Digital Sanskrit Buddhist Canon

षड्विंशतितमं प्रकरणम्।

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Ṣaḍviṁśatitamaṁ prakaraṇam

द्वादशाङ्गपरीक्षा षड्विंशतितमं प्रकरणम्।

अत्राह - यदुक्तम् -
यः प्रतीत्यसमुत्पादः शून्यतां तां प्रचक्ष्महे।
सा प्रज्ञप्तिरुपादाय प्रतिपत्सैव मध्यमा॥इति,

कः पुनरसौ प्रतीत्यसमुत्पादः, यः शून्यतेत्युच्यते?
अथवा। यदेतदुक्तम् -
यः प्रतीत्यसमुत्पादं पश्यतीदं स पश्यति।
दुःखं समुदयं चैव निरोधं मार्गमेव च॥ इति ,

तत्कतमोऽसौ प्रतीत्यसमुत्पादः इति? अतस्तदङ्गप्रभेदविवक्षयेदमुच्यते -
पुनर्भवाय संस्कारानविद्यानिवृतस्त्रिधा।
अभिसंस्कुरुते यांस्तैर्गतिं गच्छति कर्मभिः॥१॥

तत्र अविद्या अज्ञानं तमो यथाभूतार्थप्रच्छादकं स्तिमितता। अविद्यया निवृतः छादितः पुद्गलः पुनर्भवाय पुनर्भवार्थं पुनर्भवोत्पत्त्यर्थमभिसंस्करोति उत्पादयति यान् कुशलादिचेतनाविशेषांस्ते पुनर्भवाभिसंस्कारात् संस्काराः। ते च त्रिविधाः -कुशला अकुशला आनेज्याश्च, यदि वा -कायिका वाचिका मानसाश्चेति। तांस्त्रिविधान् कर्मलक्षणान् संस्कारानविद्यानिवृतः पुद्गलः करोति। तैश्च संस्कारैरभिसंस्कृतैः कर्मभिः कर्मसंज्ञितैः तद्धेतुकां गतिं गच्छति॥१॥

ततोऽस्य -
विज्ञानं संनिविशते संस्कारप्रत्ययं गतौ।
कृतोपचितसंस्कारस्यास्य पुद्गलस्य संस्कारानुरूपायां गतौ देवादिकायां संस्कारहेतुकं विज्ञानं संनिविशते प्रविशति उपपद्यते संसारानर्थबीजभूतम्। तत उत्तरकालम् -

संनिविष्टेऽथ विज्ञाने नामरूपं निषिच्यते॥२॥

तत्र कर्मक्लेशाविद्धं तस्मिंस्तस्मिन्नुपपत्त्यायतने नामयतीति नाम, संज्ञावशेन वा अर्थेषु नामयतीति नाम।

चत्वारोऽरूपिणः स्कन्धा नामेति व्यपदिश्यते।
रूप्यत इति रूपम्। बाध्यत इत्यर्थः। इदं च रूपं पूर्वकं च नाम , उभयमेतदभिसंक्षिप्य नामरूपमिति व्यवस्थाप्यते। तत्र बिम्बप्रतिबिम्बन्यायेन स्वाध्यायदीपमुद्राप्रतिमुद्रादिन्यायेन वा मारणान्तिकेषु स्कन्धेषु निरुध्यमानेषु एकस्मिन्नेव क्षणे तुलादण्डनामोन्नामन्यायेनैव औपपत्त्यांशिकाः स्कन्धा यथाकर्माक्षेपत उपजायन्ते। एवं च बिम्बप्रतिबिम्बमुद्राप्रतिमुद्रान्यायेन प्रतीत्यसमुत्पादः सिध्यति। तुलादण्डनामोन्नामन्यायेन तु यद्विज्ञानं संनिविशते इत्युक्तम्, तद् बाललोकबोधानुरोधेन, समानकाल एव भवप्रतिसंधिरिति।

तथा समानेन समानकालं
लोकस्य दुःखं च सुखोदयं च।
हर्तुं च कर्तुं च सदास्तु शक्ति -
स्तमः प्रकाशं च यथैव भानोः॥इति।

न तु पुनः प्रतीत्यसमुत्पादस्वरूपविचक्षणानामेवं वक्तुं युज्यते साहचर्यादित्वमेकक्षणे तुलादण्डनामोन्नामदृष्टान्तेनेति।
जन्मोन्मुखं न सदिदं यदि जायमानं
नाशोन्मुखं सदपि नाम निरुध्यमानम्।
इष्टं तदा कथमिदं तुलया समानं
कर्त्रा विना जनिरियं न च युक्तरूपा॥

इत्यादिवचनात्। यथा बिम्बप्रतिबिम्बमुद्राप्रतिमुद्रादिन्यायेन क्षणिकत्वं नेष्यते भवद्भिः, तथा अन्यस्यापि भावस्य उत्पादसमनन्तरध्वंसिनः क्षणिकत्वं न युक्तम्। यतः जातिजरास्थित्यनित्यताख्यानि चत्वारि संस्कृतलक्षणानि उत्पद्यमानस्य भावस्य बाह्यस्य आध्यात्मिकस्य वा एकस्मिन्नेव क्षणे भवन्तीत्यभिधर्मपाठः। तत्र जातिजरयोः परस्परविरोधात् स्थित्यनित्यतयोश्च एकस्मिन्नेव भावे न युगपत्संभव इष्यते सद्भिः।

