Digital Sanskrit Buddhist Canon

मध्यमकालोकः

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Madhyamakālokaḥ

आचार्यकमलशीलविरचितो

मध्यमकालोकः



अज्ञानिनो येऽत्र विपन्नदृष्ट्या भावेषु चासक्तिमहाग्रहाणां

वशेन ग्रस्ता हि प्रणष्टप्रज्ञा नागार्जुनादींश्च महामहिम्नः।

क्षिपन्ति तेनात्मविनाश एव तेषां महाभूतग्रहोपशान्त्यै

प्रारभ्यते पोषकरोऽभ्युपायः कारुण्यमाश्रित्य मयाऽधूनाऽत्र॥



भावाभिनिवेश एव तावत् समस्तसङ्क्लेशजालमूलम्, अतस्तत्परिहृत्य निःश्रेयसपदाभिलाषिणां सर्वधर्मनिःस्वभावताव्युत्पादनार्थमिदमारभ्यते।

परमार्थगम्भीरोदधिनयमनवगाह्य अत्र केचिदाहुः - युक्त्यागमाभ्यां सर्वधर्मनिःस्वभावता सिध्यतीति चेत् ?

[ १ ] नागमस्तावच्छक्तः, केनापि तथाभ्युपगमाभावाद्, विवक्षाधीनत्वाद् वचनानां तद्वस्तुसम्बन्धाभावाच्च न प्रामाण्यम्। स्यादपि सम्बन्धस्तथाप्यर्वाग्दर्शिभिरवधारयितुं न शक्यते प्रेक्षकास्तत्प्रवचनमत-मभ्युपगम्यमानेभ्योऽपि निःसंशयं सर्वभावानां निःस्वभावताप्रतिपादकं किमपि वचनमुपदर्शयितुं न शक्नुवन्ति।

[ २ ] सूत्रेषु केषुचित् - ' निःस्वभावाः सर्वधर्माः, अनुत्पन्नाः, आदिशान्ताः प्रकृतिपरिनिर्वृता इत्यादीनि [ वचनानि ] आगच्छन्ति, तान्यपि नेयार्थान्येव वेदितव्यानि, नानाभिसन्धिद्वारेण भगवतो देशनया अवतारणात्। त्रयाणां स्वभावानां परिकल्पितपरतन्त्रपरिनिष्पन्नानां क्रमशः लक्षणत उत्पत्तितः परमार्थतः निःस्वभावतां सन्धाय सर्वधर्मा निःस्वभावा उक्ताः, तेन निःस्वभावत्वादनुत्पन्ना, तत आदिशान्ताः, तेन प्रकृतिपरिनिर्वृताः। तथैव भगवता आर्यसन्धिनिर्मोचनसूत्रादौ सूत्रार्थाभिप्राययोगो देशितः।

[ ३ ] द्वैताभासिविज्ञानमात्रेण सर्वधर्माणामुत्पत्त्यादयो विभज्यन्ते, न तु स्वसंवेदनमात्रेण। द्वैताभासोऽपि मिथ्या, तेन सर्वभावा अपि मृषा एव व्यवस्थाप्यन्ते। परिकल्पितस्य लक्षणनिःस्वभावत्वात् सर्वधर्मानुत्पादादयो देशिताः, न तु परमार्थतः। अतो नागमद्वारा [ सर्वधर्मनिःस्वभावता ] साधयितुं शक्यते।

[ ४ ] नापि युक्तिद्वारा। न खलु सर्वे भावाः प्रत्यक्षत एवं विविक्ताः [ शून्याः ] अनुभूयन्ते। वस्तुत्वात्तस्य विषयाणाम्। अभावाय तावद् नीरूपतया न कथमपि स्वरूपोपदर्शनेन विज्ञानजनकत्वं युज्यते, जनकत्वे सति वस्तुत्वप्रसङ्गः, अर्थक्रियासमर्थ्यत्वाद् वस्तुलक्षणस्य। यत् प्रत्यक्षं तदपि यदि सस्वभावम्, तदा सर्वधर्मनिःस्वभावताप्रतिज्ञाया हानिप्रसङ्गः। यदि तन्निःस्वभावम्, कथं तेन सर्वधर्माणां विविक्तताऽनुभूयते। अथ कैश्चिद् अर्थान्तरा विविक्ततेति पक्षो गृह्यते, तदा इतरेण तावत् प्रत्यक्षेण शून्यता ग्राह्या स्यात्।

सर्वधर्मःस्वभाववादिषु ये केचन [ धर्माः ] प्रत्यक्षेण उपलभ्यन्ते [ ते ] सर्वे धर्मा विविक्ताः प्रतीयेरन्। सर्वधर्माणां स्वभावविविक्तता तावन्नास्ति किमपि वस्तु, तस्या अपि सर्वधर्मान्तर्गतत्वात्। न चेदन्तर्भावः, स्वप्रतिज्ञाहानिः।

[ ५ ] अयं तावद् [ विषयः ] सर्वज्ञादीनां योगिनां प्रत्यक्षेण सुगम्य इत्युच्यमानेऽपि न खलु विद्वद्भ्यस्तृप्तिमासादयति, युक्त्यभावात्तत्र। यदि तद् योगिज्ञानमप्यसदिति चेद् ? तदा कथं तस्य प्रामाण्यम्। यदि तत् सत्, तदा प्रतिज्ञाहानिः।

[ ६ ] नाप्यनुमानेनापि ' सर्वे भावाः शून्याः ' इति साधयितुं शक्यते, कस्याप्याधारस्य धर्मिण एवाभावात्, हेतुदृष्टान्तादीनामप्यनुपपन्नत्वात्। स्वभावाश्रयरहितैः सर्वहेतुभिः कथं सर्वधर्मनिःस्वभावता साधयितुं शक्यते।

[७] परैः सिद्धत्वात् पराभ्युपगतहेत्वादिभिः स्वपक्षः प्रसिध्येदिति चेत् तदापि न युज्यते,साधनदूषणयोरुभयप्रसिद्धत्वेनाभिमतत्वात्। इथं यदा पराभ्युपगतहेत्वादयो यदि न वास्तविकाः, मोहेन कल्पितमात्रसत्ताकाः, तदा कथं तैः स्वपक्षः प्रसिध्येत्। यदि ते भावरुपेण सन्मात्राः, तदा न केवलं ते परप्रसिद्धमात्राः, तवापि तत्प्रसिद्धत्वात्। भावानां सिद्धयसिद्धयो न पुरुषविवक्षाधीनाः। पराभ्युपगतसाधनादयो यदि सन्मात्रा एवाभ्युपेयन्ते तदा भावा अपि सस्वभावाः कथं नाभ्युपेयन्ते ?

[८] सर्वधर्मशून्यता कुत्रापि केनापि हेतुना न सम्बद्धा, अत्यन्तपरोक्षत्वात्। यदि [ सम्बन्धः] सिद्धः स्यात् तदा सर्वे तत्त्वदर्शिनः स्युरिति प्रसङ्गः। पूर्वत एव सिद्धत्वाद् युक्त्यनुसरणमपि निरर्थकं स्यात्।

[९] अपि च, न तावत् कार्य-स्वभावलिङ्गाभ्यां शक्यते साधयितुं सर्वधर्मनिःस्वभावता। तेषां खलु भावसाधनत्वात्। त्वन्मते तु एतौ [ कार्य-स्वभावौ ] न सम्भवतः तथा हि-सर्वेषां धर्माणामनुत्पन्नत्वेन कस्यापि केनापि सह कार्यकारणभावस्यानभ्युपेतत्वात् कार्यहेतुस्तावन्न सम्भवति।

सर्वधर्माणां निःस्वभावत्वेन कस्यापि आत्मनः स्वभावस्यासत्त्वात् कुतस्तावत् स्वभावहेतुः।

[१०] अनुपलब्धिरपि तां साधयितुं न शक्ता। स्वभावानुपलब्धिर्या खलु असद्व्यवहारं साधयति, सा तदितरविविक्तस्य वस्तुनः प्रत्यक्षतः प्रतीतौ सत्यामपि असच्छास्त्रश्रवणविमूढमनसा केनचित् तदितरविवेकव्यवहारेऽप्रवृत्तानां तद्व्यवहारप्रसाधनाय प्रयुज्यत इति। तव तु साध्यमानसर्वधर्माभावव्यवहारस्य प्रत्यक्षतः ज्ञानार्थं किञ्चिदपि नास्त्येव, स्वपक्षहानिप्रसङ्गादित्युक्तपूर्वम्।

