Digital Sanskrit Buddhist Canon

सप्तविंशतितमं प्रकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Saptaviṁśatitamaṁ prakaraṇam

दृष्टिपरीक्षा सप्तविंशतितमं प्रकरणम्।

यश्चैवं प्रतीत्यसमुत्पादं यथाभूतं सम्यक् पश्यति, स न पूर्वान्तं प्रतिसरति, नापरान्तं प्रतिसरति, - इत्यादि सूत्रे पठयते, तत्र कतमः पूर्वान्तः, कतमोऽपरान्तः, कथं न प्रतिसरतीति? तद्वयुत्पत्यर्थमिदमारभ्यते। तत्र वर्तमानमात्मभावमपेक्ष्य अतीता आत्मभावाः पूर्वान्त इत्युच्यते। पूर्वो हि जन्मपरंपरांशः पूर्वान्तः। तं न प्रतिसरति, दृष्टिप्रकारैर्नालम्बते। प्रतीत्यसमुत्पादस्य यथावदवस्थिततत्त्वदर्शनात् नान्यथावस्थितं वस्तु अन्यथा अभिनिविशते। तत्र अष्टौ दृष्टयः पूर्वान्तमालम्ब्य अन्यथा प्रवृत्ताः। तद्यथा -

अभूमतीतमध्वानं नाभूमिति च दृष्टयः।
यास्ताः शाश्वतलोकाद्याः पूर्वान्तं समुपाश्रिताः॥१॥

तत्र इतिशब्दः आद्यर्थः। अथवा दृष्टिद्वयोपादानमुपलक्षणार्थम्। चतस्त्रस्त्वेता दृष्टयः। तद्यथा - किं न्वहमभूवमतीतमध्वानम्, नाभूवमतीतमध्वानम्, अभूवं च नाभूवं च, नैवाभूवं न नाभूवम्, इति। एताश्चतस्रो दृष्टयः पूर्वान्तं समाश्रिताः। अपरा अपि चतस्र इत्याह-

यास्ताः शाश्वतलोकाद्याः
पूर्वं प्रसङ्गेन उपवर्णिताः, ता अपि

पूर्वान्तं समुपाश्रिताः॥

तत्र यद्यपि पूर्वान्ताद् दृष्टिचतुष्टयादुत्तरं दृष्टिचतुष्टयं नातिभिद्यते, तथापि तावन्मात्र विशेषमाश्रित्य पृथगुपादीयते। तच्च उत्तरत्र व्याख्यास्यामः। तत्र शाश्वतो लोकः इत्येतत्, अभूवमतीतमध्वानम्, इत्येतस्मान्नातिभिद्यते। अथवा अयं विशेषः - यच्छाश्वतो लोकः इत्येषां दृष्टिः सामान्येन पूर्वान्तमाश्रिता। अभूवमतीतमध्वानम्, इत्येषा तु आत्मन एव पूर्वान्तपरामर्शेन प्रवृत्ता, न सामान्येनेति। एवमन्यास्वपि दृष्टिषु विशेषो वक्तव्यः। इत्येवं तावत् अष्टावेता दृष्टयः पूर्वान्तं समुपाश्रिताः॥१॥

उक्तः पूर्वान्तस्तदालम्बिकाभिर्दृष्टिभिः सार्धम्। इदानीमपरान्त उच्यते। तत्र वर्तमान मात्मभावमपेक्ष्य भाविनः आत्मभावाः अपरान्त इत्युच्यते। अपरो हि जन्मपरंपरांशोऽपरान्तः, तं न प्रतिसरति, दृष्टिप्रकारैर्नालम्बते। प्रतीत्यसमुत्पादस्य यथावदवस्थिततत्त्वदर्शनात्, नान्यथावस्थितं वस्तु अन्यथाभिनिविशते। तत्र अष्टौ दृष्टयः अपरान्तमालम्ब्य अन्यथा प्रवृत्ताः। तद्यथा -

दृष्टयो न भविष्यामि किमन्योऽनागतेऽध्वनि।
भविष्यामीति चान्ताद्या अपरान्तं समाश्रिताः॥२॥

इहापि दृष्टिद्वयोपादानमुपलक्षणार्थम्। चतस्त्रस्त्वेता दृष्टयः। तद्यथा - किं नु भविष्याम्यनागतमध्वानम्, न भविष्यामि, भविष्यामि च न भविष्यामि च, नैव भविष्यामि न च न भविष्याम्यनागतमध्वानम्, इत्येताश्चतस्रो दृष्टयः अपरान्तं समाश्रिताः। किमेता एव चतस्रो दृष्टयः अपरान्तं समाश्रिताः? नेत्याह। किं तर्हि अपरा अपि चतस्रो विद्यन्ते अन्ताद्या अपरान्तं समाश्रिताः। तत्र अन्ताद्याश्चतस्रो दृष्टयः सामान्येन अपरान्तमाश्रित्य प्रवृत्ताः, किं तु भविष्याम्यनागतमध्वानमित्येतास्तु आत्मन एवापरान्तमाश्रित्य प्रवृत्ताः, इत्येवं दृष्टिचतुष्टयस्य विशेष इति बोद्धव्यम्॥२॥