क्षणिके सर्वथाभावात्कुतः काचित्पुराणता।
स्थैर्यादक्षणिके चापि कुतः काचित्पुराणता॥
यथान्तोऽस्ति क्षणस्यैवमादिमध्यं च कल्प्यताम्।
अन्तकत्वात्क्षणस्यैवं न लोकस्य क्षणस्थितिः॥

आदिमध्यावसानानि चिन्त्यानि क्षणवत्पुनः।
आदिमध्यावसानत्वं न स्वतः परतोऽपि वा॥

इति मध्यमकसिद्धान्तपाठात् क्षणिकपदार्थासिद्धेरसिद्धिरवसेया। न च जातिमरणयोः परस्परभिन्नलक्षणयोः एकस्मिन् क्षणे संभवो भवेत्, संशयनिश्चयज्ञानयोरालोकान्धकारयोर्ज्ञाना ज्ञानयोर्बीजाङ्कुरयोर्मरणभवोपपत्तिभवयोर्भिन्नलक्षणयोरित्यादिवत्। परस्परनिरपेक्षयोरेव स्वहेतुप्रत्ययसिद्धयोः सहभावो युज्यते सव्येतरगोविषाणयोर्युवतिस्तनयोर्नरकर्णयोरित्यादिवत्, न तु पुनः कदाचिदपि परस्परविरुद्धयोर्विनाशोत्पादयोः। यथोक्तं रागरक्तपरीक्षायाम् -

सहैव पुनरुद्भूतिर्न युक्ता रागरक्तयोः।
भवेतां रागरक्तौ हि निरपेक्षौ परस्परम्॥
नैकत्वे सहभावोऽस्ति न तेनैव हि तत्सह।
पृथक्त्वे सहभावोऽथ कुत एव भविष्यति॥
एवं रक्तेन रागस्य सिद्धिर्न सह नासह।
रागवत्सर्वधर्माणां सिद्धिर्न सह नासह॥

इति प्रतिषेधात् कुतः समानकालता भावानां मरणभवोपपत्तिभवयोरिति? अतः सहभावो विनेय जनबोधानुरोधप्रवृत्त एवेति लक्ष्यते। तेन नैकस्मिन्नेव क्षणे नामोन्नामौ तुलायाः संभवतः नामोन्नामयोः कालभेदात्। बलवत्पुरुषाच्छटामात्रेण पञ्चषष्टिः क्षणा अतिक्रामन्तीति पाठात्, उत्पलपत्रशतसहस्रवेधवत् सूच्यग्रेणेति। तथापि अत्र उत्पलपत्रशतसहस्रवेधः सूच्यग्रेण क्रमशो वेधोऽवसेयः क्षणानामतिसूक्ष्मत्वात्। एकक्षणेन श्लोकाक्षरपदोदाहरणवत्॥

किं च -

अनिरोधमनुत्पादमनुच्छेदमशाश्वतम्।
अनेकार्थमनानार्थमनागममनिर्गमम्॥
यः प्रतीत्यसमुत्पादं प्रपञ्चोपशमं शिवम्।

इति पाठादुत्पादनिरोधयोरसंभव एव प्रतिपादितः शास्त्रे मध्यमके। आगमसूत्रेषु -

अविनाशमनुत्पन्नं धर्मधातुसमं जगत्।
सत्त्वधातुं च देशेति एषा लोकानुवर्तना॥
त्रीषु अध्वसु सत्त्वानां प्रकृतिं नोपलम्भति।
सत्त्वधातुं च देशेति एषा लोकानुवर्तना॥इत्यादि।
तथा -

फेनपिण्डोपमं रूपं वेदना बुद्बुदोपमा।
मरीचिसदृशी संज्ञा संस्काराः कदलीनिभाः।
मायोपमं च विज्ञानमुक्तमादित्यबन्धुना॥
एवं धर्मान् वीक्षमाणो भिक्षुरारब्धवीर्यवान्।
दिवा वा यदि वा रात्रौ संप्रजानन् प्रतिस्मृतः।
प्रतिविध्येत्पदं शान्तं संस्कारोपशमं शिवम्॥इति।

एताश्च गाथाः सर्वनिकायशास्त्रसूत्रेषु पठयन्ते। अतः फेनपिण्डादीनां हेतुप्रत्ययसामग्रीं प्राप्य प्रतीत्य समुत्पन्नानां सारवस्तुविगतानां कुतः क्षणिकाक्षणिकचिन्तेति? महायानसूत्रेषु च -

सुपिनोपमा भवगती सकला
न हि कश्चि जायति न चो म्रियते।
न च कर्म नश्यति कदाचि कृतं
फलु देति कृष्णशुभ संसरतो॥

न च शाश्वतं न च उच्छेद पुनो
न च कर्मसंचयु न चापि स्थितिः।
न च सोऽपि कृत्व पुनरास्पृशती
न च अन्यु कृत्व पुन वेदयते॥

यथा कुमारी सुपिनान्तरस्मिं
स्वपुत्र जातं च मृतंच पश्यति।
जातेऽतितुष्टा मृति दौर्मनस्यिता
तथोपमान् जानथ सर्वधर्मान्॥

यथैव ग्रामान्तरि लेखदर्शनात्
क्रियाः प्रवर्तन्ति पृथक् शुभाशुभाः।
न लेखसंक्रान्ति गिराय विद्यते
तथोपमान् जानथ सर्वधर्मान्॥

मुद्रात्प्रतिमुद्र दृश्यते
मुद्रसंक्रान्ति न चोपलभ्यते।
न च तत्र न चैव सान्यतो
एवं संस्कारऽनुच्छेदशाश्वताः॥

