Digital Sanskrit Buddhist Canon

पञ्चमः परिच्छेदः

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

pañcamaḥ paricchedaḥ


 



पञ्चमः परिच्छेदः



योगाचारतत्त्वविनिश्चयावतारः



 



अन्ये प्रचक्षते धीराः स्वनीतावभिमानिनः।



तत्त्वामृतावतारो हि योगाचारैः सुदेशितः॥१॥



 



द्वयाभावस्य सद्भावादभावाद् वा द्वयस्य च।



सदादिबुद्धिविषयः परमार्थो मतः किल॥२॥



 



अभावभावो नैरात्म्यं तथता च तथास्थितिः।



निर्विकल्पमतिग्राह्यं तस्यैवाधिगमःपुनः॥३॥



 



उपलब्धिं समाश्रित्य नोपलब्धिः प्रजायते।



नोपलब्धिं समाश्रित्य नोपलब्धिः प्रजायते॥४॥



 



कल्पितानुपलब्धेश्च परतन्त्रस्य चाग्रहात्।



स्वभावं परिनिष्पन्नमीक्षन्ते तत्त्वदर्शिनः॥५॥



 



प्रज्ञप्तेः सनिमित्तत्वादन्यथा द्वयनाशतः।



संक्लेशस्योपलब्धेश्च परतन्त्रास्तिता मता॥६॥



 



प्रज्ञापारमितानीतिरियं सर्वज्ञताप्तये।



न तूत्पादनिरोधादिप्रतिषेधपरायणा॥७॥



 



अत्रोच्यते प्रमाणं नः सर्वं तथागतं वचः।



आप्तोपदेशप्रामाण्याद् भद्रो हि प्रतिपद्यते॥८॥



 



नागमान्तरसंदिग्धविपर्यस्तमतिः परः।



तस्मात् तत्प्रतिपत्त्यर्थं तन्मृग्यो युक्तिमन्नयः॥९॥



 



द्वयाभावस्य भावो हि विरोधित्वान्न युज्यते।



खपुष्पाभावसत्ता वा न वा तद्भावकल्पना॥१०॥



 



तत्त्वतः कल्पिताभावात् तदभेदो मतो यदि।



लक्ष्यलक्षव्यवस्थायां तत्तुल्यत्वादनुत्तरम्॥११॥



 



स्वरूपात्यागिता यास्य सा चेत् तद्भाव इष्यते।



तच्च भावोऽत एवासौ स्वरूपं न जहाति चेत्॥१२॥



 



अभावालम्बनं ज्ञानमेवं स्यात् तत्त्वदर्शिनाम्।



न चासौ धर्मनैरात्म्यमसद्बुद्धेर्निमित्ततः॥१३॥



 



अभावालम्बना बुद्धिरविकल्पा यदीष्यते।



नन्वेवमविकल्पापि रूपबुद्धिः सती भवेत्॥१४॥



 



ग्राह्याभासतया चैषा यदि भूता न रूपधीः।



हेतुः स्याद् व्यभिचार्यैवं प्रतिज्ञा चावहीयते॥१५॥



 



सविकल्पा च बोधिः स्याच्छास्तुः सालम्बनापि वा।



निर्विकल्पापि धीर्न स्यात् स्वभावालम्बिका सती॥१६॥



 



चित्तमात्रोपलम्भेन रूपाद्यग्रहणं न च।



अभ्युपेतप्रतीतिभ्यां प्रतिज्ञा बाध्यते यतः॥१७॥



 



नापि रूपादिविज्ञानं विनार्थेनेति युज्यते।



तथाभासोदयाद् यद्वत् स्वप्ने रूपादिबुद्धयः॥१८॥



 



यस्मात् स्वप्नादिविज्ञानं धर्मालम्बनमिष्यते।



दृष्टान्तन्यूनता ह्येवं वस्तुनोऽप्यपवादिता॥१९॥



 