[११]विरुद्धोपलब्ध्यादयोऽपि [ तव मते अभावसाधनार्थं ] न सम्भवन्त्येव। अत्यन्तपरोक्षात् सर्वधर्मविवेकात् सहानवस्थानविरोधेनापि न किञ्चिदपि सिध्यति।यदि सिध्येत् तदा तद्विरुद्धादयो भावत्वेनैव सिध्येयुरित्यनभ्युपेता न स्युः। भावानां विरोधो द्विधा व्यवस्थाप्यते, तद्यथा-सहानवस्थानलक्षणः परस्परपरिहारलक्षणश्च। ये तत्राविकल-कारणानि तेभ्यो नियतं यस्मिन्न भवति, तयोः प्रथमो विरोधो व्यवस्थाप्यते, शीतोष्णस्पर्शवत्। यद् यस्मिन् परिह्रियते यन्न विच्छिद्यते तयोरुभयोरभावयोर्द्वितीयो विरोधो व्यवस्थाप्यते, एकस्मिन् धर्मिणि युगपत् सदसत्त्ववत्। तथाविधौ द्वावपि विरोधौ सर्वधर्मानिःस्वभाववादिषु नैव सम्भवतः।गगनारविन्दादिषु न सन्ति अविकलकारणान्यपि तथा नास्ति अतद्व्यावृत्त्या परिच्छेदोऽपि भावपर्यन्तवात्। सत्ताव्यवच्छेन यद्यपि परिच्छेदो व्यवस्थाप्यते तथापि कुत्रचित् काचित्, सत्ता व्यवच्छिन्ना सिध्येत्, किन्तु भवन्तस्तावत् कुत्रापि कस्यापि व्यवच्छेदं कथमपि नैवाभ्युपगच्छन्ति।

यदि सर्वे धर्मा निःस्वभावताप्रत्यासन्नास्तदा युष्मासु किमप्यविकलकारणसत्त्वं न सिध्येत्। यदि सिध्येत्तदा तान्यविकलकारणान्येव भावाः सिध्येयुः। यदि सर्वधर्मनिःस्वभावताव्यवच्छेदन केचन भावाः परिच्छिद्यन्ते, तदा त एवास्मासु वस्तुसन्तः सिध्येयुः तद्विरुद्धोपलब्ध्यसम्भवात्।

[१२] यद्यसम्भवस्तदा व्यापकविरुद्धोपलब्ध्यादयोऽपि न सम्भवेयुः। विरुद्धोपलब्ध्यसिद्धेस्ता अपि न सम्भवन्ति, विरुद्धोपलब्धिप्रभावितत्वात्तासाम्।

[१३] व्यापकानुपलब्धिरपि व्याप्यव्यापकभावसिद्धौ व्याप्यनिषेधाय यदि प्रयुज्यते तदा सर्वधर्मस्वभावशून्यत्वं तु तावन्न कस्यापि व्याप्यं सिध्यतीति।यदि सिध्यतीति चेत् तद् व्याप्यमेव हि वस्तुतया सिद्धं स्यात्।

[१४] कारणानुपलब्धिरपि कार्यकारणभावसिद्धौ कार्यत्वनिषेधाय यदि प्रयुज्यते तदा सर्वधर्मनिःस्वभावतायां तु कार्यकारणभाव एव सिद्धो न भवति। यदि सिद्धस्तदा यत् कारणं यच्चापि वा कार्यं तदेव वस्तु स्यात्।

[ १५ ] सर्वधर्मेषु कस्याप्येकस्य निषेधाद् एतेषां निःस्वभावतासिद्धयर्थं नास्ति किमप्येकं कारणम्।

[१६] केनापि ईश्चराद्येकनिमित्ताभ्युपगमनिषेधेऽपि नेमे निःस्वभावत्वे सिध्यन्ति, सर्वेषां स्वनिमित्तोत्पन्नत्वात्। एतेषां प्रतिस्वं निमित्तान्यपि निषेद्धुं न शक्यन्ते, तेषां प्रसिद्धत्वात्।

[१७] अपि च, नैरात्म्यं यदि सर्वधर्मगोचरतायां साध्यते, तदा न दृष्टान्तः प्रसिद्धयति। प्रतिबिम्बादयो येऽपि दृष्टान्तास्तेष्वपि केचित् बाह्यवस्तुस्वभावाः, अन्ये तावज्ज्ञानस्वभावा अभ्युपगम्यन्ते, अतस्ते वस्तुस्वभावा एव स्वीकृताः।

[१८] यदि प्रादेशिकं नैरात्म्यं साधयितुमिष्येत, तत्र यदि तैर्थिकपरिकल्पिताः प्रधानादयः निषिध्यन्ते, तदा सिद्धसाधनमात्रमेव।

[१९] यदि लोकप्रसिद्धा रुपादयस्तदा दृष्टान्त एव तावन्नोपलभ्यते, प्रतिज्ञायाश्चापि प्रत्यक्षविरोधः।

[२०] यद्यनुमानस्य प्रतिबन्धसाधनार्थं प्रत्यक्षप्रमाणमभयुपगम्यते, तदा सिद्ध एव तावद् भावः। तद्यथा-कल्पनापोढमभ्रान्तमिति प्रत्यक्षलक्षणम्। अभ्रान्तज्ञानेन निरूपितोऽपि भावस्वभावः कथमनुमानेनापह्नोतुं शक्यते। यदि स निराक्रियते तदा प्रत्यक्षस्यैव बाधप्रसङ्गः। यदि स बध्यते तदा नानुमानस्यापि सौस्थित्यम्। प्रत्यक्षसम्बन्धादनुप्राप्तानुमानेनापि स एव कथं बाधयितुं शक्यते।यदि प्रत्यक्षसिद्धोऽर्थो न बाध्यते तदा वस्तुवादिनामेव सौस्थित्यम्, प्राप्यस्य प्राप्तत्वात्।

[२१] अपि च, सर्वधर्मनिःस्वभावत्वं साधयितु यदि कश्चिद् भावस्वभावो हेतुः प्रदर्श्यते, तदा विपरीतसाध्यसाधको हेतुर्विरोद्धो भवति।

[२२] यदि अभावस्वभावस्तदा असदभवयोः परस्परसम्बन्धाभावात् कथं साधयिष्यति ?

[२३] यद्युभयस्वभावः, सोऽप्यनियत एव, विपक्षेऽपि सत्त्वात्। यतो हि तत् साधयितुं नान्यत् किमपि प्रमाणमिति।

[२४] शब्दमात्रतोऽपि न तत् सिध्यति, सर्वतः सर्वसिद्धिप्रसङ्गात्। शब्दोऽपि विरुद्धः, यतो हि यदि निःस्वभावस्तदा कथं स सिद्धः।

[२५] प्रसङ्गत्वेन सिद्धेऽपि नेष्टार्थसिद्धिः,तथाविधप्रसङ्गस्यैवासिद्धत्वात्।प्रसङ्गेन तावत् परपक्षो बाधयितुं शक्यते, तथापि स्वपक्षस्तु न सिध्यति, उभयसिद्धहेत्वन्तरापेक्षत्वात्तस्य।

[२६] स्वतो नोत्पद्यते भावः, यश्चानुत्पन्नस्तस्यासत्त्वेन कुत्रापि हेतुत्वेनानुपपत्तेः। उत्पन्नानां पुनरुत्पादे नैरर्थक्यम्, विद्यमानत्वात्। यद्यविशिष्टस्तदा कार्यकारणभावोऽपि न युज्यते, विशिष्टस्यैव हेतुत्वात्।

