Digital Sanskrit Buddhist Canon

द्वितीयश्चित्तोत्पादः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Dvitīyaścittotpādaḥ

द्वितीयश्चित्तोत्पादः



अधुना द्वितीयं (चित्तोत्पादम्) अधिकृत्योच्यते-



स शीलसम्पत्तिगुणान्वितत्त्वात्

स्वप्नेऽपि दुःशीलमलं जहाति। इति।



भूमिसंज्ञकसर्वज्ञानविशेषस्य तु एकस्वभावत्वात् तदसत्वेऽनुत्पन्नगुणभ्यः शीलपारमितादिविशिष्टताभ्य एव द्वितीय-चित्तोत्पादादिविशेषाः दर्शिताः। तत्र क्लेशानधिवासित्वात्, पापानुद्भूतत्वात्, चित्तकौकृत्यग्निशमनेन, शीतलत्वात्, सुखहेतुत्वेन उत्तमैराश्रयणीयत्वात् शीलमिति। तदपि सप्तत्यागलक्षणम्। त्रयो धर्मा अलोभोऽद्वेषः सम्यग्दृष्टिश्च ते समुत्थानम्। अतः समुत्थानेन सह शीलम् अधिकृत्य दशकर्ममार्गा व्याख्याताः शीलसंपत् तु शीलातिशयः। गुणविशुद्धिस्तु गुणशुद्धिः, शीलसंपत्परिशुद्धिरिति शब्दः प्रयोज्यः। स्वगुणपरिशुद्धत्वात् शीलत्वं विशिष्टिम्। तदन्वितत्वात् स बोधिसत्त्वः स्वप्नावस्थायामपि दुःशीलमलैरलिप्तः। अथ कथं तस्य तादृक् शीलसम्पदा गुणपरिशुद्धिः? एतादृशोऽयं बोधिसत्त्वो द्वितीयबोधिसत्त्वभूमौ प्रस्थितस्तु-



स काय-वाक्-चित्तविशुद्धचर्यो

दशैव सत्कर्मपथांश्चिनोति॥१॥



यथा द्वितियबोधिसत्त्वभूमौ- "तत्रभवन्तो जिनपुत्रा, विमलायां बोधिसत्त्वभूमौ स्थितो बोधिसत्त्वः प्रकृत्यैव प्राणातिपातात्प्रतिविरीतो भवति निहतदण्डो निहतशस्त्रो निहतवैरो लज्जावान् दयापन्नः सर्वप्राणिभूतेषु हितसुखानुकम्पी मैत्रचित्तः। स संकल्पैरपि प्राणिविहिंसां न करोति, कः पुनर्वादः परसत्त्वेषु सत्त्वसंज्ञिनः संचिन्त्यौदारिककायविहेठनया॥



अदत्तादानात्प्रतिविरतः खलु पुनर्भवति स्वभोगसंतुष्टः, परभोगानभिलाषी, अनुकम्पकः। स परपरिगृहीतेभ्यो वस्तुभ्यः परपरिगृहीतसंज्ञी स्तेयचित्तमुपस्थाप्य अन्तशस्तृणपर्णमपि नादत्तमादाता भवति, कः पुनर्वादोऽन्येभ्यो जीवितोपकरणेभ्यः॥



काममिथ्याचारात्प्रतिविरतः खलु पुनर्भवति स्वदारसंतुष्टः परदारानभिलाषी। स परपरिगृहीतासु स्त्रीषु परभार्यासु गोत्रध्वजधर्मरक्षितासु अभिध्यामपि नोत्पादयति, कः पुनर्वादो द्वीन्द्रियसमापत्या वा अनङ्गविज्ञप्त्या वा॥



अनृतवचनात्प्रतिविरतः खलु पुनर्भवति सत्यवादी, भूतवादी, कालवादी, यथावादी तथाकारी। सोऽन्तशः स्वप्नान्तरगतोऽपि विनिधाय दृष्टिं क्षान्तिं रुचिं मतिं प्रेक्षां विसंवादनाभिप्रायो नानृतां वाचं निश्चारयति, कः पुनर्वादः समन्वाहृत्य॥



