Digital Sanskrit Buddhist Canon

नवमः परिच्छेदः

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

navamaḥ paricchedaḥ


 



नवमः परिच्छेदः



मीमांसातत्त्वनिर्णयावतारः



 



एकेऽपवर्गसन्मार्गध्यानज्ञानापवादिनः।



क्रियामात्रेण तत्प्राप्तिं प्रतिपाद्यानपत्रपाः॥१॥



 



शास्त्रोक्तव्रीहिपश्वाज्यपत्नीसंबन्धकर्मणः।



नान्यो मार्गोऽपवर्गाय युक्त इत्याहुरागमात्॥२॥



 



रागादिदोषदुष्टत्वात् पुरुषस्य वचो मृषा।



वेदोऽपुरुषकर्तृत्वात् प्रमाणमिति गृह्यते॥३॥



 



कर्तुरस्मरणाच्चेष्टो वेदोऽपुरुषकर्तृकः।



संप्रदायानुपच्छेदादागमोऽसौ तदत्यये॥४॥



 



अत्यन्ताक्षपरोक्षे हि प्रतिपत्तिः कथं भवेत्।



अदृष्टलिङ्गसंबन्धे स्वर्गापूर्वादिवस्तुनि॥५॥



 



नित्यः शब्दो ध्वनिव्यङ्ग्यः संबन्धोऽर्थेन नित्यतः।



प्रतिपत्तुर्यतोऽर्थेषु प्रतिपत्तिः प्रजायते॥६॥



 



अद्विप्रवृत्तेरभ्यासात् प्रत्यभिज्ञानतस्तथा।



शब्दवच्छ्रावणत्वाद्धि नित्यः शब्दोऽवसीयते॥७॥



 



अनुमानात् पृथक् चासौ प्रमाणत्वात् तदन्यवत्।



एकानेकार्थविषयप्रतिपत्तिरथापि वा॥८॥



 



अदृष्टलिङ्गसंबन्धपदार्थमतिहेतुतः।



भिन्नगोचरधीजन्मकारणत्वादथापि वा॥९॥



 



अपूर्वोऽपि क्रियाव्यङ्ग्यः क्रिया मोक्षेऽपि साधनम्।



सोमपानादिका विद्वान् निर्जयेदन्तकं यथा॥१०॥



 



देवर्षिजुष्टशिष्टेष्टं पुराणं वर्त्म शोभनम्।



वेदार्थबाह्यैः स्त्रीशूद्रैर्युक्तं यत् त्यज्यते त्रयी॥११॥



 



यदिहास्ति तदन्यत्र यन्नेहास्ति न तत् क्वचित्।



चतुष्टयेऽपि धर्मादौ तदेवान्यत्र दृश्यते॥१२॥



 



दूषयित्वा त्रयीमार्गं हेतुभिर्हेतुवादिनः।



अनुमानप्रधानत्वात् स्वनयं द्योतयन्ति ये॥१३॥



 



पादस्पर्शादिवान्धानां विषमे पथि धावताम्।



अनुमानप्रधानानां पातस्तेषां न दुर्लभः॥१४॥



 



न चास्ति कश्चित् सर्वज्ञो नेदानीं दृश्यते यतः।



सर्वज्ञता हि बुद्धस्य कल्पिता लोकपक्तये॥१५॥



 



अप्रमाणं वचो बौद्धं कृतकत्वात् तदन्यवत्।



असर्वज्ञश्च संबुद्धः पुरुषत्वात् तदन्यवत्॥१६॥



 



अप्रमाणं वचो बौद्धं त्रयीदर्शनदूषणात्।



यद् यथोक्तं तथोक्तं तद्यथा नग्नाटदर्शनम्॥१७॥



 



तदत्रापि परीक्षन्ते यथाभूतगवेषिणः।



पक्षपातविषं हित्वा शब्दार्थन्यायकोविदाः॥१८॥



 



संप्रदायानुपच्छेदादागमस्यागमत्वतः।



सर्वस्यागमतासिद्धेः किं तत्त्वमिति धार्यताम्॥१९॥



 



यत् परीक्षाक्षमं युक्त्या वचनं चेत् तदागमः।



तदेव तावन्मीमांस्यं पश्चात् तेनोदितं हि यत्॥२०॥



 



तत्र तत्प्रतिपक्षत्वाज्ज्ञानान्मुक्तिरितीष्यताम्।



आमयप्रतिपक्षत्वादौषधाद् व्याधिमुक्तिवत्॥२१॥



 