तत्र आद्यस्य तावत् पूर्वान्तालम्बिकस्य दृष्टिचतुष्टयस्य यथा न संभवः, तथा प्रतिपादयन्नाह -

अभूमतीतमध्वानमित्येतन्नोपपद्यते।
यो हि जन्मसु पूर्वेषु स एव न भवत्ययम्॥३॥

तत्र य एव अतीतेषु जन्मसु बभूव, यदि स एवायमधुना स्यात्, तदा युक्तमस्य ग्रहीतुम्- अभूवमहमतीतमध्वानमिति। न चैतदेवं संभवति नित्यत्वप्रसङ्गात्, नित्यस्य च संसरणा नुपपत्तेः, एकगतिस्थस्यापि नानागतिसंगृहीतत्वप्रसङ्गात्। इह हि पूर्वं यदि नरकादिगतिको भूत्वा इदानीं कर्मवैचित्र्यात् मनुष्येषु उपपन्नः एवंकल्पयेत् - अहमेवासौ नारक आसम् इति , तदस्य न युक्तम्। कथं हि नाम मनुष्यः सन् नारकादिकः स्यात्?

यत्तर्हि इदं पठयते सूत्रे - अहमेव स तेन कालेन तेन समयेन मान्धाता नाम राजा चक्रवर्ती अभूवम् इति, तत् कथं वेदितव्यमिति? अन्यत्वप्रतिषेधपरं तद्वचनं नैकत्वप्रतिपादकमिति विज्ञेयम्। अत एव हि नान्यः स तेन कालेन तेन समयेनेति पठयते। यदि पुनः स एवायमिति पूर्वकस्य चाधुनातनस्य च एकत्वं स्यात्, को दोषः स्यात्? उक्तस्तावदत्र दोषः - नित्यत्वं स्यादिति॥३॥

तथापि भूय उच्यते -

स एवात्मेति तु भवेदुपादानं विशिष्यते।

यदि स एव पूर्वक आत्मायमिदानीं स्यात्, तदा उपादानस्य पञ्चस्कन्धलक्षणस्य विशेषो न स्यात् उपादातुरविशेषात्पूर्वावस्थायामिव। न चैवमुपादानाविशेषोऽस्यात्मनः, किं तर्हि विशिष्यत एव उपादानमुपादातुः कर्मभेदात् कारकभेदाच्च। ततश्च उपादानविशेषात् स एवायमात्मेति न युज्यते॥

अथ मन्यसे - विशिष्यतामुपादानम्, आत्मा तु एक एवेति। अतः आत्मनोऽविशिष्टत्वा दभूमतीतमध्वानमित्येतद् भविष्यत्येव। उच्यते -

उपादानविनिर्मुक्त आत्मा ते कतमः पुनः॥४॥

यदि हि अन्यदुपादानम्, अन्यश्चात्मा स्यात्, तदा उपादानविशेषेऽपि आत्मनोऽविशेषात् स्यादेतदेवम्। न चैतद् भेदेन दर्शयितुं शक्यम् - अयमसावात्मा, इदमस्योपादानमिति, उपादानविशिष्टस्वभावत्वादात्मनोऽहेतुकत्वप्रसङ्गात्, पृथग्ग्रहणप्रसङ्गाच्च। यदा चैवमुपादानविनिर्मुक्त आत्मा दर्शयितुं न शक्यते, तदा उपादानविशेषेऽपि आत्माविशेष इति न शक्यते कल्पयितुम्॥४॥

अथापि कश्चित् परिकल्पयेत्- सत्यम्, उपादानविनिर्मुक्त इति एवं न संभवति, किमुपादानमेव आत्मत्वेन परिकल्प्यते इति ? एतदपि न युक्तमिति प्रतिपादयन्नाह -

उपादानविनिर्मुक्तो नास्त्यात्मेति कृते सति।
स्यादुपादानमेवात्मा नास्ति चात्मेति वः पुनः॥५॥

यथा तावदुपादानमेवात्मा न संभवति तथा प्रतिपादयन्नाह -

न चोपादानमेवात्मा व्येति तत्समुदेति च।
कथं हि नामोपादानमुपादाता भविष्यति॥६॥

तत्र यदेतत् पञ्चोपादानस्कन्धाख्यमुपादानम्, तत् प्रतिक्षणमुत्पद्यते च विनश्यति च। न चैवमात्मा प्रतिक्षणमुत्पद्यते च विनश्यति च। आत्मा स्कन्धेभ्यस्तत्त्वान्यत्वादिना च नित्यानित्यत्वेनाप्यशक्य एव वक्तुम्, अनेकदोषप्रसङ्गात्। नित्यत्वे हि आत्मनः शाश्वतवादः स्यात्, अनित्यत्वे च उच्छेदवादप्रसङ्गः। ततश्च तदुभयं शाश्वतोच्छेदाख्यं महानर्थकरमिति नोपगन्तव्यम्। अतः उपादानमेवात्मेति तावन्न युज्यते॥

