Digital Sanskrit Buddhist Canon

प्रथमश्चित्तोत्पादः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Prathamaścittotpādaḥ

मध्यमकावतारः


प्रथमश्चित्तोत्पादः


संस्कृतभाषायाम्-मध्यमकावतारभाष्यं नाम।

( भोटभाषायाम्-द्बु म ल ऽजुग् प ब्शद् प शेस् व्यव)

आर्यमञ्जुश्रीकुमारभूताय नमः।



मध्यमकशास्त्रेऽवताराय मध्यमकावतारचिकीर्षया सर्वसम्यक्सम्बुद्धैर्बोधिसत्त्वैश्चाऽपि आदौ भगवतीं महाकरुणां बुद्धत्त्वहेतुसम्पत्प्रधानाम् अशेषा-परिमिताशरणभवचारकबद्धसत्त्वपरित्राणलक्षणां स्तुतियोग्यतया दर्शयितुं उक्तम्।



मुनीन्द्रजाः श्रावकमध्यबुद्धाः-

बुद्धोद्भवाःखल्वपि बोधिसत्त्वात्।

कारुण्यचित्ताद्वयबुद्धिबोधि-

चित्तानि हेतुर्जिनपुत्रकाणाम्॥१॥



इत्यादि श्लोकद्वयम्। तत्र अनुत्तरधर्मैश्वर्य-संपदर्जनात्, श्रावक-प्रत्येक-बुद्ध-बोधिसत्त्वेभ्योऽपि परमैश्वर्यसंपत्तेः, श्रावकादीनां तदाज्ञावशवर्तित्वाच्च बुद्धा भगवन्तो मुनीन्द्र इति कथ्यन्ते। तेभ्यः श्रावकादीनां जन्म तु तेभ्य उत्पत्तिः। कथम्? बुद्धानां समुत्पादे प्रतीत्यसमुत्पादस्य अविपर्यस्तदेशनायां प्रवेशार्थं श्रुति-चिन्ता-भावनानुसारमपि यथाधिमुक्तिवच्छ्रावकत्वादि- परिपूर्त्तिः। यद्यपि कस्यचित् प्रतीत्यसमुत्पादोपदेश-श्रवणमात्रेण परमार्थाधिगमवैदुष्ये सत्यपि दृष्टजन्मन्येव निर्वाणप्राप्तिर्न भवति, तथापि उपदेश-साधको विपाकनियतफलवत् परजन्मनि अभीष्टफलपरिपाकं नियतं प्राप्नोति। यथा आर्यदेवेन उक्तम्-

इह यद्यपि तत्त्वज्ञो निर्वाणं नाधिगच्छति।

प्राप्नोत्ययत्नतोऽवश्यं पुनर्जन्मनि कर्मवत्॥इति॥

अत‍एव मध्यमकेऽपि उक्तम्-

सम्बुद्धानामनुत्पादे श्रावकाणां पुनः क्षये।

ज्ञानं प्रत्येकबुद्धानामसंसर्गात् प्रवर्तते॥इति॥



तर्हि सम्यगववादफलप्राप्तिकारणाच्छ्रावका इति। "कृतं मे करणीयं तस्मान् मे नापरं जन्म" इत्यादि भवति। पुनरपरं, सत्फलम् अनुत्तरसम्यक्संबुद्धमार्गं वा सर्वतथागतेभ्यः श्रुत्वा तदर्थिनः श्रावणत्वाच्छ्रावकाः। यथा- सद्धर्मपुण्डरीकसूत्र उक्तम्-



अद्यो वयं श्रावकभूतनाथ

संश्रावयिष्यामथ चाग्रबोधिम्।

बोधीयशब्दं च प्रकाशयाम-

स्तेनो वयं श्रावकभीष्मकल्पाः॥इति॥



सर्वे बोधिसत्त्वा अपि तथा, किन्तु तथा सन्तोऽपि श्रावयन्ति एव, अनुरूपं रञ्चमात्रमपि न प्रतिपद्यन्ते, तेषां श्रावकभूतत्वाद् बोधिसत्त्वेषु दोषो न प्रसज्यते। अयं बुद्धशब्दो बुद्धस्वभावः श्रावकप्रत्येकबुद्धानुत्तरसम्यक्संबुद्धान् त्रीनपि समाख्याति, अतो बुद्धशब्देन प्रत्येकबुद्धा आख्याताः। ते पुण्यज्ञानयोरु उत्तरवृद्धिविशेषत्वात्, श्रावकेभ्यो विशिष्ट तरत्वात्, पुण्यज्ञानसम्भारमहाकरुणासर्वाकारताद्यभावात् सर्वसम्यक्सम्बुद्धेभ्यो हीनत्वात् मध्याः। तस्मादेव ते उपदेशं विना ज्ञानोत्पादाद् आत्ममात्रार्थं बुद्धत्वात् प्रत्येकबुद्धा इति। यथोक्तस्वभावत्वात् ते श्रावकाः प्रत्येकबुद्धाश्च तथागतधर्मदेशनातः समुद्भूतत्वात् मुनीन्द्रजा इति। पुनश्च ते मुनीन्द्राः कुतो जाता इति?- बुद्धोद्भवाः खल्वपि बोधिसत्त्वाद् इत्युक्तम्। ननु बोधिसत्त्वा अपि तथागतोपदेशत उत्पत्रभूतत्वात् जिनपुत्रा इति किं नोक्ताः? अतोः कथं बुद्धा भगवन्तो बोधिसत्त्वेभ्यो जाता उक्ता इति? सत्यमिदम्, तथापि हेतुद्वयेन बोधिसत्त्वा बुद्धभगवतां हेतवो भवन्ति- अवस्थाविशेषत्वात्, समादापकावतारत्वाच्च। तत्र अवस्थाविशेषस्तु तथागतावस्थाबोधिसत्त्वावस्थयोः सहेतुकत्वात्। समादापकस्तु यथा आर्यमञ्जुश्रीर्बोधिसत्त्वभूत एव भगवतः शाक्यमुनेः तत्परेषां तथागतानां पूर्व एव काले बोधिचित्तसमादापको मन्यते। अत एवं तन्निष्ठाफलं मुख्यहेतुभूतं दृष्ट्वा तथागता बोधिसत्त्वजाता दिष्टाः। अत‍एव हेतुसम्पदोऽतिगरीयस्त्वात् हेतुपूजाकृतेऽपि फलपूजायाम् अर्थापत्तिं मत्त्वा तैर्बुद्धैर्भगवद्भिः निश्चितम् अपरिमितफलदायक-महौषधवृक्षम् अंकुरादिसमुद्गतमञ्जुपर्णावस्थाभूतवत् यत्नतः परिपालनीयत्वेन दर्शयित्वा तत्समये आसन्नीभूतत्रियानावसक्तसत्त्वस्कन्धानां महायान एव नियोजनार्थं बोधिसत्त्वानां प्रशंसा कृता। यथा आर्यरत्नकूटसूत्रे-