परतोऽपि नोत्पद्यते भावः, परस्यैवासिद्धत्वात्।अपि च नित्यभूतादपि तावत् परान्नोत्पद्यते, नित्यस्य क्रमयौगपद्याभ्यामर्थक्रियाविरोधात्।अनित्यादपि तावद् विनष्टान्न, तस्याविद्यमानत्वात्। अविनष्टादपि न, कार्यकारणयोस्तुत्वप्रसङ्गात्। समकालिकयोस्तावत् कार्यकारणभावो न युज्यते, निष्पन्नवस्थायां द्वयोर्विद्यमानस्वभावत्वेन परस्परोपकारकत्वाभावात्। अनिष्पन्नवस्थायां तु द्वयोरसत्त्वाद् उपकारकत्वात्यन्ताभावः।

उभयतोऽपि नोत्पद्यते,यथोक्तोभयदोषप्रसङ्गात्, एकस्मिन् द्वित्वविरोधाच्च।

अहेतुतोऽपि नोत्पद्यते भावः कादाचित्कत्वात्, नैवं कथनं युज्यते। यन्न स्वतो नोभयतो नापि विनष्टाद्धेतोर्नाप्यहेतुतो नाभीष्टान्नित्याद्धेतोः कार्योत्पत्तिर्भवतीति तथावादिनस्तत् [ सर्वं ] युज्यते, किन्त्वनित्यत्वेनाभीष्टात्तदितरादविनष्टाद्धेतोः कार्योत्पत्तौ कस्तावद् विरोधः, केन हेतुना ततः कार्योत्पत्तिर्निषिध्यते, नास्ति तद्बाधकं किमपि प्रमाणम्।

परभूतस्य भावमात्रस्याप्यसिद्धिरिति न, यतो हि यदनन्तरं कार्यमुत्पद्यते तदेव ' पर 'ः इत्यभिधीयते।कार्योत्पादात् प्राक् परेति नाम्रोऽसिद्धत्वेऽपि भावस्य तु नैव हानिः।

[२७]केचित् परत्वादिति बाधकं प्रमाणं वदन्ति, तदप्यनैकान्तिकमेव,

परात्वजनकत्वयोरविरोधात्। स तावविरोधनयोऽपि निषेद्धुं न शक्यते, अतिप्रसङ्गात्।

यद्येवमस्ति तदा कस्मिंश्चिदपरस्मिन् द्रारिद्रयमूढत्वादिधर्माणां दृश्यत्वेन परत्वहेतोः सर्वजगद्दारिद्रयादिधर्मोपादानं स्यात्।

[२८] अव्यवहितादविनष्टात् परात् कार्योत्पत्तौ कार्यकारणसमकालिकत्वप्रसङ्गो बाधकप्रणमिति यदि कश्चिदेवं मन्यते, तदप्ययुक्तमेव। अव्यवहिकार्योत्पादेनापि कार्यकारणसमकालिकत्वं न प्रसज्यते, क्षणिकत्वेन कार्यसत्त्वे कारणस्यासत्त्वात्।

यदा कार्यमुत्पद्यते तदैव कारणं निरुध्यते, तुलादण्डोन्नामावनामवदिति कुतः समकालिकत्वप्रसङ्गः। कारणावस्थायामपि कार्यस्य विद्यमानत्वाद् नैरर्थक्यमेव। यथा अव्यवहितविनष्टो भाव उत्तरक्षणभाविना भावेन सह युगपद् व्यवस्थाप्यो न भवति, एवमेव कार्यस्यापि तत्सदृशत्वादविरुद्धतैव, छायाऽऽतपवत्। यथा च पूर्वापराव्यवधानेन प्रवहमानजलधारायां विषयैकत्वं न भवति, तथैव अस्यापि तत्सदृशत्वात् समकालिकत्वं न भविष्यति।

[२९] विद्यमानस्यापि कार्यस्य नैवोत्पादः, उत्पादवैयर्थात्, नाप्यविद्यमानस्य, शशशृङ्गदीनामप्युत्पत्तिप्रसङ्गाद् इत्यपि कथनं नैव युज्यते। यदि विद्यमानकार्यस्योत्पत्तिनिर्षिध्यते तदा तव [ पक्षे ] उभयसिद्धो हेतुर्दृष्टान्तश्च न स्याताम्। यद्यस्ति तदा निःस्वभावत्वप्रतिज्ञाया हानिः।

[३०] सांख्यादिपरिकल्पितसत्कार्यवादो यद्यप्ययुक्तस्तथाप्यसत्कार्योत्पादे किं नाम विरुद्धत्वम्, किमर्थं च तन्निषिध्यते। नैव च स्यात् शशशृङ्गाद्युत्पत्तिप्रसङ्गः तत्तथाविधहेतूनामभावादनुत्पत्तेः न त्वभावाद्धेतोः।

सर्वतः सर्वोत्पत्तिप्रसङ्गोऽपि नैव; कारणप्रतिनियतसामर्थस्य व्यवस्थितत्वात्।प्रतिनियतकारणसामर्थ्यमप्यश्यमभ्युपेयम्, अन्यथा सांवृतिकेऽपि कार्यकारणभावे कथं न सर्वतः सर्वोत्पत्तिर्भवतीति।

[३१] अपि च, यदि विनष्टाविनष्टादयो विकल्पाः पारमार्थिकीमुत्पत्तिं बाधन्ते, तदा कथं न सांवृतिकीमपि बाधन्ते ? वस्तुबलप्रवृत्तस्य हेतोर्विषस्य पुरुषेच्छावशेन विभागो न युक्तरुपः। यदि पत्यक्षबाधितत्वाशङ्कया तस्मिन् हेतुत्वं न प्रवर्तत इत्युच्येत तर्हि स हेतुरेव नास्ति, बाधयोग्यत्वात्।

[३२] न ह्येकेन हेतुना अनेककार्योत्पत्तिर्युज्यते, न चानेकेनाप्येकोत्पत्तिर्युज्यते, अन्यथा हेतुभेदेन भेदो न स्यात्। अत एव नानेकेभ्योऽप्यनेककार्योत्पत्तिर्भवतीति। यद्येकं कार्यं सर्वे हेतोवोऽभिनिर्वर्तयन्ति, तदा भिन्नानां हेतूनामभेदः स्यात्, अनेकेभ्य एकैकस्योत्पत्तेः। यधेकैकं नाभिनिर्वर्तयन्ति तदा कथं नामानेकेभ्योऽनेकोत्पत्तिरपि।

न ह्येकेनापि एकस्योत्पत्तिः, चक्षुरादीन्द्रियेभ्यस्तद्विज्ञानस्योत्पत्तेः। तदनन्तरं यदि सजातीयक्षणोत्पत्तिर्न भवेत्तदा सर्वेषामन्धबधिरत्वादिप्रसङ्ग इत्यपि कथनं तावन्नैव युज्यते। एवं यस्तावदन्धबधिरत्वादिप्रसङ्गोऽभिहित स नैव सम्भवति, अनभ्युपगतत्वात्, सामग्र्या उत्पत्तेः, न हि काचिदेकेन एकस्योत्पत्तिरिति।

येनैकस्मादनेकोत्पत्तिः, अनेकस्माद् वा एकस्योत्पत्तिः [ ततः स ] विरुद्धो हेतुस्वभावातिक्रान्तो जनकत्वेनानभ्युपगतो भवति, तथापि विद्यमानमात्रादनेकस्वभावात् प्रदीपादेः अनेकस्वभावं कार्यमुत्पद्यमानं दृश्यते।

हेतुभेदो भेदको न भविष्यतीति न स्यात्, हेतुविशेषेण कार्यविशेषस्योत्पत्तेः। हेतुविशेषेण कार्यविशेषोत्पाद इति यदेव कथनं तदेव हेतुभेदस्य भेदकत्वप्रतिपादकमिति।

[३३] यः प्रतीत्यसमुत्पन्नः स प्रकृत्या शान्त इत्येतदनैकान्तिकत्वम्, प्रतीत्यसमुत्पन्नस्य सस्वभावत्वेन विरोधाभावात्, प्रतीत्यसमुपादस्य सस्वभावत्वे प्रसिद्धत्वाद्। हेतोर्विरुद्धत्वमपि, अजातानां खपुष्पादीनां सस्वभावत्वेनाननुभूयमानत्वात्।

[३४] यो हि परमार्थतोऽसन् स संवृतावपि स्वभावतोऽनुत्पन्नो दृश्यते, यथा-वन्ध्यापुत्रः। तुल्येऽपि निःस्वभावत्वे यथा रुपादयोऽवभासन्ते, तथा शशशृङ्गादयः कथं नावभासन्ते ? अवभासविशेषस्यास्य नास्ति किमपि कारणम्।

