Digital Sanskrit Buddhist Canon

तृतीयश्चित्तोत्पादः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Tṛtīyaścittotpādaḥ

तृतीयश्चित्तोत्पादः



सम्प्रति तृतीयचित्तोत्पादम् अधिकृत्योत्तच्यते-



अशेषज्ञेयेन्धनदाहकाग्नि-

प्रभोद्भवाद् भूमिरियं तृतीया।

प्रभाकरी ................



प्रभाकरीति तु तृतीयबोधिसत्त्वभूमिनाम। पुनरियं कस्मात् प्रभाकरीति चेद् अन्वर्थमेव। तत्समये अशेषज्ञेयेन्धनदाहकज्ञानाग्नेः शान्त्यात्मकप्रभोद्भवाद् भूमिरियं प्रभाकरीत्युच्यते। तृतीयचित्तोत्पादस्य



............... तं सुगतस्य पुत्रं

तदा रविस्ताम्र इवाविभाति॥१॥



यथा सूर्य‍उदयावस्थायाः पूर्वं ताम्र इव अवभासते तथा बोधिसत्त्वेऽपि तत्र ज्ञानम् आभासते। तादृग्ज्ञानाभासप्राप्तस्य तस्य बोधिसत्त्वस्य क्षान्तिपारमिता-विशेषतादेशनार्थमुक्तम्-



अकोपपात्रस्य हि तस्य कायात्

सहास्थिमांसं यदि कोऽपि कृन्तात्।

पलं पलं दीर्घनिकृन्तनेऽपि

निकृन्तके क्षान्तिरतीव तस्य॥२॥



बोधिसत्त्वः परचित्तानुरक्षणार्थत्वात् तादृग्ज्ञानवत्वाच्च येन परद्वेषचित्ताधारत्व-त्रिकालनिरर्थकत्वं संदेहास्पदत्वञ्च न स्युः तादृक्स्वभावकायवाक्- चित्तावतारसाक्षी नास्ति। अकोपपात्रस्य यदि कोऽपि विशेषणम्। यदि तादृक्प्राणिना तस्य बोधिसत्त्वस्य कायतो सास्थिमांसं प्रतिपलं विरम्य विरम्य चिरं निकृन्तितेऽपि तादृक्कृन्तकाय न केवलं चित्तव्यारोषो न भवति अपितु, तदकुशलकर्मप्रत्ययं नरकदुःखादिविशेषम् अवलम्ब्य बोधिसत्त्वेऽतिविशिष्टा क्षान्तिरेव जायते। अपि च-



यतः स धर्मान् प्रतिबिम्बरूपान्

निरात्मदृक् पश्यति बोधिसत्त्वः।

ततः कथं केन किमस्ति छिन्नं

कदापि वा क्षान्तिमुपेति चासो॥३॥



तदकुशलकर्मप्रत्ययं नरकादिदुःखविशेषम् अवलम्ब्य न केवलं विशेषेण क्षान्तोऽपितु यतः स सर्वधर्मान् अपि प्रतिबिम्बवत् पश्यन् आत्मात्मीयसंज्ञानिवृत्तः तस्माद् अपि क्षान्ततर एव। अपि शब्दस्तु क्षान्तिहेतुसंग्रहार्थम्। क्षान्तिरियं न केवलं बोधिसत्त्वानुरूपो धर्मोऽपितु तदितरसकलगुणरक्षाहेतुभूतत्वाद् अक्षान्तवत् क्रोधव्यावृत्तिरपि युक्ता व्याख्याता-



प्रकुप्यते यद्यपकारिणेऽत्र

किमत्र कोपो विनिवर्तितः स्यात्।

अतोऽत्र कोपो हि निरर्थकोऽस्मिन्

परत्र लोकेऽपि विरुद्ध एव॥४॥



सम्प्रति दत्तरोषावसरोऽयं परस्मै अपकारिणे क्रुध्यति चेत् तदानीन्तना-पकाराविनिवृत्तेः, तदालम्बनः प्रतिकोपो निरर्थक एव, कृतकार्यत्वात्। अस्मै कोपो न केवलं वर्तमाने निष्प्रयोजनः, अपितु परलोकोऽपि विरुद्धो भवति, क्रोधोत्पादे सति अमनापपरिपाकाक्षेपः। यो दुश्चरितकर्मफलविशेषोपभोगवान् मोहात् परेणाहं प्रपीडित इति परिकल्पयन् अपकारिणे क्रोधमुत्पादयन् प्रत्यपकारेण तत्पीडनं पराजेतुकामश्चासौ। तस्यापि व्यावर्तनार्थमाह-