"तद्यथापि नाम काश्यप! नवचन्द्रो नमस्क्रियते सा चेव पूर्णचन्द्रो न तथा नमस्क्रियते, एवमेव काश्यप! ये मम श्रद्दधन्ति ते बलवन्ततरं बोधिसत्त्वं नमस्कर्तव्य, न तथागतः, तत् कस्य हेतोः, बोधिसत्त्वनिर्जाता हि तथागताः। तथागतनिर्जाताः श्रावक-प्रत्येकबुद्धाः। " अत एव एवं युक्त्यागमाभ्यां तथागता बोधिसत्त्वेभ्यो जाता इति सिद्धम्। अथवा ते बोधिसत्त्वाः किं हेतुकाः? उक्तम्। कारुण्यचित्ताद्वयबुद्धिबोधिचित्तानि हेतुर्जिनपुत्रकाणाम्। तत्र करुणा तु अनुकम्पा, अत्रैव वक्ष्यमाणप्रकारस्वभावा। अद्वयबुद्धिस्तु भावाभावाद्यन्तद्वयापेता प्रज्ञा। बोधिचित्तं तु आर्यधर्मसंगीतिसूत्रे-



"बोधिसत्त्वो बोधिचित्तेन सर्वधर्मान् अवबुध्येत्। सर्वे धर्मा धर्मधातुसमाः। सर्वेषाम् आगन्तुकभूताप्रतिष्ठितधर्माणां ज्ञेयमात्रत्वाद् ज्ञातृशून्यत्वात् परिज्ञेयमात्राव-सायित्वेन एतादृशीयं धर्मता प्राणिभिरवबोद्धव्येति बोधिसत्त्वेषु योऽयं चित्तोत्पादः स बोधिसत्त्वबोधिचित्तोत्पाद इत्युच्यते। सर्वप्राणिभ्यो हितसुखचित्तम्। अनुत्तरं चित्तं , मैत्र्या कोमलं चित्तं, करुणतयाऽविपर्ययसंचित्तं, आनन्दतयाऽननुतप्तं चित्तम्। उपेक्षातया विमलं चित्तं, शून्यतयाऽविपरिणामं चित्तम्, अनिमित्ततया निरावरणं चित्तं, अप्रणिधानतयाऽप्रतिष्ठितं चित्तमिति यथोक्तवत्"।

बोधिसत्त्वानां मुख्यहेतुस्तु करुणा अद्वयप्रज्ञा बोधिचित्तमितीमे त्रयो धर्माः सन्ति। यथोक्तं रत्नावल्याम्-

शैलेन्द्रराजवन्मूलं बोधिचित्तं दृढं ततः।

दिगन्तव्यापि कारुण्यं ज्ञानं चाद्वयनिश्रितम्॥इति॥



बोधिचित्तस्य अद्वयज्ञानस्य च द्वयोरपि मूलं करुणया भूतत्वात् करुणा मुख्यत्वेन देष्टुमिष्यते।



बीजं कृपा यज्जिनशस्यराशे-

स्तद्‍वृद्धये वारिसमा, चिराय।

भोगाय पाकश्च यथैव मान्य,

मादौ ममाऽतः करुणाप्रशंसा॥२॥



यथा बाह्यधान्यादिसम्पत्तये आदौ मध्येऽन्ते च बीज-जल-पाकानां मुख्यतया एव भूतत्वाद् उपयोगिताभावः, तथा करुणाया एव त्रिकालेऽपि जिन-शस्य-सम्पदे उपयोगितां एवं देशिता वर्तते। एवं दयालुस्तु परदुःखदुःखित एव अशेषदुःखीभूतसत्त्वानां परित्राणाय " अवश्यम् अहम् समस्तममुं लोकं दुःखतः समुद्धृत्य बुद्धत्व एव संनियोक्ष्येति" निश्चितं चित्तोत्पादं करोति। अस्या अपि प्रतिज्ञाया अद्वयज्ञानप्रहाणे साधयितुमशक्यत्वाद्, अद्वयज्ञानेऽपि आवश्यक एव अवतारः, अतः सर्वबुद्धधर्माणां बीजं करुणा एव अस्ति। यथा रत्नावल्याम् उक्तम्-

करुणापूर्वकाः सर्वे निष्यन्दा ज्ञाननिर्मलाः।

उक्ता यत्र महायाने कस्तन्निन्देत् सचेतनः॥



बोधिचित्तोत्पादेऽपि यदि उत्तरकाले करुणाजलेन पुनः पुनः न सिञ्चितः असञ्चितविपुलफलसंभारोऽयम् अवश्यं श्रावक-प्रत्येकबुद्धयोः परिनिर्वाणे परिनिर्वृत्तो भविष्यति। अनन्तफलावस्थायां प्राप्तायामपि यदि परकाले करुणा परिपाकरहिता स्याद् अस्याः दीर्घकालोपभोगो न भविष्यति, आर्यफलमहासम्भारफलक्रमपरम्परास्वभावोऽपि निरन्तरं दीर्घं नाभिवर्धेत।