[३५] ' सर्वे धर्मा निःस्वभावाः, एकानेकस्वभावरहितत्वात्' इत्येवमभिदधाना ये प्रसङ्गं साधयन्ति तेषामपि तथा परैरनङ्गीकाराद् हेतुरसिद्ध एव, एकानेकस्वभावरहितत्वस्य न केनाप्यभ्युपगतत्वात्। अतः स्वतः सिद्धावपि हेतुरयं परतोऽसिद्धः।

[३६] अन्यच्च, साध्यसाधने पर्युदासात्मके प्रसज्यात्मके वा ? यदि पर्युदासात्मके तदा एकानेकस्वभावरहितात्वस्य भावस्वभावत्वेनाभ्युपेतत्वात्तदप्यनभ्युपगतं न भवेत्। यदि प्रसज्यात्मके तदा नास्ति गम्यगमकभावः, तयोर्निःस्वभावत्वाद् अन्योऽन्यासम्बद्धत्वाद् अभिन्नत्वाच्च।

[३७] यच्च सर्वाभिलापविरहलक्षणं तन्न किञ्चिद् गम्यं गमकं वा, यथा-अश्वशृङ्गम्। यथोक्तसाध्यसाधने अपि सर्वाभिलापविरहलक्षणे।

[३८] यौ ह्यन्योऽन्यासम्बद्धौ तयोर्नास्ति गम्यगमकभावः, यथा विन्ध्यहिमालयौ। साध्यसाधने चाप्यन्योऽन्यासम्बद्धे।

[३९] यद्युभे अभावस्वभावत्वेन तादात्म्यलक्षणापन्ने एवेति मन्यसे चेत्, तदप्युक्तम्, तदात्मनो भावे व्यवस्थितत्वात्।

[४०] यो यस्मान्न भिन्नस्वभावस्तयोर्नास्ति गम्यगमकभावः, वृक्षद्रुमवत्। यथोक्तसाध्यसाधने अपि न भिन्नस्वभावे। नायं कृतकत्वानित्यत्वाभ्यामनैकान्तिकोऽपि, व्यावृत्त्या भिन्नत्वात्तयोः।

[४१] अत्रापि व्यावृत्त्या भेद इति मन्यते चेत् ? तदप्ययुक्तम्। यद्येवं स्वाद् भाव एव ते स्याताम्, नीलपीतवत्।

[४२] अपि च यथा केनापि एकानेकस्वभाववियुक्तत्वहेतुना भावानां निःस्वभावता साध्यते, तथा धर्मिणोऽप्यभावः साध्यते तदा धर्मिव्यावृत्तत्वसिद्धेः। हेतुर्विरुद्धः स्यात्, तथा निःस्वभावत्वसिद्धौ नास्ति किमपि प्रमाणम्।

[४३] अपि च, यदि विज्ञानमप्यन्यधर्मवत् परमार्थतो निःस्वभावं स्यात्तदा तदनुपादेयं स्याद् वितथत्वादन्यधर्मवत्। यद्येवं स्यात्तदा न स्युर्योगिनोऽपि, नैव योगिज्ञानमपि स्यान्न च तैस्तत्त्वप्रतिबोधः स्यात्। नैव तेषां भगवतां बुद्धानामप्रतिष्ठितनिर्वाणं स्यान्न च सर्वाकारं ज्ञानं स्यात्। फ़लतः सर्वव्यवस्थाविलोपः स्यादिति।

[४४] संवृतौ योगिज्ञानादीनामभ्युपगमाद् बुद्धा अपि विपर्यस्ता भवेयुरिति प्रसङ्गः।

[४५] अपि चास्ति भवतां सर्वधर्मनिःस्वभावत्वप्रतिज्ञायां युक्त्यागमाभ्यां विरोधोऽपि। यथा रुपादयस्तावत् सस्वभावत्वे एव नियता, देशकालावस्थाभेदेन स्फ़ुटमवभासमानत्वात्। अत आदौ तावत् प्रत्यक्षविरोधः सुस्पष्टः।

[४६] अग्न्यादयो ये भावाः परोक्षर्वेनाभ्युपगतास्तेऽपि अभ्रान्तेन नियतधूमादिहेतुना अनुमानप्रमाणेन सत्स्वभावात्मका एव। भावानामुत्पादोऽपि खलु हेतुप्रत्ययसापेक्ष एव सिद्धः, कादाचित्कत्वात्। अहेतुकस्य तु कादाचित्कत्वमपि न युज्यते, निरपेक्षत्वात्। अतः प्रतिज्ञायामनुमानबाधाऽपि।

[४७] यानि त्रायस्त्रिंशानां नगरादीन्यत्यन्तपरोक्षाणि, तान्यपि समस्तलोकैकचक्षुर्भूतेन तायिना स्वकीयेनानावृतेन ज्ञानचक्षुषा प्रत्यक्षीकृत्य अन्येभ्योऽपि सम्प्रकाशितानि, अतो विश्चस्तागमेन सत्तायाः सिद्धेरागमविरोधोऽपि, असतामाकाशपुष्पादीनां तथा दर्शनसम्प्रकाशनयोरयुक्त्वात्।

[४८] भगवता खलु ये आन्तरबह्यवस्तूनामनेकविधाः प्रतीत्यसमुत्पादाः समुपदिष्टास्तेऽपि स्वभावविरहिताः कथं युज्यन्ते, अत्यन्ताभावानामाकाशपुष्पादीनां नैवात्यन्तिकी उत्पत्तिरिति।

[४९] कुशलाकुशलमर्मणां फ़लभूता देवनरकादिगतयो भवन्तीति स्वयम्भुव उपदेशात् कथं न विरोधः, नैव युज्यते अत्यन्तासद्भूतकूर्मरोमादिभिर्वस्त्रनिर्माणोपदेशः।

[५०] अतः कर्मणामिष्टानिष्टफ़लापवादात् संक्लेशपक्षापवादः।

[५१] सूत्रादिषु आर्याणां मार्गाभ्यासबलेन या उत्तरोत्तरलोकोत्तरज्ञानफ़लव्यवस्था साऽपि न स्यात्, गतिगम्यगमकाद्यभावात्। शशशृङ्गकृतसोपानमार्गे पादौ निधाय वन्ध्यापुत्रस्य अश्चङ्गसमुच्छ्रितोत्तुङ्गविशालप्रासादारोहणं न सम्भवतीत्यतो व्यवदानपक्षापवादोऽपि स्यात्।

[५२] इत्येवमुभयपक्षापवादमनुतिष्ठन्तश्चत्वार्यार्यसत्यान्यपि निषेधन्ति भवन्तः।

[५३] बीजादिषु जन्यजनकभावस्तावद् आगोपाङ्गनाप्रसिद्धः, अतः प्रतिज्ञायाः प्रसिद्धिविराधोऽपि।

[५४] हेतुप्रयोगेण परेषु निश्चयोत्पादाभ्युपगमात् स्ववचनविरोधोऽपि।

[५५] यश्च भगवता प्रत्यक्षादिप्रमाणैर्भावानां सत्तानिर्देशः कृतः, तस्यापि बाधा स्यात्। यतो हिः

"चक्षुर्विज्ञानसमङ्गी नीलं विजानाति, नो तु नीलम्" इत्यादिना तावन्नीलादयो भावाः कल्पानापोढलक्षणेन प्रत्यक्षप्रमाणेन ज्ञायन्त इति प्रतिपादितम्, नैव हि गगनोत्पलवर्तीनि नीलादीनि चक्षुर्विज्ञानेनानुभूयन्त इति।

[५६] " यत्किञ्चित् समुदयधर्मकम्, तत् सर्वत्र निरोधधर्मकम् " अनेन साध्यव्याप्तहेतुनाऽनुमानप्रमाणेनोपदर्शिताः क्षणस्थितधर्मिणो भावाः प्रसिद्धा इति स्पष्टमुपदर्शितम्। अनेन तावदुपदर्शनेन ते [ भावा ] सस्वभावतायां निरुच्यन्ते, अत्यन्तासद्भूताकाशपुष्पादीनामुत्पादाव्ययधर्मायोगात्।