अपि च - कथं हि नामोपादानमुपादाता भविष्यति।

इह उपादीयते इत्युपादानं कर्म। तस्य च अवश्यमुपादात्रा उपार्जकेन भवितव्यम्। तस्य चोपादानस्य यदि आत्मत्वमिष्यते, तत्र उपादानमेव उपादाता इत्यपि विद्यते। ततश्च कर्तृकर्मणोरैक्ये सति छेतृच्छेत्तव्यघटकुम्भकाराग्नीन्धनादीनामपि ऐक्यं स्यात्। न चैतद् दृष्टं युक्तं वा इति प्रतिपादयन्नाह -

कथं हि नामोपादानमुपादाता भविष्यति। इति।

अपि तु अत्यन्तासंभव एवास्य पक्षस्येत्यभिप्रायः॥६॥

अत्राह - सत्यमुपादानमात्रमात्मा न युज्यते, किं तर्हि उपादानव्यतिरिक्त एव आत्मा भविष्यति। एतदपि न युक्तम्। किं कारणम्? यस्मात् -

अन्यः पुनरुपादानादात्मा नैवोपपद्यते।
गृह्यते ह्यनुपादानो यद्यन्यो न च गृह्यते॥ ७॥

यदि उपादानादात्मा व्यतिरिक्तः स्यात्, गृह्येत स उपादानव्यतिरिक्तः, घटादिव पटः। न चैवं गृह्यते। तस्मादुपादानव्यतिरिक्तोऽपि नास्ति। अनुपादानः उपादानव्यतिरेकेण अगृह्यमाणत्वात् खपुष्पवत्, इत्यभिप्रायः॥७॥

इदानीं यथोपपादितमर्थं निगमयन्नाह -

एवं नान्य उपादानान्न चोपादानमेव सः।
आत्मा नास्त्यनुपादानः

अथ स्यात् - यदि आत्मा उपादानस्वरूपो न भवति, उपादानोपादात्रोरेकत्वप्रसङ्गात्। उदयव्ययप्रसङ्गाच्च। स हि अन्योऽपि न भवति उपादानमनपेक्ष्य भेदेन ग्रहणप्रसङ्गात्। न चाप्यनुपादानः, उपादाननिरपेक्षस्य ग्रहणप्रसङ्गात्। एवं तर्हि नास्ति आत्मेत्यस्तु। उच्यते -

नापि नास्त्येष निश्चयः॥८॥

यो हि नाम स्कन्धानुपादाय प्रज्ञप्यते, स कथं नास्तीति स्यात्? न हि अविद्यमानो वन्ध्यातनयः स्कन्धानुपादाय प्रज्ञप्यते। कथं सति उपादाने उपादाता नास्तीति युज्यते। तस्मान्नास्तित्वमप्यस्य न युज्यते। तस्मान्नास्ति आत्मेति निश्चयोऽप्येष नोपपद्यते। अस्य त्वात्मनो व्यवस्थानं विस्तरेण मध्यमकावतारादवसेयम्। इहापि च पूर्वमेव स्थानस्थानेषु कृता व्यवस्थेति न पुनरिह तद्वयवस्थाने यत्न आस्थीयते॥८॥

एवं तावदभूवमतीतमध्वानमित्येषा कल्पना नोपपद्यते। इदानीं नाभूवमतीतमध्वान मित्येदपि यथा नोपपद्यते तथा प्रतिपादयन्नाह -

नाभूमतीतमध्वानमित्येतन्नोपपद्यते।
यो हि जन्मसु पूर्वेषु ततोऽन्यो न भवत्ययम्॥९॥

यदि पूर्वकादात्मनः अस्य अधुनातनस्य आत्मनोऽन्यत्वं स्यात्, तदानीं नाभूमतीत मध्वानमिति स्यात्। न चैतदेवं संभवति। तस्मान्नाभूवमतीतमध्वानमित्येतन्नोपपद्यते॥९॥

यदि पुनः पूर्वकादात्मनः अस्य अन्यत्वं स्यात्, को दोष इति ? उच्यते -

यदि ह्ययं भवेदन्यः प्रत्याख्यायापि तं भवेत्।
तथैव च स संतिष्ठेत्तत्र जायेत वामृतः॥१०॥

यदि हि अयमधुनातन आत्मा पूर्वकादात्मनः अन्यः स्यात्, तदा तं पूर्वकमात्मानं प्रत्याख्याय परित्यज्य तन्निरपेक्षः अतद्धेतुक एव स्यात्। किं चान्यत्। तथैव च स संतिष्ठेत्तत्र यदि पूर्वकादात्मनः अस्य अन्यत्वं स्यात्, तदा अन्यत्वाद् घटोत्पादे पटाविनाशवत् पूर्वस्यात्मना उत्तरस्मिन्नपि आत्मनि समुत्पद्यमानेऽपि अनिरोधः स्यात्। अनिरुद्धत्वाच्च यत्र पूर्वं देवमनुष्यादि जन्मसु उपपन्नः, येन वर्णसंस्थानादिना पूर्वमुपलभ्यमानः, तेनैव प्रकारेण तथैव स तत्रावतिष्ठेत तथैवावतिष्ठेतेति। तस्मान्नाभूवमतीतमध्वानमित्येतन्नोपपद्यते॥

