Digital Sanskrit Buddhist Canon

तृतीयः परिच्छेदः

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

tṛtīyaḥ paricchedaḥ


 



तृतीयः परिच्छेदः



तत्त्वज्ञानैषणा



 



यस्य ज्ञानमयं चक्षुश्चक्षुस्तस्यास्ति नेतरत्।



यतस्तस्माद् भवेद् धीमांस्तत्त्वज्ञानैषणापरः॥१॥



पश्यत्यन्धोऽपि मतिमान् दिदृक्षुर्विप्रकृष्टकान्।



सूक्ष्मव्यवहितानर्थास्त्रैलोक्याहतदर्शनः॥२॥



सहस्रेणापि नेत्राणामनेत्रो बुद्धिवर्जितः।



स्वर्गापवर्गसद्भूतमार्गामार्गासमीक्षणात्॥३॥



दृष्टादृष्टविशिष्टेष्टफलाशाविषकण्टके।



प्रवर्तते न दानादौ प्रज्ञोन्मीलितलोचनः॥४॥



त्रिमण्डलविशुद्धे हि दानादावभियुज्यते।



कारुण्यात् सर्ववित्त्वाय तत्राप्यस्थितमानसः॥५॥



प्रज्ञामृतं तृप्तिकरं दीपोऽप्रतिहतप्रभः।



मोक्षप्रासादसोपानं क्लेशेन्धनहुताशनः॥६॥



सा च सत्यद्वयापेक्षा द्विविधाभिमता मतिः।



तथ्यसंवृतिभूतार्थप्रविवेकानुगुण्यतः॥७॥



दानादिपुण्यज्ञानाख्यसंभारपरिपूरणे।



तद्धेतुफलसंबन्धलक्षणादिविनिश्चये॥८॥



महामैत्रीकृपाभ्याससत्त्वसंग्रहपाचने।



प्रज्ञा सांकेतिकी ज्ञेया द्वादशायतनाश्रया॥९॥



अशेषकल्पनाजालप्रतिषेधविधायिनी।



शान्तप्रत्यात्मसंवेद्यनिर्विकल्पनिरक्षरे॥१०॥



विगतैकत्वनानात्वे तत्त्वे गगननिर्मले।



अप्रचारप्रचारा च प्रज्ञा स्यात् पारमार्थिकी॥११॥



तत्त्वप्रासादशिखरारोहणं न हि युज्यते।



तथ्यसंवृतिसोपानमन्तरेण यतस्ततः॥१२॥



पूर्वं संवृतिसत्येन प्रविविक्तमतिर्भवेत्।



ततो धर्मस्वसामान्यलक्षणे सुविनिश्चितः॥१३॥



अभियुज्येत मेधावी समाधानाय चेतसः।



तथा श्रुतमयज्ञाने तदन्यज्ञानहेतुतः॥१४॥



न पश्यति यथा वक्त्रं कलुषप्रचले जले।



तथासमाहिते चित्ते तत्त्वं निवरणावृते॥१५॥



निबध्यालम्बनस्तम्भे स्मृतिरज्ज्वा मनोगजम्।



उन्मार्गचारिणं कुर्यात् प्रज्ञाङ्कुशवशं शनैः॥१६॥



अनित्यतामनस्कारैरुद्धतं शममानयेत्।



विपुलालम्बनाभ्यासात् संक्षिप्तं विपुलात्मताम्॥१७॥



विक्षिप्तं संहरेत् क्षिप्तनिमित्तादीनवेक्षणात्।



वीर्यानुशंसदर्शित्वाल्लीनमुत्तेजयेदपि॥१८॥



रागद्वेषमोहपङ्कमलीमसमसंयतम्।



क्षालयेदशुभामैत्रीप्रतीत्योत्पादवारिणा॥१९॥



विविक्तमचलं शान्तमालम्बनपरायणम्।



कर्मण्यं मृदु च ज्ञात्वा तत्र सम्यगुपेक्षयेत्॥२०॥



समाहितमतिः पश्चात् प्रज्ञयैवं परीक्षयेत्।



योऽयं स्वभावो धर्माणां गृह्येत व्यवहारतः॥२१॥



विचार्यमाणस्तु धिया किमयं परमार्थतः।



यदि स्यात् तत्त्वमेवायमतोऽन्यश्चेत् स मृग्यते॥२२॥



न पक्षपातसंतप्तः शान्तिमर्हति च क्वचित्।



संस्कृतासंस्कृता धर्माः स्कन्धायतनधातवः॥२३॥



क्लेशावरणहानाय श्रावकाणां प्रकाशिताः।



क्लेशज्ञेयावृतिमलप्रहाणाय कृपात्मनाम्॥२४॥



औदारिकत्वात् प्रथमं रूपस्कन्धः परीक्ष्यते।



तत्रापि पूर्वं भूतानि यथोक्तादेव कारणात्॥२५॥



अत्र भूतस्वभावं हि नोर्व्यादि परमार्थतः।



कृतकत्वाद् यथा ज्ञानं हेतुमत्त्वादितोऽपि वा॥२६॥



खरस्वभावा न मही भूतत्वात् तद्यथानिलः।



धारणं न भुवः कार्यं कृतकत्वाद् यथाम्भसः॥२७॥



खरस्वभावा यद्युर्वी तत्त्वतोऽप्यसती मता।



योगिनस्तत्र युज्येते नोन्मज्जननिमज्जने॥२८॥



ध्यायिनां ध्यानसामर्थ्यान्न युक्ता द्रवता क्षितेः।



स्वभावस्यानपायित्वान्न वास्याः कठिनात्मता॥२९॥



एवं जलानिलाग्नीनां न द्रवादिस्वभावता।



युज्यते नापि तत्कार्यं संग्रहव्यूहपक्तयः॥३०॥



न हि तुल्यगुणा नेष्टाः संवृत्या पवनादयः।



कायेन्द्रियोपलभ्यत्वाद् भूतत्वाद् वापि भूमिवत्॥३१॥



द्रव्यसन्न पृथिव्यादि सामग्र्यङ्गाग्रहेऽग्रहात्।



यद् यथोक्तं न तद् दृष्टं द्रव्यसत् तद्यथा वनम्॥३२॥



द्रव्यसद्विषया चेयं न क्षित्यादिमतिर्मता।



सकारणत्वान्नाशाद् वा तद्यथा काननादिधीः॥३३॥



द्रव्याभिधायको नेष्टो ध्वनिः क्षित्यादिवाचकः।



श्रावणत्वाद् यथा नेष्टो ध्वनिः सेनादिवाचकः॥३४॥



नानैकान्तिकता हेतोश्चित्तचैतसबुद्धिभिः।



जायते साध्यतुल्यत्वं तद्वत्तत्प्रतिषेधतः॥३५॥



नारम्भका वनस्येष्टाः पलाशस्पन्दनादयः।



हेतुमत्त्वादिहेतुभ्यस्तद्यथा चरणादयः॥३६॥



पलाशादिभिरारब्धो न वनोऽवयवी मतः।



प्रत्येकमसमाप्तत्वात् तेषु यद्वत् करादिभिः॥३७॥



अतो दृष्टान्तदोषोऽपि न पक्ष उपपद्यते।



द्वितीयेऽपि यथा नास्ति तथेदमभिधीयते॥३८॥



नानेकानियतद्रव्यसंख्यावृत्तिर्वनध्वनिः।



विशिष्टबुद्धिहेतुत्वाद् घटकुण्डादिशब्दवत्॥३९॥



न चक्षुरिन्द्रियग्राह्यं रूपं हि परमार्थतः।



संघातत्वाद् यथा शब्दो भौतिकत्वात् तथापि वा॥४०॥



न चक्षुः प्रेक्षते रूपं भौतिकत्वात् स्वरूपवत्।



सुखाद्युत्पत्तिहेतुत्वाद् वाच्यत्वाद् वा रसादिवत्॥४१॥



तथा न भौतिकं रूपमुत्पत्तेर्ज्वलनादिवत्।



हेतुमत्त्वादिहेतुभ्यश्चित्तवद् वेति लक्षयेत्॥४२॥



एतेन वर्णसंस्थानसंचितत्वादिलक्षणः।



सूक्ष्मौदारिकभेदश्च यावान् रूपस्य कल्पितः॥४३॥



प्रतिषिद्धोऽवबोद्धव्यो यथायोगप्रयोगतः।



शब्दगन्धरसस्पर्शप्रतिषेधेऽप्ययं नयः॥४४॥



न चक्षुरिन्द्रियं रूपमीक्षते परमार्थतः।



चित्तचैतसिकान्यत्वात् तद्यथा रसनेन्द्रियम्॥४५॥



न रूपमीक्षते चक्षुरथवा परमार्थतः।



अविज्ञानस्वभावे सत्यनुत्पत्तेस्त्वगादिवत्॥४६॥



न वर्णविषयो रूपप्रसादश्चक्षुरिन्द्रियम्।



कृतकत्वादिहेतुभ्यो दृष्टान्ताश्च त्वगादिकाः॥४७॥



न चक्षू रूपविषयं स्वरूपाग्रहणान्मतम्।