विषयाभासता चेत् स्याच्चित्तस्यालम्बनं मता।



विषयाभासतां प्रोज्झ्य चित्तात्मान्योऽस्ति कीदृशः॥२०॥



 



नेष्टा स्फटिकवत् तस्य द्वयाभातान्यनिभोदयात्।



उपादानात् तत्र जातो यतो न स्फटिकक्षणः॥२१॥



 



तदपायेऽन्यथोत्पत्तेर्भ्रान्तता तन्मतेर्मता।



शक्त्यभेदान्न द्वयाभता विषयाभावतात्मवत्॥२२॥



 



स्वपराभासता नेष्टा चेतसः प्रतिबिम्बवत्।



सहकारानुकारित्वात् तस्माद् द्व्याभासतासती॥२३॥



 



प्रमाणफलताभावादिष्टा द्व्याभासतेति चेत्।



अन्यथापि हि तत्सिद्धेस्तत्क्लृप्तिरपि नेष्यते॥२४॥



 



बिभ्रता जायमानेन ज्ञानेन विषयाभताम्।



प्रमीयते प्रमेयं यत् प्रमाणं तेन तन्मतम्॥२५॥



 



तन्निर्वृत्तौ च दृष्टत्वात् तन्निर्वृत्तिः फलं मतम्।



अनिर्देश्यस्वरूपस्य तथैवाधिगमो यतः॥२६॥



 



चित्तस्वभावो बाह्योऽर्थो यदि साध्यो विवक्षितः।



विज्ञानविषयत्वेन तद्यथा समनन्तरः॥२७॥



 



प्रत्येकं चैतसैर्हेतोः स्यादेवं व्यभिचारिता।



सूत्रेषु चित्तमात्रोक्तिः कर्तृभोक्तृनिषेधतः॥२८॥



 



विकल्पितार्थशून्यं च विज्ञानं यदि साध्यते।



अकल्पितार्थसद्भावान्न स्यादर्थनिराक्रिया॥२९॥



 



स्वप्नबुद्धिस्वभावेनाकल्पिताभावसंशयः।



न निरालम्बनापीष्टा दृष्टान्तस्याप्रसिद्धितः॥३०॥



 



अथ स्याद् विषयो ह्येकः समूहो वा भवेद् धियः।



युक्त्या परीक्ष्यमाणस्तु स द्विधापि न युज्यते॥३१॥



 



तत्रानुरूपमेकं तु रूपबुद्धेर्न गोचरः।



अतदाभतया यद्वदक्षरूपं न गोचरः॥३२॥



 



अनेकमपि चित्तस्य नैव तद्गोचरं मतम्।



रूपं हि परमाणूनामद्रव्यत्वाद् द्विचन्द्रवत्॥३३॥



 



तत्रासंचितरूपस्य चित्तगोचरता यदि।



 प्रसाध्यते परेणापि सिद्धिरेव प्रसाध्यते॥३४॥



 



अथ संचितरूपस्य हेतोरेवमसिद्धता।



रूपान्तरैरुपकृतैस्तन्निर्भासोदयाद् धियः॥३५॥



 



तस्यालम्बनता चेष्टा तदाभमतिहेतुतः।



रागवद् बाध्यते तस्मात् प्रतिज्ञा तेऽनुमानतः॥३६॥



 



यद्यनालम्बना साध्या स्वबीजादुदयाद् धियः।



मनोधीवदकल्पत्वात् स्यात् ते सालम्बना ननु॥३७॥



 



अनालम्बानुमानाद् वा न धीत्वादिनिराक्रिया।



समूहस्याप्रतिज्ञानात् तन्निषेधो न बाधकः॥३८॥



 



असत्यपि च बाह्येऽर्थे द्वयमन्योन्यहेतुकम्।



शक्तिर्विषयरूपं च तन्निवृत्तिः कुतो मता॥३९॥



 