पुराकृतस्याकुशलस्य कर्म-

फलं तु यो नष्टतया विवक्षुः।

पराहितक्रोधत एव दुःखं

कथं हि तद्बीजतयोपनीतम्॥५॥



यत् शस्त्रधारपातेन तत्काये साधिष्ठमपकारदुःखं शत्रुणोपसाधितम्, तदन्त्यफलभूतं पूर्वकृतप्राणातिपातकर्मणः प्राणिनां नरकतिर्यग्योनि-यमलोकादि परिपाकफलं घोरम् अनुभूयमानं निष्यन्दफलं यच्चावशिष्टक्लेशाशेषाप्रियफल-निवर्तनहेतुः। तत्कथं पुनः र्विपरिणाम्यैव, औषधस्य अन्तिममात्राया आभ्यन्तरे-व्याधिप्रतीकारहेतुत्वाद् व्यारोष-परापकाराभ्याम् अतीतामनापफलादपि अति-विशिष्टापकारफलसम्भावनाहेतुत्वेन आनीयते? अतस्तद् वैद्यस्य व्याधिचिकित्सा-हेतुभूततीक्ष्णशल्यकर्मक्रियावत् फलदुःखोत्पादहेतोरतिक्षान्तिर्युक्ता। अक्षान्तिस्तु न केवलम् अमनापपरिपाकातिक्षेपहेतुरपितु दीर्घसंगृहीतपुण्यसम्भारक्षयहेतुरप्यस्तीति देशनार्थमुक्तम्-



दानेन शीलेन समुद्गतं यत्

पुण्यं चितं कल्पशतेन नश्येत्।

क्षणेन कोपाज्जिनपुत्रकेषु

तस्मान् न कोपादपरं हि पापम्॥६॥



यदि बोधिसत्त्वो महात्मा सः पुद्गले विशिष्टेऽविशिष्टे वाऽपि क्लेशाभ्यासवशप्रवेशत्वाद् बोधिचित्तोत्पान्नेषु सत्यभूतम् असत्यभूतश्च दोषम् अधिकं प्रज्ञाप्य क्षणमात्रमपि क्रोधचित्तोत्पादेऽपि तन्मात्रेणैव पूर्वोक्तदानशीलपारमिताभ्यासोत्पन्नशतकल्पसंचितपुण्यसंभारो नश्यति, अबोधिसत्त्वेन बोधिसत्त्वेभ्य उत्पादिते तु पुनः किं वक्तव्यम्? तस्मात् महासागरजलप्रमाणं कर्षगणनया निश्चेतुमशक्यं तथा तत्र परिपाकसीमा निश्चेतुमशक्यः। अत एवं सति अमनापफलाक्षेपं पुण्यक्षयकरञ्च पापम् अक्षान्तेः परम् अपरं नास्ति। "मञ्जुश्रीः, क्रोधः क्रोध इति शतकल्पसंभृतपुण्योपक्षयकरः, तस्मात् क्रोधः क्रोध इत्याख्यातः। " पुनश्च अक्षान्ताः परापकारासमर्थास्तु आत्मानमेव नाशयन्ति, समर्था निष्करुणाश्च स्वपरनाशकाः। अनेन तु जन्मत एव-