श्रवणादीन्द्रियं यद्वद् रूपित्वाद् वा रसादिवत्॥४८॥



तद्वद् वाचक्षुषो द्रष्टुदर्शनं नानिदर्शनम्।



कथं वाद्रष्टृरूपस्य युज्यते रूपदर्शनम्॥४९॥



कथं वाद्रष्टृरूपस्य युज्यते रूपदर्शनम्।



द्रष्टैव चेद् भवेच्छ्रोता श्रोतृत्वं तस्य किंकृतम्॥५०॥



न चादेयविशेषत्वादिष्टे तज्ज्ञत्वनित्यते।



न चैकत्वं द्विरूपत्वाद् देहान्तरशरीरवत्॥५१॥



रूपोपलब्धौ करणं नेष्यते चक्षुरिन्द्रियम्।



अमनस्त्वे सति द्रष्टुरन्यत्वाच्छ्रवणादिवत्॥५२॥



न चास्य द्रष्टृता युक्ता चक्षुरादिव्यपेक्षणात्।



मनोवत् परिणामित्वात् प्रतिबिम्बोदयात् तथा॥५३॥



अक्षान्तरेण वादृष्टेर्मनोवद् द्रष्टृता कथम्।



मनसस्तत्त्वतो नेष्टमात्मवद् रूपदर्शनम्॥५४॥



अद्रव्यसत्त्वात् सामग्र्यास्तद्वद् वा नास्ति दर्शनम्।



धर्मान्तराभिनिर्वृत्तेर्घण्टावत् कर्तृतास्तु वा॥५५॥



न चक्षू रश्मिवद् युक्तमक्षत्वादितराक्षवत्।



नक्तंचराक्ष्यधिष्ठानं दृश्यं दृश्यं न हीक्षणम्॥५६॥



न सुखाद्यात्मकं चक्षुर्वस्तुत्वात् तद्यथा पुमान्।



नापि सर्वगतं चक्षुः सत्त्वात् तद्गोलकादिवत्॥५७॥



अथवासर्वगन्त्रक्षि पारार्थ्यात् तद्यथा घटः।



रूपोपलब्धिहेतुत्वाद् यथा रूपं तथेति वा॥५८॥



न चक्षुस्तेजःसंयुक्तमिन्द्रियत्वात् त्वगादिवत्।



तेजोऽधिकं महाभूतप्रसादाद्यात्मकं न च॥५९॥



न प्राप्तविषयं चक्षुरिन्द्रियत्वाद् यथा मनः।



रूपवत् कारणत्वाद् वा हेतुमत्त्वात् तथापि वा॥६०॥



बाह्यार्थग्रहणात् साक्षादतीतानागताग्रहात्।



न प्राप्तविषयग्राहि घ्राणादीष्टं यथेक्षणम्॥६१॥



साध्यतुल्यनिषेधाच्च नानेकान्तस्त्वगादिभिः।



नयेनानेन बोद्धव्यं प्रत्युक्तं श्रवणाद्यपि॥६२॥



त्रयं नाप्राप्तविषयं मनःश्रोत्राक्षिलक्षणम्।



इन्द्रियत्वाद् यथा घ्राणं चित्तहेतुत्वतोऽपि वा॥६३॥



दर्शनेनैव बोद्धव्या यथाकथितविस्तरात्।



श्रवणघ्राणरसनत्वगिन्द्रियनिराक्रियाः॥६४॥



 



 sgra dang dri dang ro dang reg /



dgag pa'i tshul yang de yin te//



mkhas pas gzu bo'i blo dag gis/



ci rigs par ni shes par bya // 65 //



 



न युक्ता परमार्थेन वेदनानुभवात्मिका।



विज्ञानसंप्रयुक्तत्वात् तदन्ये चैतसा यथा॥६६॥



 



सुखानुग्राहिका नेष्टा स्पर्शजत्वात् तदन्यवत्।



यथोक्तहेतोर्विज्ञेया न दुःखा पीडनात्मिका॥६७॥



नेष्टादुःखासुखा तद्वत् तृट्फलत्वाद् यथेतरा।



विवक्षिताद् वा विज्ञानस्वभावप्रतिषेधतः॥६८॥



 



एतेन संज्ञा व्याख्याता संस्काराश्चोभयात्मकाः।



 mkhas pas gzu boi blo dag gis/



ci rigs par ni shes par bya //69//



 



न वस्तुप्रतिविज्ञप्तिस्वभावं तत्त्वतो मनः।



सालम्बनत्वात् संज्ञावन्नाशित्वाद् वा प्रदीपवत्॥७०॥



 



phung po lnga po rnam dpyad pai/



sgrub paji skad bstan pa des //



स्कन्धैस्तु धातवो ज्ञेया ज्ञेयान्यायतनानि च॥७१॥



 



नैबोत्पादादयो युक्ताः संस्कृतत्वेन लक्षणम्।



संस्कृतत्वाद्धि लक्ष्यस्य बोध्यत्वाच्च तदन्यवत्॥७२॥



 



नापि लक्षणसद्भावाद् भावानां सात्मता मता।



विरुद्धोऽपि हि हेतुः स्यादसिद्धार्थोऽपि वा यतः॥७३॥



 



काठिन्यं लक्षणं मह्या न महीत्वेन युज्यते।



कायविज्ञानहेतुत्वादग्नित्वे लक्षणं कथम्॥७४॥



 



blang gi mtshan nyid glang nyid kyis/



nog dang lkog shal songs mi 'dod//



khyad par can gyi blos brtag phyir /



dper na bong bu'i mtshan nyid bshin //75//



 



gcig na ji ltar mtshan nyid yin/



des ni de nyid mi mtshon phyir//



gshan na ji ltar mtshan nyid yin/



gshan gyis gshan nyid mi msthon phyir //76//



 



अगते परमार्थेन न गतिः संप्रतीयते।



अध्वत्वाद् गत्यभावाद् वा तदन्यस्मिन् यथा गते॥७७॥



 



गतागतविनिर्मुक्तगम्यमानानिरूपणात्।



न गम्यमाने गमनं ज्ञायते परमार्थतः॥७८॥



 



गतागतत्वावाच्येऽपि गम्यमाने गतिर्न च।



अध्वत्वात् तद्यथातीते यथा वानागतेऽध्वनि॥७९॥



 



गत्यसिद्धेर्न गन्तास्ति नागतिर्गच्छतीष्यते।



अगन्तुर्न गतिर्युक्ता गत्ययोगाद् यथा पुरा॥८०॥



 



स्वतोऽर्थान्तरसंबन्धे गन्तेतीयं मतिर्मता।



दण्डिवन्नान्वयाभावाद् बुद्धिशब्दानुवृत्तितः॥८१॥



 



निरन्तरदिगुत्पादिसंस्कारप्रसराश्रया।



ज्वालादिवद् गतिभ्रान्तिः सांवृती सा न तत्त्वतः॥८२॥



 



अद्रव्यत्वात् कलापस्य निरीहत्वादथापि वा।



न गन्तृकल्पना न्याय्या कापिलैः परमार्थतः॥८३॥



 



द्रव्यसन् समुदायश्चेत् समुदाय्यग्रहेऽग्रहात्।



तदात्मवदयुक्तं तत् तेषामद्रव्यसत्त्वतः॥८४॥



 



शेषक्रियानिषेधेऽपि दिगेषा प्रतिपादिता।



संसारमोक्षसद्भावादिष्टा चेत् सस्वभावता॥८५॥



 



यथाविकल्पितं रूपं यदैषां नावधार्यते।



तदा निरूप्य रूपाणां बन्धमोक्षौ कुतः कथम्॥८६॥



 



युज्येते निःस्वभावेषु मायास्वप्नोपमेषु तु।



स्वहेतुप्रत्ययवशाद् विशिष्टेष्वात्मलाभिषु॥८७॥



 



नामरूपस्य संसारो न युक्तः परमार्थतः।



संस्कृतत्वात् पृथिव्यादेर्यथा बाह्यस्य नेष्यते॥८८॥



 



न मुच्यते नामरूपं कथंचित् परमार्थतः।



उत्पत्तिमत्त्वान्नाशाद् वा यथा बाह्यं जलादिकम्॥८९॥



 



न पुद्गलः संसरति मुच्यते न च तत्त्वतः।



प्रज्ञप्यत्वाद् यथा वेश्म वाच्यत्वाद् वापि गन्धवत्॥९०॥



 



निष्पुद्गला वा संस्कारा हेतुमत्त्वाद् यथा घटः।



उत्पत्तिमत्त्वान्नाशित्वाज्ज्ञेयत्वाद् वापि लोष्टवत्॥९१॥



 