सम्प्रति आलम्बनविशेषप्रवेशद्वारेणपि करुणायाः स्वभावविशेषम् अभिव्यज्य तस्यै एव प्रणामचिकीर्षया-



आत्माभिसक्तौ त्वहमेति पूर्वं

रागोद्भवे भाव इदं ममेति।

अर्हट्टचर्यावदधीनलोके

कारुण्यवान् योऽस्ति नमोऽस्तु तस्मै॥३॥ इत्युक्तम्।



अस्य लोकस्य तु ममाभिनिवेशात् पूर्वम् एव अहंग्रहणाद् ' असन्तम् आत्मानम्' अस्तीति परिकल्प्य अत्रैव सत्याभिनिवेशः, 'इदं तु मम' इति। आत्मग्रहविषयतो भिन्नेऽशेषविधे वस्तुनि अभिनिवेशो भवति। आत्मात्मीया-भिनिविष्टम् इदं जगत् कर्मक्लेशबन्धन-निबद्धम् चक्रचालकविज्ञानोत्क्षेपा-धीनप्रवेशं संसारमहाकूपभवाग्रतो गम्भीरनिर्बाधावीचिपर्यन्तचलनं, स्वयमेव हेष्ठागामि, प्रयत्नतः कथञ्चन आकृष्यमाणम्, अज्ञानादिक्लेश-कर्म-जन्यसंक्लेश-त्रयेऽपि पौर्वापर्यमध्यक्रमेण अनिश्चितं, प्रतिदिनं दुःखदुःखताविपरिणामदुःखताप्रवाहाद् अर्हट्टघटस्यावस्थातो नातिवर्तते, यतो बोधिसत्त्वो दुःखेन दुःखितम् अतिकरुणालम्बनेन त्रातुमिच्चति, अतः सर्वप्रथमं खलु भगवती महाकरुणा प्रणम्यते। इयं बोधिसत्त्वकरुणा तु सत्त्वालम्बनेति।



धर्मालम्बनां निरालम्बनां च करुणामपि अवलम्बनद्वारा प्रकाशयितुम् उक्तम्-



जगच्चले चन्द्रमिवाम्बुमध्ये

चलं स्वभावेन विना विलोक्य।



कारुण्यवान् योऽस्ति नमोऽस्तु तस्मै, इति तत्र योजितव्यम्। मन्दवायु-लघुतरंगित-स्वच्छजलाभ्यन्तरव्याप्तचन्द्रप्रतिबिम्बं पूर्वावलम्बिताश्रयविषयेण सह नश्यति, तयोर्भावप्रत्यक्षे अवलम्बत्वेन उदये सति, उत्तमैस्तु एतद्वयं स्वभावता-प्रकाशनसदृशं स्थितं दृश्यते- एवम् प्रतिक्षणं अनित्यता-स्वभाव-शून्यता च। तथा बोधिसत्त्वैः करुणापरतन्त्रीभूतैरपि सत्कायदृष्टयविद्यासागरे सागरश्रेष्ठधर्मामृत-रसोद्भवहेतवे सकलविपरीतकल्पनालक्षणे सम्पूर्णे जगति अयोनिशोविकल्प-मारुतप्रेरिते नीलविस्तृताविद्याजले स्थितान् प्राणिनः स्वकर्मप्रतिबिम्बवत्पुरःस्थितान् प्रतिक्षणं अनित्यदुःखपतीतान् स्वभावशून्यान् दृष्ट्वा तयोरनित्यतादुःख-विनाश-सदृशभूतान् सद्धर्मश्रेष्ठामृतरसोद्भवहेतवे सकलविपरीतकल्पनानिवृत्ति-लक्षणं सम्पूर्णं जगत् बन्धुत्वस्वभावभूतं बुद्धत्वं सम्यक्प्रापयितुमिष्यते।



तेषां या करुणा सत्त्वालम्बना, धर्मालम्बना अनालम्बना च तां प्रणम्य बोधिसत्त्वानां बोधिचित्तस्य दशविधभेदाविवक्षया सः प्रथमबोधिचित्तम् अधिकृत्य एवंवदति-



यदस्य चित्ते खलु बोधिसत्त्वे,

जगद् विमुक्त्यै करुणावशंगे॥४॥



समन्तभद्रप्रणिधाननाम्नि,

प्रमोदिता सा प्रथमेत्यवस्थतः।



बोधिसत्त्वानाम् अनास्रवज्ञानस्य करुणादिभिः परिग्रहाविभागोभूमिरिति नाम प्राप्नोति, गुणाश्रयभूतत्वात् तस्या च उत्तरोत्तरं गुणसंख्या-बलातिशयप्राप्ति-

दानादि-पारमितापाठपरिपाकवृद्धि-विशेषेण प्रमुदितादिभूमिप्रकारभेदेन दश-विधभेदा व्यवस्थापिताः, अत्र स्वभावविशेषभेदो न भवति। यथा-