कुदर्शनोऽसज्जननीयमानो

नयानयज्ञानविवेकहीनः।



परस्मिन् काले निकायसभागं त्यक्त्वा



सकोपनो दुर्गतिमेति शीघ्रम्।



यद्येतेऽक्षान्तिदोषाः, तदा के वै तद्विपरीतक्षान्तिगुणा इति-



गुणा विरुद्धाः कथिता ह्यकोपात्॥७॥



सुदर्शता सज्जनतागतिश्च

नयानयज्ञानपटुत्वमस्ति।

अनन्तरं देवमनुष्यजन्म

क्षयं ह्यकोपादुपयाति पापम्॥८॥



येऽक्षान्तिदोषा उक्तास्तद्विरुद्धास्ते गुणाः क्षान्तेर्ज्ञेयाः। तद्यथा-



पृथग्जनो जिनपुत्रश्च दोषान्

गुणान् समालोक्य च कोपक्षान्त्योः।

अपास्य कोपं तरसैव क्षान्तिं

सदा श्रयेच्चार्यजनप्रशस्ताम्॥ ९॥



कोपक्षान्ती तु कोपक्षान्त्यैव। दोषगुणौ चापि दोषगुणौ। क्रोधक्षान्त्योर्दोष- गुणाविति शब्दविनियोगः। क्रोधदोषस्तु यथोक्तः, विपर्ययेण क्षान्तिगुणम् अवगम्य अक्षान्तिं त्यक्त्वा सर्वकालं क्षान्तिरेव आश्रयणीया। अधुना क्षान्ति-पारमिता-प्रभेददेशनार्थम्-



सम्बुद्धबौध्यै परिणामनापि

त्रिष्वाश्रिता चेत् खलु लौकिकीयम्।



बुद्धत्वाय परिणामनायामपि का क्षान्तिः, केन क्षान्तिः, केषु प्राणिषु क्षान्तिरेतत्त्रिष्वाश्रयेषु सत्सु इयं क्षान्ति-पारमिता लौकिकीति।



अनाश्रिता स्यात् खलु सैव बुद्धै-

रलौकिकी पारमितेति दिष्टा॥१०॥



तस्यां भूमौ बोधिसत्त्वस्य क्षान्तिपारमिता यथा विशुद्धयति तथैव-



अभिज्ञतां ध्यानमितोऽत्र भूमौ

जिनस्य पुत्रो हतरागवैरः।

भवत्यसौ लौकिककामरागौ

निहन्तुमत्यन्ततया च शक्तः॥११॥



ध्यानमिति ध्यानशब्दस्तु उपलक्षणार्थः, समापत्त्य-प्रमाणानामपि ग्रहणं भवति। यथा-तृतीयबोधिसत्त्वभूमावुक्तवत्- "सोऽस्यां प्रभाकर्यां बोधिसत्त्वभूमौ स्थितो बोधिसत्त्वो धर्मानुधर्मप्रतिपत्तिहेतो र्विविक्तं कामैर्विविक्तं पापकैरकुशलधर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानमुपसंपद्य विहरति। स वितर्कविचाराणां व्युपशमादध्यात्मसंप्रसादाच्चेतस एकोतीभावादवितर्कमविचारं समाधिजं प्रीतिसुखं द्वितीयध्यानमुपसंपद्य विहरति। स प्रीतेर्विरागादुपेक्षको विहरति स्मृतिमान् संप्रजानन्। सुखं न कायेन प्रतिसंवेदयति यत्तदार्या आचक्षन्ते-उपेक्षकः स्मृतिमान्। सुखविहारी निष्प्रीतिकं तृतीयं ध्यानमुसंपद्य विहरति। स सुखस्य च प्रहाणाद्दुःखस्य च प्रहाणात्पूर्वमेव च सौमनस्यदौर्मनस्ययोरस्तंगमाद-दुःखा-सुखमुपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानमुपसंपद्य विहरति। " इति, एतानि चत्वारि ध्यानानि। चतस्त्र आरूप्यसमापत्तयस्तु- तद्यथा- " स सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिघसंज्ञानामस्तंगमान्नानात्वसंज्ञानाममनसिकारादनन्तकमाकाश-मित्याकाशानन्त्यायतनमुपसंपद्य विहरति। स सर्वश आकाशानन्त्यायतन-समतिक्रमादनन्तं विज्ञानमिति विज्ञानानन्त्यायतनमुपसंपद्य विहरति। स सर्वशो विज्ञानानन्त्यायतनसमतिक्रमान्नास्ति किंचिदित्याकिंचन्यायतनमुपसंपद्य विहरति। स सर्वश आकिंचन्यायतनसमतिक्रमान्नैव संज्ञा नासंज्ञाऽपि इति संज्ञानासंज्ञायत-नमुपसंपद्य विहरति। " इमाश्चतस्त्र आरूप्यसमापत्तयः। चत्वारोऽप्रमाणास्तु एवम् -"स मैत्रीसहगतेन चित्तेन विपुलेन महदतेनाद्वयेनाप्रमाणेनावैरेणा-सपत्नेनानावरणेनाव्याबाधेन सर्वत्रानुगतेन धर्मधातुपरमे लोके आकाशधातु-पर्यवसाने सर्वावन्तं लोकं स्फरित्वोपसंपद्य विहरति। एवं करुणासहगतेन चित्तेन। मुदितासहगतेन चित्तेन। उपेक्षासहगेतन चित्तेन विहरति। "