द्रव्यसन्नाप्यवाच्यत्वाद् गन्धवत् पुद्गलो मतः।



श्यामगौरतयावाच्यवन्ध्यापुत्रेण संशयेत्॥९२॥



 



एवं निरात्मकाः स्कन्धा निर्जीवाः सत्त्ववर्जिताः।



mkhas pas gzu bo'i blo dag gis/



ci rigs par ni shes par bya //93//



 



शरीरेन्द्रियसंघातो निरात्मा तत्त्वतो मतः।



हेतुमत्त्वाद् यथा स्तम्भः प्रचयाद् वापि नाकुवत्॥९४॥



 



स्मरणप्रत्यभिज्ञानज्ञानोत्पादादिहेतुभिः।



आत्मसत्ताप्रतिज्ञाने हेतूनां स्यादसिद्धता॥९५॥



 



सेन्द्रियः सात्मको देह इत्येवं चेत् प्रसाध्यते।



असाधारणतैवं स्याद् हेतूनामन्वयादृते॥९६॥



 



आत्मशब्दो यथार्थोऽयं क्वचित् तदुपचारतः।



तद्यथा सिंहशब्दश्चेन्नैवमात्मा प्रसिध्यति॥९७॥



 



अथ विज्ञानविषयो यथार्थोऽन्यत्र साध्यते।



नित्यसर्वगतत्वादिविरोधात् स्याद् विरुद्धता॥९८॥



 



बन्धमोक्षावतो नेष्टौ कस्यचित् परमार्थतः।



song dang ma song bgom pa yis/



de dshin semsla lhag ma bshad//99//



 



उत्पन्नं हि यदा चेतो विनाशाभिमुखं तदा।



रञ्जनं कस्य केनेष्टं रक्तं नष्टं न चेष्यते॥१००॥



 



रज्यते जायमानं चेत् तत् किं जन्मोन्मुखं यदि।



निराश्रयक्रियायोगात् तदजातस्य नेष्यते॥१०१॥



 



skye bshin skyes dang ma skyes par /



brjod pa min la'ang chags pa med//



अवाच्यमप्यवाच्यत्वाच्चित्तं रक्तं न रागवत्॥१०२॥



 



सक्त्याकारेण चेज्जातं चित्तं रक्तमितीष्यते।



रक्तस्फटिकधीवत् स्यात् तद्बुद्धिरक्तता कथम्॥१०३॥



 



तदेवं रञ्जनाभावात् सांवृती रागकल्पना।



 'dod chags bshin du chos rnams kun /



ci rigs par ni shes par bya //104//



 



भावो द्रव्याश्रयो युक्तः स च तस्मान्न भिद्यते।



रागस्येव न ते रक्तिश्चेतसोऽपि प्रसज्यते॥१०५॥



 



न रागस्यान्यता युक्ता रक्तस्याग्रहणेऽग्रहात्।



रक्तात्मवत् पृथक्त्वेऽपि नान्यवत् तेन रक्तता॥१०६॥



 



न वस्तुप्रतिविज्ञप्ते रागाद् भेदोऽस्ति चेतसः।



आलम्बनादितुल्यत्वान्न चान्यद् भेदकारणम्॥१०७॥



 



तस्मात् समुदयस्येष्ट एकेन समुदायिना।



स्वोत्पत्त्यपेक्षो निर्देशो यथा कुसुमिते तरौ॥१०८॥



 



तत्प्रहाणान्न निर्वाणं युज्यते तदयोगतः।



mya ngan 'das pa don dam du /



dngos dan dngos med



mtshan nyid min //109//



 



भावो हि यदि निर्वाणं भावत्वात् संस्कृतं हि तत्।



संस्कृतत्वाद् विपक्षोऽपि न संस्कृतनिरोधवत्॥११०॥



 



अभावो यद्यभावत्वान्नाशित्वाद् यः पराश्रयात्।



नेष्टश्च प्रतिपक्षोऽसौ नाशितावत् पराश्रयः॥१११॥



 



असंस्कृतोऽप्ययुक्तोऽसौ पूर्वोक्तप्रतिषेधतः।



चितेर्विशेषाः कश्चास्य मुक्तात् सांख्यप्रकल्पितात्॥११२॥



 



स्वरसक्षयिनः क्लेशा विकल्पारणिसंभवाः।



तेषामसंचितेः केषां क्षयान्मोक्षोऽस्तु तेऽक्षयः॥११३॥



 



अजातानां तथासत्त्वात् कल्पनायाः समो नयः।



वद कस्य क्षयान्मोक्षः क्षयिनोऽक्षयिनोऽपि वा॥११४॥



 



स्वभावशून्यताबोधान्निवृत्तेस्तन्मतेरपि।



अक्षयाक्षयिधर्मत्वं प्राप्नोत्यप्राप्तियोगतः॥११५॥



 



नात्मकामाः श्रयन्तीमा यथाभूतपरीक्षकाः।



कुदृष्ट्यामयदुर्गन्धसक्तोद्गारा गिरस्ततः॥११६॥



 



न विपर्याससद्भावात् सद्भावस्तस्य युज्यते।



रागतुल्यविचारत्वात् तत्क्लृप्तिरपि सांवृती॥११७॥



 



प्रागेव चित्तचैत्तानां स्वभावप्रतिषेधतः।



रागो रागस्वभावेन न च यत् तेन रज्यते॥११८॥



 



एतेन द्वेषमूढादि प्रत्युक्तं प्रतिभावयेत्।



ततश्च बन्धनासिद्धेरचला निःस्वभावता॥११९॥



 



नेष्टा मह्यात्मनोऽनन्या पृथिवी परमार्थतः।



हेतुमत्त्वाद् यथा वायुर्वस्तुत्वाद् वापि बोधवत्॥१२०॥



 



नान्यत् पृथिव्या सलिलं गृह्यते परमार्थतः।



उत्पत्तिमत्त्वादुर्व्यात्मा यथोर्व्या न पृथक् तथा॥१२१॥



 



नापि तद्ध्वनिधीभेदात् क्षित्यादीनां मतान्यता।



कार्यलक्षणभेदाद् वा साध्यधर्मासमन्वयात्॥१२२॥



 



रूपस्यात्मेत्यभेदेऽपि व्यपदेशाच्च संशयः।



परिकल्प्यस्य चासिद्धेरसिद्धार्थो भवेदसौ॥१२३॥



 



शब्दादिभेदभिन्नेऽपि तस्मात् ते व्यभिचारिणः।



विशेषणाभिधानेऽपि निवार्यन्ते विरोधिना॥१२४॥



 



उभयत्वं विरोधान्न यथाग्नेरुष्णशीतते।



अन्यानन्यत्वपक्षोक्तनिषेधाद् वा तदप्यसत्॥१२५॥



 



द्व्यात्मकत्वेऽपि सर्वस्य प्रसिद्धोऽशो निदर्शनम्।



दृष्टान्तन्यूनता तस्मान्न परं प्रति जायते॥१२६॥



 



आपेक्षिकी च तत्सिद्धिर्मनोरथविकल्पिता।



द्वयोरन्यतरस्यापि प्रागसिद्धेर्न सिध्यति॥१२७॥



 



सर्वेषूभयवादेषु प्रतिषेधेऽप्ययं नयः।



एवं यथोक्तविधिना निषिद्धा सस्वभावता॥१२८॥



 



इत्येते संस्कृता धर्माः साहसेन विचारिताः।



असंस्कृता निरोधौ द्वावाकाशं तथता तथा॥१२९॥



 



प्रतिसंख्यानिरोधो हि न भावः परमार्थतः।



नित्याविकृतरूपत्वाद् वन्ध्यातनयमूर्तिवत्॥१३०॥



 



अजातत्वादभेदत्वादकार्यत्वादथापि वा।



संस्कृतासंग्रहाद् वापि निरोधासंभवादपि॥१३१॥



 



यच्च कार्यं मतं यस्य न हि तत् तस्य कारणम्।



अजातत्वादिहेतुभ्यो हस्तिमस्तकशृङ्गवत्॥१३२॥



 



अजातकारणं नेष्टं कार्यमित्यवसीयते।



कार्यत्वात् तद्यथा क्षुद्रं न खपुष्पादिकारणम्॥१३३॥



 



एतेन व्योमतथतादिक्कालात्मादि बुद्धिमान्।



प्रतिषिद्धं विजानीयाद् यावत् किंचिदसंस्कृतम्॥१३४॥



 



द्रव्यप्रधानजीवादि ज्ञेयं यत् तीर्थ्यकल्पितम्।



यथायोगं निषेद्धव्यं युक्त्यागमविशारदैः॥१३५॥



 



इति स्वपरसिद्धान्तकल्पितात्मनिरात्मताम्।



विद्वान् विभाव्य भावानां तत्त्वज्ञानामृतं पिबेत्॥१३६॥



 



