Digital Sanskrit Buddhist Canon

मध्यमार्थसंग्रहः

Technical Details
मध्यमार्थसंग्रहः
॥नमो भगवते श्रीसमन्तभद्राय॥

ये हि जिना विदितानुत्पादत्वेऽपि व्यवहारमुखपूर्णकरुणया संसृतिसहस्रे सुखेन लोकरक्षणायेह प्रतिपन्ना अपि निर्मलमतयस्तानहं सदा प्रणमामि॥

यथार्थ सत्यद्वितयं प्रतिबोधयितुं पुनः।
प्रारभ्यते मया हीयं बुद्धानां धर्मदेशना॥ १॥

परमार्थः संवृतिश्च सत्यद्वयं समासतः।
परमार्थो निष्प्रपञ्चः कर्तव्यो द्विविधः स च॥ २॥

पर्यायपरमार्थश्चापर्यायपर्मार्थकः।
स च स्यात्प्रथमो द्वेधा जातिपर्यायवस्तु च॥ ३॥

परमार्थो जन्मरोधः परार्थो रुद्धजन्मकः।
भूरोधादिचतुष्कोटिर्दृश्यभावोऽखिलोऽपि च॥४॥

चतुष्प्रत्ययजातयः सः सर्वप्रपञ्चवर्जितः।
स तु पर्यायरहितो विज्ञेयः परमार्थतः॥ ५॥

सत्कोटिश्चाप्यसत्कोटिर्द्वयसर्वविवर्जितः।
एतादृक् परमार्थो हि यथाभासे तु संवृतिः॥ ६॥

द्विविधा सापि विज्ञेया मिथ्याभूता च संवृतिः।
तथ्या हि संवृतिश्चेति वस्त्वर्थकरणक्षयम्॥ ७॥

तथ्यसंवृतिरुपं हि दृश्यमर्थक्रिया ऽक्षमम्।
मिथ्याभूता संवृतिः स्याद्विज्ञेया द्विविधा च सा॥८॥

स कल्पाकल्पयुग्मेन सकल्पाऽहिग्रहो गुणे।
शशिद्वयग्रहोऽकल्पा...............................॥९॥

तेन सत्यं द्विधा सर्व सामस्त्येन तु दृश्यते।
उपादाय तदर्थं हि सर्वा प्राप्नोति सम्पदम्॥१०॥

एवं नाम मया प्रोक्तो मध्यमस्यार्थसंग्रहः।
कल्याणो यः स सत्त्वस्य साधयत्वाशु चिन्तितम्॥ ११॥

इत्याचार्यभव्यविवेककृतो मध्यमार्थसंग्रहः समाप्तः॥
लोत्सवशीलराजेन परिवर्त्य शोधयित्वा निर्णीतः॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project