बीजस्य सतो यथाङ्कुरो
न च यो बीजु स चैव अङ्कुरो।
न च अन्यु ततो न चैव तत्
एवमनुच्छेद अशाश्वत धर्मता॥

यथ मुञ्ज प्रतीत्य बल्बजं
रज्जु व्यायामबलेन वर्तिता।
घटियन्त्र सचक्र वर्तते
तेषु एकैकसु नास्ति वर्तना॥
तथ सर्वभवाङ्गवर्तिनी
अन्यमन्योपचयेन निश्रिता।
एकैकेषु तेषु वर्तनी
पूर्वमपरान्ततु नोपलभ्यते॥

अत एवोक्तमाचार्यनागार्जुनपादैः -
स्वाध्यायदीपमुद्रादर्पणघोषार्ककान्तबीजाम्लैः।
स्कन्धप्रतिसंधिरसंक्रमश्च विद्वद्भिरुपधार्यौ॥इति।
शतकशास्त्रे च आर्यदेवपादैर्महाबोधिचर्यास्थिरप्रस्थानस्थितैः -
अलातचक्रनिर्माणस्वप्नमायाम्बुचन्द्रकैः।
धूमिकान्तः प्रतिश्रुत्कामरीच्यभ्रैः समो भवः॥इति॥

तदेवं बिम्बप्रतिबिम्बादिन्यायेन मातुः कुक्षौ विज्ञाने संमूर्च्छिते विज्ञानप्रत्ययं नामरूपं निषिच्यते, क्षरति प्रादुर्भवतीत्यर्थः। यदि इह गतौ विज्ञानं न संमूर्छितं स्यात्, तदा नामरूपप्रादुर्भावो न स्यात्।

सचेदानन्द विज्ञानं मातुः कुक्षिं नावक्रामेत, न तत् कललं कललत्वाय संवर्तेत। इति वचनात्॥२॥

तदेवम् -
निषिक्ते नामरूपे तु षडायतनसंभवः।

दुःखोत्पत्त्या आयद्वारभावेन दर्शनश्रवणघ्राणरसस्पर्शमनआख्यं षडायतनं नामरूपहेतुकमुपजायते। स चक्षुषा रूपाणि दृष्ट्वा सौमनस्यस्थानीयान्यभिनिविशते, अभिनिविष्टः सन् रागजं द्वेवजं मोहजं कर्म करोतीत्यादिना दुःखोत्पत्तावायद्वारत्वं षण्णामायतनानाम्। तदेवं संभूते षडायतने उत्तरकालम् -

षडायतनमागम्य संस्पर्शः संप्रवर्तते॥३॥

कः पुनरयं संस्पर्शः, कथं वा संप्रवर्तते इति प्रतिपादयन्नाह -
चक्षुः प्रतीत्य रूपं च समन्वाहारमेव च।
नामरूपं प्रतीत्यैवं विज्ञानं संप्रवर्तते॥४॥
संनिपातस्रयाणां यो रूपविज्ञानचक्षुषाम् ।
स्पर्शः सः

चक्षुरिन्द्रियं प्रतीत्य रूपाणि च समन्वाहारं च प्रतीत्य मनस्कारं विषयादिविलक्षणं समनन्तरप्रत्ययं विज्ञानबीजभूतं चक्षुर्विज्ञानमुत्पद्यते। तत्र चक्षुश्च रूपायतनं च रूपम्। समन्वाहारश्चतुःस्कन्धलक्षणं नाम। तदेतत्त्रयं प्रतीत्योत्पद्यमानं चक्षुर्विज्ञानं नामरूपं प्रतीत्योत्पद्यते। तदेवमेषामिन्द्रियविषयविज्ञानानां त्रयाणां यः संनिपातः सहोत्पादः अन्योन्योपकारेण तुल्यं या प्रवृत्तिः, स स्पृष्टिलक्षणः स्पर्शः। तत उत्तरकालम् -

तस्मात्स्पर्शाच्च वेदना संप्रवर्तते॥५॥

इष्टानिष्टोभयविपरीतविषयानुभूतिर्विषयानुभवो वेदनं वित्तिर्वेदनेत्युच्यते। दुःखा सुखा अदुःखासुखा च त्रिविधा। यथा चैषां रूपविज्ञानचक्षुषां त्रयाणां संनिपातलक्षणं स्पर्शमागम्य वेदना उक्ता, एवं शेषेन्द्रियविषयविज्ञानत्रयसंनिपातलक्षणस्पर्शहेतुका वेदना व्याख्येया॥५॥

तत उत्तरकालम् -
वेदनाप्रत्यया तृष्णा
संप्रवर्तते इति वर्तते। वेदना प्रत्ययो यस्यास्तृष्णायाः सा वेदनाप्रत्यया। किंविषया पुनः सा तृष्णा? वेदनाविषयैव। किं कारणम्? यस्मादसौ तृष्णालुः
वेदनार्थं हि तृष्यते।

वेदनानिमित्तमेव अभिलाषं करोतीत्यर्थः। कथं कृत्वा? यदि तावत् सुखा वेदना अस्योपजायते, स तस्याः पुनः पुनः संयोगार्थं परितृष्यते। अथ दुःखा, तदा तस्या विसंयोगार्थं परितृष्यते। अथ अदुःखासुखा, तस्या अपि नित्यमपरिभ्रंशार्थं परितृष्यते। स एवम् -

तृष्यमाण उपादानमुपादत्ते चतुर्विधम्॥६॥

स एवं वेदनास्वभिनिविष्टः सक्तः तृष्णाप्रत्ययं कामदृष्टिशीलव्रतात्मवादोपादानाख्यं चतुर्विधं कर्माक्षेपकारणं परिगृह्णाति। तदेवमस्य तृष्णाप्रत्ययमुपादानं भवति॥६॥