अथवा कल्पनाजालप्रसरो ह्येवमादिकः।



जातभावाश्रयो बालमाकुलीकुरुते बलात्॥१३७॥



 



विद्वान् विद्याप्रदीपेन यथाभूतं परीक्षते।



जातेर्निषेधात् तच्छान्तेः प्रपञ्चोपशमस्तदा॥१३८॥



 



तत्र तावत् स्वतो जन्म संवृत्यापि न युज्यते।



सात्मकत्वाद् यथा दध्नः स्वतो जन्म न विद्यते॥१३९॥



 



नोत्पन्नाः स्वात्मतो भावा भावत्वात् तद्यथा पुमान्।



नापि चात्मास्त्यजातानामजातत्वात् खपुष्पवत्॥१४०॥



 



खपुष्पाभाववाच्यं हि खादि यद्यपि ते मतम्।



न खपुष्पं तद् इत्यस्मात् पक्षेऽपि न्यूनता न नः॥१४१॥



 



कार्यस्य कारणं स्वात्मा तस्य जन्म ततो मतम्।



स्वतो जन्म ततोऽभीष्टं भावानामिति चेन्मतम्॥१४२॥



 



स्वात्मवत् तदनन्यत्वात् कारणं स्यादकारणम्।



अजातत्वाच्च किं कस्य कारणं स्यादकारणम्॥१४३॥



 



सत्यात्मनि च भावस्य वृथा कारणकल्पना।



तस्मादेव तदुत्पन्नं चैक्यं जनकजन्ययोः॥१४४॥



 



दधिभावेन पयसोऽवस्थानाच्चेदबाधकम्।



पुत्रत्वेनानवस्थानात् पितुर्न हि न बाधकम्॥१४५॥



 



विपक्षासंभवादिष्टा नापि हेतोर्विरुद्धता।



एवं तावत् स्वतो जन्म भावानां नोपपद्यते॥१४६॥



 



स्वभावासंभवाच्चापि कः कस्मात् पर इष्यते।



न गोशृङ्गाद्रिशृङ्गत्वं वाजिशृङ्गं परं मतम्॥१४७॥



 



न परे परमार्थेन प्रत्ययाश्चक्षुरादयः।



चक्षुर्विज्ञानजनकाः परत्वाद् वीरणादिवत्॥ १४८॥



 



न विवक्षितनेत्रादिकारणा रूपधीर्मता।



परत्वात् प्रागसत्त्वाद् वा यथा घटपटादयः॥१४९॥



 



अजातस्य परत्वं च सांवृतं न तु तत्त्वतः।



परस्मादपि जन्मैवमयुक्तमिति गृह्यते॥१५०॥



 



अनिर्देश्यस्य चोत्पत्तिरुत्पन्नस्य निरर्थिका।



नापि जातिरजातस्य खपुष्पवदजातितः॥१५१॥



 



जायमानस्य चोत्पत्तौ तुल्यपर्यनुयोगिता।



अवाच्यस्याप्यवाच्यत्वात् तदन्यवदसंभवः॥१५२॥



 



विकल्पितात्मना शून्यास्तत्त्वतश्चक्षुरादयः।



कृतकत्वाद् विनाशाद् वा यथा मायामयं पयः॥१५३॥



 



साध्यतुल्यनिषेधाच्च संशयो नेतरात्मना।



अकल्पितोऽपि मायात्मा वितथस्तत्त्वतो मतः॥१५४॥



 



स्वात्माभिमतिहेतुत्वाद् यथासौ कल्पितात्मता।



प्रतीतांशेन तत्सिद्धेर्दृष्टान्तन्यूनता न नः॥१५५॥



 



स्वभावशून्या ह्यथवा तत्त्वतश्चक्षुरादयः।



कृतकत्वाद् विनाशाद् वा मारनिर्मितबुद्धवत्॥१५६॥



 



यश्च स्वभावो भावानां स्वभावोऽसौ न तत्त्वतः।



कृतकत्वाद् यथोष्णत्वम् अम्भसः स्थिरतापि वा॥१५७॥



 



स्वात्मनैव हि भावानामुत्पादो नोपपद्यते।



परभावेन चोत्पादो न दृष्टो गोः खरात्मना॥१५८॥



 



हेत्वादिप्रत्ययेभ्यश्च परेभ्यो जन्म सांवृतम्।



नातोऽभ्युपेतबाधितास्तत्त्वतो हि न ते यतः॥१५९॥



 



न सतो नासतो युक्तः प्रत्ययः सदसत्त्वतः।



तदन्यवदजातेर्वा प्रत्ययः प्रत्ययः कुतः॥१६०॥



 



न हेतुः कार्यजनकस्तच्छून्यत्वात् तदन्यवत्।



नापि तज्जन्मतोत्पित्सोः प्रागसत्त्वात् तदन्यवत्॥१६१॥



 



नाजातं जायमानं वा जातं वा जनयत्ययम्।



उक्तदोषादजातेश्च तस्माद्धेतुर्न तत्त्वतः॥१६२॥



 



जातस्यालम्बनायोगो जाते जातिर्वृथा यतः।



अजातस्याप्यजातत्वाद् यथानुत्पत्तिधर्मिणः॥१६३॥



 



जायमानस्य योगः स्यात् स च नालम्बनं विना।



जनिक्रियासमावेशो विकलांङ्गस्य नेष्यते॥१६४॥



 



अथवा चित्तचैत्तानां नैवालम्बनमिष्यते।



तत्त्वतो जायमानत्वाद् ग्राह्यत्वाद् वापि रूपवत्॥१६५॥



 



किं च सालम्बनस्य स्यात् कालभेदात् स चाप्यसन्।



एवमालम्बनाभावात् किं कस्यालम्बनं भवेत्॥१६६॥



 



नाजातस्य निरोधोऽस्ति खपुष्पवदजातितः।



न निरुद्धे निरोधोऽस्ति निरुद्धत्वाद् यथा मृते॥१६७॥



 



नानिरुद्धेऽनिरुद्धत्वाद् वर्तमानप्रदीपवत्।



निरुध्यमाने नापीष्टः पूर्वोक्तप्रतिषेधतः॥१६८॥



 



तुल्यकालस्तथापि स्याद् भिन्नकालोऽपि वा भवेत्।



युक्तो निरुध्यमानत्वान्नार्हच्चरमचित्तवत्॥१६९॥



 



तत्त्वतो जात्यसद्भावाद् भावसत्ता न युज्यते।



वन्ध्यातनयसत्तावदतो नाधिपतिर्मतः॥१७०॥



 



कार्येण शून्योऽशून्यो वा प्रत्ययोऽधिपतिर्भवेत्।



न शून्यस्तेन शून्यत्वाच्छब्दबुद्धेर्यथेक्षणम्॥१७१॥



 



संवृत्यापि न चाशून्यः प्रतीतिर्बाधिका यतः।



कार्ये च न भवेत् कार्यमसत् कार्यं च ते भवेत्॥१७२॥



 



कार्यशक्तिर्हि कार्यं चेत् किमन्यत् कारणं ततः।



आधाराधेयभावो हि तदनन्यस्य नेष्यते॥१७३॥



 



कार्यपर्यायमात्रं वा व्योम्नि व्योमस्थितौ यथा।



यदासौ कारणं किं तद् येनाशून्यं तदिष्यते॥१७४॥



 



सतश्च संभवाभावात् कः कस्याधिपतिर्मतः।



असतः प्रत्ययाभावात् कः कस्याधिपतिर्मतः॥१७५॥



 



जाता घटादयो दृष्टा दृष्टे हेतुर्निरर्थकः।



दृष्टप्रतीतिबाधैवं बाधिका भवतीति चेत्॥१७६॥



 



दृष्टं जन्म घटादीनां बालसामान्यया धिया।



प्रतिषेधस्तथा नायं नातो दोषो यथोदितः॥१७७॥



 



न रूपालम्बना बुद्धिः स्वसंवेद्यास्ति तत्त्वतः।



यतो नो न हि तद्बाधा बाधिका तदजातितः॥१७८॥



 



नैव प्रत्यक्षधीर्युक्ता यथार्था परमार्थतः।



बालबुद्धिविशिष्टत्वादलात इव चक्रधीः॥१७९॥



 



नापि तद्गोचरं वस्तु संस्कृतत्वाद् यथात्मधीः।



अद्रव्यत्वाच्च रूपादेः प्रत्यक्षं नो न बाधकम्॥१८०॥



 



विद्वन्नीतिविचारं च न प्रतीतिः प्रबाधते।



नाविद्यापटलान्धानां तत्त्वेऽधिक्रियते वचः॥१८१॥



 



सतोऽपि जन्म नाभीष्टं सतः किं जन्मना भवेत्।



स्थौल्यं चेन्न च सत्कार्यं स्थौल्यस्यासंभवात् पुरा॥१८२॥



 