अत्राह - तत्र यदुक्तम् -
यदि ह्ययं भवेदन्यः प्रत्याख्यायापि तं भवेत्। इति , यदि पुन पूर्वकमात्मानं प्रत्याख्याय [ अयमिह भवेत्, को दोषः स्यात्? तत्र दोषा बहवः स्युः। कथमिति चेत्, यस्मादेवं सति -

उच्छेदः कर्मणां नाशस्तथान्यकृतकर्मणाम्।
अन्येन परिभोगः स्यादेवमादि प्रसज्यते॥११॥

यदि पूर्वकमात्मानं प्रत्याख्याय अयमात्मा भवेत्, तदा ] पूर्वकस्य आत्मनः तत्र नष्टत्वाद्, इह च अन्यस्यैव चोत्पादनात्पूर्वकस्यात्मन उच्छेदः स्यात्। तस्मिंश्च आत्मनि उच्छिन्ने कर्मणामदत्तफलानामेवाश्रयविच्छेदेन विच्छेदात्, भोक्तश्चाभावान्नाश एव स्यात्। अथ पूर्वकेनात्मना कृतस्य कर्मणः उत्तरेणात्मना फलपरिभोगः परिकल्प्यते, तथापि अन्येन कृतस्य कर्मणः फलस्य अन्येनोपभोगः स्यात्। ततश्च -

अकृताभ्यागमभयं स्यात्कर्माकृतकं यदि।

इत्येवमादि अनिष्टमापद्यते॥११॥

अपि च। यदि अयमात्मा पूर्वकादात्मनः अन्य एव अत्रोपपन्नः स्यात्, तदा पूर्वमभूत्वा पश्चादुत्पन्न इति स्यात्। न चैतद्युक्तमिति प्रतिपादयन्नाह -

नाप्यभूत्वा समुद्भूतो दोषो ह्यत्र प्रसज्यते।
कृतको वा भवेदात्मा संभूतो वाप्यहेतुकः॥१२॥

इति। यदि हि आत्मा पूर्वमभूत्वा पश्चादुत्पन्नः स्यात्, तदा कृतक एव आत्मा स्यात्। न च कृतक आत्मेष्यते, अनित्यत्वप्रसङ्गात्। व्यतिरिक्तस्य च तन्निष्पादकस्य कर्तुरभावात् कुतः कृतकत्वमात्मनो योज्येत? कृतके चात्मनि परिकल्प्यमाने आदिमान् संसारः स्यादेव, अपूर्वसत्त्वस्य प्रादुर्भावश्च। न चैतदेवम्। तस्मान्न कृतक आत्मा। अपि च। संभूतो वाप्यहेतुकः। अभूत्वा प्रागात्मा समुत्पद्यमानो निर्हेतुक एवोपपद्यते। पूर्वं हि आत्मा नास्तीति अकृतको निर्हेतुकः स्यात्। वाशब्दो विकल्पे। कृतको वा भवेदात्मा यदि वा नाभूवमतीत मध्वानमित्येतन्नाभ्युपेयम्। संभूतो वाप्यहेतुकः, यदि वा -

नाभूमतीतमध्वानमित्येतन्नोपपद्यते।
इत्यभ्युपगम्यताम्॥१२॥

इदानीं यथोपवर्णितमेवार्थं निगमयन्नाह -
एवं दृष्टिरतीते या नाभूमहमभूमहम्।
उभयं नोभयं चेति नैषा समुपपद्यते॥१३॥

एवं यथोपवर्णितेन न्यायेन अभूमतीतमध्वानमिति या दृष्टिः, एषापि नैवोपपद्यते। एतद्द्वयस्याभावाच्च उभयमपि नोपपद्यते। किं कारणम्? यस्माद् द्वयं ह्येतत्समाहतमुभयमिति कल्प्यते। एकैकस्य च पृथक्पृथगभावात् कुतस्तत्समाहार इति उभयमपि न संभवति।

उभयस्याभावात् कुतस्तत्प्रतिषेधेन नोभयं भविष्यतीति? तस्मान्नैवाभूवं न नाभूवमित्येतदपि नोपपद्यते॥१३॥

तदेवं पूर्वान्तं समाश्रितस्य दृष्टिचतुष्टयस्य असंभवमुद्भाव्य इदानीमपरान्तसमाश्रितस्य प्रतिषेधमाह -

अध्वन्यनागते किं नु भविष्यामीति दर्शनम्।
न भविष्यामि चेत्येतदतीतेनाध्वना समम्॥१४॥

यथैव हि अतीतेऽध्वनि दृष्टिचतुष्टयं निषिद्धम्, एवमनागतेऽप्यध्वनि दृष्टिचतुष्टयं निषेधनीयमुक्तपाठपरिवर्तनेन। तद्यथा -

अध्वन्यनागते किं नु भविष्यामीत्यसंगतम्।
ऐष्यजन्मनि यो भावो स एव न भवत्ययम्॥

इत्येवमादिना सर्वं समं योज्यमेकत्वप्रतिषेधे। एवमन्यत्वप्रतिषेधेऽपि समं योज्यम् -
न स्यामनागते काले इत्येतन्नोपपद्यते
ऐष्य जन्मनि यो भावो ततोऽन्यो न भवत्ययम्॥