क्रियात्वान्न क्रियाभीष्टा कृषिवन्मुक्त्यवाप्तये।



अधीत्वे सति वाच्यत्वान्मितकालत्वतोऽपि वा॥२२॥



 



नृवाक् चेद् दोषदुष्टत्वादप्रमाणमितीष्यते।



सौवर्णिकादिवाक्येन हेतुः स्याद् व्यभिचारवान्॥२३॥



 



प्रामाण्यमथ वेदस्य साध्यतेऽकर्तृकत्वतः।



असाधारणता हेतोः स्यादसिद्धार्थतापि च॥२४॥



 



अनुवादादकर्तृत्वे बौद्धमप्यस्त्यकर्तृकम्।



पूर्वबौद्धाभिसंबुद्धं यतो बुद्धैरनूद्यते॥२५॥



 



कृतकत्वानुमानाच्च पक्षबाधानुमानतः।



कर्तुरस्मरणासिद्धेर्हेतोश्च स्यादसिद्धता॥२६॥



 



समन्त्रस्यैव संभूतो मन्त्रकर्तुः पुरा यदि।



शास्त्रं वा समभिप्रेतं तत्कर्तृकमकर्तृकम्॥२७॥



 



सकर्तृकत्वं शास्त्रस्य किमेवं न प्रतीयते।



तत्सहोत्पन्नकर्तृत्वाज्जातिस्मरकृतैर्यथा॥२८॥



 



प्रतिपत्त्यानुगुण्येन वर्णाम्नायादथापि वा।



गृह्येते वेदवाक्यानां न किं पुरुषकर्तृता॥२९॥



 



इतश्च वेदवाक्यानां मता पुरुषकर्तृता।



विवक्षितार्थधीजन्मकारणत्वाद् यथेङ्गितम्॥३०॥



 



अनुमेयश्च वेदोऽयं असत्पुरुषकर्तृकः।



भूतहिंसासुरापानक्रियोक्तेर्मगशास्त्रवत्॥३१॥



 



विषोपयुक्तिवद्धिंसा यदि मन्त्रपरिग्रहात्।



नाभीष्टानिष्टफलदा शास्त्रोक्तेर्वापि दानवत्॥३२॥



 



मन्त्रकर्षणचूर्णाद्यैरागम्यागमनं हि यत्।



तेनानैकान्तिकः पूर्वो मद्यपानेन चोत्तरः॥३३॥



 



आयुश्छेदप्रयोगत्वादिष्टो मन्त्रपरिग्रहः



अनिष्टफलदः कर्तुर्विषशस्त्रप्रयोगवत्॥३४॥



 



स्वशास्त्र एव चेदुक्ते सिद्धः संसारमोचकः।



सामान्येन च हेतूक्तौ स्यादन्यतरासिद्धता॥३५॥



 



यज्ञे पशूनां हिंसा चेन्नानिष्टफलदायिनी।



तादर्थ्याद् ब्राह्मणार्था हि यथेष्टा पचनक्रिया॥३६॥



 



भोक्त्रर्थाः पशवोऽभीष्टा भोग्यत्वात् तद् यथाङ्गना।



तस्माद् यज्ञार्थतासिद्धेः पशूनां हेत्वसिद्धता॥३७॥



 



अन्तर्वेद्यां च हिंसेयं संचिन्त्याभ्रान्तिमारणात्।



अनिष्टफलदा कर्तुरायत्यां तद् यथेतरा॥३८॥



 



इतश्चानिष्टफलदा हिंसा यज्ञ इतीष्यते।



संचिन्त्यजीवितोच्छेदि दुःखाधानाद् यथेतरा॥३९॥



 



यादृक् फलमधिष्ठाने दृष्टे हि कुरुते क्रिया।



कर्तुस्तादृगदृष्टेऽपि हिंसा वा तद् यथेतरा॥४०॥



 



व्याख्यातं मद्यपानादि प्रत्याख्यानाद् यथोदितात्।



मद्यं न मदहेतुत्वात् सेव्यं धुस्तूरकादिवत्॥४१॥



 



न मद्यपानं निर्दोषं यज्ञे मन्त्रपरिग्रहात्।



मद्यत्वात् तद् यथान्यत्र दृष्टो मन्त्रपरिग्रहात्॥४२॥



 