किं च यच्चक्षुषः स्थौल्यं न तत् तत्प्रत्ययैः कृतम्।



प्रागसत्त्वाद् यथा कुण्डं ज्ञेयत्वाद् वापि भोक्तृवत्॥१८३॥



 



सामान्येन च संवृत्या भोक्त्राद्यभिमतं हि नः।



नातो दृष्टान्तदोषोऽपि क्वचिदत्रोपपद्यते॥१८४॥



 



अभिव्यक्तेरदोषश्चेत् किं केन व्यज्यते यथा।



यथा घटः प्रदीपेन नाभिव्यक्तिः सतो यतः॥१८५॥



 



संवृत्यापि प्रदीपेन प्रकाशसहितो घटः।



क्रियते तन्मतिर्वापि प्रतिपक्षोदयोऽपि वा॥१८६॥



 



व्यज्यते नानभिव्यक्तमव्यक्तत्वात् खपुष्पवत्।



स्वनीत्या वा यथा भोक्ता प्रधानं चेति निर्दिशेत्॥१८७॥



 



न वा सर्वगतो भोक्ता नाहेतुश्चेतनो न च।



यदि तस्याप्यभिव्यक्तिरव्यक्तत्वं च हीयते॥१८८॥



 



कार्यं परिणतं यच्च प्रधानं वः प्रसज्यते।



व्यक्तिप्रधानरूपेण कार्यत्वेऽविकृतिः कथम्॥१८९॥



 



व्यञ्जका यस्य ये चेष्टा न ते तद्व्यञ्जका मताः।



कारणत्वादिहेतुभ्यो दध्नस्तन्त्वादयो यथा॥१९०॥



 



तन्त्वादेरपि तच्छक्तेर्दृष्टान्तन्यूनतेति चेत्।



तन्न तन्त्वादिभावेन न ते तद्व्यञ्जका यतः॥१९१॥



 



स्वपरस्मान्न जन्मेष्टं न च सदसदात्मनः।



यतो नोभयवादोऽस्ति युक्तितः प्राक् परीक्षितः॥१९२॥



 



संवृत्यापि न कार्यस्य प्रत्ययैर्व्यक्तिरिष्यते।



तद्भेदानुविधायित्वाद् घटस्येव मृदादिभिः॥१९३॥



 



संवृत्यापि हि नाकस्माज्जातं चक्षुरितीष्यते।



सामान्येन च तद्योगाद् विशेषेण च कुण्डवत्॥१९४॥



 



कार्यत्वात् क्रमजन्मत्वाद् विनाशात् परिणामतः।



हेतुप्रत्ययनैयम्याज्जातितश्चेति लक्षयेत्॥१९५॥



 



जात्यन्तरनिरुद्धो हि नोत्पन्नः शिवको मतः।



नाशित्वात् तद्यथा कुण्डं कार्यत्वाद् वेति चेन्मतम्॥१९६॥



 



न कुण्डं कुण्डरूपेण निरुद्धं जायते यथा।



तथा चेच्छिवकोऽभीष्ट इष्टमेव प्रसाध्यते॥१९७॥



 



अथ निरुद्धहेतुत्वं हेतोरेवं विरुद्धता।



संतत्या चेदनष्टस्य स्यादेवं व्यभिचारिता॥१९८॥



 



अस्ति गर्भादिबुद्धेः प्रागनन्तरनिरुद्धधीः।



ज्ञेयभेदेन तद्भेदाद् धीत्वाद् वापि तदूर्ध्ववत्॥१९९॥



 



चैत्रस्य शब्दबुद्धिर्या रूपबुद्धिश्च जायते।



ज्ञेयभेदात् तयोरैक्यं भिन्नसंतानयोर्यथा॥२००॥



 



दृष्टान्तासंभवस्तस्या नैकत्वाज्जायते धियः।



धीत्वान्नापि तदेकत्वं व्यभिचाराद् धियान्यया॥२०१॥



 



बालस्य च्युतिचित्तं चेत् साध्यतेऽप्रतिसंधिकम्।



नास्तिकैः च्युतिचित्तत्वादर्हच्चरमचित्तवत्॥२०२॥



 



स्यादनैकान्तिको हेतुरतीतच्युतिचेतसा।



जातिस्मरादिसद्भावादुक्तनीत्यापि तच्च सत्॥२०३॥



 



च्युतिचित्तं च जनकं भवत्येवान्यचेतसः।



साविद्यत्वादनार्यस्य चित्तं तज्जनकं यथा॥२०४॥



 



स्वकर्मजनिता नेष्टाः शरीरेन्द्रियबुद्धयः।



विनाशित्वाद् यथा कुण्डं परलोकोऽस्त्यतो न चेत्॥२०५॥



 



तेनैव तस्याकरणात् तदन्येनापि चाकृतेः।



नान्यस्वकर्मजनितो देह इत्यत्र किं हि नः॥२०६॥



 



अकर्मजनितत्वे च विद्यते न निदर्शनम्।



shing la sogs padus skye ba /



sems can las kyi dban gis te //207//



 



sems dmyal gnas dang mtho ris na/



mtshon dang dpag bsam shing skye bshin //



भूतेभ्यश्च कथं बुद्धिस्तदत्यन्तविलक्षणा॥२०८॥



 



अचेतनानां भूतानां चैतन्यं मदशक्तिवत् ।



सूर्यकान्ताग्निवद् वापि जायते जातिमत्त्वतः॥२०९॥



 



मदशक्तेरचैतन्याद् दृष्टान्तन्यूनता हि ते।



अतुल्यजातिहेतुत्वाद्धेतोश्चापि विरुद्धता॥२१०॥



 



नाध्यात्मिकानि भूतानि बोद्धृणीति प्रतीयते।



कठिनादिस्वभावत्वाद् भूतत्वाद् हि तदन्यवत्॥२११॥



 



अतो गर्भादिविज्ञानं विज्ञानान्तरपूर्वकम्।



विद्वद्भिरवबोद्धव्यं ग्राहकत्वात् तदूर्ध्ववत्॥२१२॥



 



वत्सः पूर्वकृताभ्यासाज्जातस्याहारमेषते।



आहारार्थं परिस्पन्दाद् यथा परिणतेन्द्रियः॥२१३॥



 



नानैकान्तिकता हेतोरयस्कान्तोपलादिभिः।



तदाहाराभ्यवहृतेर्दृष्टत्वान्नाप्यसिद्धता॥२१४॥



 



कस्यचित् प्रीतिहेतुत्वाल्लोको नेश्वरकर्तृकः।



विदधानो यथा प्रीतिं नेश ईश्वरकर्तृकः॥२१५॥



 



अहेतुत्वादजातेर्वा नेशो विश्वस्य कारणम्।



यथाकाशस्य कुसुमं नेष्टं विश्वस्य कारणम्॥२१६॥



 



अशेषस्यास्य जगतो नेश्वरः कारणं परम्।



चित्तवत्त्वाद् यथा गोपो न जगत्कारणं परम्॥२१७॥



 



सामग्र्या भावनिर्वृत्तेः कश्चिन्नेकोऽस्ति नेश्वरः।



न चैककर्तृकः कश्चिन्नानैकान्तिकताप्यतः॥२१८॥



 



सेश्वरं चक्षुरादीष्टं बहुत्वाद् यदि दासवत्।



अजातैकेश्वरादिद्धेरीशः स्यात् तद्विपर्ययः॥२१९॥



 



सकर्तृकमथाभीष्टं रचितत्वाद् घटादिवत्।



अनिर्दिष्टविशेषेण कर्ता चेत् सिद्धसाधनम्॥२२०॥



 



अथ नित्यैकसूक्ष्मादिविशेषेण न तेऽन्वयः।



अनित्यमूर्तजातत्वदोषापत्तिश्च तस्य व॥२२१॥



 



सत्त्वभाजनसंख्यातलोकवैचित्र्यकारणम्।



कर्मेश्वरश्चेत् संवृत्या सिद्धमेव प्रसाध्यते॥२२२॥



 



एतेन कालपुरुषप्रधानपरमाणवः।



कारणं नास्य जगतो विष्णुर्वेति निषेधयेत्॥२२३॥



 



दृष्ट्यन्धकारविध्वंसो बुद्धोत्पादो यतस्ततः।



तद्वदायतनोत्पाद् इष्टश्चेदसदुत्तरम्॥२२४॥



 



अध्वाभावादनुत्पादे कस्य का दृष्टिरिष्यते।



तदभूतस्य बोधाय बुद्धोत्पादस्य कर्तृता॥२२५॥



 



असुरश्चेत् सुरान्नान्यः कथमेवमशाश्वतम्।



असुरश्चेत् सुरादन्योऽनुच्छेदो युज्यते कथम्॥२२६॥



 



अवाच्यत्वेऽपि घटवत् कथमुच्छेदवर्जनम्।



सदसत्त्वेऽपि निर्वाणे नेतरस्यास्त्यतिक्रमः॥२२७॥



 