इत्येवमादिना पूर्वश्लोकपाठपरिवर्तनेन॥१४॥

इदानीं पूर्वान्तं समाश्रितस्य शाश्वतादिदृष्टिचतुष्टयस्य प्रतिषेधार्थमाह -
स देवः स मनुष्यश्चेदेवं भवति शाश्वतम्।
अनुत्पन्नश्च देवः स्याज्जायते न हि शाश्वतम्॥१५॥

इह हि कश्चिन्मनुष्यगतिस्थः कुशलं कर्म कृत्वा देवगतिं गच्छति। तत्र यदि स एव देवः स एव मनुष्य इति एवमुभयोरैक्यं स्यात्, तदा शाश्वतं स्यात्। न चैतदेवं यदेव एव मनुष्यो भवेदिति। अतो नास्ति किंचिच्छाश्वतम्। अपि च। शाश्वतवादे सति असमुत्पन्नश्च देवः स्यात्। किं कारणम्? यस्माज्जायते न हि शाश्वतम्। यद्धि वस्तु शाश्वतम्, तद्विद्यमानत्वान्नैव जायते। ततश्च अनुत्पन्नो देवः स्यात्, अनुत्पन्नो देवो न युज्यते इति॥ एवं तावच्छाश्वतं न युज्यते॥१५॥

इदानीमशाश्वतमपि यथा न संभवति तथा प्रतिपादयन्नाह -
देवादन्यो मनुष्यश्चेदशाश्वतमतो भवेत्।
देवादन्यो मनुष्यश्चेत्संततिर्नोपपद्यते॥१६॥

यदि हि अन्यो देवोऽन्यश्च मनुष्यः स्यात्, तदा पूर्वकस्य मनुष्यात्मनस्तत्र नष्टत्वादिह च अन्यस्यैवोत्पादात् स पूर्वको मनुष्यात्मा तत्र विनष्ट इत्यशाश्वतं स्यात्। तत्संतानानुवृत्त्या नाशाश्वतमिति चेत्, उच्यते -

देवादन्यो मनुष्यश्चेत्संततिर्नोपपद्यते।
यदि देवादन्यो मनुष्यो भवेत्, तदा यथा निम्बस्य न आम्रतरुसंतानो भवति, एवं मनुष्यस्य देवः एकसंतानपतितो न स्यात्। ततश्च पूर्वकस्य विनाशादशाश्वतमेव भवेत्। अथवा।

यदि देवादन्यो मनुष्यो भवेत्, तदा संतानानुवृत्तिर्न स्यात्। अस्ति चेयं संतानानुवृत्तिः देवस्य मनुष्यः एकसंतानपतित इति। तस्मात् संतानाभावप्रसङ्गात् देवादन्यो मनुष्यो न भवति। यतश्चैवम् , अतोऽशाश्वतमपि नास्ति॥१६॥

इदानीं शाश्वताशाश्वतप्रतिषेधार्थमाह -

दिव्यो यद्येकदेशः स्यादेकदेशश्च मानुषः
अशाश्वतं शाश्वतं च भवेत्तच्च न युज्यते॥१७॥

यदि अयं मनुष्यः अंशेन मनुष्यतां विजह्यात्, अंशेन विहाय मनुष्यतां देवात्मभावमुपादद्यात्, तदा एकदेशस्य नाशादशाश्वतं स्यात्, एकदेशस्य च अवस्थानाच्छाश्वतं स्यात्। एतच्च अयुक्तं यदेकस्य दिव्यगतिसंगृहीतः एकदेशः स्यात्, एकदेशश्च मनुष्यः स्यात्। तस्माच्छाश्वतं च अशाश्वतं च एतदुभयं नोपपद्यते॥१७॥

इदानीं नशाश्वतनैवाशाश्वतदृष्टिप्रतिषेधार्थमाह -

अशाश्वतं शाश्वतं च प्रसिद्धमुभयं यदि।
सिद्धे न शाश्वतं कामं नैवाशाश्वतमित्यपि॥१८॥

यदि शाश्वतं किंचिद्वस्तु स्यात्, तदा पश्चादशाश्वतदर्शनान्नैव शाश्वतमिति स्यात्। एवं यदि किंचिदशाश्वतं स्यात्, तदा तस्य पश्चाच्छाश्वतोपपत्तितो नाशाश्वतमिति स्यात्। यदा तु शाश्वताशाश्वतमेवाप्रसिद्धम्, तदा कुतस्तत्प्रतिषेधेन नैवशाश्वतं नाशाश्वतम् स्यादिति? तस्मादेत दप्ययुक्तम्॥१८॥

अथ स्यात् - अनादिजन्ममरणपरंपराप्रवृत्तमविच्छिन्नकमं संसारप्रबन्धमुपलभ्य शाश्वत मात्मानं परिकल्पयामः। अस्त्यसौ शाश्वतः कश्चित् पदार्थः, यो हि नाम एवमनादिमति संसारे परिभ्रमन्नद्याप्युपलभ्यते इति। उच्यते। एतदपि नोपपद्यते। किं कारणम्? यो हि नाम -