पिशुनवचनात्प्रतिविरतः खलु पुनर्भवति अभेदाविहेठाप्रतिपन्नः सत्त्वानाम्। स नेतः श्रुत्वा अमुत्राख्याता भवत्यमीषां भेदाय। न अमुतः श्रुत्वा इहाख्याता भवत्येषां भेदाय। न संहितान् भिनत्ति, न भिन्नानामनुप्रदानं करोति। न व्यग्रारामो भवति न व्यग्ररतो न व्यग्रकरणीं वाचं भाषते सद्भूतामसद्भूतां वा॥



परुषवचनात्प्रतिविरतः खलु पुनर्भवति। स येयं वागदेशा कर्कशा परकटुका पराभिसंजननी अन्वक्षान्वक्षप्राग्भारा ग्राम्या पार्थग्जनकी अनेला अकर्णसुखा क्रोधरोषनिश्चारिता हृदयपरिदहनी मनःसंतापकरी अप्रिया अमनआपा अमनोज्ञा स्वसंतानपरसंतानविनाशिनी, तथारूपां वाचं प्रहाय येयं वाक् स्निग्धा मृद्वी मनोज्ञा मधुरा प्रियकरणी मनआपकरणी हितकरणी नेला कर्णसुखा हृदयंगमा प्रेमणीया पौरी वर्णविस्पष्टा विज्ञेया श्रवणीया निश्रिता बहुजनेष्टा बहुजनकान्ता बहुजनप्रिया बहुजनमनआपा विज्ञापन्ना सर्वसत्त्वहितसुखावहा समाहिता मनः प्रह्लादनकरी स्वसंतानपरसंतानप्रसादनकरी तथारूपां वाचं निश्चारयति॥



संभिन्नप्रलापात्प्रतिविरतः खलु पुनर्भवति सुपरिहार्यवचनः कालवादी भूतवादी अर्थवादी धर्मवादी न्यायवादी विनयवादी, स निदानवतीं वाचं भाषते कालेन सावदानाम्। स चान्तश इतिहासपूर्वकमपि वचनं परिहार्यं परिहरति, कः पुनर्वादो वाग्विक्षेपेण॥



अनभिध्यालुः खलु पुनर्भवति परस्वेषु परकामेषु परभोगेषु परवित्तोपकरणेषु परपरिगृहीतेषु स्पृहामपि नोत्पादयति, किमितियत्परेषां तन्नाम स्यादिति नाभिध्यामुत्पादयति, न प्रार्थयते, न प्रणिदधाति, न लोभचित्तमुत्पादयति॥



अव्यापन्नचित्तः खलु पुनर्भवति सर्वसत्त्वेषु मैत्रचित्तो हितचित्तो दयाचित्तः सुखचित्तः स्निग्धचित्तः सर्वजगदनुग्रहचित्तः सर्वभूतहितानुकम्पाचित्तः। स यानीमानि क्रोधोपनाहखिलामलव्यापादपरिदाहसंधुक्षितप्रतिघाद्यानि तानि प्रहाय यानीमानि हितोपसंहितानि मैत्र्युपसंहितानि सर्वसत्त्वहितसुखाय वितर्कित-विचारितानि, तान्यनुवितर्कयिता भवति॥



सम्यग्दृष्टिः खलु पुनर्भवति सम्यक्पथगतः कौतुकमङ्गलनानाप्रकार-कुशीलदृष्टिविगत ऋजुदृष्टिरशठोऽमायावी बुद्धधर्मसंघनियताशयः।" इत्याद्युक्तवत्।



तत्र प्रथमत्रयकुशलकर्मपथाः कायेन प्रतिपाद्यन्ते। मध्यमचतुरो वाचा अन्त्यत्रयश्चित्तेन। एवं दशकुशलकर्ममार्गा अपि संगृहीताः। किम् एतेषां कर्ममार्गाणां चयनं प्रथमचित्तोत्पादबोधिसत्त्वा न कुर्वन्ति? तेऽपि चयनं कुर्वन्ति, तथापि-