यद्युत्पादो निरुद्धस्य कथमेवं न शाश्वतम्।



अनुत्पादे निरुद्धस्य कथं नोच्छेदवादिता॥२२८॥



 



संतानाद्रव्यसत्त्वाच्च कस्मादुच्छेदशाश्वतः



तदभावादनुत्पादो युक्तोऽनुच्छेदशाश्वतः॥२२९॥



 



अनुत्पादाय दुःखस्य बुद्धानां धर्मदेशना।



अतस्तत्फलसद्भावादुत्पादोऽभिमतो यदि॥२३०॥



 



पूर्ववत् तदनुत्पादात् कस्यानुत्पाद इष्यते।



नानुत्पादः फलं तस्य तत्परिज्ञा तु तत्फलम्॥२३१॥



 



तेनैव तस्याकरणात् स्वकृतं तन्न युज्यते।



अन्येनान्यक्रियायोगान्न चान्यकृतमिष्यते॥२३२॥



 



न स्वसंतानजं दुःखमिष्टं सत्त्वाद्यसंभवात्।



अद्रव्यत्वादभेदाच्च दुःखं तन्नापि संततेः॥२३३॥



 



उत्पादिनः प्रसाद्यन्ते संस्काराश्चक्षुरादयः।



सत्त्वसंज्ञाभिधेयत्वाद् बुद्धवद् यदि तत्त्वतः॥२३४॥



 



नोत्पादधर्मो बुद्धो नो नातस्तद्वत् तदुद्भवः।



आत्मवत् तदसत्त्वाद् वा मायावद् वास्तु संभवः॥२३५॥



 



रूपं न बुद्धो बोध्यत्वादुदयाद् वापि लोष्टवत्।



पराभासात्मभासत्वाद् विज्ञानं नेन्द्रजालवत्॥२३६॥



 



न बुद्धो रूपिणः स्कन्धाः स्कन्धसंग्रहतो मताः।



उदयव्ययधर्मित्वाज्ज्ञेयत्वाद् वापि रूपवत्॥२३७॥



 



तन्नाशे नाशदोषाच्च स्कन्धा बुद्धो न युज्यते।



नान्योऽन्यलक्षणाभावादात्मवत् स कथं च नः॥२३८॥



 



अवाच्योऽद्रव्यसन्नेष्टः पूर्ववत् तन्निराकृतेः।



घटवद् वाप्यवाच्यत्वात् कथं तद्बुद्धता मता॥२३९॥



 



न प्रतीत्यसमुत्पाददृष्टेः संबुद्धदर्शनात्।



इष्ट आयतनोत्पादः पूर्ववत् तन्निराकृतेः॥२४०॥



 



न सन् नासन् सदसतो न नित्यान्नाप्यहेतुतः।



नाप्यस्मान्नाप्यनस्माच्च शाश्वतोच्छेदवर्जितः॥२४१॥



 



न सन् नासन्न सदसन्नुत्पादोऽतः सकीदृशः।



दर्शनं दर्शनात् तस्य कथं शास्तुः प्रतीयते॥२४२॥



 



स्वभाववादिनां वादः स्वस्मादिष्टविघाटकः।



मायोत्पादवदुत्पादो यस्य तस्य तु युज्यते॥२४३॥



 



उक्तदोषमलापायात् सद्धर्मोल्काप्रकाशनात्।



क्रियोपकाररूपेण सांवृतं बुद्धदर्शनम्॥२४४॥



 



मायोपमस्याभूतत्वात् तत्त्वतस्तन्निदर्शनम्।



अप्रतर्क्यमविज्ञेयमनिरूप्यानिदर्शनम्॥२४५॥



 



निर्निमित्तं निराभासं निर्विकल्पं निरक्षरम्।



पश्यतो बुद्धिबोद्धव्यं तद्दर्शनमदर्शनात्॥२४६॥



 



तदेवं परमार्थेन न स्वतः परतो न च।



नोभयस्मादकस्माद् वा न सद् वासन्न चान्यथा॥२४७॥



 



न केशवेशपुरुषप्रधानाण्वादिकारणात्।



जायते व्यज्यते वापि भावः कश्चित् कथंचन॥२४८॥



 



तत्र स्वभावकारित्वलक्ष्यलक्षणसंश्रयः।



एकत्वान्यत्वसंक्लेशव्यवधानक्रियाश्रयाः॥२४९॥



 



यथाकाशे कशाघातो विचित्रं चित्रकर्म वा।



बीजानि वा न रोहन्ति तथास्मिन् सर्वकल्पनाः॥२५०॥



 



तिमिरापगमे यद्वद् विशुद्धामललोचनः।



नेक्षते केशमशकद्विचन्द्रशिखिचन्द्रकान्॥२५१॥



 



क्लेशज्ञेयावृतितमस्तिमिरापगमे तथा।



न पश्यति बुधः किंचित् सम्यग्ज्ञानामलेक्षणः॥२५२॥



 



यथा प्रसुप्तः पुत्रस्त्रीविमानभवनादिकम्।



पश्येत् सिद्धवशात् तत्र प्रतिबुद्धो न पश्यति॥२५३॥



 



संवृत्याधिगतांस्तद्वद् उन्मीलितमतीक्षणः।



अज्ञाननिद्रोपरमात् प्रतिबुद्धो न पश्यति॥२५४॥



 



निशि भूतान्यभूतानि यथा तमसि पश्यति।



प्रोन्मीलिताक्षोऽभ्युदिते रवावपि न पश्यति॥२५५॥



 



न पश्यति तथा विद्वांश्चित्तचैतसगोचरम्।



सम्यग्ज्ञानरविध्वस्तसमस्ताज्ञानवासनः॥२५६॥



 



स्वभावापरिनिष्पत्तेरजातेर्वा स्वभावतः।



मायेभवन्न भावानामीक्षते सत्स्वभावताम्॥२५७॥



 



उत्पत्तिमत्त्वात् संवृत्या हेतुमत्त्वादथापि वा।



मायेभवन्न भावानामीक्षते सत्स्वभावताम्॥२५८॥



 



न सन्ति भावा इति वा यथार्था न मतिर्मता।



कल्पनाद्वारनिर्वृत्तेः स्थाणोः पुरुषबुद्धिवत्॥२५९॥



 



असद्बुद्ध्युपलभ्यो वा भावात्मा वितथो मतः।



कल्पनाज्ञानगम्यत्वान्मरीच्युदकबुद्धिवत्॥२६०॥



 



सदसद्बुद्धिबोद्धव्यनिषेधादेवमेव तु।



जायतेऽजातियोगेन निर्विकल्पा मतिः सताम्॥२६१॥



 



शून्यत्वात् सर्वधर्माणां तदशून्यत्वतोऽपि वा।



न निष्कल्पा मतिर्नेष्टा प्राग्वत् तत्प्रतिषेधतः॥२६२॥



 



शून्यतादिस्वभावेन यतः शून्या हि शून्यता।



न पश्यति ततो विद्वाञ्छून्यतेत्यपि शून्यताम्॥२६३॥



 



निराभासोऽपि भावात्मा निष्कल्पमतिगोचरः।



आलम्ब्यत्वाद् यथार्थो न जलेन्दाविव चन्द्रधीः॥२६४॥



 



निर्विकल्पार्थविषया निर्विकल्पापि धीर्मृषा।



 अनात्मादिस्वभावत्वात् तद्यथा सविकल्पधीः॥२६५॥



 



ज्ञेयस्य सर्वथासिद्धेर्निर्विकल्पापि यत्र धीः।



नोत्पद्यते तदतुल्यं तत्त्वं तत्त्वविदो विदुः॥२६६॥



 



तद्बोधादुच्यते बुद्धो योऽसावनुदयो धियः।



अबोधबोधतो मुख्यो विकल्पस्वप्नसंक्षयात्॥२६७॥



 



अभिज्ञेयादिनिष्ठातः समताबोधतोऽपि वा।



निर्माणैर्वापि भव्यानां बुध्यम्बुजविबोधनात्॥२६८॥



 



विलक्षणानां धर्माणामनुत्पाद्यानिरुध्य वा।



समत्वेनापि समतां समं वा स्वपरात्मनोः॥२६९॥



 



अनालम्ब्यैव संबोधाल्लोकेऽस्मिन् सनरामरे।



उक्तोऽसंबोधसंबोधादेष संबुद्ध इत्यपि॥२७०॥



 



अप्रक्षेपान्निरुत्क्षेपाद् धर्माणां धर्मता यथा।



तथैव स गतो यस्मात् तस्मात् स च तथागतः॥२७१॥



 



गन्तव्यं सर्वथाशेषमन्तपातविवर्ज्यता।



अगत्यापि कायगत्या सुगतः सुगतो यतः॥२७२॥



 



सोऽमेयोऽमेयबोध्यत्वादसंख्येयोऽपि वाग्रहात्।



अचिन्त्योऽचित्तगम्यत्वादनिदर्श्योऽनिदर्शनात्॥२७३॥



 