तत उत्तरकालम् -

उपादाने सति भव उपादातुः प्रवर्तते।
स्याद्धि यद्यनुपादानो मुच्येत न भवेद्भवः॥७॥
पञ्च स्कन्धाः स च भवः

चतुर्विधस्य यथोक्तस्य उपादानस्य उपादाता ग्रहीता उत्पादयिता। तस्य उपादातुः उपादानप्रत्ययो भवः उपजायते। किं कारणम्? यस्मात्, यो हि अनुत्पादितवेदनातृष्णः प्रतिसंख्यानबलेन तृष्णामस्वीकुर्वन्, चतुर्विधमुपादानं प्रविहाय उपादाता अमलाद्वयज्ञानसंमुखी भावात् स्याद्धि यद्यनुपादानो मुच्येत सः। तदानीं तस्य न भवेद्भवः॥

कः पुनरयं भवः? पञ्च स्कन्धाः स च भवः। यः उपादानात् प्रवर्तते, स पञ्चस्कन्ध स्वभावो वेदितव्यः। त्रिविधमपि कायिकं वाचिकं मानसिकं च कर्म भवत्यस्मादनागतं स्कन्ध पञ्चकं भवः इति व्यपदिश्यते। तत्र कायिकं वाचिकं कर्म रूपस्कन्धस्वभावं कर्मविज्ञप्तित्वात्। मानसं तु चतुःस्कन्धस्वभावमिति। एवं स भवः पञ्च स्कन्धा इति विज्ञेयम्। तस्मात् -
भवाज्जातिः प्रवर्तते।

अनागतस्कन्धोत्पादो जातिः। सा च भवात् प्रवर्तते। तत उत्तरकालम् -
जरामरणदुःखादि शोकाः सपरिदेवनाः॥८॥
दौर्मनस्यमुपायासा जातेरेतत्प्रवर्तते।

जातिहेतुका एते जरामरणादयः प्रवर्तन्ते। एषां च यथासूत्रमेव व्याख्यानं वेदितव्यम्। तत्र स्कन्धपरिपाको जरा। जीर्णस्य स्कन्धभेदो मरणम्। म्रियमाणस्य विगच्छतः संमूढस्य सामिषङ्गो हृदयसंतापः शोकः। शोकसमुत्थितो वाक्प्रलापः परिदेवः। पञ्चेन्द्रियासातनिपातो दुःखम्। मनोनिष्टनिपातो दौर्मनस्यम्। दुःखदौर्मनस्यबहुत्वसंभूता उपायासाः। इति। तदेवं यथोपवर्णितेन न्यायेन
केवलस्यैवमेतस्य दुःखस्कन्धस्य संभवः॥९॥

केवलस्येति आत्मात्मीयस्वभावविगतस्य बालपृथग्जनपरिकल्पितमात्रस्य। दुःखात्मकस्य सुखाव्यामिश्रस्यैवेत्यर्थः। एवमिति हेतुप्रत्ययमात्रबलेनैवेत्यर्थः। दुःखस्कन्धस्येति दुःखसमुदायस्य दुःखसमूहस्य दुःखराशेरित्यर्थः॥९॥

यतश्चैवं यथोपवर्णितादविद्यादिकादेव भवाङ्गानां प्रवृत्तिः, अतः -
संसारमूलान्संस्कारानविद्वान् संस्करोत्यतः।
अविद्वान् कारकस्तस्मान्न विद्वांस्तत्त्वदर्शनात्॥१०॥

तत्र संसारस्य विज्ञानादिप्रवृत्तिलक्षणस्य मूलं प्रधानं कारणं संस्काराः। ततश्च संसारमूलान् संस्कारानविद्वान् संस्करोति॥

अविद्यानुगतो यः पुद्गलो भिक्षवः पुण्यानपि संस्कारानभिसंस्करोति, अपुण्यानपि संस्कारानभिसंस्करोति, आनेञ्ज्यानपि संस्कारानभिसंस्करोति॥

इति भगवद्वचनात्। यतश्चैवमविद्वान् कारकः, तस्मादविद्वानेव पुद्गलः कारको भवति संस्काराणाम्, न विद्वांस्तत्त्वदर्शी प्रहीणाविद्यः। किं कारणम्? तत्त्वदर्शनात् तत्त्वदर्शने हि सर्वपदार्थना मेवानुपलम्भात् नास्ति किंचिद् यदालम्ब्य कर्म कुर्यादिति॥१०॥

यतश्चैवमविद्यायामेव सत्यां संस्काराः प्रवर्तन्ते, असत्यां न प्रवर्तन्ते, अतः -
अविद्यायां निरुद्धायां संस्काराणामसंभवः।
हेतुवैयर्थ्यात्। तस्याः पुनरविद्यायाः कुतो निरोधः इत्याह-
अविद्याया निरोधस्तु ज्ञानेनास्यैव भावनात्॥११॥

अस्यैव प्रतीत्यसमुत्पादस्य यथावदविपरीतभावनातः अविद्या प्रहीयते। यो हि प्रतीत्यसमुत्पादं सम्यक् पश्यति, स सूक्ष्मस्यापि भावस्य न स्वरूपमुपलभते। प्रतिबिम्बस्वप्रालात चक्रमुद्गादिवत्तु स्वभावशून्यतां सर्वेषां भावानामवतरति। स एव स्वभावशून्यतां सर्वेषां भावानामवतीर्णो न किंचिद्वस्तु उपलभते बाह्यमाध्यात्मिकं वा। सोऽनुपलभमानो न क्कचिद्धर्मे मुह्यति, अमूढश्च कर्म न करोतीति। एवं प्रतीत्यसमुत्पादभावनया तत्त्वमवतरति।तत्त्वदर्शिनोयोगिनो नियतमेव अविद्या प्रहीयते। प्रहीणाविद्यस्य संस्कारा निरुध्यन्ते॥११॥