दृष्टं न लिङ्गमस्तीति यदि स्वर्गाद्यनिश्चयः।



लिङ्गादनुमितत्वाच्च निश्चेतुर्निश्चितेर्न किम्॥४३॥



 



अद्विप्रवृत्तेरित्यत्र दीपेऽप्यद्विप्रवृत्तितः।



व्यभिचारितया हेतोः शब्दनित्यत्वमप्यसत्॥४४॥



 



सत्त्वादनित्यः शब्दोऽयं क्रियावत् किं न गृह्यते।



अथवा देहचेष्टावद्धीहेतुत्वाद् विनाश्ययम्॥४५॥



 



अभ्यासप्रत्यंभिज्ञानहेत्वोरन्वयहीनता।



नाभ्यासप्रत्यभिज्ञानेऽनित्येऽदृष्टे क्वचिद् यथा॥४६॥



 



शब्दत्वनित्यतासिद्धेः शब्दत्वं न निदर्शनम्।



अभिव्यक्तिनिषेधाच्च ध्वनिव्यङ्ग्यो न चाप्ययम्॥४७॥



 



श्रावणो यदि शब्दस्ते ध्वनिव्यङ्ग्यः कथं मतः।



प्रतिपत्तिस्तु संकेतादसौ शब्दः प्रसज्यते॥४८॥



 



संकेतासंभवादादौ प्रतिपत्तिर्न युज्यते।



संसारवदनादित्वात् संकेतस्यानुवादतः॥४९॥



 



अनुमाने प्रमाणत्वं भिन्नं च न तदात्मनः।



अतोऽनैकान्तिको हेतुः प्रमाणत्वादितीरितः॥५०॥



 



भिन्नगोचरतासिद्धेर्हेतोश्च स्यादसिद्धता।



भिन्नगोचरधीजन्मकारणत्वस्य नेतरः॥५१॥



 



अनेकार्थविनाभावादनुमानमपीष्यते।



नैकार्थप्रतिपद्धेतुरस्माच्छाब्दान्न भिद्यते॥५२॥



 



अदृष्टलिङ्गसंबन्धे परार्थादनुमानतः।



प्रतिपत्तिर्यतो बोध्ये तस्मादर्थान्तरं न सः॥५३॥



 



नानुमानात् पृथक्छाब्दः परोक्षमतिहेतुतः।



संबन्धस्मृत्यपेक्षत्वादनुमानं यथा स्वतः॥५४॥



 



नापूर्वोऽपि क्रियाव्यङ्ग्यः शब्दव्यक्तिनिषेधवत्।



घटवद् वाप्यभिव्यक्तेरपूर्वोऽनित्य इष्यताम्॥५५॥



 



अनित्यं सोमपानादिक्रियाफलमितीष्यते।



क्रियाफलत्वात् तन्नेष्टा कामनैमित्तिकं फलम्॥५६॥



 



न मोक्षप्रापिका युक्ता सोमपानादिकी क्रिया।



क्रियात्वात् तद्यथा नेष्टा कामनैमित्तिकी क्रिया॥५७॥



 



न जयत्यन्तकं तस्मादेनं पन्थानमाश्रितः।



परप्रणेयैर्जुष्टोऽयं विचाराक्षमबुद्धिभिः॥५८॥



 



त्रयीमार्गप्रणेतॄणां ब्रह्मकेशवशूलिनाम्।



दृष्ट्वा क्लेशात्मिकां चर्यां युक्तं यत् त्यज्यते त्रयी॥५९॥



 



ज्ञानेन ज्ञानिनः पापं दहत्यग्निरिवेन्धनम्।



अतस्तेजोविशेषाच्च न तेषां प्रत्यपायिता॥६०॥



 



यत् क्लेशदहनायालं तज्ज्ञानं ज्ञानिनो विदुः।



नातः प्रकुरुते पापं ज्ञानी तद्धेत्वसंभवात्॥६१॥



 



सिद्धियोगो न लिप्येत कर्मणा पातकेन वा।



इति ब्रुवाणैः सन्मार्गान्नष्टैरन्येऽपि नाशिताः॥६२॥



 



तत्वार्थदर्शनी बुद्धिः ब्रह्मादीनां न चेष्यते।



तिलोत्तमायां संरक्तौ कथं ब्रह्मत्रिशूलिनौ॥६३॥



 