अनिरूप्योऽनिरूप्यत्वादिदं तदिति सर्वथा।



निरञ्जनोऽञ्जनाभावाच्छिवश्चोपद्रवात्ययात्॥२७४॥



 



सर्वथाप्यविकल्पेन निराभासोऽतदात्मनः।



नित्यत्वान्नित्य इत्युक्तं नित्यं चार्थप्रसाधनात्॥२७५॥



 



शान्तः स्वभावशून्यत्वादनिमित्तोऽस्वभावतः।



निमित्तत्वानुपगमादनिमित्ततयाप्ययम्॥२७६॥



 



अनिमित्तो निराभासान्निराभासतयापि हि।



आनिमित्तो निराभासो दिदृक्षूणां कृपात्मनाम्॥२७७॥



 



अप्रतिष्ठो निरात्मत्वान्निर्विकल्पोऽप्रतिष्ठितेः।



निष्प्रपञ्चोऽविकल्पत्वान्निरालम्बस्तदग्रहात्॥२७८॥



 



निरुत्पादं निराकारं निर्विकारं प्रभास्वरम्।



समासममपर्यन्तं निर्विकल्पमलक्षणम्॥२७९॥



 



व्योमवद् ये महात्मानमीक्षन्ते तमनीक्षणात्।



निर्विकल्पनिराभोगविहारामललोचनाः॥२८०॥



 



नमस्कारमनस्कारव्याहारादिनिराकृताः।



नमस्यन्ति हि ये नाथं नमस्तेभ्योऽपि भावतः॥२८१॥



 



बुद्धाद्युक्तिसमारोपात् प्रतिपत्त्यनुगुण्यतः।



सर्वथाप्यविकल्पत्वादवाच्यस्तत्त्वतो मतः॥२८२॥



 



अत्र वाचो निवर्तन्ते चित्तस्येदमगोचरः।



निवर्तते च संकल्पो ज्ञानमौनं च जायते॥२८३॥



 



अनन्तपुण्यराशीणाममेयज्ञेयवेदिनाम्।



बुद्धानां धर्मकायोऽयं प्रपञ्चोपशमः शिवः॥२८४॥



 



न मांसचक्षुषा दृश्यो न दृश्यो दिव्यचक्षुषा।



सविकल्पाविकल्पेन ज्ञानेनाप्येष दुर्दृशः॥२८५॥



 



पापात्मनामिव स्वर्गः सरणानामिवारणा।



जात्यन्धानामिवादित्यः तार्किकाणामगोचरः॥२८६॥



 



न सन्नासन्न सदसन्नान्यस्तेभ्यो न चान्यथा।



नाणीयान् न महान् नैको न दूरे नापि चान्तिके॥२८७॥



 



किंचित् कथंचिन्नाप्यस्माज्जायते व्यज्यतेऽपि वा।



नात्रावतिष्ठते कश्चिन्नापि कश्चित् प्रलीयते॥२८८॥



 



इदं तत् परमं ब्रह्म ब्रह्माद्यैर्यन्न गृह्यते।



इदं तत् परमं सत्यं सत्यवादी जगौ मुनिः॥२८९॥



 



आर्यावलोकितेशार्यमैत्रेयाद्याश्च सूरयः।



अनुपासनयोगेन मुनयो यद् उपासते॥२९०॥



 



ततः स्वभावासंभेदात् तेन बोधिततत्त्वतः।



कायस्तथागतस्येष्टो नान्यस्य तदबोधतः॥२९१॥



 



एतदभ्यस्यतो ह्यस्यानुपलम्भविहारिणः।



सज्यते मानसं कुत्र द्विष्यते मुह्यतेऽपि वा॥२९२॥



 



इष्टानिष्टवियोगादिसंभवोऽस्य कुतो रुजः।



न लिप्यते लोकधर्मैर्वारिणेव सरोरुहम्॥२९३॥



 



न निर्गतश्च संसारात् संसाराच्च गतव्यथः।



असंप्राप्तश्च निर्वाणं निर्वाण इव च स्थितः॥२९४॥



 



न च क्लेशाग्निसंतापो व्योमवत् क्लेशवानपि।



अचित्तको न चाचित्तः समापत्तिसमाश्रितः॥२९५॥



 



स प्रज्ञामेरुशिखरमारुढः करुणावशात्।



अशोकः शोकसंतप्तं प्रेक्षते दुःखितं जगत्॥२९६॥



 



स तदा करुणार्द्रेण लोकमालोक्य चक्षुषा।



विकल्पशिल्पसंभूतकल्पनाजालसंवृतम्॥२९७॥



 



जन्ममृत्युजरारोगशोकशल्यव्रणातुरम्।



दीनं कृपणमस्वस्थमनाथमपरायणम्॥२९८॥



 



महादुःखौघपतितं दुःखोपशमवाञ्छया।



प्रवृत्तं मूढमनसं दुःखहेतुविवृद्धये॥२९९॥



 



शिवे प्रपञ्चोपशमे शरद्गगननिर्मले।



तत्त्वामृते निरालोकधीप्रचारमलोचनम्॥३००॥



 



पेपीड्यमानः कृपया तद्धिताधानदीक्षितः।



वज्रशैलमहासारसत्त्वः सत्त्वोत्तमः कृती॥३०१॥



 



दानशीलक्षमावीर्यध्यानप्रज्ञानियोगवान्।



यथाकालं यथाशक्तिः प्रज्ञास्मृतिपुरःसरः॥३०२॥



 



दानादिशैलप्रभवाः पुण्यामलजलाः शुभाः।



सर्वसत्त्वहितायैव प्रवर्तयनि निम्नगाः॥३०३॥



 



सर्वेभ्यः सर्वदा सर्वबाह्याद्यात्मिकवस्तुना।



अर्थिभ्यः सर्वदारिद्र्ययाच्ञादुःखानपोहति॥३०४॥



 



अर्थिनां पूरयन्नाशाः प्रतिक्षणमनोरमः।



सर्वदा चाक्षयफलो धन्यः कल्पद्रुमायते॥३०५॥



 



सुगतावेव जन्मास्य परसौख्यहितोदयम्।



इच्छया वा तदन्यत्र परसौख्यहितोदितेः॥३०६॥



 



भक्तशुद्धोपधानान्तपरिवारो गतौ गतौ।



समुद्रवद् बहुमुखैः पुण्यौघैः परिपूर्यते॥३०७॥



 



दक्षाविक्षिप्तचित्तश्च ज्ञेयाधिगमविज्ञया।



युक्तः सहजया बुद्ध्या तिष्ठेत् कल्पान् यथेप्सितान्॥३०८॥



 



समाध्याप्त्या च धीमत्त्वमसंख्येयाप्रमेयया।



अनन्तलोकधातूनामलंकारैरलंक्रिया॥३०९॥



 



शिल्पकर्माभिसंस्कारकर्मपाकप्रदर्शनम्।



यथाभीष्टोपपत्तिश्च जगद्धितविधित्सया॥३१०॥



 



दर्शनं लोकधातूनां पूर्णानां बुद्धविग्रहैः।



यथेष्टकालासंबोधबुद्धक्षेत्रप्रदर्शनम्॥३११॥



 



दर्शनं ज्ञेयतत्त्वस्य सर्वस्य ज्ञानचक्षुषा।



धर्मव्यवस्थावेदित्वं नामादीनां च लाभिता॥३१२॥



 



प्रकम्पनमनन्तानां लोकानामृद्धिजृम्भणात्।



युगपत् क्रमशो वापि कायज्वलनवर्षणम्॥३१३॥



 



सर्वासामप्यनन्तानां स्वाभया स्फुरणं दिशाम्।



संवेगाय सुरादीनां निरयादिप्रदर्शनम्॥३१४॥



 



अप्रमेयाद्भुताचिन्त्यगुणरत्नोज्ज्वलत्विषाम्।



दर्शनं लोकबन्धूनां बुद्धानां चैव पर्षदः॥३१५॥



 



सुवर्णमणिवैडूर्यमुक्तावज्रेन्द्रनीलताम्।



वाञ्छन् महामहीध्राणां करोत्यग्नेश्च शीतताम्॥३१६॥



 



उदारेण शरीरेण वज्रादिष्वप्यसङ्गिना।



क्षणात् करोति साश्चर्यं सर्वदिक्षु गतागतम्॥३१७॥



 



स्वकाये परमाणौ वा संप्रवेशनदर्शने।



अनन्तलोकधातूनां सत्त्वपीडां विनापि च॥३१८॥



 



लोकधातूनणोस्तुल्यानणोर्वा तत्प्रमाणताम्।



संक्षेपप्रथने वाञ्छन् करोत्यूर्ध्वमधोऽपि वा॥३१९॥



 