यथा चैवमविद्यानिरोधात् संस्कारा निरुध्यन्ते, एवम् -
तस्य तस्य निरोधेन तत्तन्नाभिप्रवर्तते।
दुःखस्कन्धः केवलोऽयमेवं सम्यङ् निरुध्यते॥१२॥

पूर्वस्य पूर्वस्य अङ्गस्य निरोधेन उतरस्योत्तरस्य अङ्गस्य निरोधो भवतीति विज्ञेयम्। अनया चानुपूर्व्या अयं योगी आत्मात्मीयाद्यदर्शनायासनिरस्तः कारकवेदकविरहितं भावस्वभावशून्यं दुःखराशिं पुनरनुत्पत्त्या सम्यङ्निरोधयति। यथोक्तमार्यशालिस्तम्बसूत्रे -

एवमाध्यात्मिकोऽपि प्रतीत्यसमुत्पादो द्वाभ्यामेव कारणाभ्यामुत्पद्यते। कतमाभ्यां द्वाभ्याम् ? हेतूपनिबन्धतः प्रत्ययोपनिबन्धतश्च। तत्राध्यात्मिकस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धः कतमः? यदिदमविद्याप्रत्ययाः संस्काराः, संस्कारप्रत्ययं विज्ञानम्, विज्ञानप्रत्ययं नामरूपम्, नामरूपप्रत्ययं षडायतनम्, षडायतनप्रत्ययः स्पर्शः, स्पर्शप्रत्यया वेदना, वेदनाप्रत्यया तृष्णा, तृष्णाप्रत्ययमुपादानम्, उपादानप्रत्ययो भवः, भवप्रत्यया जातिः, जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्यो पायासाः संभवन्ति। एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति। अविद्या चेन्नाभविष्यन्नैव संस्काराः प्रज्ञास्यन्ते। एवं यावज्जातिश्चेन्नाभविष्यज्जरामरणं न प्रज्ञास्यते। अथवा , सत्यामविद्यायां संस्काराणामभिनिर्वृत्तिर्भवति। एवं यावज्जात्यां सत्यां जरामरणस्याभिनिर्वृत्तिर्भवति। अत्राविद्याया नैवं भवति अहं संस्कारानभिनिर्वर्तयामीति। संस्काराणामपि नैवं भवति वयमविद्ययाभिनिर्वर्तिता इति। एवं यावज्जातेरपि नैवं भवति अहं जरामरणमभिनिर्वर्तयामीति। जरामरणस्यापि नैवं भवत्यहं जात्याभिनिर्वर्तितमिति। अथ च सत्यामविद्यायां संस्काराणाभिनिर्वृत्ति र्भवति प्रादुर्भावः। एवं यावज्जात्यां सत्यां जरामरणस्याभिनिर्वृत्तिर्भवति प्रादुर्भावः । एवमाध्या त्मिकस्य प्रतीत्यसमुत्पादस्य हेतूपनिबन्धो द्रष्टव्यः॥

कथमाध्यात्मिकस्य प्रतीत्यसमुत्पादस्य प्रत्ययोपनिबन्धो द्रष्टव्य इति? षण्णां धातूनां समवायात्। कतमेषां षण्णां धातूनां समवायात्? यदिदं पृथिव्यप्तेजोवाय्वाकाशविज्ञानधातूनां समवायादाध्यात्मिकस्य प्रतीत्यसमुत्पादस्य प्रत्ययोपनिबन्धो द्रष्टव्यः। तत्राध्यात्मिकस्य प्रतीत्यसमुत्पादस्य पृथिवीधातुः कतमः? यः कायस्य संश्लेषात्कठिनभावमभिनिर्वर्तयति, अयमुच्यते पृथिवीधातुः। यः कायस्यानुपरिग्रहकृत्यं करोति, अयमुच्यतेऽब्धातुः। यः कायस्याशितभक्षितं परिपाचयति, अयमुच्यते तेजोधातुः। यः कायस्य आश्वासप्रश्वासकृत्यं करोति, अयमुच्यते वायुधातुः। यः कायस्यान्तः शौषीर्यमभिनिर्वर्तयति, अयमुच्यते आकाशधातुः। यो नामरूपमभिनिर्वर्तयति नडकलापयोगेन पञ्चविज्ञानकायसंयुक्तं सास्रवं च मनोविज्ञानम्, अयमुच्यते भिक्षवो विज्ञानधातुः। तत्र असतामेषां प्रत्ययानां कायस्योत्पत्तिर्न भवति। यदा त्वाध्यात्मिकः पृथिवीधातुरविकलो भवति, एवमप्तेजोवाय्वा काशविज्ञानधातवश्चाविकला भवन्ति, ततः सर्वेषां समवायात्कायस्योत्पत्तिर्भवति। तत्र पृथिवीधातोर्नैवं भवति - अहं कायस्य कठिनभावमभिनिर्वर्तयामीति। अब्धातोर्नैवं भवति - अहं कायस्यानुपरिग्रहकृत्यं करोमीति। तेजोधातोर्नैवं भवति - अहं कायस्याशितपीतखादितं परिपाचयामीति। वायुधातोर्नैवं भवति अहं कायस्याश्वासप्रश्वासकृत्यं करोमीति। आकाशधातोर्नैवं भवति - अहं कायस्यान्तः शौषीर्यमभि निर्वर्तयामीति। विज्ञानधातोर्नैवं भवति- अहं कायस्य नामरूपमभिनिर्वर्तयामीति। कायस्यापि नैवं भवति अहमेमिः प्रत्ययैर्जनित इति। अथ च पुनः सतामेषां प्रत्ययानां समवायात्कायस्योत्पत्ति र्भवति। तत्र पृथिवीधातुर्नात्मा न सत्त्वो न जीवो न जन्तुर्न मनुजो न मानवो न स्त्री न पुमान् न नपुंसकं न चाहं न मम न चान्यस्य कस्यचित्। एवमब्धातुस्तेजोधातुर्वायुधातु - राकाशधातुर्विज्ञानधातुर्नात्मा न सत्त्वो न जीवो न जन्तुर्न मनुजो न मानवो न स्त्री न पुमान् न नपुंसकं न चाहं न मम न चान्यस्य कस्यचित्॥

