Digital Sanskrit Buddhist Canon

षष्ठः परिच्छेदः

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:


 



षष्ठः परिच्छेदः



सांख्यतत्त्वावतारः



 



अचेतना हि प्रकृतिस्त्रिगुणा प्रसवात्मिका।



विपरीतः पुमानस्मादित्यभ्यासवतः सदा॥१॥



 



तद्भूतसत्त्वे मनसि बुद्धिवृत्त्यनुकारिणः।



प्रतिबिम्बोदयात् पुंसः परिणामादथापि वा॥२॥



 



अन्योऽहमन्या प्रकृतिरित्येवं तत्त्वदर्शनात्।



निवृत्तकार्यकरणो मुक्त इत्युच्यते पुमान्॥३॥



 



नाहं ममेति संबुद्धेः कृतार्था चेत्यनुग्रहात्।



मुच्यते प्रकृतिर्वेति तत्त्वं सांख्याः प्रचक्षते॥४॥



 



तत्र प्रधानपुरुषौ यथायुक्तौ तथोदितौ।



मीमांस्ये ते पुनश्चापि नात्मा चैतन्यमिष्यते॥५॥



 



ज्ञेयावबोधश्चैतन्यं ज्ञेयाभावे न चास्तिता।



कश्चेदानीं भवेदात्मा चेतनो वाप्यचेतनः॥६॥



 



नादग्धं दहति युक्त्या दाह्याभावात् स पूर्ववत्।



नातो दहनदृष्टान्ताच्चेतनात्मा प्रसिध्यति॥७॥



 



बोध्याकारं दधानो हि बुद्धिबोध इतीष्यते।



द्रव्याश्रयत्वाद् भावस्य स चायं पुरुषाश्रयः॥८॥



 



पुरुषेऽविकृतौ स्वार्थे स चायं विधुरो विधिः।



बोधादन्यन्न चैतन्यं किं तदन्यत् प्रकल्प्यते॥९॥



 



चैतन्यं न मतिर्युक्ता हेतुमत्त्वाद् यथा घटः।



अतो न बुद्धिश्चैतन्यमित्येवं चेन्मतिर्भवेत्॥१०॥



 



चैतन्यादन्यता बुद्धेः साध्या चेन्न नेदर्शनम्।



बुद्धौ हि तदभावश्चेदभ्युपेतेन बाध्यसे॥११॥



 



अजातस्य च चैतन्यमजातत्वान्न युक्तिमत्।



अस्ति चेदसतस्तस्माद् बुद्धिरेव हि तन्मतम्॥१२॥



 



बुद्धिवृत्त्यविशिष्टाभिज्ञबुद्धिर्यत इष्यते।



भेदे सत्यविशेषः स्यात् स च नास्तीति सोऽप्यसन्॥१३॥



 



अथ स्यादात्मधीर्यापि यथार्थासौ क्वचिन्मता।



क्वचित् तद्विपरीतत्वात् स्थाणौ स्थाणुमतिर्यथा॥१४॥



 



यत्र क्वचिद् यथार्था चेत् संवृत्या सिद्धसाधनम्।



यथार्था चित्तविषया यस्मान्नात्मेति नो मता॥१५॥



 



अथ सर्वगतत्वादिलक्षणे धीयथार्थता।



न तत्त्वतो न संवृत्या किंचिदस्ति निदर्शनम्॥१६॥



 



नाचेतनायाश्चैतन्यं विकृतिश्चेतनस्य वा।



तत्त्वज्ञानोदयः कस्य यस्य मुक्तिर्भविष्यति॥१७॥



 



चैतन्यानुग्रहेऽप्यस्या नाहमित्यादिनिश्चयः।



अचैतन्यादयुक्तः स्यात् किं पुनस्तदसंभवे॥१८॥



 



निवृत्तिर्नापि युक्तास्या बहुसाधारणत्वतः।



यथा मृतैकजारायाः तथा दास्या इतीष्यते॥१९॥



 



कथमात्मान्तरैः पुंसो देशभेदादनावृतेः।



उद्भूतसत्त्वे मनसि तत्त्वदृग्नियमो मतः॥२०॥



 



शब्दादिप्रतिपत्तौ च धर्माधर्मादयस्तथा।



तुल्यपर्यनुयोगत्वाददृष्टो नियमोऽप्यसन्॥२१॥



 



अचेतनो न वा हेतुर्नैव सर्वगतः पुमान्।



परिणामाद् यथा दध्नः पुंसः परिणतिर्यदि॥२२॥



 



प्रतिबिम्बस्य हेतुत्वाच्चितेरविकृतेरपि।



यथोक्तदोषसंसर्गो जायते मुखबिम्बवत्॥२३॥



 



अकल्पकत्वात् पुंसश्च नान्योऽहमिति युज्यते।



उपचाराददोषश्चेन्मुक्तिः स्यादौपचारिकी॥२४॥



 