तत्प्रमाणप्रभावर्णस्वरेर्यपथसंपदा।



ब्रह्माद्याः पर्षदोऽभ्येति विनेयविनिनीषया॥३२०॥



 



आविर्भावतिरोभावावज्ञातस्तत्र केनचित्।



परव्यभिभवं चैव करोति करुणेरितः॥३२१॥



 



गतिस्थानोक्तिषु वशं जगत् स्थापयतीच्छया।



प्रतिभानविहीनानां प्रतिभानसुखप्रदः॥३२२॥



 



निरये दुःखतप्तानां शान्तये रश्मिमोक्षणम्।



करोति स सुरेन्द्रादिसभागागमनानि च॥३२३॥



 



यथाविनेयं निर्माणैर्निर्माणैः पूरयन् दिशः।



करोत्यलौकिकीं प्रीतिं देशनारत्नवृष्टिभिः॥३२४॥



 



त्र्यध्वाप्रमाणकायत्वं संबुद्धक्षेत्रसंपदम्।



अमेयलोकधातूनां संवर्तनविवर्तने॥३२५॥



 



स्वकाये सुगतक्षेत्रं तद् वा स्वं कायमात्मनि।



स्वक्षेत्रे सौगतं कायमिच्छया चाधितिष्ठति॥३२६॥



 



रश्मिभ्यो रोमकूपेभ्यस्तुर्येभ्यो वान्तरिक्षतः।



निर्माणेभ्यश्च निश्चार्य श्रवणोत्सवभूतया॥३२७॥



 



व्याप्तापर्यन्तया स्पष्टकलविङ्कमनोज्ञया।



गम्भीरोदारनादिन्या लोकानापूरयन् गिरा॥३२८॥



 



अधिमुक्तीन्द्रियवशात् प्रशमैकरसं शिवम्।



विनयाय विनेयानां वक्ति धर्ममनेकधा॥३२९॥



 



क्लिष्टं सानुशयं शुद्धं सुखदुःखादियोगि च।



हीनं मध्यं प्रणीतं वा सम्यक्प्रणिहितादि च॥३३०॥



 



येषां यत्र यथा यावच्चित्तं भवति देहिनाम्।



तेषां तत्र तथा तावद् बहूनामपि वेत्ति तत्॥३३१॥



 



दिव्यनिर्मितसूक्ष्माणि तद्विपर्ययभाञ्जि च।



सर्वत्र सर्वरूपाणि दिव्यचक्षुः स पश्यति॥३३२॥



 



दिव्यार्यधननिर्माणदिव्याञ्छब्दान् समानुषान्।



दूरस्थान् विपरीतांश्च दिव्यश्रोत्रः शृणोत्यसौ॥३३३॥



 



पूर्वे निवासं सर्वत्र सत्त्वानां स्वात्मनोऽपि वा।



स्मरति स्मारयत्यन्यान् नामगोत्रादिभेदतः॥३३४॥



 



नानागतिष्वनिष्टेष्टचित्रकर्मफलस्थितान्।



च्यवमानांश्च्युतान् जातान् वेत्ति सर्वत्र देहिनः॥३३५॥



 



लोकधातुष्वमेयेषु विनेयान् विनयत्ययम्।



तुषितच्युत्यवक्रान्तिसंबोधादिप्रदर्शनैः॥३३६॥



 



आकाङ्क्षमाणोऽपर्यन्तलोकधातुरजःसमान्।



बुद्धक्षेत्रेषु तावत्सु स्वक्षेत्रादचलोऽपि सन्॥३३७॥



 



निर्माय स्वेच्छया कायानेकैकस्मिंश्च तावतः।



पाणीन् मूर्ध्नश्च तज्जिह्वाः प्रत्येकं चापि तावतीः॥३३८॥



 



गन्धपुष्पपुटैश्चित्रैर्जाह्नवीसिकतोपमैः।



मेरुमात्रैः स्फुरद्गन्धस्फीतोत्तमसुगन्धिभिः॥३३९॥



 



संबुद्धेभ्यो विबुद्धेभ्यो जगद्धितविधौ परे।



पूजां विधत्ते भक्त्यार्द्रः स्तुतिभिः स्तैति चासकृत्॥३४०॥



 



रत्नच्छत्रवितानाद्यैर्मुक्ताजालपरिष्कृतैः।



अप्रमाणैः स्फुरद्रत्नकिरणाङ्कुरदन्तुरैः॥३४१॥



 



रम्यहर्म्योज्ज्वलस्तम्भैर्मुक्ताहारविलम्बिभिः।



विचित्रोदाररत्नौघघटितैश्चित्रकर्मभिः॥३४२॥



 



कूटागारैर्ज्वलद्रत्नप्रभादीपशतोज्ज्वलैः।



अभ्रंलिहैश्च कुर्वद्भिः स्वप्रभाशवला दिशः॥३४३॥



 



स तेभ्योऽनेकपर्यायां देशनां चासकृत् कृती।



शृणोति वक्ति चान्येभ्योऽन्यूनाधिकपदाक्षराम्॥३४४॥



 



अमेयकल्पासंख्येयपुण्यज्ञानचयोच्छ्रितः।



गत्वा पारमितापारमित्येवं पुरुषोत्तमः॥३४५॥



 



भूत्वा संबुद्धसविता भव्यबुद्ध्यम्बुजाकरम्।



बोधयत्युक्तिकिरणैरमलैर्मलहारिभिः॥३४६॥



 



तुषारहारशीतांशुचन्दनाधिकशीतलैः।



मनःक्लेशाग्निसंतापं देहिनां हन्ति वाग्जलैः॥३४७॥



 



जन्मावर्ताद् दुःखवीचेर्मृत्युग्राहाद् भवोदधेः।



तारयत्याशु जनतां यानत्रयमहाप्लवैः॥३४८॥



 



स्वसुभाषितरत्नौघैरत्यन्तं तृड्विघातिभिः।



निहन्ति गुणदारिद्र्यं जगतोऽनादिकालिकम्॥३४९॥



 



द्रवन्तं भवकान्तारमविद्याधर्मदेशिकम्।



जनं नयन्ति निर्वाणं प्रज्ञोन्मीलितचक्षुषम्॥३५०॥



 



संक्लेशाशीविषैर्दष्टं स्वहिताधारमूर्च्छितम्।



चिकित्सति यथाभूतं ज्ञानविद्यागदैर्जगत्॥३५१॥



 



चिरमज्ञानशयिताननाथान् प्राणिनो भवे।



प्रबोधयति कारुण्याद् देशनापटहस्वनैः॥३५२॥



 



तृष्णानिगडबद्धानां चिरं संसारचारके।



करोति बन्धनिर्मोक्षं चतुर्मारपराजयात्॥३५३॥



 



हुताशवदतृप्तानां विषयैर्दिव्यमानुषैः।



करोति देहिनां तृप्तिं प्रज्ञामृतरसैः शुभैः॥३५४॥



 



दुर्दान्ततीर्थ्यमातङ्गज्ञानमानमदापहम्।



पर्षत्सु शून्यतासिंहमहानादं नदत्यपि॥३५५॥



 



महेन्द्रचापसंकाशव्योमाभापरिवेषिणा।



देशस्थोत्तप्तसंपूर्णलक्षणव्यञ्जनश्रिया॥३५६॥



 



लक्ष्म्यलंकारभूतेन मनोनयनहारिणा।



रूपेणाप्रतिरूपेण सर्वशोभाभिभाविना॥३५७॥



 



सप्रातिहार्यया चैव सषष्ट्याकारया गिरा।



सुरासुरनरादीनामावर्जयति मानसम्॥३५८॥



 



स चिन्तामणिकल्पेन वपुषा वचसापि च।



विनेयार्थवशाद् दत्ते विश्वेषो विश्वरूपताम्॥३५९॥



 



इत्येवमाद्यसंख्येयामेयाद्भुतगुणाकरम्।



माहात्म्यं लभते विद्वानेतां प्रतिपदं श्रितः॥३६०॥



 



तत्त्वज्ञानैषणा नाम तृतीयः परिच्छेदःअव्योमाभापरिवेषिणा।



देशस्थोत्तप्तसंपूर्णलक्षणव्यञ्जनश्रिया॥३५६॥



 



लक्ष्म्यलंकारभूतेन मनोनयनहारिणा।



रूपेणाप्रतिरूपेण सर्वशोभाभिभाविना॥३५७॥



 



सप्रातिहार्यया चैव सषष्ट्याकारया गिरा।



सुरासुरनरादीनामावर्जयति मानसम्॥३५८॥



 



स चिन्तामणिकल्पेन वपुषा वचसापि च।



विनेयार्थवशाद् दत्ते विश्वेषो विश्वरूपताम्॥३५९॥



 



इत्येवमाद्यसंख्येयामेयाद्भुतगुणाकरम्।



माहात्म्यं लभते विद्वानेतां प्रतिपदं श्रितः॥३६०॥



 



तत्त्वज्ञानैषणा नाम 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project