आर्यत्वादविकल्पत्वादहेया निर्विकल्पधीः।



तदुत्पादात् कुतो मोक्षस्तद्बीजानुपघाततः॥४०॥



 



द्वयप्रवृत्तौ संज्ञाया विश्वाभासं प्रजायते।



विश्वं तदाभता यास्य तदुत्पादः स्वबीजतः॥४१॥



 



लयः शक्त्यर्पणात् तस्य स्वात्मन्येवान्यतोऽपि वा।



ननु विज्ञानपर्यायादात्मैवायं निरूपितः॥४२॥



 



द्वैतं मायोपमं मत्वा क्षुण्णं चाशान्त्यनात्म तद्।



अद्वैतं चाक्षयं भूतममृतं परमं पदम्॥४३॥



 



सामान्याभावतस्तत्र कल्पनाविनिवृत्तितः।



निर्विकल्पधियालम्ब्य मुक्त्यभेदोऽपि विद्यते॥४४॥



 



चित्तमात्रप्रसिद्ध्यर्थं न चित्ताद् व्यतिरेकिणः।



चैत्ता वाभ्युपगन्तव्या न वा विज्ञप्तिमात्रता॥४५॥



 



वेदनादिसमूहे वा चित्तप्रज्ञप्तिरिष्यताम्।



तथा पराणुवादः स्याद् स्वनीतित्यागितापि च॥४६॥



 



संक्लेशव्यवदानाच्चेद् द्रव्यसच्चित्तमिष्यते।



वेदनादितथोत्पादात् तत्प्रसिद्धे न बाधकम्॥४७॥



 



यथा पर्णादिसंतानः शालूकबहुशक्तितः।



तथाद्रव्यसतश्चित्ताच्चित्राः संततिवृत्तयः॥४८॥



 



प्रतिपक्षादनुत्पत्तिरुत्पत्तिः कारणे सति।



अद्रव्यत्वान्न चात्रेष्टा चित्रोत्पादादिकल्पना॥४९॥



 



न तदालम्ब्य निर्मोक्षो नापि नोपरतिर्धियः।



संवृत्या तत्त्वतो वापि नात्मवित्तुल्यतास्त्यतः॥५०॥



 



स्वभावतोऽप्यजातत्वादद्रव्यत्वाद् विनाशतः।



रूपादिशून्यं मायावदित्यभ्यासादसङ्गिता॥५१॥



 



सद्भावेऽपि च रूपादेर्यथाभूतावबोधतः।



व्यावर्तते ह्यसद्ग्राहस्तदभावे न किं तदा॥५२॥



 



नैव द्रव्यविकल्पश्च चित्तचैतसगोचरः।



प्रतिषिद्धेऽपि रूपादौ न प्रवर्तितुमर्हति॥५३॥



 



तान्निरासाय चेदिष्टो विध्यन्तरपरिग्रहः।



प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्॥५४॥



 



नेष्टो भुजगवच्चासन् संकल्पः कल्पितत्वतः।



रज्ज्वात्मना ह्यनेकान्तात् प्रतीतिरपि बाधिका॥५५॥



 



तदंशदृष्टेर्न भ्रान्तिरनेकांशा हि सा यतः।



सर्वथार्थनिषेधात् ते स्याच्च वस्त्वपवादिता॥५६॥



 



तदसत्त्वेऽपि संक्लेशो न नाम्नोऽर्थप्रवृत्तितः।



अभिलापापरोक्षाणां तिरश्चां क्लेशदर्शनात्॥५७॥



 



रूपाभिलापसापेक्षरूपधीजन्मतो न च।



रूपं रूपस्वभावेन शून्यं कल्पयितुं क्षमम्॥५८॥



 



अरूपात्मव्यवच्छिन्नवस्त्वाभमतिगोचरः।



रूपस्यात्मा तदस्तित्वादयुक्ता रूपशून्यता॥५९॥



 



