद्धा हि सर्वभावा येषामेवं स्वभावश्च॥१६॥



हेतोस्ततो न सिद्धिर्नैःस्वाभाव्यात् कुतो हि ते हेतुः।

निर्हेतुकस्य सिद्धिर्न चोपपन्नास्य तेऽर्थस्य॥१७॥



यदि चाहेतोः सिद्धिः स्वभावविनिवर्तनस्य ते भवति।

स्वाभाव्यस्यास्तित्वं ममापि निर्हेतुकं सिद्धम्॥१८॥



अथ हेतोरस्तित्वं भावनैःस्वाभाव्यमित्यनुपपन्नम्।

लोके नैःस्वाभाव्यान्न हि कश्चन विद्यते भावः॥१९॥



पूर्वं चेत् प्रतिषेधः पश्चात् प्रतिषेध्यमिति च नोपपन्नम्।

पश्चादनुपपन्नो युगपच्च यतः स्वभावोऽसन्॥२०॥



हेतुप्रत्ययसामग्र्यां पृथग्भावेऽपि मद्वचो न यदि।

ननु शून्यत्वं सिद्धं भावानामस्वभावत्वात्॥२१॥



यश्च प्रतीत्य भावो भावानां शून्यतेति सा ह्युक्ता।

यश्च प्रतीत्य भावो भवति हि तस्यास्वभावत्वम्॥२२॥



निर्मितको निर्मितकं मायापुरुषः स्वमायया सृष्टम्।

प्रतिसेधयसे यद्वत् प्रतिषेधोऽयं तथैव स्यात्॥२३॥



न स्वाभाविकमेतद् वाक्यं तस्मान्न वादहानिर्मे।

नास्ति च वैषमिकत्वं विशेषहेतुश्च न निगद्यः॥२४॥



मा शब्दवदिति नायं दृष्टान्तो यस्त्वया ममारब्धः।

शब्देन हि तच्च शब्दस्य वारणं नैव मे वचः॥२५॥



नैःस्वाभाव्यानां चेन्नैःस्वाभाव्येन वारणं यदि हि।

नैःस्वाभाव्यनिवृत्तौ स्वाभाव्यं हि प्रसिद्धं स्यात्॥२६॥



अथवा निर्मितकायां यथा स्त्रियां स्त्रियमित्यसंग्राहम्।

निर्मितकः प्रतिहन्यात् कस्यचिदेवं भवेदेतत्॥२७॥



अथवा साध्यसमोऽयं हेतुर्न हि विद्यते ध्वनेः सत्ता।

संव्यवहारं च वयं नानभ्युपगम्य कथयामः॥२८॥



यदि काचन प्रतिज्ञा तत्र स्यादेष मे भवेद्दोषः।

नास्ति च मम प्रतिज्ञा तस्मान्नैवास्ति मे दोषः॥२९॥



यदि किंचिदुपलभेयं प्रवर्तयेयं निवर्तयेयं वा।

प्रत्यक्षादिभिरर्थैस्तदभावान्मेऽनुपालम्भः॥३०॥



यदि च प्रमाणतस्तेषां तेषां प्रसिद्धिरर्थानाम्।

तेषां पुनः प्रसिद्धिं ब्रूहि कथं ते प्रमाणानाम्॥३१॥



अन्यैर्यदि प्रमाणैः प्रमाणसिद्धिर्भवत्यनवस्था।

नादेः सिद्धिस्तत्रास्ति नैव मध्यस्य नान्तस्य॥३२॥



तेषामथ प्रमाणैर्विना प्रसिद्धिर्विहीयते वादः।

वैषमिकत्वं तस्मिन् विशेषहेतुश्च वक्तव्यः॥३३॥



विषमोपन्यासोऽयं न ह्यात्मानं प्रकाशयत्यग्निः।

न हि तस्यानुपलब्धिर्दृष्टा तमसीव कुम्भस्य॥३५॥



यदि स्वात्मानमयं त्वद्वचनेन प्रकाशयत्यग्निः।

परमिव न त्वात्मानं परिधक्ष्यत्यपि हुताशः॥३६॥



यदि च स्वपरात्मानौ त्वद्वचनेन प्रकाशयत्यग्निः।

प्रच्छादयिष्यति तमः स्वपरात्मानौ हुताश इव॥३७॥



नास्ति तमश्च ज्वलने यत्र च तिष्ठति सदात्मनि ज्वलनः।

कुरुते कथं प्रकाशं स हि प्रकाशोऽन्धकारवधः॥३८॥



उत्पद्यमान एव प्रकाशयत्यग्निरित्यसद्वादः।

उत्पद्यमान एव प्राप्नोति तमो न हि हुताशः॥३९॥



अप्राप्तोऽपि ज्वलनो यदि वा पुनरन्धकारमुपहन्यात्।

सर्वेषु लोकधातुषु तमोऽयमिहसंस्थित उपहन्यात्॥४०॥



यदि च स्वतःप्रमाणसिद्धिरनपेक्ष्य ते प्रमेयाणि।

भवति प्रमाणसिद्धिर्न परापेक्षा हि सिद्धिरिति॥४१॥



अनपेक्ष्य हि प्रमेयानर्थान् यदि ते प्रमाणसिद्धिः।

भवति न भवति कस्यचिदेवमिमानि प्रमाणानि॥४२॥



अथ मतमपेक्ष्य सिद्धिस्तेषामित्यत्र को दोषः।

सिद्धस्य साधनं स्यान्नासिद्धोऽपेक्षते ह्यन्यत्॥४३॥



सिध्यन्ति हि प्रमेयाण्यपेक्ष्य यदि सर्वथा प्रमाणानि।

भवति प्रमेयसिद्धिरनपेक्ष्यैव प्रमाणानि॥४४॥



यदि च प्रमेयसिद्धिरनपेक्ष्यैव भवति प्रमाणानि।