पूर्वं क्रोधाग्निनादग्धो ददाह त्रिपुरं कथम्।



पूष्णः शशास दन्तांश्च भगस्यापि च लोचने॥६४॥



 



ब्रह्महा मद्यपः कामी दृष्टतत्त्वो यदीश्वरः।



का कथादृष्टतत्त्वानां तत्पद्धत्यनुगामिनाम्॥६५॥



 



कथं च केशवः केशिचाणूरनरकादिकान्।



व्ययोजयदकारुण्यादसुभिर्वशुभिश्च तान्॥६६॥



 



पराङ्गनाधनादायी मद्यपः प्राणिधातकः।



दृष्टतत्त्वो यदि हरिर्जितं शवरतस्करैः॥६७॥



 



प्रजापालनदक्षत्वादसुरान् सुरकण्टकान्।



नातो दोषो घ्नतोऽप्यस्ति तस्य चेद् धर्मगुप्तये॥६८॥



 



परस्त्रीद्रविणादानमायाशाठ्यप्रवृत्तयः।



किं न त्यक्ता हि वाञ्छास्ति तस्य चेद् धर्मगुप्तये॥६९॥



 



अधर्मश्चेन्द्रियो नास्य कथं तत्सृष्टिकारिता।



अदृष्टदोषैरज्ञत्वात् तत्सृष्टिरथवा कृता॥७०॥



 



तृष्णया पाति लोकं वा तृष्णादासः कथं कृती।



कारुण्याच्चेत् कथं लोकं मायया सममूमुहत्॥७१॥



 



किं नासुरेषु कारुण्यं मृत्युजात्यादिदुःखिषु।



सर्वत्र समदर्शित्वान्नारिसंज्ञास्य युज्यते॥७२॥



 



रागद्वेषादिशबलं किमीदृक् चरितं हरेः।



अनार्यचरितश्चैवं कथं स पुरुषोत्तमः॥७३॥



 



अन्यैवासौ हरेर्मूर्तिः शिवा यदि विकल्प्यते।



दृष्ट्वा हि यतयो यां न पुनर्यान्ति पुनर्भवम्॥७४॥



 



न सती नासती चासौ नासौ सदसती मता।



तस्मात् सत्त्वादसत्त्वाच्च सदसत्त्वाच्च सा परा॥७५॥



 



मत्स्यादिमूर्तैः सान्या चेदन्यत्वादच्युता न सा।



अनन्यत्वादनन्यापि साप्यशान्ता यथेतरा॥७६॥



 



अथाप्यशान्ता तस्यैका शान्तान्यैकात्मनः सतः।



बन्धकी नाम साध्वी स्याच्छरीरार्धेन संयता॥७७॥



 



सदादिशब्दावाच्यत्वात् परा चेति न युज्यते।



सतो हि परता युक्ता युक्ता कारणतापि च॥७८॥



 



कारणत्वप्रतिक्षेपादन्यत्वस्य च पूर्ववत्।



न कारणं न चान्यासौ नाच्युतश्चाप्यजातितः॥७९॥



 



अच्युतो यदि भावः स्यात् स नष्टः स्याद् रसादिवत्।



अच्युतो यद्यभावः स्यादसंश्चासौ खपुष्पवत्॥८०॥



 



सदसत्ता न युक्तैवं यथाग्नेरुष्णशीतते।



अथाप्यनभिलाप्यः स्याद् युक्तोऽसौ कथमच्युतः॥८१॥



 



न चास्यानभिलाप्यत्वमात्मवत् तन्निषेधतः।



अच्युतेर्नाच्युतः कश्चिदस्ति चेन्नाच्युतोऽच्युतः॥८२॥



 



मूर्तिरन्या च या तस्य क्लृप्ता व्यसनगुप्तये।



कथमालम्बमानास्तां मुच्यन्ते निर्मुमुक्षवः॥८३॥



 



इन्द्रियाणीन्द्रियार्थेभ्यः कूर्मोऽङ्गानीव संहरन्।



ओंकारं व्याहरन् स्मृत्या तद्भक्तो मुच्यते यदि॥८४॥



 



मुक्तिर्न हरिभक्तानां युज्यते हरिदर्शनात्।



विकल्पस्मृतियोगत्वात् तद्यथा हरिदर्शनात्॥८५॥



 



निर्विकल्पापि धीर्नेष्टा योगयुक्तस्य मुक्तये।



निमित्तग्रहणान् मिथ्या किं पुनः परिकल्पिता॥८६॥



 