सामान्यमभिलाप्यं हि सामान्यं न च किंचन।



नाभिलाप्यात्मशून्यत्वमेवमप्युपपद्यते॥६०॥



 



वाच्यं सामान्यवद्वस्तु तदाभमतिहेतुतः।



तस्य तेनात्मना सत्त्वान्न युक्तानभिलाप्यता॥६१॥



 



विजातीयेन शून्यत्वं तुल्यधीवृत्तिहेतुतः।



सामान्यात् तुल्यजातीये सामान्यमिति निश्चितम्॥६२॥



 



नाश्रयस्याग्रहे ग्राह्यं संख्यावत् तद्ग्रहे ग्रहात्।



तद्वत् कल्प्यमतो वस्तु वाच्यं नेष्टं पृथग् भवेत्॥६३॥



 



अभेदसत्त्वाद्रव्याभ्यामेकतोऽनेकवृत्त्यपि।



तद्विनाशेऽविनाशाच्च नान्यस्मिन् तन्मतिर्न च॥६४॥



 



अनीलानुत्पलाभिन्नरूपेणाव्यवधानंतः।



सामानाधिकरण्यं हि द्वयोरेकार्थवृत्तितः॥६५॥



 



नान्यापोहोऽन्यसामान्यमन्यधर्माद् विशेषवत्।



नाभावस्याविशेषत्वाद् धीभेदः कम्बलादिषु॥६६॥



 



वस्त्वग्रहे ग्रहाच्चास्य नेष्टा कल्प्यत्ववाच्यते।



तद्द्वारेणान्यवाच्यत्वे तद्वाच्यत्वादि हीयते॥६७॥



 



तदन्यभिन्नरूपस्य वस्तुनोऽनभिलाप्यता।



न युक्तैव मनोयुक्ता योगाचारनयादिति॥६८॥



 



अभिलापात्मशून्यत्वाद् भावानां निःस्वभावता।



तेनैव चाप्यनुत्पादादनुत्पन्नानिरुद्धता॥६९॥



 



यतोऽभिलापवद् वस्तु न तथा कथ्यते यथा।



अवस्तुकत्वं धर्माणांमित्यादि बहु चोदितम्॥७०॥



 



परतन्त्रास्तितोक्तौ च संवृत्या सिद्धसाधनम्।



तत्त्वतश्चेन्न दृष्टान्तो हेतोश्चापि विरुद्धता॥७१॥



 



उत्पत्तिनिःस्वभावत्वं सद्भूताजातितो यदि।



नानुत्पादनिरोधादिप्रतिषेधसमर्थनम्॥७२॥



 



प्रत्ययैर्जायते यो हि तमजातं जगौ मुनिः।



स्वभावतस्तदुत्पादनिषेधात् परमार्थतः॥७३॥



 



अभूतत्वाच्च धर्माणां तत्स्वसामान्यगोचरः।



संवृत्या न विरुध्यन्ते चित्रधीशब्दवृत्तयः॥७४॥



 



येन येन हि नाम्ना वै यो यो धर्मोऽभिलप्यते।



न स संविद्यते तत्र धर्माणां सा च धर्मता॥७५॥



 



अथ प्रत्ययसंभूतस्वभावे नेष्टसाधनम्।



उत्पत्तिः पारतन्त्र्याच्चेन्मायावन्नन्वभूतता॥७६॥



 



परतन्त्राग्रहश्चापि स्वभावाजातितो मतः।



जातस्य परमार्थेन मिथ्याख्यानं न युज्यते॥७७॥



 



यथा ख्यान्ति तथा सन्ति तदाभासात्मना यतः।



यथा ख्यान्ति तथा सत्त्वाद् धर्मा मायोपमाः कथम्॥७८॥



 



सद्भूतेनात्मनाजातेरनुत्पन्नानिरुद्धता।



अवस्तुत्वास्वभावत्वे तथाप्यद्रव्यसत्त्वतः॥७९॥



 