पञ्चाभिज्ञास्तु, तद्यथा- "सोऽनेकविधां ऋद्धिविधिं प्रत्यनुभवति। पृथिवीमपि कम्पयति। एकोऽपि भूत्वा बहुधा भवति। बहुधापि भूत्वैको भवति। आविर्भावं तिरोभावमपि प्रत्यनुभवति। तिरः कुडयं तिरःप्राकारं पर्वतमप्यसज्जन् गच्छति तद्यथापि नाम आकाशे। आकाशेऽपि पर्यङ्केन क्रामति तद्यथापि नाम पक्षिशकुनिः। पृथिव्यामप्युन्मज्जननिमज्जनं करोति तद्यथापि नाम उदके। उदकेऽप्यमज्जन् गच्छति तद्यथापि पृथिव्याम्। धूमयति प्रज्वलति, तद्यथापि नाम महानग्निस्कन्धः। स्वकायादपि महावारिधारा उत्सृजति तद्यथापि नाम महामेघः। याभिर्वारिधाराभिरयं त्रिसाहस्त्रमहासाहस्रो लोकधातुरादीप्तः प्रदीप्तः संप्रज्वलितोऽग्निना एकज्वालीभूतो निर्वाप्यते। इमावपि चन्द्रसूर्यावेवंमहर्द्धिको एवंमहानुभावो पाणिना परामृशति परिमार्ष्टि यावद् ब्रह्मलोकमपि कायेन वशं वर्तयति। " इत्येते ऋद्धयभिज्ञाः।



"स दिव्येन श्रोत्रधातुना [विशुद्धेना] तिक्रान्तमानुष्यकेन उभयान् शब्दान् शृणोति दिव्यान् मानुष्यकान्, सूक्ष्मानौदारिकांश्च। ये दूरेऽन्तिके वा अन्तशो दंश-मशककीटमक्षिकाणामपि शब्दान् शृणोति। [एषा दिव्या श्रोत्राभिज्ञा]॥"



" स परसत्त्वानां परपुद्गलानां चेतसैव चित्तं यथाभूतं प्रजानाति। सरागं चित्तं सरागचित्तमिति यथाभूतं प्रजानाति। विरागं चित्तं विरागचित्तमिति प्रजानाति। सदोषं, विगतदोषं, समोहं, विगतमोहं, सक्लेशं, निःक्लेशं, परीत्तं, विपुलं, महदतं, अप्रमाणं, संक्षिप्तं, [विस्तीर्णं], समाहितं, असमाहितं, विमुक्तं, अविमुक्तं, साङ्गनम्, अनङ्गनम्, औदारिकं चित्तमौदारिकचित्तमिति यथाभूतं प्रजानाति। अनौदारिकं चित्तमनौदारिकं चित्तमिति यथाभूतं प्रजानाति। इति परसत्त्वानां परपुद्‍गलानां चेतसैव चित्तं यथाभूतं प्रजानाति। [इत्येषा परचित्तज्ञानाभिज्ञा ]॥"