तत्र अविद्या कतमा? या एषामेवं षण्णां धातूनायमैक्संज्ञा पिण्डसंज्ञा नित्यसंज्ञा ध्रुवसंज्ञा शाश्वतसंज्ञा सुखसंज्ञा आत्मसंज्ञा सत्त्वसंज्ञा जीवपुद्गलमनुजमानवसंज्ञा अहंकारसंज्ञा ममकारसंज्ञा एवमादि विविधमज्ञानम्। इयमुच्यतेऽविद्येति। एवमविद्यायां सत्यां विषयेषु रागद्वेषमोहाः प्रवर्तन्ते। तत्र ये रागद्वेषमोहा विषयेषु, अमी संस्कारा इत्युच्यन्ते। वस्तुप्रति विज्ञप्तिर्विज्ञानम्। विज्ञानसहभुवश्चत्वारः स्कन्धा अरूपिणः उपादानाख्याः, तन्नामरूपं चत्वारि महाभूतानि , तानि चोपादाय रूपम्। तच्च नाम रूपम्। ऐकध्यमभिसंक्षिप्य तन्नामरूपम्। नामरूपसंनिश्रितानीन्द्रियाणि षडायतनम्। त्रयाणां धर्माणां संनिपातः स्पर्शः। स्पर्शानुभवो वेदना। वेदनाध्यवसानं तृष्णा। तृष्णावैपुल्यमुपादानम्। उपादाननिर्जातं पुनर्भवजनकं कर्म भवः। भवहेतुकः स्कन्धप्रादुर्भावो जातिः। जातस्य स्कन्धस्य परिपाको जरा। जीर्णस्य स्कन्धस्य विनाशो मरणम्। म्रियमाणस्य संमूढस्य साभिष्वङ्गस्यान्तर्दाहः शोकः। शोकोत्थमालपनं परिदेवः। पञ्चविज्ञानकायसंयुक्तमसातमनुभवनं दुःखम्। मनसा संयुक्तं मानसं दुःखं दार्मनस्यम्। ये चाप्यन्ये एवमादय उपक्लेशास्ते उपायासा इति॥

तत्र मोहान्धकारार्थेनाविद्या। अभिसंस्कारार्थेन संस्काराः। विज्ञापनार्थेन विज्ञानम्। अन्योन्योपस्तम्भनार्थेन नामरूपम्। आयद्वारार्थेन षडायतनम्। स्पर्शनार्थेन स्पर्शः। अनुभवनार्थेन वेदना। परितर्षणार्थेन तृष्णा। उपादानार्थेनोपादानम्। पुनर्भवार्थेन भवः। जन्मार्थेन जातिः। परिपाकार्थेन जरा। विनाशार्थेन मरणम्। शोचनार्थेन शोकः । परिदेवनार्थेन परिदेवः कायपरिपीडनार्थेन दुःखम्। चित्तसंपीडनार्थेन दौर्मनस्यम्। उपक्लेशार्थेनोपायासाः॥

अथवा तत्त्वेऽप्रतिपत्तिर्मिथ्याप्रतिपत्तिरज्ञानमविद्या। एवमविद्यायां सत्यां त्रिविधाः संस्कारा अभिनिर्वर्तन्ते पुण्योपगा अपुण्योपगा आनेञ्ज्योपगाः। तत्र पुण्योपगानां संस्काराणां पुण्योपगमेव विज्ञानं भवति। अपुण्योपगानां संस्काराणामपुण्योपगमेव विज्ञानं भवति। आनेञ्ज्योपगानां संस्कारा णामानेञ्ज्योपगमेव विज्ञानं भवति। इदमुच्यते विज्ञानम्। विज्ञानप्रत्ययं नामरूपमिति वेदनादयोऽरूपिणश्चत्वारः स्कन्धास्तत्र तत्र भवे नामयन्तीति नाम। सहरूपस्कन्धेन च नाम रूपं चेति नामरूपमुच्यते। नामरूपविवृद्धया षड्भिरायतनद्वारैः कृत्यक्रियाः प्रवर्तन्ते प्रज्ञायन्ते, तन्नामरूपप्रत्ययं षडायतनमित्युच्यते। षड्भ्यश्चायतंएभ्यः षट् स्पर्शकायाः प्रवर्तन्ते, अयं षडायतनप्रत्ययः स्पर्श इत्युच्यते। यज्जातीयः स्पर्शो भवति तज्जातीया वेदना प्रवर्तते। इयमुच्यते भिक्षवः स्पर्शप्रत्यया वेदनेति। यस्तां वेदनां विशेषेणास्वादयति अभिनन्दति अध्यवस्यति अध्यवसाय तिष्ठति, सा वेदनाप्रत्यया तृष्णेत्युच्यते। आस्वादनाभिनन्दनाध्यवसानस्थानादात्मप्रियरूपसातरूपैर्वियोगो मा भून्नित्यमपरित्यागो भवेदिति यैवं प्रार्थना इदमुच्यते भिक्षवस्तृष्णाप्रत्ययमुपादानम्। यत्र वस्तुनि सतृष्णस्तस्य वस्तुनोऽर्जनाय विठपनायोपादानमुपादत्ते, तत्र तत्र प्रार्थयते , एवं प्रार्थयमानः पुनर्भवजनकं कर्म समुत्थापयति कायेन वाचा मनसा च , स उपादानप्रत्ययो भव इत्युच्यते। तत्कर्मनिर्जातानां स्कन्धानामभिनिर्वृतिर्या सा भवप्रत्यया जातिरित्युच्यते। जात्याभिनिर्वृत्तानां स्कन्धानामुपचयनपरिपाकाद्विनाशो भवति। तदिदं जातिप्रत्ययं जरामरणमित्युच्यते॥