कुतश्चिदागतः कश्चित्किंचिद्गच्छेत्पुनः क्कचित्।
यदि तस्मादनादिस्तु संसारः स्यान्न चास्ति सः॥१९॥

यदि हि संस्काराणामात्मनो व कुतश्चिद्गत्यन्तराद् गमनं गत्यन्तरमागमनं स्यात्, ततश्च गन्त्यन्तरात् पुनः क्कचिद् गमनं स्यात्, तदानीमनादिः संसारः स्यात्। न च कुतश्चित् कस्यचिदागमनं संभवति, नित्यस्य वा अनित्यस्य वा आगमनानुपपत्तेः। न चापि इतः पुनः कस्यचित् क्कचिद् गमनं संभवति, नित्यस्य वा अनित्यस्य गमनानुपपत्तेः। यदा चैवं न संभवति, तदा कुतो जन्ममरणपरंपराया अतिदीर्घत्वेन आद्यनुपलम्भादनादिमान् संसारः स्यात्? संसर्तुरभावात् कुतः अनादिमत्त्वमादिमत्वं वा संसारस्य संभवेत्? यदा च न संभवति , तदा यदुक्तम् - अस्त्यसौ शाश्वतः कश्चित्पदार्थः, यो हि नाम एवमनादिमति संसारे परिभ्रमन्नद्याप्युपलभ्यते इति, तन्न युक्तम्॥

अतश्च, एवं यथोदितन्यायेन -

नास्ति चेच्छाश्वतः कश्चित् को भविष्यत्यशाश्वतः।
शाश्वतोऽशाश्वतश्चापि द्वाभ्यामाभ्यां तिरस्कृतः॥२०॥

यदा चैवं शाश्वत एव पदार्थो न संभवति, तदा कस्य विगमनादशाश्वतः स्यात्। शाश्वताशाश्वतानुपलम्भाच्च कुतः उभयं कुतो नोभयमिति? तस्मादेवं शाश्वतादिदृष्टिचतुष्टयं पूर्वान्ते संसारस्य न संभवति॥२०॥

इदानीमन्तानन्तादिचतुष्टयमपरान्ते यथा न संभवति, तथा प्रतिपादयन्नाह -

अन्तवान् यदि लोकः स्यात्परलोकः कथं भवेत्।
अथाप्यनन्तवांल्लोकः परलोकः कथं भवेत्॥२१॥

यदि हि अन्तवान्, विनाशादूर्ध्वं पूर्वलोको न स्यात्, तदा परलोको न स्यात् अस्ति च परलोक इति अन्तवांल्लोक इति नोपपद्यते। अथापि अनन्तवांल्लोकः स्यात्, तदानीमपि परलोकः कथं भवेत्? नैव परलोकः स्यादित्यभिप्रायः। न च परलोको नास्ति। अतः परलोकसद्भावादन्तवानपि लोको न भवति॥२१॥

इदानीमन्तवत्त्वमनन्तवत्वं च उभयमेतल्लोकस्य यथा न संभवति, तथा प्रतिपादयन्नाह -
स्कन्धानामेष संतानो यस्माद्दीपार्चिषामिव।
प्रवर्तते तस्मान्नान्तानन्तवत्त्वं च युज्यते॥ २२॥

पूर्वोत्तरहेतुफलभावसंबन्धनैरन्तर्याविच्छिन्नकमवर्ती यस्मादयं प्रदीपवत् प्रतिक्षणविनाशी स्कन्धसंतानः प्रवर्तते, तस्माद्धेतुफलप्रवृत्तिदर्शनान्नान्तवत्त्वं नानन्तवत्त्वं च युज्यते॥२२॥

कथं कृत्वा ?

पूर्वे यदि च भज्येरन्नुत्पद्येरन्न चाप्यमी।
स्कन्धाः स्कन्धान् प्रतीत्येमानथ लोकोऽन्तवान् भवेत्॥२३॥

यदि पूर्वे मनुष्यस्कन्धा नश्येयुः, तांश्च प्रतीत्य उत्तरे देवगत्युपपत्तिसंगृहीता नोपपद्येरन्, तदा अन्तवान् लोको भवेत् तैलवर्तिक्षयनिरुद्धप्रदीपवत्। उत्तरात्मभावोत्पादान्नास्ति अन्तवत्त्वम्॥ २३॥

पूर्वे यदि न भज्येरन्नुत्पद्येरन्न चाप्यमी।
स्कन्धाः स्कन्धान् प्रतीत्येमांल्लोकोऽनन्तो भवेदथ॥२४॥

अथ यदि पूर्वकाः स्कन्धा न नश्येषुः , तान् प्रतीत्य उत्तरे फलभूताः स्कन्धा नोत्पद्येरन् तदा अनन्तोऽविनाशी लोकः स्यात् स्वरूपादप्रच्युतत्वात्। यदा तु पूर्वकाः स्कन्धा निरुध्यन्ते तद्धेतुकाश्चापरे स्कन्धा उत्तरकालं जायन्ते, तदा पूर्वकानामनवस्थानात् कुतोऽनन्तवत्त्वं संसारस्य स्यात्?॥२४॥