"सोऽनेकविधं पूर्वनिवासमनुस्मरति। एकामपि जातिमनुस्मरति। द्वे तिस्त्रञ्चतस्त्रः पञ्च दश विंशतिः त्रिंशतं चत्वारिंशतं पञ्चाशतं जातिशत-[सहस्त्र]मनुस्मरति। अनेकान्यपि जातिशतानि। [अनेकान्यपि जातिसहस्त्राणि] अनेकान्यपि जातिशतसहस्त्राणि। संवर्तकल्पमपि विवर्तकल्पमपि। अनेकानपि संवर्तविवर्तकल्पानप्यनुस्मरति। कल्पशतमपि कल्पसहस्त्रमपि कल्पशतसहस्त्रमपि कल्पकोटीमपि कल्पकोटीशतमपि कल्पकोटीसहस्त्रमपि कल्पकोटीशत-सहस्रमपि यावदनेकान्यपि कल्पकोटीनियुतशतसहस्राण्यनुस्मरति-अमुन्नाहमासं एवंनामा। एवंगोत्रः एवंजातिः एवमाहार एवमायुःप्रमाणः एवंचिरस्थितिकः एवं सुखदुःखप्रतिसंवेदी। सोऽहं ततश्च्युतोऽत्रोपपन्नः। ततश्च्युत इहोपपन्नः। इति साकारं सोद्देशं सनिमित्तमनेकविधं पूर्वनिवासमनुस्मरित। [एषा पूर्वनिवासानु-स्मृत्यभिज्ञा]॥"



"स दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेण सत्त्वान् पश्यति च्यवमानानुपपद्यमानान् सुवर्णान् दुर्वर्णान् सुगतान् दुर्गतान् प्रणीतान् हीनान्। यथाकर्मोपगान् सत्त्वान् यथाभूतं प्रजानाति -इमे भवन्तः सत्त्वाः कायदुश्चरितेन समन्वागता वाग्दुश्चरितेन समन्वागता मनोदुश्चरितेन समन्वागताः आर्याणामपवादका मिथ्यादृष्टयः मिथ्यादृष्टिकर्मसमादानहेतोस्तद्धेतुं तत्प्रत्ययं कायस्य भेदात्परं मरणादपायदुर्गतिविनिपातनिरयेषूपपद्यन्ते। इमे पुनर्भवन्तः सत्त्वाः कायसुचरितेन समन्वागता वाक्सुचरितेन समन्वागता मनःसुचरितेन समन्वागता आर्याणामन-पवादकाः। सम्यग्दृष्टिकर्मसमादानहेतोस्तद्धेतुं तत्प्रत्ययं कायस्य भेदात् परं मरणात्सुगतौ स्वर्गे देवलोकेषूपपद्यन्त इति [प्रजानाति। एवं] दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमनुष्येण (च्यवमानानुपपद्यमानान्) साकारं सोद्देशं सनिमित्तं सत्त्वान् पश्यति। यथाकर्मोपगतान् सत्त्वान् यथाभूतान् प्रजानाति। स इमानि ध्यानानि विमोक्षान् समाधीन् समापत्तीश्च समापद्यते, व्युत्तिष्ठते। न च तेषां वशेनोपपद्यतेऽन्यत्र यत्र बोध्यङ्गपरिपूरिं पश्यति तत्र संचिन्त्य प्रणिधानवशेनोपपद्यते। तत्कस्य हेतो? तथा हि तस्य बोधिसत्त्वस्योपायकौशल्याभिनिर्हता चित्तसंततिः॥ "