एवमयं द्वादशाङ्गः प्रतीत्यसमुत्पादोऽन्योन्यहेतुकोऽन्योन्यप्रत्ययो नैवानित्यो नैव नित्यो न संस्कृतो नासंस्कृतो नाहेतुको नाप्रत्ययो न वेदयिता नावेदयिता न प्रतीत्यसमुत्पन्नो नाप्रतीत्यसमुत्पन्नो न क्षयधर्मो नाक्षयधर्मो न विनाशधर्मो नाविनाशधर्मो न निरोधधर्मो नानिरोधधर्मोऽनादिकालप्रवृत्तोऽनुच्छिन्नोऽनुप्रवर्तते नदीस्रोतवत्॥

यद्यप्ययं द्वादशाङ्गः प्रतीत्यसमुत्पादोऽनुच्छिन्नोऽनुप्रवर्तते नदीस्रोतवत्, अथ चेमान्यस्य द्वादशाङ्गस्य प्रतीत्यसमुत्पादस्य चत्वार्यङ्गानि संघातक्रियायै हेतुत्वेन प्रवर्तन्ते। कतमानि चत्वारि? यदुत अविद्या तृष्णा कर्म विज्ञानं च। तत्र विज्ञानं बीजस्वभावत्वेन हेतुः। कर्म क्षेत्रस्वभावत्वेन हेतुः। अविद्या तृष्णा च क्लेशस्वभावत्वेन हेतुः। कर्मक्लेशा विज्ञानबीजं जनयन्ति। तत्र कर्म विज्ञानबीजस्य क्षेत्रकार्यं करोति। तृष्णा विज्ञानबीजं स्नेहयति। अविद्या विज्ञानबीजमवकिरति। असतां तेषां प्रत्ययानां विज्ञानबीजस्यभिनिर्वृत्तिर्न भवति। तत्र कर्मणो नैवं भवति - अहं विज्ञानबीजस्य क्षेत्रकार्यं करोमीति। तृष्णाया अपि नैवं भवति - अहं विज्ञानस्य स्नेहकार्यं करोमिति। अविद्याया अपि नैवं भवति - अहं विज्ञानबीजमवकिरामीति। विज्ञानबीजस्यापि नैवं भवति - अहमेभिः प्रत्ययैर्जनितमिति॥

अथ च विज्ञानबीजं कर्मक्षेत्रप्रतिष्ठितं तृष्णास्नेहाभिष्यन्दितमविद्यया स्ववकीर्णं विभज्यमानं विरोहति। तत्रतत्रोपपत्त्यांयतनप्रतिसंधौ मातुः कुक्षौ नामरूपाङ्कुरमभिनिर्वर्तयति। स च नामरूपाङ्कुरो न स्वयं कृतो न परकृतो नोभयकृतो नेश्वरकृतो न कालपरिणामितो न प्रकृतिसंभूतो न चैककारणाधीनो नाप्यहेतुसमुत्पन्नः। अथ च मातापितृसंयोगाद्, ऋतुसमवायाद्, अन्येषां प्रत्ययानां समवायाद् आस्वादानुविद्धं विज्ञानबीजं मातुः कुक्षौ नामरूपाङ्कुरमभिनिर्वर्तयति अस्वामिकेषु धर्मेष्वपरिग्रहेष्वममेष्वाकाशसमेषु मायालक्षणस्वभावेषु हेतुप्रत्ययानामवैकल्यात्॥