यथान्तरीक्षे शकुनेः पदं बुधै-

र्वक्तुं न शक्यं न च दर्शनोपगम्।

तथैव सर्वा जिनपुत्रभूमयो

वक्तुं न शक्याः कुत एव श्रोतुम्॥इत्युक्तम्।



तत्र बोधिसत्त्वभूमिः प्रमुदिता बोधिसत्त्वानां प्रथमश्चित्तोत्पादः, अन्तिमश्च धर्ममेघो दशमश्चित्तोत्पादः। तत्र बोधिसत्त्वस्य यथोक्तविधिना-जगत् निःस्वभाव-दर्शकं करुणाविशेषेण उपगृहीतं यच्चितं करुणापरतन्त्रं सत् बोधिसत्त्व-समन्तभद्रप्रणिधानेन परिणामितं प्रमुदितमिति नामकम्, अद्वयज्ञानं तस्य सहेतुकं फलोपलक्षणं तत्र प्रथम इति कथ्यते। दशमहाप्रणिधानादीनि दशासंख्यशत-साहस्रप्रणिधानानि, तत्र बोधिसत्त्वः प्रथमं चित्तोत्पादं करोति, तानि बोधिसत्त्व-समन्तभद्र-प्रणिधानमध्ये समाहितानि, अशेषप्रणिधानोपसंग्रहत्वात् समन्तभद्र-प्रणिधानं विशेषेण सन्दृब्धम्। तत्र यथा-श्रावकयाने प्रवेश-फलमार्ग-स्थितिभेदेन अष्ट श्रावक भूमिव्यवस्था तथा महायानेऽपि बोधिसत्त्वानां दशबोधिसत्त्वभूमयः। पुनश्च यथा श्रावकस्य निर्वेधभागीयावस्थोत्पादः प्रथमफलप्रवेशावस्था न मन्यते तथा भाविनां बोधिसत्त्वानामपि। रत्नमेघसूत्रे महाधिमुक्तमहाचर्याधर्मताया अनन्तरं प्राप्तेयं प्रथमभूमिस्थितिस्तु बोधिसत्त्वस्य बोधिचित्तानुत्पादभूमिरित्युक्तवत्। अधिमुक्ति-चर्यायास्तत्क्षणास्थितिरपि-'कुलपुत्र! तद्यथा-यथा चक्रवर्ती राजा मानुषवर्णातीतो न तु देववर्णप्राप्तः, तथैव बोधिसत्त्वोऽपि लौकिक- श्रावक-प्रत्येकबुद्धानां सर्वभूम्यतीतः, न तु बोधिसत्त्वपरमार्थभूमिप्राप्तः। इति तत्रैव व्याख्यातम्। पुनश्च यदा इह प्रमुदिताख्यप्रथमभूमौ प्रवेशः-

ततः समारभ्य तु तत्र प्राप्तः

स बोधिसत्त्वेति पदाभिधेयः॥५॥



तच्चित्तप्राप्तस्तु सर्वथा पृथग्जनभूम्यतिक्रान्तावस्थायां बोधिसत्त्वपदे-नैवाभिधीयते, नान्यथा, तत्समये तस्य आर्यभूतत्वात्। यथा-भगवत्यां पंचविंशशतिकायां-

"बोधिसत्त्व इत्यनुबुद्धसत्त्वस्यैतदधिवचनम्, येन सर्वधर्मा बुद्धा ज्ञाताः। कथं ज्ञाताः? अभूता असंभूता अवितथाः, नैते तथा यथा बालपृथग्जनैः कल्पिताः। नैते तथा यथा बालपृथग्जनैर्लब्धाः। तेनोच्यते बोधिसत्त्वा इति। तत्कस्य हेतोः? अकल्पिता अविकल्पिता हि बोधिः, अविठपिता हि बोधिः, अनुपलम्भा हि बोधिः। न हि सुविक्रान्तविक्रामिंस्तथागतेन बोधिर्लब्धा। अलम्भात्सर्वधर्माणामनुपलम्भात्सर्वधर्माणां बोधिरित्युच्यते। एवं बुद्धबोधि-रित्युच्यते, न पुनर्यथोच्यते। येन सुविक्रान्तविक्रामिन् बोधाय चित्तमुत्पादयन्ति इदं चित्तं बोधायोत्पादयिष्याम इति बोधिं मन्यन्ते, अस्त्यसौ बोधिर्यस्यां वयं चित्तमुत्पादयिष्याम इति, न ते बोधिसत्त्वा इत्युच्यन्ते, उत्पन्नसत्त्वास्त उच्यन्ते। तत्कस्माद्धेतोः? तथा हि उत्पादाभि-निविष्टाश्चित्ताभिनिविष्टा बोधिमभिनिविशन्ते। " इत्यादि उक्तम्। पुनश्च-"अलक्षणा हि बोधिर्लक्षणस्वभावविनिवृत्ता। य एवमनुबोधः, इयमुच्यते बोधिरिति, न पुनर्यथोच्यते। एषां हि सुविक्रान्तविक्रामिन् धर्माणामनुबोधत्वाद्वोधिसत्त्व इत्युच्यते। यो हि कश्चित् सुविक्रान्तविक्रामिन् इमान् धर्मानप्रजानन्ननवबुध्यमानो बोधिसत्त्व इत्यात्मानं प्रतिजानीते, दूरे तस्य बोधिसत्त्वस्य बोधिसत्त्वभूमिः, दूरे बोधिसत्त्वधर्माः, विसंवादयति सदेवमानुषासुरं लोकं बोधिसत्त्वनाम्ना। सचेत्पुनः सुविक्रान्तविक्रामिन् वाङ्मात्रेण बोधिसत्त्वो भवेत्, तेन सर्वसत्त्वा अपि बोधिसत्त्वा भवेयुः। नैतत्सुविक्रान्तविक्रामिन् वाङ्मात्रं यदुत बोधिसत्त्वभूमिरिति। " इत्यादि उक्तम्।

यथोक्तं बोधिचित्तं प्राप्तस्तु तस्याम् अवस्थायां बोधिसत्त्वशब्दद्वारा एव केवलं न उक्तोऽपितु-