रागादिसमुदाचाराद् ब्रह्मादीनां किरातवत्।



तत्त्वचिन्तां निराकर्ष्यः संदेहो न हि कारणे॥८७॥



 



तथ्यधर्मोपदेशेन प्रतिपत्त्यापि वा स्वयम्।



धर्मगुप्तिर्भवन्ती स्यात् सा द्विधाप्येषु दुःस्थिता॥८८॥



 



सर्वे च सृष्टिहेतुत्वं ब्रुवते स्वात्मनः पृथक्।



कस्यात्र वचनं भूतमभूतं वा विकल्प्यताम्॥८९॥



 



तदेकत्वाददोषश्चेद् ब्रह्मापि ब्रह्महा कथम्।



एकत्वप्रतिषेधाच्च तदेकत्वमयुक्तिमत्॥९०॥ थिस्मुच्



 



आत्मभेदेऽपि चायोगात् त्रितयं चेशनं कथम्।



दुःखहेतौ विमूढानां तच्छान्त्युक्तौ कथास्तु का॥९१॥



 



वेदयोगोपदेशादितदुक्तेर्विकलत्वतः।



न तावत् तथ्यधर्मोक्त्या शक्तास्ते धर्मगुप्तये॥९२॥



 



प्रतिपद्विकलत्वाच्च नालं नेतुं परान् शमम्।



यथा नेता स्वमार्गेण प्रपातपतितः परान्॥९३॥



 



त्रय्यां हेतुविपर्यस्तैः कल्पनाजालकल्पितैः।



अयुक्तियुक्तं मीमांस्यं युक्तं यत् त्यज्यते त्रयी॥९४॥



 



नेशादिकारणं विश्वं युक्तमित्युदितं पुरा।



सत्यपीशादिकर्तृत्वे किं हि तत् कृतकं भवेत्॥९५॥



 



आत्मा तावदजन्यत्वान्न तत्कृतक इष्यते।



धर्माधर्मौ न तस्येष्टौ तद्गुणत्वाद् यथाधुना॥९६॥



 



देहोऽपि ताभ्यां निर्वृत्तः सुखदुःखोपलब्धये।



देहोऽपि देहिनां तस्माद् युक्तो नेशादिकर्तृकः॥९७॥



 



कल्पादो देहिनां देहः प्राक्कृतादृष्टहेतुतः।



सुखाद्युत्पत्तिहेतुत्वात् तद् यथाद्यतनी तनुः॥९८॥



 



ईश्वरस्य यदैश्वर्यं तच्चेत् पुण्यकृतं भवेत्।



तत्पुण्यपरतन्त्रत्वादीश्वरः स्यादनीश्वरः॥९९॥



 



ईश्वरस्य यदैश्वर्यमकस्माच्चेत् तदिष्यते।



तस्यान्यैरपि सामान्यादीश्वरः स्यादनीश्वरः॥१००॥



 



ईश्वरो ज्ञस्वभावश्चेत् तेन तत्कर्तृकं जगत्।



कारणानुविधायित्वात् सर्वं ते चेतनं जगत्॥१०१॥



 



ईश्वरो यदि हेतुः स्याज्जगत् स्यादणिमादिवत्।



ईश्वरो वा न हेतुः स्याज्जगच्चेन्नाणिमादिवत्॥१०२॥



 



ईश्वरः कर्मकर्ता चेत् पच्यते नरकेष्वपि।



तदन्येषां हि पाके वा कृतनाशाकृतागमौ॥१०३॥



 



दुःखहेतोश्च नित्यत्वात् तद्दुःखोपशमः कुतः।



नोष्णव्युपशमो दृष्टो ज्वलत्येव विभावसौ॥१०४॥



 



एकस्य वाविचित्रस्य कथं कार्यविचित्रता।



नापि चेच्छादिवैचित्र्याद् युक्तैकस्य विचित्रता॥१०५॥



 



नित्योऽनवयवः सूक्ष्मः कारणं जगतः किल।



एकः सर्वगतश्चेति किमाश्चर्यं ततोऽपरम्॥१०६॥



 



क्रीडार्थं तन्निमित्तं चेत् तस्याः प्रीतिफलं किल।



प्रीतौ स्वपरतन्त्रत्वादीश्वरः स्यादनीश्वरः॥१०७॥



 



