Digital Sanskrit Buddhist Canon

विपर्यासपरीक्षा त्रयोविंशतितमं प्रकरणम्

Technical Details
२३

विपर्यासपरीक्षा त्रयोविंशतितमं प्रकरणम्।



संकल्पप्रभवो रागो द्वेषो मोहश्च कथ्यते।

शुभाशुभविपर्यासान् संभवन्ति प्रतीत्य हि॥१॥



शुभाशुभविपर्यासान् संभवन्ति प्रतीत्य ये।

ते स्वभावान्न विद्यन्ते तस्मात् क्लेशा न तत्त्वतः॥२॥



आत्मनोऽस्तित्वनास्तित्वे न कथंचिच्च सिध्यतः।

तं विनास्तित्वनास्तित्वे क्लेशानां सिध्यतः कथम्॥३॥



कस्यचिद्धि भवन्तीमे क्लेशाः स च न सिध्यति।

कश्चिदाहो विना कंचित्सन्ति क्लेशा न कस्यचित्॥४॥



स्वकायदृष्टिवत् क्लेशाः क्लिष्टे सन्ति न पञ्चधा।

स्वकायदृष्टिवत् क्लिष्टं क्लेशेष्वपि न पञ्चधा॥५॥



स्वभावतो न विद्यन्ते शुभाशुभविपर्ययाः।

प्रतीत्य कतमान् क्लेशाः शुभाशुभविपर्ययान्॥६॥



रूपशब्दरसस्पर्शा गन्धा धर्माश्च षड्विधम्।

वस्तु रागस्य द्वेषस्य मोहस्य च विकल्प्यते॥७॥



रूपशब्दरसस्पर्शा गन्धा धर्माश्च केवलाः।

गन्धर्वनगराकारा मरीचिस्वप्नसंनिभाः॥८॥



अशुभं वा शुभं वापि कुतस्तेषु भविष्यति।

मायापुरुषकल्पेषु प्रतिबिम्बसमेषु च॥९॥



अनपेक्ष्य शुभं नास्त्यशुभं प्रज्ञपयेमहि।

यत्प्रतीत्य शुभं तस्माच्छुभं नैवोपपद्यते॥१०॥



अनपेक्ष्याशुभं नास्ति शुभं प्रज्ञपयेमहि।

यत्प्रतीत्याशुभं तस्मादशुभं नैव विद्यते॥११॥



अविद्यमाने च शुभे कुतो रागो भविष्यति।

अशुभेऽविद्यमाने च कुतो द्वेषो भविष्यति॥१२॥



अनित्ये नित्यमित्येवं यदि ग्राहो विपर्ययः।

नानित्यं विद्यते शून्ये कुतो ग्राहो विपर्ययः॥१३॥



अनित्ये नित्यमित्येवं यदि ग्राहो विपर्ययः।

अनित्यमित्यपि ग्राहः शून्ये किं न विपर्ययः॥१४॥



येन गृण्हाति यो ग्राहो ग्रहीता यच्च गृह्यते।

उपशान्तानि सर्वाणि तस्माद्ग्राहो न विद्यते॥१५॥



अविद्यमाने ग्राहे च मिथ्या वा सम्यगेव वा।

भवेद्विपर्ययः कस्य भवेत्कस्याविपर्ययः॥१६॥



न चापि विपरीतस्य संभवन्ति विपर्ययाः।

न चाप्यविपरीतस्य संभवन्ति विपर्ययाः॥१७॥



न विपर्यस्यमानस्य संभवन्ति विपर्ययाः।

विमृशस्व स्वयं कस्य संभवन्ति विपर्ययाः॥१८॥



अनुत्पन्नाः कथं नाम भविष्यन्ति विपर्ययाः।

विपर्ययेष्वजातेषु विपर्ययगतः कुतः॥१९॥



न स्वतो जायते भावः परतो नैव जायते।

न स्वतः परतश्चेति विपर्ययगतः कुतः॥२०॥



आत्मा च शुचि नित्यं च सुखं च यदि विद्यते।

आत्मा च शुचि नित्यं च सुखं च न विपर्ययः॥२१॥



नात्मा च शुचि नित्यं च सुखं च यदि विद्यते।

अनात्माशुच्यनित्यं च नैव दुःखं च विद्यते॥२२॥



एवं निरुध्यतेऽविद्या विपर्ययनिरोधनात्।

अविद्यायां निरुद्धायां संस्काराद्यं निरुध्यते॥२३॥



यदि भूताः स्वभावेन क्लेशाः केचिद्धि कस्यचित्।

कथं नाम प्रहीयेरन् कः स्वभावं प्रहास्यति॥२४॥



यद्यभूताः स्वभावेन क्लेशाः केचिद्धि कस्यचित्।

कथं नाम प्रहीयेरन् कोऽसद्भावं प्रहास्यति॥२५॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project