गोत्रेऽपि भावोऽस्य तथागतानां

त्यक्तं त्रिसंयोजनमस्य सर्वम्।

प्रामोदितां प्राप्य स बोधिसत्त्वः

क्षोब्धुं समर्थः शतलोकधातुम्॥६॥



पृथग्जन-श्रावक-प्रत्येकबुद्धसर्वभूम्यतीतत्वात् समन्तप्रभेतितथागतभूम्यनुगामिमार्गोत्पन्नत्वाच्च स बोधिसत्त्वः तथागतगोत्रोत्पन्नः। तदा पुद्‍गलनैरात्म्यं प्रत्यक्षं दृष्ट्वा इयं सत्कायदृष्टि-संशयशीलव्रतपरमार्थतेति संयोजनत्रयेभ्योऽपि सन्निवर्तते, तेषां पुनरनुत्पादाय। तत्त्वाद्रष्टुरात्मनि आरोपात् सत्कायदृष्टिर्भवति, तथा संशयतस्तस्यापरमार्गेऽपि गमनं संभाव्यते, न चान्यस्य। निश्चयप्रवेशे तस्य सहेतुकगुणप्राप्तिः, भूमेरसपक्षदोषनिवृत्तेश्च असामान्यविशेषमुदितोत्पादाद् अति-प्रमुदितावशात् स बोधिसत्त्वोऽग्रमुदिताम् अपि धारयति। प्रमोदविशेषभूतत्वाद् इयम् भूमिस्तु प्रमुदितेति नामापि प्राप्ता। शतलोकधातुं क्षोब्धुमपि समर्थः।



प्रयाति भूमेः खलु भूमिमूर्ध्वं

तदाऽस्य मार्गो कुगतेर्निरुद्धः।

पृथग्जनस्यावनिसंक्षयोऽस्ति

यथाष्टमार्यः कथितस्तथैषः॥७॥ इति॥



अयम् यथावबुद्धधर्माभ्यासाद् द्वितीयभूम्याद्यतिक्रमात्युत्साहाद् भूमेर्भूमिं समाक्रम्य ऊर्ध्वं प्रयाति। संक्षेपेण यथा स्रोतआपन्नार्यः स्वानुरूपार्यधर्माधिगमाद् दोषरहितो गुणान्वितश्च भवति तथा अस्मिन् बोधिसत्त्वेऽपि भूम्यधिगमात् स्वस्मिन् अनुरूपगुणोद्भवाद् दोषक्षयाच्च स्त्रोतआपत्तेरुदाहरणद्वारा परिदीपितम्। अयम् बोधिसत्त्वस्तु

सम्बोधिचित्तोदय आदिकेऽपि

प्रत्येकबुद्धान् समुनीन्द्रवाग्जान्।

जित्त्वैधते पुण्यबलेन चापि।

यदस्ति तदपरो विशेषः, यथा-आर्यमैत्रीविमोक्ष उक्तम्"तद्यथा कुलपुत्र अचिरजातो राजपुत्रो मूर्धप्राप्तान् सर्ववृद्धामात्यानभिभवति कुलाभिजात्याधिपत्येन, एवमेव अचिरोत्पादितबोधिचित्तस्तथागतधर्मराजकुलप्रत्याजात आदिकर्मिको बोधिसत्त्वश्चिरचरितब्रह्मचर्यान् वृद्धश्रावकानभिभवति बोधिचित्त-महाकरुणाधिपत्येन। "

" तद्यथा कुलपुत्र, योऽचिरजातस्य महागरुडेन्द्रपोतस्य पक्षवात-बलपराक्रमो नयनपरिशुद्धिगुणश्च, स सर्वशरीरप्रवृद्धानां तदन्येषां पक्षिणां न संविद्यते, एवमेव यः प्रथमचित्तोत्पादिकस्य तथागतमहागरुडेन्द्रस्य कुलगोत्रसंभवस्य बोधिसत्त्वमहागरुडेन्द्रपोतस्य सर्वज्ञताचित्तोत्पादबलपराक्रमो महाकरुणाध्याशय-नयनपरिशुद्धिगुणश्च, स कल्पशतसहस्रनिर्यातानां सर्वश्रावक-प्रत्येकबुद्धानां न संविद्यते। "

इत्याद्युक्तवत्।



दूरङ्गमायां तु धियाधिकः स्यात्॥८॥



आर्यदशभूमि(सूत्रे)ऽपि-"तद्यथापि नाम भवन्तो जिनपुत्राः, राजकुलप्रसूतो राजपुत्रो राजलक्षणसमन्वागतो जातमात्र एव सर्वामात्यगणमभिभवति राजाधिपत्येन, न पुनः स्वबुद्धिविचारेण। यदा पुनः स संवृद्धो भवति तथा स्वबुद्धिबलाधानतः सर्वामात्यक्रियासमतिक्रान्तो भवति, एवमेव भो जिनपुत्राः, बोधिसत्त्वः सहचित्तोत्पादेन सर्वश्रावकप्रत्येकबुद्धानभिभवत्यध्याशयमाहात्म्येन, न पुनः स्वबुद्धिविचारेण। अस्यां तु सप्तम्यां बोधिसत्त्वभूमौ स्थितो बोधिसत्त्वः स्वविषयज्ञानविशेषमाहात्म्यावस्थितत्वात्सर्वश्रावकप्रत्येकबुद्धक्रियामतिक्रान्तो भवति॥" इति यथोक्तवत्। अत एवं सति दूरंगमत एव आरभ्य बोधिसत्त्वः स्व बुद्धिबलोत्पादनेऽपि श्रावकप्रत्येकबुद्धांश्चाभिभवति, न चाधोभूमिष्विति ज्ञेयम्। अस्मादागमात् सर्वश्रावकप्रत्येकबुद्धेष्वपि सर्वधर्मनिःस्वभावताज्ञानमपि अस्तीति निर्भासेत। असति च तथा निःस्वभावभावपरिज्ञानरहितत्वात् लौकिकवीतरागवत् तानपि प्रथमचित्तोत्पादबोधिसत्त्वा अपि स्वबुद्धिविचारेणापि अभिभवन्ति। तीर्थिकवत् एतेषां त्रिधातुषु चर्याया सर्वक्लेशप्रहाणमपि न भवति। रूपादीनां स्वलक्षणावलम्बनविपर्ययात् पुद्गलनैरात्म्यबोधोऽपि न भवति, आत्मप्रज्ञप्तिहेतुस्कन्धावलम्बनात्। यथा रत्नावल्याम् उक्तम्-