अन्योन्यभक्षणाद् भीतैस्तिर्यग्भिर्दुर्लभोत्सवैः।



निष्पेषच्छेददाहादिदुःखार्तैर्नारकैरपि॥१०८॥



 



नृभिर्जन्मजरारोगभयशोकक्लमार्दितैः।



प्रीयते यो नमस्तस्मै रुद्रायान्वर्थसंज्ञिने॥१०९॥



 



कृपणा धनिनो यद् वा परान्नादाश्च सात्त्विकाः।



स्वर्गे चाधर्मिणः केचिद् व्यक्तमीश्वरचेष्टितम्॥११०॥



 



अल्पायुषो गुणधना दुर्वृत्ताश्च चिरायुषः।



दातारंश्चाल्पविभवा व्यक्तमीश्वरचेष्टितम्॥१११॥।



 



बौद्धा हि सुखिनः केचित् तद्भक्ता दुःखिनश्च किम्।



ईश्वराज्ञाविधानाच्च पुण्यभाक् किं न पापकृत्॥११२॥



 



वैचित्र्यकर्मणोऽज्ञस्य तद्धेतुत्वेन वाच्यता।



एतेन सृष्टिकर्तृत्वं प्रत्युक्तं ब्रह्मकृष्णयोः॥११३॥



 



संयमितमतिद्वारः स्थापयित्वा शिवे मनः।



तथोंकारमभिध्यायन् धारयन् धारणां हृदि॥११४॥



 



क्षित्यादिधारणाभ्यासात् प्राक्समाहितमानसः।



ईशे प्रसन्ने दुःखान्तं गच्छतीत्येतदप्यसत्॥११५॥



 



मनोज्ञानोदयो यावत् तावन्मुक्तिर्न युज्यते।



मनोज्ञानोदयात् पूर्वं यथा मुक्तिर्न युज्यते॥११६॥



 



मुक्तिर्नेश्वरभक्तानां युज्यते स्थाणुदर्शनात्।



उपलम्भविहारित्वात् तद्यथा स्थाणुदर्शनात्॥११७॥



 



दुःखे हेतुर्यदीशः स्यान्नित्यत्वात् सोऽप्रतिक्रियः।



अतो दुःखान्तगमनं नेश्वरादस्ति कस्यचित्॥११८॥



 



एतेन शेषाः प्रत्युक्ता ब्रह्मविष्ण्वात्मवादिनः।



प्रीतिश्चैवमयुक्तत्वान्नेशादौ धीयते धियः॥११९॥



 



पापप्रक्षालनं चाद्भिः शुभादिक्रयविक्रयम्।



दृष्ट्वा दुर्विहितं त्रय्यां युक्तं यत् त्यज्यते त्रयी॥१२०॥



 



पापं प्रक्षाल्यते नाद्भिरस्पृष्टेरनिदर्शनात्।



अक्लेदाद् वासनाधानात् स्मृतिज्ञानशुभादिवत्॥१२१॥



 



न पापं पातयत्यम्भः पौष्करं जाह्नवादि वा।



स्पृश्यत्वात् क्लेदनाच्चापि गृहस्यन्दिकपूयवत्॥१२२॥



 



अवगाहादिना क्षये प्राक्कृतापुण्यकर्मणाम्।



कृततीर्थाभिषेकानां दुःखं न स्यादहेतुकम्॥१२३॥



 



न च कर्मक्षये चापि न कश्चित् पातकी भवेत्।



संशुच्यत्यन्तरात्माद्भिरित्युक्तिश्चेत् तदप्यसत्॥१२४॥



 



सन्तानान्तरसंक्रान्तं न पापमिति गृह्यते।



अमूर्तत्वाद् यथा रागद्वेषमोहाद्यसंक्रमः॥१२५॥



 



न दानग्रहणं युक्तं पुण्यादेरिति निश्चयः।



चित्तेन संप्रयोगित्वात् तद्यथा सुखदुःखयोः॥१२६॥



 



ब्रह्मलोकादिगमनं ज्वलनादिप्रपाततः।



दृष्ट्वा दुर्विहितं त्रय्यां युक्तं यत् त्यज्यते त्रयी॥१२७॥



 



हेतुर्नाग्निप्रपातादि ब्रह्मलोकाद्यवाप्तये।



प्राणबाधे कारणत्वाच्छलभादिप्रपातवत्॥१२८॥



 