[५७] "धूमेन ज्ञायते वह्निः सलिलं च बलाकया" इति। अग्न्यादयो भावाः कार्यलिङ्गेन नियतं ज्ञायमानत्वान्नियतं स्वभावमवधारयन्तीति सुस्पष्टं निर्दिश्यते। बलाकादिहेतूनां दर्शनान्मरीचिकाद्यभावानुमानस्योत्पत्तेरभावात्।

[५८] अभिधर्मादौ ये षड् हेतवश्चत्वारश्च प्रत्यया अभिहितास्तेऽपि सर्वधर्मानुत्पादवादे तावत्कथं युज्यन्ते, उत्पाद्यस्य कस्यचिदभावेन हेत्वादीनामयुक्तत्वात्।

[५९] सूत्रेषु सर्वे धर्माः स्कन्धधात्वायतनेषु सङ्गृहीताः समुपदिष्टाः। स्कन्धादीनां भगवता कार्यकारणस्वभावत्वसम्प्रकाशनात् कथं ते सर्वेधर्मानुत्पादतायां सङ्गृहीताः स्युः।

[६०] यदि स्कन्धदिव्यतिरिक्तस्य कस्यचिद् धर्मस्य अनुत्पादः साध्यते तदा नास्ति [ कश्चित् ] विवादः, वयमपि तद्व्यतिरिक्तं धर्मं नाङ्गीकुर्महे।

[६१] यद्येवं मन्यते यत्संवृतौ प्रमाणादीनामभ्युपगमान्नैव एषां सर्वेषां दूषणानामवकाशो युज्यत इति चेत् ? तदा [ संवृतौ ] भावाभ्युगम एवाङ्गीकृतः स्यात्, यतो हि यानि प्रमाणादीनि संवृतावभ्युपेतानि तानि निश्चयेन सर्वाभिलापविधुरलक्षणशशशृङ्गादिभ्यो व्यावृत्तस्वभावान्येव व्याहतानि स्युः। यद्येवं न स्यात्ततदा लोकविरोध आगमविरोधश्च कथं परिहतः स्यात्। वयं तु यत् सर्वसामर्थ्यविरहलक्षणशशशृङ्गादिविपरीतं तदेव ' वस्तु ' इत्यभिदध्महे। यदि भवन्तस्तानपि संवृतिसदिति नाममात्रमुपचारमात्रं व्यवहारमात्रमिति प्रव्याहरन्ति, तदा कामं तथाऽभिलपन्त्विति। न हि नाममात्रेण भावस्तथाविधं स्वभावमनुसरतीत्यतिप्रसङ्गात्।

[६२] अपि च, का नाम संवृतिरित्यपि वक्तव्यम्। यदि सर्वमसदिति कथ्यते, तदपि न युक्तम्, परस्परविरोधात्। तथाविधा संवृतिस्तावदसमर्थैवोच्येत। यदि उत्पादयतीति तदा सामर्थ्यमेवैतत्। तदा कथमेकस्मिन् परस्परविरुद्धयोः सामर्थ्यासामथ्ययोर्योग इति।कथमसता सन्निष्पादयितुं शक्यते।

[६३] न हि सर्वमसदिति। तत्कथमिति चेत् ? भावस्वभावैव संवृतिरिति। तदा नास्ति विवादः, भवतः प्रतिज्ञाया एव हानिः भवोऽप्युत्पद्यत एव, अतः संवृत्या तदुत्पद्यत इति कथमेवमुच्येत ? तदा त्वनुत्पन्न उत्पद्यत इत्युक्तं स्यात्। संवृतिविपरीतस्यानुत्पादस्य परमार्थत्वात् तदा परमार्थतोऽनुत्पाद एव स्यादित्यसम्बद्धभिधानं स्यात्। उपयतोऽनुभयत इत्येषाऽपि कल्पना नैव सम्भवति, परस्परविरुद्धत्वात्।

[६४] यद्यनित्यार्थः संवृत्यर्थ इत्येवं चेत् ? तदा किं तावदनित्यम् ? यदि नित्याभावमात्रम् ? तदा कथं तल्लोके प्रतीतं स्यात्। यदि नित्यदितरं किमप्यनित्यमिति निगद्येत? तदा नित्यस्य विकल्पात्मकत्वात्तत् [इतरं] तावत् सामर्थ्यान्निर्विकल्पं ज्ञानमित्यतस्यदवस्थायां 'संवृतिसत्' -इति कथनं तु निर्विकल्पकज्ञानेन तत्प्रतीयत इत्यभिहितं स्यात्।

यद्येवं स्यात्तदा किमिव भावस्वभावो नाभ्युपेयते। [तथात्वे च] अनुमानकल्पनाया अपि तावत् परिहारः स्यात् सविकल्पकत्वात्तस्याः।

[६५] अथ लोकप्रतीत्यर्थः संवृत्यर्थ इत्येवं चेत् ? कस्तावल्लोक इति ? शास्त्रकारा वा प्राकृता वा जनाः प्रथमे विकल्पे भावो ह्यनेकपरस्परविरुद्धस्वभावः स्यात्, शास्त्रकारैकस्यापि भावस्य नानाकारेणाध्यारोपणात्।द्वितीये विकल्पे नैरात्म्य-कर्म-फ़लादीनि नाभ्यु-पेतानि स्युः, प्राकृतकैरप्रतीतत्वात्।

[६६] अथ मायार्थः संवृत्यर्थ इति चेत् तदा को हि नाम मायार्थ इति वक्तव्यम्। यदि सर्वमसदिति, तदा पूर्वदोष एव समापद्येत, संक्लेशव्यवदानानि च कथं स्युरिति च। अथ भ्रान्तिज्ञानेन मायेति चेत् तदा आभ्यन्तरिकज्ञेयनयेन को हि विशेषः स्यात्।

[६७] अथ संवृतिर्नाममात्रमिति तदा सुभाषितदुर्भाषितयोर्भेदोऽशक्यः स्यात्, असत्यभिधेये शब्दमात्रे भेदाभावात्।

[६८] अथ शब्दार्थ इति चेत्तदा कथभेदः स्यात्, प्रत्यात्माधिगम्या ये सुखादयस्ते कुत्र संगृहीताः स्युः ? न हि तावत् संवृतौ, तेषामनिर्वचनीयत्वात्, संवृतिसतां व्यवहारप्रज्ञप्यमानत्वाच्च। सूत्रेऽप्येवमुक्तम्ः "किं नाम संवृतिसत्यम् ? यावन्तो लोकव्यवहाराः येऽक्षरपदनिरुक्तिभिर्निदिश्यन्त इति"।अनेन हि संक्षेपतः संवृतिशब्दार्थोऽभिहितः।

अथैवं मन्यते यदाभासपरिकल्प्यौ व्यामिश्र्य सामान्याकारेन गृह्यन्त इति ? तदा परमार्थेऽप्येष प्रसङ्गः स्यात्, तस्यापि वचनीयस्वाभाव्ये व्यवस्थितत्वेन अभिधेयत्वात्। न च परमार्थसत्येऽपि सङ्गृह्यन्ते, तद्वस्तुसत्तयाः सत्त्वात्। सत्यान्तरविशेषपूरकाकारा अपि ते न भवन्ति।यदि प्रतीत्योत्पन्ना रुपादयः, प्रत्यामाधिगम्याः सुखादयश्चापि 'संवृतिसत्यम्' इत् नाम्रा प्रज्ञप्यन्ते, तदा मुदा तथा कुर्युरिति, कुल्माषमपि दातव्यमिति, कतिपयेनाविर्पययेणाविवादश्चेति।

[६९] अथ क्षणमात्रानन्तरानवस्थानेन अस्थिरार्थः संवृत्यर्थस्तद्विपरीतश्च नित्यार्थः परमार्थ इति सिद्धसाधनमेवैतत्, भवद्भिरेवं वस्तुनः क्षणिकत्वस्वीकरात्, वयमप्येवमभ्युपगच्छमः। अतो नास्ति विवादः तथा सांवृतिकानां वस्तुसामान्यलक्षणामां या नैरात्म्यरुपा धर्मता साऽस्ति परमार्थतः। साऽपि उत्पादाद् वा तथागनामनुत्पदाद् वा सर्वकालमविकारतया नित्याऽभ्युपेयते।

[७०] अथ असत्यार्थः संवृत्यर्थ इति तदा कथं सा सत्यमिति परस्परविरुद्धयोः सत्यासत्ययोरैकात्म्यानुपपत्तेः भावस्वभावैव काचन संवृतिरभ्युपगन्तव्या, अन्यथा कथं जगत् तथा सत्यं सिध्येत्, यदि तदभ्युपगम्यते, तदा [ भवतः ] प्रतिज्ञातार्थहानिः स्यात्।

[७१] अन्यच्च संवृतिः प्रमाणमप्रमाणं वा ? यदि प्रमाणं कथं सा संवृतिः ? अथाप्रमाणं तदा कथं नैरात्म्यं साधयितुं शक्येत ?