"स्कन्धग्राहो यावदस्ति तावदेवाहमित्यपि।

अहङ्कारे सति पुनः कर्म जन्म ततः पुनः॥

त्रिवर्त्मैतदनाद्यन्तमध्यं संसारमण्डलम्।

अलातमण्डलप्रख्यं भ्रमत्यन्योन्यहेतुकम्॥

स्वपरोभयतस्तस्य त्रैकाल्ये चाप्यनाप्तितः।

अहङ्कारः क्षयं याति ततः कर्म च जन्म च॥"इति॥



अपि च-



अलातचक्रं गृह्णाति यथा चक्षुर्विपर्ययात्।

तथेन्द्रियाणि गृह्णन्ति विषयान् साम्प्रतानिव॥

इन्द्रियाणीन्द्रियार्थाश्च पञ्चभूतमया मताः।

प्रतिस्वं भूतवैयर्थ्यादेषां व्यर्थत्वमर्थतः॥

निरिन्धनोऽग्निर्भूतानां विनिर्भागे प्रसज्यते।

सम्पर्के लक्षणाभावः शेषेष्वप्येष निर्णयः॥

द्विधापि भूतानां व्यर्थत्वात्सङ्गतिर्वृथा।

र्थत्वात्सङ्गतेश्चैवं रूपं व्यर्थमतोऽर्थतः॥

विज्ञानवेदनासंज्ञासंस्काराणां च सर्वशः।

प्रत्येकमात्मवैयर्थ्याद् वैयर्थ्यं परमार्थतः॥

सुखाभिमानो दुःखस्य प्रतीकारे यथार्थतः।

तथा दुःखाभिमानोऽपि सुखस्य प्रतिघातजः॥

सुखे संयोगतृष्णैवं नैःस्वाभाव्यात् प्रहीयते।

दुःखे वियोगतृष्णा च पश्यतां मुक्तिरित्यतः॥

कः पश्यतीति चेच्चितं व्यवहारेण कथ्यते।

नहि चैत्तं विना चित्तं व्यर्थत्वात्र सहेष्यते॥

व्यर्थमेवं जगन्मत्वा यथाभूत्यात्रिरास्पदः।

निर्वाति निरुपादानो निरुपादानवह्निवत्॥"इति॥



बोधिसत्त्वैरेव तथा निःस्वभावतया दृष्टम् इति चेत्, न चापि तत्, श्रावकान् प्रत्येकबुद्धांश्चाधिकृत्य तथोक्तत्वात्। कथमिदं ज्ञायत इति? वक्ष्यते-समनन्तरमेव बोधिसत्त्वान् अधिकृत्य-

"बोधिसत्त्वोऽपि दृष्ट्वैवं सम्बोधौ नियतो मतः।

केवलं त्वस्य कारुण्यादाबोधेर्भवसन्ततिः॥"



इत्यादि उक्तत्वात्। श्रावकदेशनासूत्रेष्वपि श्रावकानां क्लेशावरण-प्रहाणार्थम्-

"फेनपिण्डोपमं रूपं वेदना बुद्बुदोपमा।

मरीचिसदृशी संज्ञा संस्काराः कदलीनिभाः।

मायोपमं च विज्ञानमुक्तमादित्यबन्धुना॥"



इत्यादिना फेनपिण्ड-जलबुद्‍बुद-मरीचिजल-कदलीस्कन्ध-मायाद्युदा-हरणेन संस्कारा निर्णीता आचार्यपादैः-

"अनुत्पादो महायाने परेषां शून्यता क्षयः।

क्षयानुत्पादयोश्चैक्यमर्थतः क्षम्यतां यतः॥"इति॥



तथा च-



कात्यायनाववादे चास्तीति नास्तीति चोभयम्।

प्रतिषिद्धं भगवता भावाभावविभाविना॥

श्रावकयाने ऽपि धर्मनैरात्म्यं देशितमिति तदा महायानदेशना व्यर्था स्यादिति तन्मतमपि एवं युक्त्यागमाभ्यां विरुद्धं बुध्यते। महायानदेशना धर्मनैरात्म्यमात्रस्य देशना नास्ति अपितु बोधिसत्त्वानां भूमि-पारमिता-प्रणिधान-महाकरुणादि-परिणामना-सम्भारद्वय-अचिन्त्यधर्मताश्च सन्ति।

यथा रत्नावल्यामुक्तम्-



न बोधिसत्त्वप्रणिधिर्न चर्या परिणामना।

उक्ता श्रावकयानेऽस्माद् बोधिसत्त्वः कुतस्ततः॥इति॥

बोधिचर्याप्रतिष्ठार्थं न सूत्रे भाषितं वचः।

भाषितं च महायाने ग्राह्यमस्माद् विचक्षणैः॥



धर्मनैरात्म्यप्रकाशाय महायानदेशनाऽपि युक्ता एव, विस्तृतदेशनाया विवक्षितत्वात्। श्रावकयाने तु धर्मनैरात्म्यं संक्षिप्तलक्षणमात्रेण समाप्यते। यथा आचार्यपादैरुक्तम्-

अनिमित्तमनागम्य मोक्षो नास्ति त्वमुक्तवान्।

अतस्त्वया महायाने तत् साकल्येन दर्शितम्॥



आनुषंगिकत्वेन पर्याप्तम्। अत एव अनाकुलबुद्धेः स्वयमेवार्थतत्त्वाव-बोधसमर्थत्वात् प्रकृतमेवाभिधीयते।



तदाऽत्र सम्बुद्धसुबोधिहेतु-

र्भवेत् प्रधानं ह्यतिरेकि दानम्।



तस्य प्रमुदिताभूमिप्राप्तबोधिसत्त्वस्य दान-शील-क्षान्ति-वीर्य-समाधि-प्रज्ञा-उपाय-प्रणिधान-बल-ज्ञानेष्विति दशसु दानपारमितैव अतिरिच्यते, किन्तु न तद्भिन्नानामभावः। तद्दानमपि सर्वाकारज्ञतायाः प्रधानो हेतुः।