इदानीं तृतीयमुभयपक्षभावं प्रतिपादयन्नाह -
अन्तवानेकदेशश्चेदेकदेशस्त्वनन्तवान्।
स्यादन्तवाननन्तश्च लोकस्तच्च न युज्यते॥२५॥

यदि हि कस्यचिदेकदेशस्य विनाशः स्यात्, एकदेशस्य च गत्यन्तरगमनं स्यात्, यात्तदानीमन्तवांश्च लोकोऽनन्तवांश्च। न चैतदेवं संभवति यदेकदेशो नश्यति, एकदेशो न नश्यतीति। अतः अन्तवांश्च अनन्तवांश्च लोक इति न युज्यते॥२५॥

कस्मात् पुनरेकदेशस्य विनाशः एकदेशस्य चावस्थानं न युज्यते इति प्रतिपादयन्नाह -

कथं तावदुपादातुरेकदेशो विनङ्क्ष्यते।
न नङ्क्ष्यते चैकदेश एवं चैतन्न युज्यते॥२६॥

इह एकदेशस्य विनाशे एकदेशस्य चावस्थाने परिकल्प्यमाने यदि वा उपादातु रेकदेशस्य विनाशः अवस्थानं वा परिकल्प्येत, यदि वा उपादानस्य ? तत्र यदि तावदुपादातु रेकदेशस्य विनाशः एकदेशस्य चावस्थानं परिकल्प्यते, तन्न युज्यते। किं कारणम्? यस्मात् -

कथं तावदुपादातुरेकदेशो विनङ्क्ष्यते।
न नङ्क्ष्यते चैकदेशः

नैव हि अत्र काचिदुपपत्तिरस्ति यया एकदेशस्य विनाशमेकदेशस्य चाविनाशं परिकल्पयिष्यामः। अत एव उपपत्तिमपश्यन्नाचार्य आह -

एवं चैतन्न युज्यते॥इति।

अथवा। उपादाता हि नाम आत्मा। स च स्कन्धेषु पञ्चधा मृग्यमाणो न संभवति। यश्च न संभवति, तस्य कथमेकदेशो विनङ्क्ष्यते, एकदेशश्च न नङ्क्ष्यते? अत एवाह - एवं चैतन्न युज्यते इति। अथवा यदि उपादातुरेकदेशो नश्येदेकदेशश्च न नश्येत्, तदा एकस्यैव उपादातुर्देवत्वमंशेनान्येन मनुष्यत्वं स्यात्। न चैतदिष्यते इत्याह - एवं चैतन्न युज्यते इति। एवं तावदुपादातुरन्तवत्त्वमनन्तवत्त्वं च न युक्तमिति॥२६॥

इदानीमुपादानस्यापि यथा न संभवति तथा प्रतिपादयन्नाह -

उपादानैकदेशश्च कथं नाम विनङ्क्ष्यते।
न नङ्क्ष्यते चैकदेशो नैतदप्युपपद्यते॥२७॥

उपादातृवदेतदपि व्याख्येयम्॥२७॥

तदेवमुभयदर्शनासंभवं प्रतिपाद्य इदानीं यथा नोभयमपि न संभवति तथा प्रतिपादयन्नाह -

अन्तवच्चाप्यनन्तं च प्रसिद्धमुभयं यदि।
सिद्धे नैवान्तवत्कामं नैवानन्तवदित्यपि॥ २८॥

प्रतिषेध्यस्य वस्तुनोऽसंभवात् प्रतिषेधस्याप्यसंभव इति। अतः अन्तवत्त्वे च अनन्तवत्त्वे च उभयस्मिन्नप्रतीते कस्य प्रतिषेधेन नैवान्तवान् नानन्तवान् लोकः इति दृष्टिसंभवः स्यादिति॥२८॥

एवं तावत् सांवृतं प्रतिबिम्बाकारमुपादातारमुपादानं चाभ्युपेत्यापि शाश्वतादिदृष्टयसंभवं प्रतिपाद्य इदानीं सर्वथा भावस्वभावानुपलम्भेन बन्ध्यापुत्रश्यामगौरतादिवत् शाश्वतादिदृष्टीनामसंभवं प्रतिपिपादयिषुराह -

अथवा सर्वभावानां शून्यत्वाच्छाश्वतादयः।
क्क कस्य कतमाः कस्मात्संभविष्यन्ति दृष्टयः॥२९॥

इह सर्वभावानां प्रतीत्यसमुत्पन्नत्वात् शून्यत्वं सकलेन शास्त्रेण प्रतिपादितम्। ततश्च सर्वभावानां शून्यत्वात् कतमास्ताः सर्वभावबाह्याः शाश्वताद्या दृष्टयो भविष्यन्ति, याः कश्चिद् ग्रहीष्यति यतस्तन्निराकरणमारप्स्यामहे? तथा किं वा आलम्बनं यत् सर्वभावानन्तर्गतं यत्रैता दृष्टय उत्पत्स्यन्ते यत्रैता दृष्टीर्निवारयिष्यामः? कतमश्चासौ भावः पुद्गलो वा सर्वभावबाह्याः यस्यैता दृष्टयः उत्पत्स्यन्ते यं दृष्टिभ्यो निवारयिष्यामः ? किं वा दृष्टीनामुत्पत्तिकारणमालम्बन - निमित्तं सर्वभावबाह्यं यस्मान्निमित्तादुत्पद्यमानाः शाश्वतादिकाः दृष्टीः वारयिष्यामः? सर्वेषामेव हि पदार्थानां सर्वभावान्तर्गतत्वात् शून्यत्वम्, शून्यत्वाच्च सर्वे एव हि ते पदार्था नोपलभ्यन्त इति ,