विज्ञप्तिमात्रतुल्यत्वात् प्रज्ञप्तेर्नास्ति दुष्टता।



हेयप्रहात्र्यसद्भावात् कस्येष्टं निर्विदादि सत्॥८०॥



 



विकल्पोपरमान्मुक्तिरद्रव्यत्वेऽपि सा यतः।



द्रव्यसत्त्वेऽप्यजातत्वान्नातोऽन्या कल्पनेष्यते॥८१॥



 



प्रज्ञप्तेरप्यसद्भावो वस्त्वभावे भवेत् सति।



तद्दृष्टिर्नास्तिकोऽकथ्यः स ह्यसंवास्य एव च॥८२॥



 



स्वयमापायिकत्वेऽसौ परेषां च विपादकः।



इति द्वेषामिषोद्गारोऽभिमानाजीर्णसूचकः॥८३॥



 



असद्भूतस्वभावत्वाद् बालसंमोहहेतुतः।



अभूत्वाभवनाद् वापि धर्मा मायोपमा मताः॥८४॥



 



नाकाशसमता युक्ता निर्विकल्पस्य वस्तुनः।



नानासंज्ञाविकल्पानामवकाशप्रभावनात्॥८५॥



 



जाते नानभिलप्यत्वं प्रतिक्षेपात् पुरोदितात्।



सत्यप्यनभिलापित्वे संवृतौ तत्त्वविभ्रमः॥८६॥



 



तत्त्वेऽन्यतत्त्वसद्भावाद् यदीष्टं तत्त्वदर्शनम्।



घटेऽपि द्विघटाभावात् किं नेष्टं तत्त्वदर्शनम्॥८७॥



 



न नीतिच्छिद्रगुप्त्यर्थं तत्संक्लेशविशुद्धिते।



स्यातां ते कनकादीनां प्रत्ययानुविधानतः॥८८॥



 



यथाक्षुशुद्ध्यशुद्धिभ्यां ख्याति खं समलामलम्।



विशुद्धं च सदाकाशं धर्माणां धर्मता तथा॥८९॥



 



तत्क्लिष्टत्वादिधीभ्रान्तिः कर्तृधर्मो न कर्मणः।



न तदालम्बना शुद्धिस्तत्त्वं नालम्ब्यमिष्यते॥९०॥



 



द्रव्यसत्त्वे च तत्त्वस्य पूर्ववद् दोषसंप्लवः।



लोकोत्तराविकल्पा च तद्बुद्धिर्न मता व्ययात्॥९१॥



 



तावत् सतिमिरा बुद्धिर्यावज्ज्ञेयानुकारिणी।



यावदुत्पद्यते ज्ञानं तावज्ज्ञेयानुकारिता॥९२॥



 



स्वात्मनीवासिधारायाः ज्ञानावृत्तेरसंभवात्।



स्वसंवृत्तिनिषेधाच्च न स्यात् सर्वज्ञता सकृत्॥९३॥



 



प्राग्वज्जातिप्रतिक्षेपादजाताद्रव्यसत्त्वतः।



निर्विकल्पार्यधीग्राह्योऽनभिलप्यश्च सर्वथा॥९४॥



 



भावाभावस्य भावोऽपि स्वभावः पारमार्थिकः।



समारोपापवादान्तमुक्तिस्ते विद्यते कथम्॥९५॥



 



न भावस्तत्त्वतोऽजातेर्नाभावस्तदभावतः



भावाभावद्वयापेतमिष्टं तत्त्वमतोऽद्वयम्॥९६॥



 



निरालम्बो न शास्ता स्यात् तथतालम्बनत्वतः।



न चापि समता बोधिस्तत्त्वस्वाभासभेदतः॥९७॥



 



तथतालम्बना या धीः कुतोऽनाहितशक्तिका।



खपुष्पाभा न धीर्युक्ता यथानाहितशक्तिता॥९८॥



 