नान्नपानपरित्यागः स्वर्गप्रापक इष्यते।



क्षुत्संतापादिहेतुत्वादनिच्छानशनादिवत्॥१२९॥



 



अभोजनादौ पुण्यं च त्यागात् पापनिर्वृत्तिवत्।



सत्यत्यागादिभिर्हेतोः स्यादेवं व्यभिचारिता॥१३०॥



 



भुक्तित्यागो न पुण्याय यत् क्रियेयमपातका।



यच्छुभमनस्कारस्य त्यक्तमनसिकारवत्॥१३१॥



 



त्रिकोटिशुद्धं यन्मांसं न तद् भक्षितमेनसे।



रसादिपरिणामित्वाद् भैक्षान्नं न यथैनसे॥१३२॥



 



न मांसभक्षणं भोक्तुं भुज्यतेऽपापकारणात्।



क्षुत्प्रतीकारहेतुत्वाद् यदृच्छागतभक्तवत्॥१३३॥



 



अशुचित्वादभक्ष्यं चेन्मांसं कायोऽपि चिन्त्यताम्।



बीजस्थानादुपस्तम्भादशुचिर्विट्कृमिर्यथा॥१३४॥



 



शुक्रादिसंभवादेव मत्स्यमांसं विगर्हितम्।



तद् घृतक्षीरादिहेतोः स्यादेवं व्यभिचारिता॥१३५॥



 



मांसादः प्राणिघाती चेत् तन्निमित्तत्वतो मतः।



अजिनादिधरैर्हेतोः स्यादेवं व्यभिचारिता॥१३६॥



 



न मांसभक्षणं दुष्टं तदार्नी प्राण्यदुःखनात्।



मुक्ताबर्हिकलापादितण्डुलाम्बूपयोगवत्॥१३७॥



 



संकल्पजत्वाद् रागस्य न हेतुर्मांसभक्षणम्।



तद्विनापि तदुत्पत्तेर्गवामिव तृणाशिनाम्॥१३८॥



 



अचेतनेषु चैतन्यं स्थावरेषु प्रकल्पितम्।



दृष्ट्वा दुर्विहितं त्रय्यां युक्तं यत् त्यज्यते त्रयी॥१३९॥



 



सचित्तका हि तरवो न चतुर्योन्यसंग्रहात्।



मध्यच्छेदेऽपि वास्पन्दाज्जडत्वे सति लोष्टवत्॥१४०॥



 



स्पर्शतो यदि सङ्कोचाद् यथा मण्डलकारिका।



सचित्तके तथाभीष्टे समङ्गाञ्जलिकारिके॥१४१॥



 



वह्निसंस्पृष्टकेशाद्यैः स्याद्धेतोर्व्यभिचारिता।



चूर्णपारतसंसृष्टकेशैर्वापि विशेषतः॥१४२॥



 



चिकित्स्यत्वान्न तरवो युज्यन्ते हि सचित्तकाः।



विनष्टस्यापि मद्यादेः प्रत्यापत्तेश्च संशयः॥१४३॥



 



समानप्रसवाद् वृद्धेर्दोहदाच्च सचित्तकाः।



ऋतुजत्वात् तथा स्वापान्नापीष्टास्तुरगादिवत्॥१४४॥



 



दद्रुविद्रुमवैडूर्यकेशहेमाङ्कुरादिभिः।



व्यभिचारात् तु तरवो न सिध्यन्ति सचित्तकाः॥१४५॥



 



अचित्तकत्वादेवैषां दोहदाद्यप्रसिद्धतः।



हेतवः स्युरसिद्धार्था गदैश्च व्यभिचारिणः॥१४६॥



 



सत्त्वकर्माधिपत्येन कालजाः पादपादयः।



नरके स्वर्गलोके च शस्त्ररत्नद्रुमा यथा॥१४७॥



 



यथार्थो हि त्रयीमार्गो ब्रह्मोक्तेर्वैद्यकादिवत्।



अतीतानागतज्ञैर्वा तदुक्तेश्चेत् प्रसाध्यते॥१४८॥



 



[149-67 available only in Tibetan]



 



मीमांसातत्त्वनिर्णयावतारो नाम नवमः परिच्छेदः



इद्रुमवैडूर्यकेशहेमाङ्कुरादिभिः।



व्यभिचारात् तु तरवो न सिध्यन्ति सचित्तकाः॥१४५॥



 



अचित्तकत्वादेवैषां दोहदाद्यप्रसिद्धत


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project