क्क कस्य कतमाः कस्मात्संभविष्यन्ति दृष्टयः।

नैव काश्चित्, नैव क्कचित्, नैव कस्यचित्, नापि केनचिदाकारेण संभविष्यन्तीत्यभिप्रायः। असंभवे च सति आसां परिकल्पनैव नोत्पद्यते इत्ययुक्ता एवैता दृष्टयः॥२९॥

तदेवम् -

सर्वदृष्टिप्रहाणाय यः सद्धर्ममदेशयत्।
अनुकम्पामुपादाय तं नमस्यामि गौतमम्॥३०॥

तत्र संसारनिर्वाणप्रहाणाधिगमोपलम्भप्रपातपतनसंधारणात् धर्मः। सतामार्याणां कृतकार्याणां धर्मः सद्धर्मः। यदि वा शोभनो धर्मः सद्धर्मः, सकलसंसारदुःखक्षयकरत्वेन प्रशंसनीयत्वात्॥ यः सद्धर्मम् -

अनिरोधमनुत्पादमनुच्छेदमशाश्वतम्।
अनेकार्थमनानार्थमनागममनिर्गमम्॥

प्रपञ्चोपशमं शिवं प्रतीत्यसमुत्पादसंज्ञया हि देशितवान् सर्वदृष्टिप्रहाणार्थं जगतामनुकम्पामुपादाय महाकरुणामेवाश्रित्य प्रियैकपुत्राधिकतरप्रेमपात्रसकलत्रिभुवनजनः न लाभसत्कारप्रत्युपकारादि लिप्सया, तं नमस्यामि निरुत्तरमद्वितीयं शास्तारम्। किंनामधेयम्? गौतमम्। परमर्षि गोत्रसंभूतमित्यर्थः॥

यथोक्तमार्यशालिस्तम्बसूत्रे आर्यमैत्रेयेण महाबोधिसत्त्वेन -

य इमं प्रतीत्यसमुत्पादमेवं यथाभूतं सम्यक्प्रज्ञया सततसमितमजीवं निर्जीवं यथावद विपरीतमजातमभूतमकृतमसंस्कृतमप्रतिघमनावरणं शिवमभयमनाहार्यमव्ययमव्युपशमस्वभावं पश्यति असतस्तुच्छतः रिक्ततोऽसारतो रोगतो गण्डतः शल्यतोऽघतोऽनित्यतो दुःखतः शून्यतोऽनात्मतः, न स पूर्वान्तं प्रतिसरति। किं न्वहमभूवमतीतेऽध्वनि, आहोस्विन्नाभूवमतीतेऽध्वनि, को न्वहमभूवमतीतेऽ ध्वनि, कथं न्वहमभूवमतीतेऽध्वनि। अपरान्तं वा पुनर्न प्रतिसरति किं न्वहं भविष्याम्यनागतेऽध्वनि, आहोस्विन्न भविष्याम्यनागतेऽध्वनि, को नु भविष्याम्यनागतेऽध्वनि , कथं नु भविष्याम्यनागतेऽध्वनि। प्रत्युत्पन्नं वा पुनर्न प्रतिसरति किं न्विदं कथं न्विदं के सन्तः के भविष्यामः अयं सत्त्वः कुतं आगतः, स इतश्च्युतः कुत्र गमिष्यतीति यान्येकेषां श्रमणब्राह्मणानां पृथग्लोके दृष्टिगतानि भविष्यन्ति तद्यथा - आत्मवादप्रतिसंयुक्तानि जीववादप्रतिसंयुक्तानि कौतुकमङ्गलप्रतिसंयुक्तानि, तान्यस्य तस्मिन् समये प्रहीणानि भवन्ति परिज्ञातानि समुच्छिन्नमूलानि तालमस्तकवदनाभासगतानि आयत्यामनुत्पादानिरोधधर्माणि।।

अथ खल्वायुष्मान् शारिपुत्रो मैत्रेयस्य बोधिसत्त्वस्य महासत्त्वस्य भाषितमभिनन्द्य अनुप्रमोद्य उत्थायासनात् प्रक्रान्तः, प्रक्रान्तास्ते च भिक्षव इति॥

इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ
दृष्टिपरीक्षा नाम सप्तविंशतितमं प्रकरणं समाप्तम्॥

॥समाप्तं चेदं मध्यमकशास्त्रं सकललौकिकलोकोत्तरप्रवचननीतनेयार्थव्याख्याननैपुण्य विशारदं श्रावकप्रत्येकबुद्धानुत्तरसम्यक्संबुद्धबोधिमण्डासनदायकमिति॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project