तद्यथा पञ्चभिः कारणैश्चक्षुर्विज्ञानमुत्पद्यते। कतमैः पञ्चभिः? यदुत चक्षुः प्रतीत्य रूपं चालोकं चाकाशं च तज्जमनसिकारं च प्रतीत्योत्पद्यते चक्षुर्विज्ञानम्। तत्र चक्षुर्विज्ञानस्य चक्षुराश्रयकृत्यं करोति। रूपमालम्बनकृत्यं करोति। आलोकोऽवभासकृत्यं करोति। आकाशमनावरणकृत्यं करोति। तज्जमनसिकारः समन्वाहरणकृत्यं करोति। असतामेषां प्रत्ययानां चक्षुर्विज्ञानं नोत्पद्यते। यदा तु चक्षुराध्यात्मिकमायतनमविकलं भवति, एवं रूपालोकाकाशतज्जमनसिकाराश्चाविकला भवन्ति, ततः सर्वेषां समवायाच्चक्षुर्विज्ञानमुत्पद्यते। तत्र चक्षुषो नैवं भवति - अहं चक्षुर्विज्ञानस्याश्रयकृत्यं करोमीति। आलोकस्यापि नैवं भवति - अहं चक्षुर्विज्ञानस्यावभासकृत्यं करोमीति। आकाशस्यापि नैवं भवति - अहं चक्षुर्विज्ञानस्यानावरणकृत्यं करोमिति। तज्जमनसिकारस्यापि नैवं भवति - अहं चक्षुर्विज्ञानस्य समन्वाहरणकृत्यं करोमीति। चक्षुर्विज्ञानस्यापि नैवं भवति - अहमेभिः प्रत्ययैर्जनितमिति। अथ च सतामेषां प्रत्ययानां समवायाच्चक्षुर्विज्ञानस्योत्पत्तिर्भवति। एवं शेषाणामिन्द्रियाणां यथायोगं करणीयम्॥

तत्र न कश्चिद्धर्मोऽस्माल्लोकात्परलोकं संक्रामति। अस्ति च कर्मफलप्रतिविज्ञप्तिर्हेतुप्रत्ययाना मवैकल्यात्। तद्यथा भिक्षवः सुपरिशुद्धे आदर्शमण्डले मुखप्रतिबिम्बकं दृश्यते, न च तत्रादर्शमण्डले मुखं संक्रामति, अस्ति च मुखप्रतिविज्ञप्तिर्हेतुप्रत्ययानामवैकल्यात्, एवमस्माल्लोकान्न कश्चिच्च्युतो नाप्यन्यत्रोपपन्नः, अस्ति च कर्मफलप्रतिविज्ञप्तिर्हेतुप्रत्ययानामवैकल्यात्। तद्यथा भिक्षवश्चन्द्रमण्डलं चत्वारिंशद्योजनशतमूर्ध्वं व्रजति, अथ च पुनः परीत्तेऽप्युदकभाजने चन्द्रस्य प्रतिबिम्बं दृश्यते, न च तस्मात्स्थानादूर्ध्वं नभसश्च्युतं परीत्ते उदकस्य भाजने संक्रान्तं भवति अस्ति च चन्द्रमण्डलप्रतिविज्ञप्तिर्हेतुप्रत्ययानामवैकल्यात्। एवमस्माल्लोकान्न कश्चिच्च्युतो नान्यत्रोपपन्नः, अस्ति च कर्मफलप्रतिविज्ञप्तिर्हेतुप्रत्ययानामवैकल्यात्॥

तद्यथा - अग्निरुपादानप्रत्यये सति ज्वलति, उपादानवैकल्यान्न ज्वलति , एवमेव भिक्षवः कर्म क्लेशजनितं विज्ञानबीजं तत्रतत्रोपपत्त्यायतनप्रतिसंधौ मातुः कुक्षौ नामरूपाङ्कुरमभिनिर्वर्तयति अस्वामिकेषु धर्मेष्वपरिग्रहेषु मायालक्षणस्वभावेषु अममेषु कृत्रिमेषु हेतुप्रत्ययानामवैकल्यात्॥

तत्राध्यात्मिकः प्रतीत्यसमुत्पादः पञ्चभिः कारणैर्द्रष्टव्यः। कतमैः पञ्चभिः? न शाश्वततो नोच्छेदतो न संक्रान्तितः परीत्तहेतुविपुलफलाभिनिर्वृत्तितस्तत्सदृशानुप्रबन्धतश्चेति । कथं न शाश्वततः? यस्मादन्ये मारणान्तिकाः स्कन्धाः, अन्ये औपपत्त्यंशिकाः स्कन्धाः। न तु य एव मारणान्तिकाः स्कन्धास्त एवौपपत्त्यंशिकाः। अपि तु मारणान्तिकाः स्कन्धा निरुध्यन्ते, तस्मिन्नेव च समये औपपत्त्यंशिकाः स्कन्धाः प्रादुर्भवन्ति। अतो न शाश्वततः। कथं नोच्छेदतः ? न च पूर्वनिरुद्धेषु मारणान्तिकेषु स्कन्धेषु औपपत्त्यंशिकाः स्कन्धाः प्रादुर्भवन्ति नाप्यनिरुद्धेषु। अपि तु मारणान्तिकाः स्कन्धा निरुध्यन्ते, तस्मिन्नेव च समये औपपत्त्यंशिकाः स्कन्धाः प्रादुर्भवन्ति तुलादण्डोन्नाभावनामवत् चन्द्रबिम्बप्रतिबिम्बवत्। अतो नोच्छेदतः। कथं न संक्रान्तितः ? विसदृशाः सत्त्वनिकायाः सभागायां जात्यां जातिमभिनिर्वर्तयन्ति। अतो न संक्रान्तितः। कथं परीत्तहेतुतो विपुलफलाभिनिर्वृत्तितः। परीत्तं कर्म क्रियते, विपुलः फलविपाकोऽनुभूयते। अतः परीत्तहेतुतो विपुलफलाभिनिर्वृत्तितः। कथं तत्सदृशानुप्रबन्धतः? यथावेदनीयं कर्म क्रियते, तथावेदनीयो विपाकोऽनुभूयते। अतस्तत्सदृशानुप्रबन्धतश्च। इति विस्तरः॥

इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ
द्वादशाङ्गपरीक्षा नाम षड्विंशतितमं प्रकरणम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project