दशापि मार्गान् कुशलान् समेत्य

भवन्ति ते शुद्धतरास्तथैव।



प्रथमचित्तोत्पादबोधिसत्त्वा न तथा।



सदा विशुद्धः खलु शारदेन्दु-

र्यथा हि शान्तप्रभयाऽतिशेते॥२॥



शान्तस्तु संवृतेन्द्रियः। प्रभामयो देदीप्यमानशरीरः, तथा परिशुद्धशीलः सन्नपि।



स शुद्धशीलप्रकृतिंविदश्चेद्

भवेन्न तेनैव विशुद्धशीलः।



यथा-आर्यरत्नकूटसूत्रे-"काश्यप, ए[क]त्यो भिक्षुः(शीलवन्तः) प्रातिमोक्षसंवरसंवृतो विहरति। आचारगोचरसम्पन्न अणुमात्रेष्ववद्येषु (अपि) भयदर्शी समा[दा] य शिक्षते शिक्षापदेषु परिशुद्धकायकर्मवाङ्मनस्कर्मणा समन्वागतो विहरति, परिशुद्धाजीवः स च भ[वति] आत्मवादी, अयं काश्यप प्रथमो दुःशीलः शीलवंतः प्रतिरूपको द्रष्टव्यः। " इत्यतः "पुनरपरं काश्यप! इहे कत्यो भिक्षुः द्वादशाधूतगुणस[मादानेऽपि] उपलम्भदृष्टिकश्च भवति, अहंकार(ममकार)स्थितः अयं काश्यप चतुर्थो दुःशीलः शीलवन्तप्रतिरूप-कोद्र[ष्टव्यः] "इति पर्यन्तम् उक्तम्।



अतः सदा सस्त्रितयेऽपि बुद्धि-

द्वयप्रचारात् सुतरां निवृत्तः॥३॥



कस्मै प्राणिने त्यागः, किं त्यक्तं, केन त्यक्तं, तत्त्रितयेऽपि भावाभावादि-बुद्धिद्वयनिर्वृतो भवति। एवं संप्रति बोधिसत्त्वस्य शीलसंपन्मयत्वम् उक्तम्। ततः पश्चात् सामान्यतया तद्भिन्नानामपि शीलसम्पत्तेर्दानादितोऽपि अतिशयत्वं सर्वगुण-सम्पदाश्रयभूतत्वमेव देशनार्थयितुम् उक्तम्-



दानाज्जनः शीलपदेन हीनो

भोगानवाप्यैष्यति दुर्गतिञ्च। इति।



तद्दानत एव स दानपतिः शीलवान् भूतो नर-देवमध्ये विशिष्टभोग-सम्पन्मयः सन् शीलपादनिर्वृत्तौ दुर्गतिलोकपतितः प्रत्येकनरकं, अश्व-गज-वानर-नागादि-प्रेत-महर्द्धिकादिषु उत्पन्नः स विविधभोगसम्पत्सम्पन्न एव भवति। अतः



सव्याजमूले परिक्षीयमाणे

तस्मै न भोगाः प्रभवन्ति पश्चात्॥४॥



योऽत्यल्पबीजमुप्त्वा विपुलफलं प्राप्नुवन् पुनः फलाय तस्मादप्यधिकं बीजं वपति, तेन महाफलसम्भारस्य यथासमये उपवर्धनक्रमोऽविच्छिन्नं सम्भवति, कृतप्रणाशस्वभावश्चयो मूर्खतया पूर्वबीजमात्रमपि उपभुङ्‍क्ते तस्य सव्याजवस्तु-संग्रहस्यापि क्षयत्वात् कुतो भाविफलसंपदुत्पादः? तथैव शीलनिवृत्तेः अस्थाने सम्पदुपभोगक्तुरपि अतिमूर्खतया अपूर्वाक्षेपरहितत्वात् पूर्वाक्षेपाशेषोपभोगत्वाच्च