अत एव अस्यां भूमौ बोधिसत्त्वे ध्यानम् अभिज्ञाश्च सम्भवन्ति कथं सदा लौकिकरागद्वेषपरिक्षयः? चपदं तु अनुक्तसङ्‍ग्रहार्थम्, इति तस्य मोहस्यापि परिक्षयो भवति-कथम् इति, इदमपि यथा सूत्रे-" स सर्वधर्माणामसंक्रान्तितां च अविनाशितां च प्रतीत्य प्रत्ययतया व्यवलोकयति॥ तस्य भूयस्या मात्रया सर्वाणि कामबन्धनानि तनूनि भवन्ति। सर्वाणि रूपबन्धनानि सर्वाणि भवबन्धनानि सर्वाण्यविद्याबन्धनानि तनूनि भवन्ति। दृष्टिकृतबन्धनानि च पूर्वमेव प्रहीणानि भवन्ति। तस्य अस्य प्रभाकर्यां बोधिसत्त्वभूमौ स्थितस्य बोधिसत्त्वस्य अनेकान् कल्पान् यावदनेकानि कल्पकोटिनियुतशतसहस्त्राणि ....पेयालं.....अनुपचयं मिथ्यारागः प्रहाणं गच्छति, अनुपचयं मिथ्यादोषः प्रहाणं गच्छति, अनुपचयं मिथ्यामोहः प्रहाणं गच्छति। " इत्युक्तम्। अतस्तस्य रागो द्वेषो मोहश्च परिक्षीणो भवति। कथं हि ते सदा लौकिककामरागात् उपहन्तुं समर्था भविष्यन्तीति यथा - "इयं भवन्तो जिनपुत्रा बोधिसत्त्वस्य प्रभाकरी नाम तृतीया बोधिसत्त्वभूमिः समासनिर्देशतः, यस्यां प्रतिष्ठितो बोधिसत्त्वो भूयस्त्वेन इन्द्रो भवति देवराजस्त्रिदशाधिपतिः कृती प्रभुः सत्त्वानां कामरागविनिवर्तनोपायोपसंहाराय कुशलः सत्त्वान् कामपङ्कादभ्युद्धर्तुम् ", इत्युक्तम्। अतः स जिनपुत्रो लौकिक-कामरागान् उपहन्तुं समर्थो भविष्यति। एवम् अस्य बोधिसत्त्वस्य तृतीय-बोधिसत्त्वभूमौ विशुद्धक्षान्तिपारमिताध्यानापरिमाणसमापत्यभिज्ञा रागादिपरिक्षयस्य च निश्चितप्राप्तिर्भविष्यतीत्युक्त्वा अधुना तु क्षान्तिपारमितापर्यन्तं पारमिता-त्रयाश्रयविशेषं सम्भारस्वभावं फलपरिसिद्धिव्यवस्थां च प्रकाशयितुम् आख्यायते-



इमे हि दानादिमयाः त्रिधर्मा

गृहिभ्य उक्ताः सुगतैस्तु भूयः।

त एव पुण्येत्यपि संभृता हि

सम्बुद्धरूपात्मककायहेतुः॥१२॥



बोधिसत्त्वा एव यथोक्तदानाद्याश्रयाः सन्ति, तथापि गृहस्थप्रव्रजितभेदेन तत्र द्वयोः संभवं विचिन्त्य तथोक्तम्। तत्र गृहस्थेषु प्रायेण दानादयस्त्रयो धर्माः सुसाध्याः, परिव्राजकेषु च वीर्यं, ध्यानं तथा प्रज्ञा। न चेतरेतरासंभावना। बुद्धत्वहेतुसम्भारौ तु द्वौ स्तः, स चासौ पुण्यसंभारो ज्ञानसंभारश्च। तत्र पुण्यसम्भारस्तु तास्तिस्त्रः पारमिताः सन्ति, ज्ञानसम्भारश्च ध्यानं प्रज्ञा च। वीर्यं तूभयहेतुरिति व्यवस्था। तत्र यः पुण्यसम्भारः स संबुद्धानां भगवतां शतपुण्य-लक्षणस्य अदभुतस्य अचिन्त्यस्य विश्वरूपमयस्य रूपकायस्य हेतुः। धर्म-स्वभावकायस्य अनुत्पादलक्षणस्य हेतुस्तु ज्ञानसम्भारः। सम्प्रति आश्रयादिमाहात्म्येन स्वमहत्वम् उक्त्वा तृतीयबोधिसत्त्वभूम्यवस्था समाख्यायते-



प्रभाकरीयं जिनपुत्रसूर्ये

तमः स्वकं पूर्वतरं विनाश्य।

समीहते लोकतमो विहन्तुं।



सुगतपुत्रसूर्यस्थितेयं प्रभाकरीभूमिः स्वाश्रिताम् अविद्यां आत्मोद्भव-विघ्नभूतां जायमानावस्थायामेव विनाश्य तत्प्रकारोपदेशेन तद्भिन्नानां तृतीय-भूम्युद्भवविघ्नान्धकारं विहन्तुं समीहते। स बोधिसत्त्वः-



न चात्र कोपो भुवि तीक्ष्णभूते॥१३॥



स तु दोषान्धकाराणां प्रतिबन्धकानां नाशनेन सूर्यवद् अतितीक्ष्णतावतारेऽपि दोषयुक्तजनेभ्यो न क्रुध्यति। क्षान्तेरतिविशिष्टाभ्यासात् करुणया सन्ततेः स्निग्धत्वाच्च।



मध्यमकावतारभाष्ये तृतीयश्चित्तोत्पादः।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project