नैकत्वान्यत्वमुक्तं वस्तत्त्वं स्वनयगुप्तितः।



अद्रव्यानुपलभ्यत्वाद् युक्तं नस्तक् यथोदितम्॥९९॥



 



अजातेर्निर्विशेषत्वात् खतुल्यं चाप्यलिप्यतः।



अत्यन्तानभिलाप्यं च सर्वथाप्यग्रहाद् धिया॥१००॥



 



विगतोत्पादतिमिरा मतिर्लोकोत्तरा मता।



लोकादुत्तारणार्थेन लोकातिक्रमतोऽपि वा॥१०१॥



 



निर्विकल्पा निरालम्बा निर्निमित्ता च सा तया।



अबोधसमताबोधात् स्वान्यधर्मतया सकृत्॥१०२॥



 



अनुत्पादो हि धर्माणां धर्मनैरात्म्यमुच्यते।



न कल्पनाकलङ्काङ्कसंभवस्तत्र पूर्ववत्॥१०३॥



 



तत्त्वस्यातर्कगम्यत्वात् तद्बोधो नानुमानतः।



नातस्तर्केण धर्माणां गम्यते धर्मतेति चेत्॥१०४॥



 



इहानुमानान्निर्दोषादागमानुविधायिनः।



कल्पिताशेषविविधविकल्पौघनिराकृतेः॥१०५॥



 



सकलज्ञेययाथात्म्यमाकाशसमचेतसः।



ज्ञानेन निर्विकल्पेन बुद्धाः पश्यन्त्यदर्शनात्॥१०६॥



 



अतोऽनुमानविषयं न तत्त्वं प्रतिपद्यते।



तत्त्वज्ञानविपक्षो यस्तस्य तेन निराक्रिया॥१०७॥



 



आगमान्तरभेदेन भेदायातासु बुद्धिषु।



अभेदेऽप्यागमस्यान्यः कः परीक्षाक्षमो बिधिः॥१०८॥



 



प्रतिज्ञामात्रका नेष्टा प्रतिपक्षनिराक्रिया।



अनिषिद्धे विपक्षे च निर्विकल्पा मतिः कुतः॥१०९॥



 



सत्यद्वयमतश्चोक्तं मुनिना तत्त्वदर्शिना।



व्यवहारं समाश्रित्य तत्त्वार्थाधिगमो यतः॥११०॥



 



सालम्बनत्वाद् वितथा तथतालम्बनादपि।



स्वप्नादिधीवत् तद्ग्राह्यं नातस्तत्त्वं च युज्यते॥१११॥



 



अग्राह्योऽनभिलाप्यश्च धीप्रचारविवर्जितः।



धर्म उक्तो मुनीन्द्रेण स चैवं सति बाध्यते॥११२॥



 



अतो युक्तागमोपेतं तत्त्वं यत् प्रागुदाहृतम्।



परीक्ष्यमाणं युक्त्यैवं तदेवाव्याहतं स्थितम्॥११३॥



 



kha cig phun po'i ljon sin chags /



kha cig rnam ses rgya la thogs //



yan dag rntha' yi gyan sar yan /



ma lhun rgyal ba'i thugs sras rol //14//



 



योगाचारतत्त्वविनिश्चयो नाम पञ्चमः परिच्छेदःद् वितथा तथतालम्बनादपि।



स्वप्नादिधीवत् तद्ग्राह्यं नातस्तत्त्वं च युज्यते॥१११॥



 



अग्राह्योऽनभिलाप्यश्च धीप्रचारविवर्जितः।



धर्म उक्तो मुनीन्द्रेण स चैवं सति बाध्यते॥११२॥



 



अतो युक्तागमोपेतं तत्त्वं यत् प्रागुदाहृतम्।



परीक्ष्यमाणं युक्त्यैवं तदेवाव्याहतं स्थितम्॥११३॥



 



kha cig phun po'i ljon sin chags /



kha c


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project