पश्चात् सम्पद्भावोऽसंभवः। शीलपादविहीनस्य अस्य पूर्णसम्पद्भावो न केवलं दुर्लभः, दुर्गतिगमनेन दुर्गतित उत्थानम् अपि अतिदुर्लभम् इति देशनाय-



यदा स्वतन्त्रः स्थितिसामरूप्यम्

अयं स्वचिन्तां यदि नो करोति।

दरीप्रपाते परतन्त्रताप्तौ

क एनमुत्त्थापयिता हि पश्चात्॥५॥



इत्युक्तम। यद्यसौ तदा अनुकूलजनपदस्थितो बन्धमुक्तशूरवत् स्वच्छन्दः, पराधीनतामप्रविष्टः सन् देवमनुष्यादिलोकस्थितः स्वचिन्तां न करोति, साधिष्टदरीसमुत्सृष्टबद्धशूरवद् दुर्गतिंगतमेनं पश्चात् क उत्त्थापयिष्यति। अत एव पीडनाय निश्चितमेव दुर्गतिर्भविष्यति। तत एव पुनर्मनुष्येषु उपपादेऽपि द्विविधः परिपाकोऽभिसिद्ध इत्युक्तम्। यतस्तादृशो दुःशीलोऽत्यधिकदोषसम्भाराधिष्ठानम्-



ततो जिनो दानकथामुदीर्य

कथां तु शीलानुगतामुवाच।



तस्मादेव पराजितसकलपापधर्मो जिनो दानादिगुणाविप्रणाशाय दान-कथासमयानन्तरं शीलकथामेव कृतवान्।



गुणे विवृद्धे खलु शीलभूमौ

फलोपभोगस्तु निरन्तरं स्यात्॥६॥



सर्वगुणाश्रयभूतत्वात् शीलम् एव भूमिः। तत्र दानादिसर्वगुणविवृद्धिश्चेत् हेतुफलपरम्परा उत्तरोत्तरं क्रमशोऽनवच्छिन्नरूपेण फलसम्भारमुपवर्धयन्ती दीर्घकालम् उपभोक्तुं शक्यते, अन्यथा तु न। अतोऽनेन प्रकारेण-