स्वमांसदानेऽपि कृतादरत्वाद्

भवेददृष्टेऽप्यनुमानहेतुः॥९॥



तस्य बोधिसत्त्वस्य अदृष्टा गुणा बोधादयो ये केऽपि सन्ति तेऽपि बाह्याभ्यन्तरस्ववस्तुदानविशेषानुमानेनैव स्फुटम् अनुमीयन्ते, धूमादिना वह्नयादि-वत्। यथा बोधिसत्त्वानां दानं बुद्धत्वस्य प्रधानहेतुरप्रत्यक्ष-गुण-निर्णयलक्षणोऽस्ति तथा पृथग्जन-श्रावक-प्रत्येकबुद्धानामपि दुःखप्रतिकारस्य आत्यन्तिकसुखप्राप्तेश्च हेतुरिति देशितुकामेन-



सुखाभिलाषी हि जनस्तु सर्वः

सुखं न सम्पत्तिमपास्य लोके।

धनं तु दानोद्‍गतमेव बुद्ध्वा

मुनिः प्रधानं समुवाच दानम्॥१०॥



उक्तम्। क्षुत्तृड्रोगशीतादिप्रतिपक्षो दुःखप्रतिकारमात्रं, भवसुखोत्पाद-हेतुप्रतिबन्धकविपर्यमात्रेण स्वत्वप्रवाहपरिकल्पितोपघातापनयोऽसुखात्मके लोकेऽतीव अभिनिविष्टः तथा तस्य सुखाभिलाषिणः सुखं दुःखप्रतिकारमात्र-स्वभावम्, अभीष्टविषयसम्पत्तिः दुःखप्रतिपक्षभूः, विपर्ययात्मनो भोगं विना नोत्पादावलम्बनम्। दुःखप्रतिकारहेतुभूतास्ते विषया अपि दानोद्भूतपुण्यक्रिया-वस्त्वसंचयेषु नोत्पद्यन्त इति विचार्य भगवान् जगदशेषाशयस्वभावज्ञः शीलादि-समाख्यानेषु सर्वप्रथमं दानमेव आह।

अधुना दानिप्राणिनः शीलवैरूप्येऽपि स्वकार्यानुकूलत्वाद् दानमाहात्म्यम् आख्यातुमाह-



परीत्तकारुण्यसुदुष्टचित्ता

विकुर्वते स्वार्थपरा अमी ये।

तदिष्टसम्पद् व्यसनप्रशान्त्यै

समुद्गता दानत एव सापि॥११॥



ये वणिग्वत् स्वल्पधनत्यागेन अतिविपुलफलसम्पत्स्कन्धार्थेच्छवोऽपि अधिकतरार्थार्थिनो दित्सादराः, सुगतपुत्रवत् करुणापरतन्त्रा दानफलार्थम् अनायासमेव आदित्सोत्सवाभिवर्धनास्तेऽपि दान-दोष-ग्रहण-पराङमुखाः केवलगुणग्रहणोत्साहप्राप्ता अतिशयैश्वर्योपसम्पदाः कायाप्रियदुःखक्षुत्तृष्णादिनाशनेन दुःखोपशान्तिहेतुर्भवन्ति। यस्य निष्करुणस्य स्वदुःखप्रतिकारापेक्षया एव दित्सायाम् आदरः, सोऽपि-



कदाचिदस्मिन्नपि दानकाले

द्रुतं हि लब्ध्वार्यजनाभिसङ्गम्।

ततः समुच्छिद्य भवप्रवाहं

सहेतुकां शान्तिमतः प्रयाति॥१२॥



इत्युक्तम्। दानपतेस्त्यागिनः समीपे सद्भिर्गन्तव्यम् इति दानाधिमुक्तिका दानकाले आर्यजनाभिसंगात् तदुपदेशतः संसारनिर्गुणतां ज्ञात्वा निर्मलम् आर्यमार्गं साक्षात्कुर्वन्ति, दुःखोपशान्त्या त्यक्ताविद्या भवसन्ततेरनादिकालतः प्रवृतां जन्म-मरण-परम्परां त्यक्त्वा श्रावक-प्रत्येकबुद्धयानैः परिनिर्वृता भविष्यन्ति। अतः साम्प्रतं बोधिसत्त्वानां दानं भवनिर्वाण-सुखप्राप्तिहेतुः।



जगद्धितार्थं हि कृतप्रतिज्ञाः

प्रयान्ति मोदं न चिरेण दानैः॥



अबोधिसत्त्वास्तु दानसमकालं यथोक्तदानफलं नियतं न संभुञ्जन्ति, तस्माद् दानफलस्य अप्रत्यक्षत्वाद् दाने प्रवेशोऽपि न संभवः, बोधिसत्त्वास्तु दानसमकालमेव अर्थिनामपि परितर्पणाद्, अभीष्टदान-फलसंपत्परमानन्दं धारयन्तः, तत्रैव दानफलम् उपभुञ्जन्ति। अतः सर्वदा दाने मुदिता भविष्यन्ति। अतो यथोक्तरीत्या-



दयादया भावमया यतश्च।

सर्वाभ्युदयनिः श्रेयसहेतुर्दानम्,



ततोऽस्ति मूलं खलु दानवार्ता॥१३॥



यतस्ते सर्वदा दानं प्रति आदरेण सम्पद्विभाजनद्वारा च मनस्तर्पयन्ति। बोधिसत्त्वेषु आनन्दविशेषोत्पादः कीदृश इति अर्थिनां चेत्-उच्यते-