अस्ति प्रधानं भेदानामन्वयात् परिणामतः।



कार्यकारणभावाच्च शक्तितो वैश्वरूप्यतः॥२५॥



 



यद् यथोक्तं तत् कर्पराणां कलादिवत्।



तथा च भेदास्तद्वत्तस्तस्माद् भेदाः सकारणाः॥२६॥



 



भेदानां चेत् सहेतुत्वं साध्यते सिद्धसाधनम्।



समन्वयस्य चासिद्धेर्हेतोश्च स्यादसिद्धता॥२७॥



 



सामान्यपूर्वकत्वं चेदिष्टं सामान्यवत्त्वतः।



सामान्यतो विशेषाद् वा प्राग्वन्न वा निदर्शनम्॥२८॥



 



न सुखादिस्वभावत्वं वेदनास्कन्धवन्मतम्।



स्कन्धत्वात् सुखदुःखाद्यैः प्रत्येकं व्यभिचारतः॥२९॥



 



मोहस्य वा वेदनत्वाद् दृष्टान्तन्यूनता भवेत्।



हेतुमत्त्वाच्च तत्सिद्धेर्नेष्टा दुःखसुखादिवत्॥३०॥



 



व्यभिचारस्यापहतेरेवमप्यकृतात्मता।



अन्वयाद्यनुमानाच्च प्रतिज्ञादोषबाधनात्॥३१॥



 



अजातानन्तवत्त्वादितद्विशेषनिराकृतेः।



प्राधानिकगुणैश्चेष्टा हेतवो व्यभिचारिणः॥३२॥



 



एककारणपूर्वत्वे स्याच्च तेषां विरुद्धता।



तथा विभक्तहेतुत्वे विद्यते न निदर्शम्॥३३॥



 



चन्दनं शकलोत्पत्तौ न ध्वस्तमिति गम्यते।



बलरूपप्रमाणादिप्रत्यासत्तेस्तदात्मवत्॥३४॥



 



अतो विभक्तहेतुत्वे दृष्टान्तासिद्धता न चेत्।



शक्त्यात्मना तदस्तित्वे पूर्ववन्न निदर्शनम्॥३५॥



 



व्यक्तात्मना तदस्तित्वे कृतान्तत्यागिता भवेत्।



कार्यकारणयोरैक्यं साधनेऽप्युक्तनीतिवत्॥३६॥



 



एकजातिनयैकत्वसाधने सिद्धसाधनम्।



तदन्यार्थविकल्पे च पूर्ववद् दोषसंप्लवः॥३७॥



 



एतेन पूर्वबुद्धीनां निषिद्धाप्यनुमानता।



सर्वदा सुखदुःखाद्यैर्हेतवो व्यभिचारिणः॥३८॥



 



यतस्तत्त्वे नानन्यत्वं .....न चोक्तवत्।



कालभेदादनन्यत्वे रूढ्यागमविरोधिता॥३९॥



 



न चन्दनतिरोभावेऽभावश्चेत् स प्रसाध्यते।



सेष्टकालेन चाप्युक्तेर्वर्तमानक्षणो यथा॥४०॥



 



नन्वेवमपि नोत्साहं स्वनीतिच्छिद्रगुप्तये।



नोक्तदोषोऽनुबध्नाति घट उत्कचमुक्तिवत्॥४१॥



 



ताद्रूप्यादिति हेत्वर्थविकल्पे व्यभिचारिता।



अभेदरूपतायां च स्याद् वा हेतोरसिद्धता॥४२॥



 



सभोक्तृत्वं च श्रोत्रादेरचैतन्याद् यदीष्यते।



अनिर्दिष्टविशेषाणां भक्षश्चेत् सिद्धसाधनम्॥४३॥



 



अथोदासीननित्यादिविशेषानुनयः कुतः।



भोक्तृत्वं न निरीहत्वाच्चैतन्ये सत्यपीष्यते॥४४॥



 



निष्क्रियत्वं तु भावानां प्रमेयत्वात् प्रमीयते।



यद् यथोक्तं तथा तच्च प्रतीतं सुखमोहवत्॥४५॥



 



दुःखमप्यवसेतव्यं निष्क्रियं हेतुमत्त्वतः।



अचेतनत्वाद् वाच्यत्वान्मेयत्वाद् वापि मोहवत्॥४६॥



 



हेतुत्वमन्वयादीनां भेदत्वे सति वाञ्छतः।



प्राधानिकगुणैस्तेषां सत्यं न व्यभिचारिता॥४७॥



 



सिद्धं कारणकार्यादि हेतुमत्त्वानुमानतः।



सविशेषणहेतूनां स्यादेवं ते विरुद्धता॥४८॥



 



[49-64 only in Tib]



 



सांख्यतत्त्वावतारो नाम षष्ठः परिच्छेदःतन्ये सत्यपीष्यते॥४४॥



 



निष्क्रियत्वं तु भावानां प्रमेयत्वा


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project