[७२] अवश्यमतः संवृतिबीजानि विज्ञानादीनि परमार्थतः सन्तीत्यङ्गीकर्तव्यानि, ऋते बीजं संवृत्यनुत्पत्तेः, यद् बिजं तदेव वस्तुतः सदिति।

[७३] अपि च, यदि भावस्वभावा अब्भ्युपगम्यन्ते तदा तेष्वारोपितो मिथ्यास्वभावः संवृतिसत्यम्, अनारोपितस्तु भावस्वभावः परमार्थसत्यम्। परमार्थसत्यम्। ततश्च सत्यद्वयविभाजनं तावद् युज्यते। यदि नाभ्युपगम्यन्ते, तदा संवृतिरपि वितथा स्यात् परमार्थोऽप्यशक्यव्यवस्थानः स्यात्, व्यवस्थाकाराणानामसत्त्वात्।

[७४] यदि यथाकथञ्चन कञ्चिदेकः परमार्थः स्यात्तदा किमर्थं स साधयते ? स नैव परमार्थः कथं स ज्ञानेनावधारयितुं शक्यते, न च परमार्थशब्देनाप्यभिधातुमर्हः एवं तावन्नायं परमार्थः, न चार्थोऽपि परमः, नापि परमस्य ज्ञानस्यायमर्थः, साधारणत्वात्। यदि यथाकथञ्चन किश्चिदेकः परमार्थः स्यात् तदा परमार्थतोऽसद्भावस्यैकस्य यथाकथञ्चन निराकरणाद् भावसत्ताया एवाभ्युपगमः स्यात्।

[७५] अपि च, यदि संवृतिपरमार्थावभिन्नाविति मन्यते, तदा सत्यद्वयव्यवस्थानां कथं स्यात्, द्वयोरेकतरस्य परित्यागात्। अथ भिन्नौ तदोभयोः पृथक्सिद्धत्वाद् भावप्रसङ्गः। अथ भिन्नभिन्नौ, तदा कथमेकस्मिन् परस्परविरुद्धत्वम्। अतः पक्षोऽयम् ' न भिन्नो नाप्यभिन्नः ' इति न युज्यते, विरुद्धत्वात्। एवं भिन्नाभिन्नत्वस्य अन्योऽन्यपरिहारस्थितलक्षणत्वेन एकस्य प्रतिषेधेऽपरस्य विधानं न भवेत्तदा असत्त्वमेव। स तदा प्रतिषेद्धुमपि कथं शक्तः एकस्मिन् युगपत्पर्युदासप्रसज्ययोर्विरोधात्।

[७६] अन्यच्च, भवतामनुसारेण तु पुण्यज्ञानसम्भारौ दुष्परिपूरणौ स्याताम्, तदभावे च बुद्धत्वमपि दुष्प्रापं स्यात्। पूजाऽनुग्रहकाम्यया यद् दीयते तद् दानं त्वत्यन्तं प्रसादमभिनिर्वर्तयति, तच्च नास्ति देयदायकप्रतिग्राहकानुपलम्भाश्रितत्वात्। स चानुपलम्भः किं देयाभावाद् वा विषयाभावाद् वा भवति ? प्रथमे तावत् पक्षे न कोऽपि किमपि ददातीति पुण्यस्यैवाभावः प्रसज्यते, सत्त्वाभावाच्च यो हि बोधिसत्त्वानां सत्त्वार्थपरिश्रमः स निरर्थक एव स्यात्, अतोऽसत्त्वं तु नास्त्येव। विषयाभवोऽपि तावन्नास्ति, भगवता देयादिवस्तूनां परिदृटत्वात्। यद्येवं न स्यात्तदा भगवता बोधिसत्त्वावस्थायां कथमर्थिभ्यः पुत्रादिदानं कृतम् ? भवन्तस्त्वालम्बनाश्रितं दानादिकं 'विशुद्धम्' इति नाभ्युपगच्छन्ति, अतः सम्भारपारिपूरिस्तावदसम्भवैव। तदभावे हेत्वभावाद् बुद्धात्वमपि दूरेऽपास्तं स्यात्।

[७७] अपि च, 'सर्वे धर्मा निःस्वभावाः' इत्येत्तस्य तावत् को ह्यर्थः ? यदि स्वयम्भावस्य अभावान्निःस्वभावा इत्यभिधीयन्ते तदा सिद्धसाधनमेव, हेतुप्रत्ययाधीनवृत्तित्वात् सर्ववस्तूनाम्, न तान्यहेतुकानीति वयमप्यभ्युपगच्छामः। यद्येवं न स्यात्तदा निरपेक्षत्वान्नित्यं सत्त्वमसत्त्वं वा स्यात्। यद्युच्येत-विनष्टा भावाः स्वस्वभावेनानुत्पन्नत्वात् स्वस्वभावेन न सन्तीति निःस्वभावाः ? इत्येतदपि सिद्धसाधनमेव, अस्माकमपि विनष्टोत्पत्तेरनभ्युपेतत्वात्। यदि चाभिधीयेत-तत्स्वभावेनैव सर्वकालानवस्थानान्निःस्वभावा मन्यन्ते, तदपि सिद्धसाधनमेव, यस्मादुत्पत्तिसमनन्तरविनाशसद्भावात् क्षणिका एव। क्षणिकस्य खलु वस्तुनो द्वितीये क्षणेऽवस्थानं नाभ्युपेयते।

यद्युच्येत यथा बालपृथग्जनैः परिकल्पितस्य ग्राह्यग्राहकभावस्य परमार्थेन स्वभवतोऽसत्त्वाद् ससत्त्वं तथा निःस्वभावत्वमिति तदपि सिद्धसाधनम्, अस्माभिरपि परिकल्पितात्मनो निःस्वभावत्वस्याभ्युपगमात्। यद्येवं न स्यात्तदा सर्वेऽपि तत्त्वदर्शिनः स्युः।



परमार्थतः सर्वे भावा बालपृथग्जनैः परिकल्पितेन ग्राह्यग्रहकारेण विराहिता अपि आर्यज्ञानस्य अद्वैतात्मना गोचरत्वेन स्थिता एव। यद्येवं न स्थिताः, तथाप्यसत्त्वेन निःस्वभावास्तदा सङ्क्लेशव्यवदानौ न स्याताम्।

[७८] तथैव सर्वधर्मानुत्पादोऽप्यभिहितः। किं तदनुत्पदतायास्तावदर्थं मन्यसे ? यद्युच्येत आदितोऽनुत्पन्नत्वात् सर्वे भावा अनुत्पन्ना इति तदपि सिद्धसाधनमेव, वयमपि संसारमनादिं मन्यामहे। अथ पूर्वमुत्पन्नस्य वस्तुनः पुनरनुपत्त्या सर्वे धर्मा अनुत्पन्ना इति तदपि सिद्धसाधनमेव, वयमपि पूर्वमत्पन्नस्य पुनरुत्पत्तिं नाभ्युपगच्छामः, तस्य विनष्टत्वात्। अथ अपूर्वोत्पादाभावादनुत्पादोऽभिधीयते, तस्य विनष्टत्वात्। अथ अपूर्वोत्पादाभावादनुत्पादोऽभिधीयते, तदपि नानिष्टसाधकम्, संसारेऽपूर्वसत्त्वानभ्युपगमात्, सर्वदा च पूर्वविनष्टानां सजातीयोत्पत्तेः अथ बालपृथग्जनपरिकल्पितस्य स्वलक्षणतोऽनुत्पादादनुत्पाद उच्यते, तदापि नास्ति विरोधः, कल्पितस्य स्वभावत उत्पेत्तरनभ्युपगमात्।