यथा तु देहीति निशम्य शब्दं

सुखोद्भवो बुद्धसुते विचिन्त्य।

तथा सुखं शान्तिगते मुनौ न

किमुच्यतां सर्वसमर्पणेनि॥१४॥



यावदर्थिनां देहीति शब्दश्रुतावेव विचार्यमाणे बोधिसत्त्वानाम् 'इमे मां याचन्त इति बुद्धवा वारम्वारं यः सुखोत्पादो निर्वाणसुखादपि अतिरिच्यते, ततो बाह्याभ्यन्तरवस्तुसमर्पणेन अर्थिनजनतर्पणस्य किमुच्यताम्? पुनः किम् तत् तथोक्तबाह्याभ्यन्तरवस्तुत्यागिनां बोधिसत्त्वानां काय-दुःखमपि न भविष्यतीति? उच्यते-महात्मनां तु अचेतनानामपच्छेदवत् कायदुःखोत्पादोऽसम्भव एव। आर्यगगनगञ्जपरिपृच्छासमाधौ यथोक्तम्-



"तद्यथा महासालवृक्षवनमस्ति। तत्र कश्चिदागत्य एकं सरलं छिनत्ति। तत्रावशिष्टास्ते सालवृक्षा अयं तु छिन्नो, वयं न छिन्ना इति न चिन्तयन्ति। तेषु नानुरागो न वा कोपः, न कल्पो न विकल्पः, तद्वत् बोधिसत्त्वस्य या क्षान्तिः सा परिशुद्धाग्रगगनोपमेत्युक्तिवत्।

रत्नावल्यामपि एवमुक्तम्-



शारीरं नास्ति वै दुःखं तत्र दुःखं क्व मानसम्।

लोको हि दुःखितस्तेन करुण्यात् स्थीयते चिरम्॥

पुनर्योऽलब्धविरागावस्थस्तत्र कायस्थितिबाधकविषये समवतीर्णे कायदुःखं निश्चितम् उत्पद्यते, तदा सोऽपि सत्त्वार्थकृत्येषु अतिविशिष्टावतारहेतुत्वेन प्रतिष्ठत इति आख्यातम्।



प्रदाय छेत्तुं स्ववपुः स्वदुःखात्

स्वसंविदा नारकदुःखकादि।

विलोक्य तन्नाशयितुं परेषां

परिश्रमं प्रारभते स शीघ्रम्॥१५॥



बोधिसत्त्वस्तु दुःखमयनरक-तिर्यग्योनि-यमलोकादिघोरलोकान्तर्गतं निरन्तरघोरदुःखेन कायच्छेदं, स्वकायच्छेद-दुःखात् सहस्त्रशोऽप्यधिकं प्रवृद्धम-सह्यं दुःखं स्वदुःखेन तुलयित्वा पश्यति तदा स्वकायच्छेददुःखमविगणय्य सत्त्वानां नरकादिदुःखच्छेदाय अतिशीघ्रं वीर्यमारभते। यथोक्तदानपारमिताप्रभेददेशनार्थम् उक्तम्-



प्रदेयसङ्ग्राहकदातृशून्यं

वदन्ति लोकोत्तरपारमीति।



तत्र पारमीति तु यत् संसारसागरपारं तटं, क्लेशज्ञेयावरणनिःशेषत्याग-स्वभावयुक्तो बुद्ध एव वा। पारंगतस्तु पारमित इत्युक्तम् । अलुगुत्तरपदे इत्यनेन लक्षणेन कर्मविभक्तिलोपं न कृत्वा रूपणम्, अथवा पृषोदरादित्वाद् उत्तरपदयुक्ततया व्यवस्थापितम्। प्रज्ञां गृहीत्वा विशेषेण व्याख्यातम्, दानादयः पारमितातुल्यत्वात् पारमिताः सन्ति। परिणामनाविशेषेण पारगमनं व्यवस्थाप्य दानं पारमितानाम प्राप्नोत्। वक्ष्यमाणाः शीलादयोऽपि तथा विज्ञेयाः। इयं दानपारमिताऽपि देयं, प्रतिग्राहकं दायकं च अनालम्ब्य लोकोत्तरपारमिता अस्तीति भगवतीप्रज्ञापारमितायाम् उक्तम्। अनालम्बनस्य लोकोत्तरत्वाद् आलम्बनं च व्यवहारसत्यसंग्रहत्वाल्लौकिकमेव अस्ति। तत्तु अप्राप्तबोधिसत्त्वा-वस्थाभिर्ज्ञातुं न शक्यते। अपि च-



त्रयीषु रागोद्भवतः प्रदिष्टं

तदेव वै लौकिकपारमीति॥१६॥



तदेव दानं त्रिष्ववलम्बितं सत् लौकिकपारमितेत्युक्तम्। सम्प्रति यथोक्त- भूमिरिति ज्ञानविशेषेण अतिशयगुणानुवादद्वारा देशनार्थमेवमुक्तम्-



तथा प्रतिष्ठा जिनपुत्रचित्ते

सदाश्रये सुप्रभकान्तिमाप्ता।

घनं तमिस्रं मुदिता निरस्य

जयत्यसौ चन्द्रमणिर्यथा वै॥१७॥



तथा शब्दो यथोक्तप्रकारदेशनार्थः। मुदितेति भूमिनाम समाख्यायते। जयतीति तु असपक्षं पराजित्य अवस्थानम् इत्यर्थः। सा तु ज्ञानस्वभावा सती एव जिनपुत्रमनसि स्थितत्वाद् उपरिस्थिता। प्रमुदिताभूमिस्तु यथोक्तरीत्या सर्वमपि गहनम् अन्धकारं निराकृत्य जयति। यथोक्त एव अर्थ उदाहरणेन प्रकाशयितुम् आख्यातम्। चन्द्रकान्तमणिवद् इति।



मध्यमकावतारभाष्ये प्रमुदितेति प्रथमश्चित्तोत्पादः। बोधिसत्त्वप्रथमचित्तोत्पादो व्याख्यातः।
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project