Digital Sanskrit Buddhist Canon

संस्कृतपरीक्षा सप्तमं प्रकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West


संस्कृतपरीक्षा सप्तमं प्रकरणम्।



यदि संस्कृत उत्पादस्तत्र युक्ता त्रिलक्षणी।

अथासंस्कृत उत्पादः कथं संस्कृतलक्षणम्॥१॥



उत्पादाद्यास्त्रयो व्यस्ता नालं लक्षणकर्मणि।

संस्कृतस्य समस्ताः स्युरेकत्र कथमेकदा॥२॥



उत्पादस्थितिभङ्गानामन्यत्संस्कृतलक्षणम्।

अस्ति चेदनवस्थैवं नास्ति चेत्ते न संस्कृताः॥३॥



उत्पादोत्पाद उत्पादो मूलोत्पादस्य केवलम्।

उत्पादोत्पादमुत्पादो मौलो जनयते पुनः॥४॥



उत्पादोत्पाद उत्पादो मूलोत्पादस्य ते यदि।

मौलेनाजनितस्तं ते स कथं जनयिष्यति॥५॥



स ते मौलेन जनितो मौलं जनयते यदि।

मौलः स तेनाजनितस्तमुत्पादयते कथम्॥६॥



अयमुत्पद्यमानस्ते काममुत्पादयेदिमम्।

यदीममुत्पादयितुमजातः शक्नुयादयम्॥७॥



प्रदीपः स्वपरात्मानौ संप्रकाशयिता यथा।

उत्पादः स्वपरात्मानावुभावुत्पादयेत्तथा॥८॥



प्रदीपे नान्धकारोऽस्ति यत्र चासौ प्रतिष्ठितः।

किं प्रकाशयति दीपः प्रकाशो हि तमोवधः॥९॥



कथमुत्पद्यमानेन प्रदीपेन तमो हतम्।

नोत्पद्यमानो हि तमः प्रदीपः प्राप्नुते यदा॥१०॥



अप्राप्यैव प्रदीपेन यदि वा निहतं तमः।

इहस्थः सर्वलोकस्थं स तमो निहनिष्यति॥११॥



प्रदीपः स्वपरात्मानौ संप्रकाशयते यदि।

तमोऽपि स्वपरात्मानौ छादयिष्यत्यसंशयम्॥१२॥



अनुत्पन्नोऽयमुत्पादः स्वात्मानं जनयेत्कथम्।

अथोत्पन्नो जनयते जाते किं जन्यते पुनः॥१३॥



नोत्पद्यमानं नोत्पन्नं नानुत्पन्नं कथंचन।

उत्पद्यते तथाख्यातं गम्यमानगतागतैः॥१४॥



उत्पद्यमानमुत्पत्ताविदं न क्रमते यदा।

कथमुत्पद्यमानं तु प्रतीत्योत्पत्तिमुच्यते॥१५॥



प्रतीत्य यद्यद्भवति तत्तच्छान्तं स्वभावतः।

तस्मादुत्पद्यमानं च शान्तमुत्पत्तिरेव च॥१६॥



यदि कश्चिदनुत्पन्नो भावः संविद्यते क्वचित्।

उत्पद्येत स किं तस्मिन् भाव उत्पद्यतेऽसति॥१७॥



उत्पद्यमानमुत्पादो यदि चोत्पादयत्ययम्।

उत्पादयेत्तमुत्पादमुत्पादः कतमः पुनः॥१८॥



अन्य उत्पादत्येनं यद्युत्पादोऽनवस्थितिः।

अथानुत्पाद उत्पन्नः सर्वमुत्पद्यते तथा॥१९॥



सतश्च तावदुत्पत्तिरसतश्च न युज्यते।

न सतश्चासतश्चेति पूर्वमेवोपपादितम्॥२०॥



निरुध्यमानस्योत्पत्तिर्न भावस्योपपद्यते।

यश्चानिरुध्यमानस्तु स भावो नोपपद्यते॥२१॥



न स्थितभावस्तिष्ठत्यस्थितभावो न तिष्ठति।

न तिष्ठति तिष्ठमानः कोऽनुत्पन्नश्च तिष्ठति॥२२॥



स्थितिर्निरुध्यमानस्य न भावस्योपपद्यते।

यश्चानिरुध्यमानस्तु स भावो नोपपद्यते॥२३॥



जरामरणधर्मेषु सर्वभावेषु सर्वदा।

तिष्ठन्ति कतमे भावा ये जरामरणं विना॥२४॥



स्थित्यान्यया स्थितेः स्थानं तयैव च न युज्यते।

उत्पादस्य यथोत्पादो नात्मना न परात्मना॥२५॥



निरुध्यते नानिरुद्धं न निरुद्धं निरुध्यते।

तथापि निरुध्यमानं किमजातं निरुध्यते॥२६॥



स्थितस्य तावद्भावस्य निरोधो नोपपद्यते।

नास्थितस्यापि भावस्य निरोध उपपद्यते॥२७॥



तयैवावस्थयावस्था न हि सैव निरुध्यते।

अन्ययावस्थयावस्था न चान्यैव निरुध्यते॥२८॥



यदैवं सर्वधर्माणामुत्पादो नोपपद्यते।

तदैवं सर्वधर्माणां निरोधो नोपपद्यते॥२९॥



सतश्च तावद्भावस्य निरोधो नोपपद्यते।

एकत्वे न हि भावश्च नाभावश्चोपपद्यते॥३०॥



असतोऽपि न भावस्य निरोध उपपद्यते।

न द्वितीयस्य शिरसच्छेदनं विद्यते यथा॥३१॥



न स्वात्मना निरोधोऽस्ति निरोधो न परात्मना।

उत्पादस्य यथोत्पादो नात्मना न परात्मना॥३२॥



उत्पादस्थितिभङ्गानामसिद्धेर्नास्ति संस्कृतम्।

संस्कृतस्याप्रसिद्धौ च कथं सेत्स्यत्यसंस्कृतम्॥३३॥



यथा माया यथा स्वप्नो गन्धर्वनगरं यथा।

तथोत्पादस्तथा स्थानं तथा भङ्ग उदाहृतम्॥३४॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project