अथ स्वतोऽनुत्पादाद् अनुत्पाद इत्युच्येत तदापि नास्ति विरोधः, हेतुप्रत्ययाधीनत्वात् सर्ववस्तूनाम्, यथा पूर्वमुक्तम्। यदि सर्वशः सर्वानुत्पादाद् अनुत्पाद उच्यते तदा दर्शनादिविरोधो दुर्निवारः स्यात्। यदि परस्परविशेषानुत्पादाद् अनुत्पादोऽभिधीयते तदा [ यदि ] तथतास्वभवतामुपादायोच्यते तदा नास्ति दोषः,[ किन्तु ] यदि लोकप्रसिद्धस्वभावतामुपादायोच्यते तदा केन दर्शनादिविरोधो निवारयितुं शक्यते। यदि स्वभावेतरक्रियालक्षणवियोगाद् अनुपाद इति ? तदापि नास्ति दोषः, सर्वभावेषु क्रियाया अभावात्। अथेश्चरादिभिरितरैरनुत्पादाद् [ अनुत्पाद ] उच्यते, तदापि नानिष्टम्, [ अस्माभिरपि ] ईश्वरादेरनभ्युपगमात्। एवमादिभिराकारैः 'आदिशान्ताः, प्रकृतिपरिनिर्वृत्ताः' इत्यादिशब्दानामप्यर्था विचारणीयाः।

अपि च, अन्यैरनेकसूत्रैश्चापि विरोधः संल्लक्ष्यते, तथा हि आर्यसन्धिनिर्मोचनसूत्रे ह्युक्तम्ः

"अतो लक्षणनिःस्वभावतामभिसन्धाय मया सर्वधर्मणामनुत्पाद्ःपरिकीर्तितः।"

परिकल्पितस्वभावे हि लक्षणनिःस्वभावता व्यवस्थाप्यते।

महायानप्रसादप्रभावने [ नाम महायानसूत्रे ] चोक्तम्ः

' कुलपुत्र, बोधिसत्त्वः धर्ममयोनिशः शब्दशः प्रविचय्य महायानप्रसदायतनो न भवति। शब्दशोऽनभिप्रेत्य योनिशो मनसि कृत्वा महायानप्रसादायतनो भवति। एवं कुलपुत्र, बोधिसत्त्वोऽयोनिशः शब्दशो धर्मान् प्रविचय्य अष्टाविंशतिमसद्दृष्टीरुत्पादयति, तदयथा-निमित्तदृष्टिः, अदृष्टिदर्शनदृष्टिः, व्यवहारापवाददृटिः, संक्लेशापवाददृष्टिः, तत्त्वापवाददृष्टिश्चेति" इत्येवमादिकं विस्तरेणाभिधाय ः

" कुलपुत्रं, का हि तावन्निमित्तदृटिः ? सांयोगिकस्य स्वभावमभिसन्धाय मया सर्वधर्माणां यदसत्त्वं सम्प्रकाशितं तच्छब्दशोऽभिनिविश्य [ ये ] सांक्लेशिकधर्माणां वैयवदानीकधर्माणां चाप्यसत्त्वेऽभिनिविशन्ते, असन्निमित्तोपादानेन [ तेषु ] असद्दृष्टिरुपजायते, अतः [सैव] निमित्तदृष्टिरुक्ता। [ अतः ] बोधिसत्त्वस्य शब्दशोऽभिनिविष्टायामसद्दृष्टि सैव तस्य महती दृष्टिरिति, अत एव सा अदृष्टिदर्शनदृष्टिरित्युच्यते। ततो व्यवहारापवाददृष्टिसंक्लेशापवाददृटितत्त्वापवाददृष्ट यस्तावज्जायन्ते। ततो व्यवहारापवाददृष्टिसंक्लेशापवाददृष्टितत्त्वापवाददृष्तयस्तावज्जायन्ते यदा निमित्तदृष्ट्या सर्वापवादः [यदा] क्रियते तदा व्यवहारापवाददृष्टेरप्यभिनिवेशो जायते, संक्लेशापवाददृष्टेरप्यभिनिवेशो जायते तत्त्वापवाददृष्टेरप्यभिनिवेशो जायते " इत्येवमुक्तम्।

लङ्कावतारसूत्रेऽपुक्तम्ः

नास्ति वैकल्पितो भावः परतन्त्रश्च विद्यते।

समारोपापवादं हि विकल्पन्तो विनश्यति॥



परिकल्पितं स्वभावेन सर्वधर्मा अजानकाः।

परतन्त्रं समाश्रित्य विकल्पो भ्रमते नृणाम्॥



अतः प्रतीत्यसमुत्पन्नः परतन्त्रस्वभावः परमार्थतः सन्, तत्र परिकल्पितस्वभावोऽनुत्पादिनाऽभिहितं इत्येव तावन्निर्देक्ष्यते। पुनस्तत्रोक्तम्ः



न ह्यात्मा विद्यते स्कन्धे स्कन्धाश्चैव हि नात्मनि।

न ते यथा विकल्प्यन्ते न च वै न सन्ति च॥



आभ्यां द्वाभ्यां प्रतिषेधाभ्यां स्कन्धानां सत्तैव तावन्निर्दिष्टा। महाशून्यतासूत्रेऽपि यदुक्तम्ः

" अस्ति कर्म अस्ति विपाकः कारकस्तु नोपलभ्यते " अनेन तावद् वचनेन विरोधोऽपि समुपजायते। एवं यदि परमार्थतः कर्माप्यस्ति विपाकोऽप्यस्ति तदा सर्वे धर्मा निःस्वभावा भवितुं नार्हन्ति। यदि संवृतौ सन्तीति चेत् तदा कर्तुरपि संवृतौ सद्भावात् " कारकस्तु नोपलभ्यते" इत्येवं न वक्तव्यम्। आर्यलङ्कावतारसूत्रे चोक्तम्ः



अस्तित्वं सर्वभावानां यथा बालैविर्कल्प्यते।

यदि ते भवेद् यथा दृष्टाः सर्वे स्युस्तत्त्वदर्शिनः॥



अभावात्सर्वधर्माणां संश्लेषो नास्ति बुद्धितः।

न ते तथा यथा दृष्टा न च ते वै न सन्ति च॥



अनेन यदि सर्वधर्माणामसत्त्वं तदा संक्लेशव्यदानयोरपवाददोषः प्रसज्यत इति निर्दिष्टम्। पुनस्तत्रैवोक्तम्ः

बाह्यर्थदर्शनं मिथ्या नास्त्यर्थं चित्तमेव तु।

युक्ता विपश्यमानानां ग्राहग्राह्यं निरुध्यते॥



बाह्यो न विद्यते ह्यर्थो यथा बालैर्विकल्प्यते।

वासनैर्लुलितं चित्तमर्थाभासं प्रववर्ते॥



आर्यदशभूमकसूत्रेऽप्युक्तम् " चित्तमात्रं यदुत त्रैधातुकम् " इति। तथैव आर्यसन्धिनिर्मोचनलङ्कावतारघनव्यूहादिष्वपि सर्वधर्माणां चित्तमात्रशरीरत्वं निर्देष्टुं 'चित्तमात्रमेव परमार्थसत्, नेतरथा' इति सम्प्रदर्शितम्। अतः सर्वे धर्मा निःस्वभावत्वेन न सिध्यन्ति। आर्यातकूटेऽप्युल्लिखितम्ः

" अस्तीति काश्यप, अयमेकोऽन्त, नास्तीति काश्यप, अयमेकोऽन्तः, यदेनयोरन्तयोर्मध्यम्, तदरुप्यनिदर्शनमप्रष्ठिमनाभासमनिकेतमविज्ञप्तिकम्, इयमुच्यते काश्यप, मध्यता प्रतिपद् भूतप्रत्यवेक्षा" इति।