किं ते प्रमाणसिद्ध्या तानि यदर्थं प्रसिद्धं तत्॥४५॥



अथ तु प्रमाणसिद्धिर्भवत्यपेक्ष्यैव ते प्रमेयाणि।

व्यत्यय एवं सति ते ध्रुवं प्रमाणप्रमेयाणाम्॥४६॥



अथ तै प्रमाणसिद्ध्या प्रमेयसिद्धिः प्रमेयसिद्ध्या चा

भवति प्रमाणसिद्धिर्नास्त्युभयस्यापि ते सिद्धिः॥४७॥



सिध्यन्ति हि प्रमाणैर्यदि प्रमेयाणि तानि तैरेव।

साध्यानि च प्रमेयैस्तानि कथं साधयिष्यन्ति॥४८॥



सिध्यन्ति च प्रमेयैर्यदि प्रमाणानि तानि तैरेव।

साध्यानि च प्रमेयैस्तानि कथं साधयिष्यन्ति॥४९॥



पित्रा यद्युत्पाद्यः पुत्रो यदि तेन चैव पुत्रेण।

उत्पाद्यः स यदि पिता वद तत्रोत्पादयति कः कम्॥५०॥



कश्च पिता कः पुत्रस्तत्र त्वं ब्रूहि तावुभावपि च।

पितापुत्रलक्षणधरौ यतो नः पुत्रसंदेहः॥५१॥



नैव स्वतःप्रसिद्धिर्न परस्परतः प्रमाणैर्वा।

भवति न च प्रमेयैर्न चाप्यकस्मात् प्रमाणानाम्॥५२॥



कुशलानां धर्माणां धर्मावस्थाविधो ब्रूवते यत्।

कुशलस्वभावमेवं प्रविभागेनाभिधेयः स्यात्॥५३॥



यदि च प्रतीत्य कुशलः स्वभाव उत्पद्यते स कुशलानाम्।

धर्माणां परभावः स्वभाव एवं कथं भवति॥५४॥



अथ न प्रतीत्य किंचित् स्वभाव उत्पद्यते स कुशलानाम्।

धर्माणामेवं स्याद वासो न ब्रह्मचर्यस्य॥५५॥



नाधर्मो धर्मो वा संव्यवहाराश्च लौकिका न स्युः।

नित्याश्च सर्वभावाः स्युर्नित्यत्वादहेतुमतः॥५६॥



एष चाकुशलेष्वव्याकृतेषु नैर्याणादिषु च दोषः।

तस्मात् सर्वं संस्कृतमसंस्कृतं ते भवत्येवम्॥५७॥



यः सद्भूतं नाम ब्रूयात् स स्वभाव इत्येवम्।

भवता प्रतिवक्तव्यो नाम ब्रूमश्च न व्यं सत्॥५८॥



नामासदिति च यदिदं तत्किं नु सतो भवत्युतासतः।

यदि हि सतो यद्यसतो द्विधापि ते हीयते वादः॥५९॥



सर्वेषां भावानां शून्यत्वं चोपपादितं पूर्वम्।

स उपालम्भस्तस्माद् भवत्ययं च प्रतिज्ञायाः॥६०॥



अथ विद्यते स्वभावः स च धर्माणां न विद्यत इति।

इदमाशङ्कितं यदुक्तं भवत्यनाशङ्कितं तच्च॥६१॥



सत एव प्रतिषेधो यदि शून्यत्वं नन्वप्रतिषिद्धमिदम्।

प्रतिषेधयते हि भवान् भावानां निःस्वभावत्वम्॥६२॥



प्रतिषेधयसेऽथ त्वं शून्यत्वं तच्च नास्ति शून्यत्वम्।

प्रतिषेधः सत इति ते नन्वेवं हीयते वादः॥६३॥



प्रतिषेधयामि नाहं किंचित् प्रतिषेध्यमस्ति न च किंचित्।

तस्मात् प्रतिषेधयसीत्यधिलय एव त्वया क्रियते॥६४॥



यच्चाहं ते वचनादसतः प्रतिषेधवचनसिद्धिरिति।

अत्र ज्ञापयते वागसदिति तन्न प्रतिनिहन्ति॥६५॥



मृगतृष्णादृष्टान्ते यः पुनरुक्तं त्वया महांश्चर्यः।

तत्रापि निर्णयं शृणु यथा स दृष्टान्त उपपन्नः॥६६॥



स यदि स्वभावतः स्यात् भावो न स्यात् प्रतीत्यसमुद्भूतः।

यश्च प्रतीत्य भवति ग्राहो ननु शून्यता सैव॥६७॥



यदि च स्वभावतः स्याद् ग्राहः कस्तं निवर्तयेद् ग्राह्यम्।

शेषेष्वप्येष विधिस्तस्माद् दोषोऽनुपालम्भः॥६८॥



एतेन हेत्वभावः प्रत्युक्तः पूर्वमेव स समत्वात्।

मृगतृष्णादृष्टान्तव्यावृत्तिविधौ य उक्तः प्राक्॥६९॥



यस्त्रैकाल्ये हेतुः प्रत्युक्तः पूर्वमेव स समत्वात्।

त्रैकाल्यप्रतिहेतुश्च शून्यतावादिनां प्राप्तः॥७०॥



प्रभवति च शून्यतेयं यस्य प्रभवन्ति तस्य सर्वार्थाः।

प्रभवति न तस्य किं न भवति शून्यता यस्येति॥७१॥



यः शून्यतां प्रतीत्यसमुत्पादं मध्यमां प्रतिपदमनेकार्थाम्।

निजगाद प्रणमामि तमप्रतिमसंबुद्धम्॥७२॥ इति॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project