पृथग्जनश्रावकनैजबोधि-

स्वभावनिष्ठस्य जिनात्मजस्य।

न हेतुरस्त्यभ्युदयाय शीलाद्

ऋते च निःश्रेयसहेतवेऽन्यः॥७॥



यथा-"इमे खलु पुनर्दशाकुशलाः कर्मपथा अधिमात्रत्वादासेविता [भाविता] बहुलीकृता निरयहेतुर्मध्यत्वात् तिर्यग्योनिहेतुर्मृदुत्वाद्यमलोकहेतुः। तत्र प्राणातिपातो निरयमुपनयति, तिर्यग्योनिमुपनयति, यमलोकमुपनयति। अथ चेत्पुनर्मनुष्येषु उपपद्यते, द्वौ विपाकावभिनिर्वर्तयति अल्पायुष्कतां च बहुग्लान्यतां च। अदत्तादानं .........पेयालं.........'परीत्तभोगतां ' च 'साधारणभोगतां' च। काममिथ्याचारो ... अनाजानेयपरिवारतां च ससपत्नदारतां च। मृषावादो.......अभ्याख्यान-बहुलतां च परैर्विसंवादनतां च। पैशुन्यं......भिन्नपरिवारतां च हीनपरिवारतां च। पारुष्यं........अमनापश्रवणतां च कलहवचनं च। तां संभिन्नप्रलापो.......अनादेयवचनतां च अनिश्चितप्रतिभानतां च। अभिध्या........असंतुष्टितां च महेच्छतां च। व्यापादो.......अहितैषितां च परोत्पीडनतां च। मिथ्यादृष्टिः [निरयमुपनयति, तिर्यग्योनिमुपनयति, यमलोकमुपनयति। अथ चेत्पुनर्मनुष्येषु उपपद्यते, द्वौ विपाकावभिनिर्वर्तयति] कुदृष्टिपतितश्च भवति शठश्च मायावी। एवं खलु महतोऽपरिमाणस्य दुःखस्कन्धस्य इमे दशाकुशलाः कर्मपथाः समुदागमाय संवर्तन्ते। " "पुनः कुशलानां कर्मपथानां समादानहेतो[र्देव] मनुष्याद्युपपत्तिमादिं कृत्वा यावद्भवाग्रमित्युपपत्तयः प्रज्ञायन्ते। तत उत्तरं त एव दश कुशलाः कर्मपथाः प्रज्ञाकारेण परिभाव्यमानाः प्रादेशिक-चित्ततया त्रैधातुकोत्त्रस्तमानसतया महाकरुणाविकलतया परतः श्रवणानुगमेन घोषानुगमेन च श्रावकयानं संवर्तयन्ति। तत उत्तरतरं परिशोधिता अपरप्रणेयतया [स्वयंभूत्वानुकूलतया] स्वयमभिसंबोधनतया [परतोऽपरिमार्गणतया] महाकरुणोपायविकलतया गम्भीरेदं-प्रत्ययानुबोधनेन प्रत्येकबुद्धयानं संवर्तयति। तत उत्तरतरं परिशोधिता विपुलाप्रमाणतया महाकरुणोपेततया उपायकौशलसंगृहीततया संबद्धमहाप्रणिधानतया सर्वसत्त्वापरित्यागतया बुद्धज्ञानविपुलाध्यालम्बनतया बोधिसत्त्वभूमिपरिशुद्धयै पारमितापरिशुद्धयै चर्याविपुलत्वाय संवर्तन्ते। " इत्यादि विस्तरेणोक्तवत् अतोऽनेनप्रकारेण तद्दशकुशलमार्गातिरिक्तं पृथग्जनश्रावक-प्रत्येकबुद्धबोधिसत्त्वानां यथायोगम् अभ्युदयस्य संसारसुखस्य, निःश्रेयसः सुखदुःखाभावस्वभावस्य मुक्तिलक्षणस्य प्राप्तेरुपायोऽन्यो नास्तीति समुपदिष्टम्। योऽसौ द्वितीयचित्तोत्पादबोधिसत्त्वः-



यथा समुद्रो हि शवेन सार्धम्

अमङ्गलेनापि च मङ्गलं वा।

तथा हि शीलाधिकृतो महात्मा

समं न तिष्ठासति दुष्टशीलैः॥८॥



अमंगलमिति अकुशलपर्यायः। यथोक्तशीलपारमिताविभेदाख्यानम् -



कुतश्च किं कुत्र विवर्जितञ्च

त्रिके गृहीते सति यद्धि शीलम्।

वदन्ति तल्लौकिकपारमीति।



तच्छीलं त्रिष्ववलम्बितं सत् लौकिकपारमितेति आख्यायते।



अलौकिकं तत् त्रिषु रागशून्यम्॥९॥



तदेवशीलं यथोक्तालम्बनत्रयरहितं स्याच्चेद् अलौकिकपारमितेत्युच्यते। यथोक्तभूमिगुणानुवादेन शीलपारमितावस्थापरिनिष्पत्तिमाह-



जिनात्मजेन्दूद्‍गतनिर्मलापि

भवाभवैषा विमला भवश्रीः।

शरदृतोश्चान्द्रमसीप्रभेव

जगन्मनस्तापमपाकरोति॥१०॥



विमलेति दशकुशलकर्ममार्गविमलत्वाद् द्वितीयबोधिसत्त्वभूमेरन्वर्थं नाम। यथा निर्मला शरच्चन्द्रप्रभा जनसंतापम् अपाकरोति तथा जिनपुत्रेन्दूद्‍गतेयं विमलापि दुःशीलोत्पन्नं मनःसंतापं निवर्तयति। अस्या असंसारान्तर्गतत्वाद् न भवोऽपितु भवश्रीः, सर्वगुणसम्पदां तदनुगतत्वात्, चतुर्द्वीपैश्वर्यसम्पद्‍हेतुत्वाच्च।



इति मध्यमकावतारभाष्ये द्वितीयश्चित्तोत्पादः।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project