अनेन तावद् विज्ञानमेव परमार्थसत्त्वानिदर्शनत्वादिगुणोपेतं शाश्चतोच्छेदान्तद्वयविनिर्मुक्तमिति निर्दिष्टम्। एतदधिकृत्यैवार्यरत्नमेधेऽप्युक्तम्ः

"कुलपुत्र, यदि [विज्ञानं] परमार्थतो नास्ति, तदा ब्रह्मचर्यादीनि निरर्थकानि स्युः" इति। आर्यरत्नकूटे ह्युक्तम्ः

" ये परमार्थसतोऽपि विज्ञानस्यापवादं कृत्वा सर्वधर्मशून्यतायामभिनिविश्य शून्यतादृष्टिकास्तेऽचिकित्स्याः" इति।

तथा चोक्तम्ः

"वरं खलु काश्यप, सुमेरुमात्रा पुद्गलदृष्टिर्न त्वेवाभिमानिकस्य शून्यतादृष्टिरिति"।

आर्यसन्धिनिर्मोचने चापि शून्यतालक्षणमुद्भावितम्ः

"परतन्त्रलक्षणं मैत्रेय, परिनिष्पन्नलक्षणं च संक्लेशो व्यवदानं च। सर्वथात्यन्तवियुक्तं परिकल्पितलक्षणं यत्तन्न तेनोपलभ्यत इदं शून्यतालक्षनमुक्तं भवति"।

आर्याणां प्रत्यात्मवेद्यमवश्यमेव परमार्थतो वस्तुसत्, अन्यथा आर्यसन्धिनिर्मोचनोक्तानि वचनानि तावादसदर्थकानीती नैव। यद्युच्येत किं खलु वस्तु ? यदार्यज्ञानेन आर्यदर्शनेन वाऽनिर्वचनीयत्वेन परिज्ञातम्। अनिर्वचनीयधर्मताऽवबोधेन संस्कारासंस्काराभ्यां प्रज्ञप्तमिति यदुक्तं तेन विरोधः स्यादिति।

एकमेव यानं परमार्थतो महायानलक्षणं, नावशिष्टमिति यद् भवताऽभिहितं तदपि युक्त्यागमाभ्यां विरुद्धम्, विप्रतिपत्तिनां सन्दर्शनात्। सत्त्वेषु तावद् विविधाधिमुक्तिका उपलभ्यन्ते। तथा हि केचन परहिताशया एव प्रवर्तन्ते। अथापरे निष्कारणं परदुःखेषु स्पृहन्ते। केचित्त्वल्पमात्र एवात्मनो हितसुखे आसज्यायेषु द्रह्यन्ति। तथैवान्ये स्वसुखसम्पत्तिसाधनतत्परा अन्यव्याघातं कृत्वा तद्दुःखविनिवृत्तितो विरज्यते। केचन संसारसुखमात्रस्यैवाभिलाषेण पुण्यादीनि सम्पादयन्ति। तथैवेतरे तावद् भवान्तरखेच्छतो विरम्य स्वमुक्त्यर्थं प्रयतन्ते। अये तु केवलं परविमुक्तिमेवानुचिन्तयन्ति संबोधिनिदानां च दानादिपारमिताप्रवृत्तिमालम्बन्ते। इत्येवमप्रमेयप्रतिपत्त्यालम्बनात् सत्त्वानां छन्दलक्षणो हेतुविशेषोऽनुमीयते, फ़लविशेषोऽपिहेतुविशेषाक्षिप्तवात्तस्य। स्वाभिलाषद्वारेणैव प्रवृत्तिदर्शनाद् श्रद्धैव हि प्रवृत्तिहेतुरिति निश्चितम्। सत्त्वानामयं श्रद्धाविशेषोऽपि गोत्रविशेषेणाविनाभूतः, अतो नानागोत्रत्वात् सत्त्वानां तुल्यजातीयगोत्रकैर्विधीयमानप्रतिपत्तिविशेषानुरूपं फ़ललक्षणयानमपि नाना भवतीति युक्तिभिर्नानायानतैव निश्चीयते।

बहुधातुकसूत्रेऽपि बहुधातुकाः सत्त्वा विनिर्दिष्टाः। भगवाता यत्खलु धातुज्ञानबलानां नानात्वमभिहितम्, तदपि नानाधातुत्वं किमिव असत् स्यात्।आर्यकङ्कवतारसूत्रेऽपि पञ्च अभिसमयोत्राण्यभिहितानि। आर्याक्षयमतिनिर्देशसूत्रेऽप्युक्तम्-त्रीणि तावत्रैर्याणिकयानानि, यदुत-श्रावकयानं प्रत्येकबुद्धयानं महायानं चेति। एवमेवानेकेषु सूत्रेष्वपि श्रावकादियानत्रयनिर्देशाद् आगमतोऽपि तावन्नाना यानानि सिध्यन्तीति।

आर्यसद्धर्मपुण्डरीकादिषु यद्धि एकं हि यानमिति व्यपदिष्टम्, तदाभिप्रायिकमिति द्रष्टव्यम् समताभिप्रायादिप्रदर्शनात्। धर्मधातुलक्षणतया यानानां भेदाभावाद् एकमेव यानमिति तदभिप्रायः। अथवा यानीकृतं यानमिति यानिकुर्वतां श्रावकादिपुद्गलानां नैरात्म्येऽतुल्यत्वाभावाद् एकमेव यानम्। अथवा ये विमुक्तास्तेषामभिन्नत्वाद् एकमेव यानम्। अथवा अनियतगोत्रकाणां श्रावकाणां महायानेनैव निर्याणाद् एकमेव यानं देशितम्। अथवा सर्वसत्त्वेष्वात्माध्याशयेन महाकरणामया भगवन्तः, पूर्वं समुदानीतबोधिसम्भाराः श्रावकगोत्रीयाश्चापि बुद्धत्वप्राप्त्यध्याशयाः, अतोऽभिन्नाध्याशयाद् एकमेव यानम्। अथवा भगवता स्वयमनेकधा श्रावकयानादिभिर्निर्याणद्वारैः परिनिर्वाणसन्दर्शनाद् एकमेव यानम्। अथवा नास्ति महायानाद् विशिष्टतरं यानान्तरमिति तदधिकाराद् एकमेव यानमिति, तदेवंविधाभिप्रायेण एकमेव यानमिति देशितम्। अथवा अनियतानां श्रावकगोत्रीयाणामाकर्षणार्थं बोधिसत्त्वगोत्रीयाणां च सन्धारणार्थमित्यभिप्रायो भगवतैव आर्यदशधर्मकसन्धिनिर्मोचनलङ्कावतारादिषु सूत्रेषु स्पष्टीकृतः।

अन्यच्च, नैकभवपरम्परायां सम्भारान् परिपूर्य बोधिसत्त्वा बुद्धत्वपदमधिगमिष्यन्ति। श्रावका अशेषभवसंयोजनं प्रजहन्तीति तेषां नैकजन्मसाध्यं बुद्धात्वधिगन्तुं कोऽपि भवप्रतीसन्धिर्नैव सम्भवति, तथा हि-मूलं भवस्यानुशयाः यदुक्तं सोऽप्यात्मग्रहप्रभव एवेति नियतम् अभीष्टं च। आर्यैरात्मदृष्टिविपरीतया नैरात्म्यमार्गभावनया सर्वानुशयाः समूलमुच्छिनाः, तत्समुच्छेदेन तेषां जन्मनोऽप्याधाररस्याभावात् तद् [ जन्म ] अपि समुच्छिद्यते। फ़लतः कुतस्तेषामनेकभवपरम्परासाध्यो बुद्धात्वलाभो भविष्यतीति। आर्यासद्धर्मपुण्डरीके भगवता यच्छ्रावकेभ्यो बुद्धात्वाधिगतेर्व्याकरणं कृतं तत्तु निर्मितश्रावकाणां निर्माणस्य, यैर्बोधौ परिणामना कृता, तेषां वाऽभिप्रायेण कृतमिति द्रष्टव्यम्। इदं तावद् भगवता आर्यलङ्कवतारसूत्रादिषु निर्दिष्टमेव। आर्यसमाधिराजसूत्रे यत्तावदुक्तम्ः

अत्र नास्ति कोऽपि सत्त्वोऽभव्यः।

सम्पूर्णोऽयं सत्त्वलोको बुद्धो भविष्यति॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project