Digital Sanskrit Buddhist Canon

पञ्चविंशतितमं प्रकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Pañcaviṁśatitamaṁ prakaraṇam

निर्वाणपरीक्षा पञ्चविंशतितमं प्रकरणम्।

अत्राह -
यदि शून्यमिदं सर्वमुदयो नास्ति न व्ययः।
प्रहाणाद्वा निरोधाद्वा कस्य निर्वाणमिष्यते॥१॥

इह हि भगवता उषितब्रह्मचर्याणां तथागतशासनप्रतिपन्नान्नां धर्मानुधर्मप्रतिपत्तियुक्तानां पुद्गलानां द्विविधं निर्वाणमुपवर्णितं सोपधिशेषं निरुपधिशेषं च। तत्र निरवशेषस्य अविद्यारागादिकस्य क्लेशगणस्य प्रहाणात् सोपधिशेषं निर्वाणमिष्यते। तत्र उपधीयतेऽस्मिन्नात्मस्नेहः इति उपधिः। उपधिशब्देन आत्मप्रज्ञप्तिनिमित्ताः पञ्चोपादानस्कन्धा उच्यन्ते। शिष्यत इति शेषः, उपधिरेव शेषः उपधिशेषः, सह उपधिशेषेण वर्तते इति सोपधिशेषम्। किं तत्? निर्वाणम्। तच्च स्कन्धमात्रकमेव केवलं सत्कायदृष्टयादिक्लेशतस्कररहितमवशिष्यते निहताशेषचौरगणग्राममात्रावस्थानसाधर्म्येण। तत् सोपधिशेषं निर्वाणम्। यत्र तु निर्वाणे स्कन्धपञ्चकमपि नास्ति, तन्निरुपधिशेषं निर्वाणम्। निर्गतः उपधिशेषोऽस्मिन्निति कृत्वा। निहताशेषचौरगणस्य ग्राममात्रस्यापि विनाशसाधर्म्येण। तदेव च अधिकृत्य उच्यते -

अभेदि कायो निरोधि सञ्ञा
वेदना पि ति दहंसु सब्बा।
वूपसमिंसु संखारा
विञ्ञाणमत्थमगमा ति॥

तथा -
असंलीनेन कायेन वेदनामध्यवासयत्।
प्रद्योतस्येव निर्वाणं विमोक्षस्तस्य चेतसः॥इति।

तदेवं निरुपधिशेषं निर्वाणं स्कन्धानां निरोधाल्लभ्यते। एतच्च द्विविधं निर्वाणं कथं युज्यते यदि क्लेशानां स्कन्धानां च निरोधो भवति? यदा तु सर्वमिदं शून्यम्, नैव किंचिदुत्पद्यते नापि किंचिन्निरुध्यते, तदा कुतः क्लेशाः, कुतो वा स्कन्धाः, येषां निरोधे निर्वाणं स्यादिति? तस्माद्विद्यत एव भावानां स्वभाव इति॥१॥

अत्रोच्यते। ननु एवमपि सस्वभावाभ्युपगमे -

यद्यशून्यमिदं सर्वमुदयो नास्ति न व्ययः।
प्रहाणाद्वा निरोधाद्वा कस्य निर्वाणमिष्यते॥२॥

स्वभावेन हि व्यवस्थितानां क्लेशानां स्कन्धानां च स्वभावस्यानपायित्वात् कुतो निवृत्तिः, यतस्तन्निवृत्त्या निर्वाणं स्यादिति ? तस्मात् स्वभाववादिनां नैव निर्वाणमुपपद्यते। न च शून्यता वादिनः स्कन्धनिवृत्तिलक्षणं क्लेशनिवृत्तिलक्षणं वा निर्वाणमिच्छन्ति यतस्तेषामयं दोषः स्यादिति। अतः अनुपालम्भ एवायं शून्यवादिनाम्॥२॥

यदि खलु शून्यतावादिनः क्लेशानां स्कन्धानां वा निवृत्तिलक्षणं निर्वाणं नेच्छन्ति, किंलक्षणं तर्हि इच्छन्ति? उच्यते -

अप्रहीणमसंप्राप्तमनुच्छिन्नमशाश्वतम्।
अनिरुद्धमनुत्पन्नमेतन्निर्वाणमुच्यते॥३॥

यद्धि नैव प्रहीयते रागादिवत्, नापि प्राप्यते श्रामण्यफलवत्, नाप्युच्छिद्यते स्कन्धादिवत्, यच्चापि न नित्यमशून्यवत्, तत् स्वभावतोऽनिरुद्धमनुत्पन्नं च सर्वप्रपञ्चोपशमलक्षणं निर्वाणमुक्तम्। तत् कुतस्तस्मिन्नित्थंविधे निष्प्रपञ्चे क्लेशकल्पना येषां क्लेशानां प्रहाणान्निर्वाणं भवेत्? कुतो वा स्कन्धकल्पना तत्र, येषां स्कन्धानां निरोधात् तद्भवेत्? यावद्धि एताः कल्पनाः प्रवर्तन्ते, तावन्नास्ति निर्वाणाधिगमः, सर्वप्रपञ्चपरिक्षयादेव तदधिगमात्॥

अथ स्यात् - यद्यपि निर्वाणे न सन्ति क्लेशाः, न चापि स्कन्धाः, तथापि निर्वाणादर्वाग्विद्यन्ते। ततस्तेषां परिक्षयान्निर्वाणं भविष्यतीति। उच्यते। त्यज्यतामयं ग्राहः , यस्मान्निर्वाणादर्वाक् स्वभावतो विद्यमानानां न पुनरभावः शक्यते कर्तुम्। तस्मान्निर्वाणाभिलाषिणा त्याज्यैषा कल्पना। वक्ष्यति हि -

निवाणस्य च या कोटिः कोटिः संसरणस्य च।
न तयोरन्तरं किंचित्सुसूक्ष्ममपि विद्यते॥इति।

तदेवं निर्वाणे न कस्यचित् प्रहाणं नापि कस्यचिन्निरोध इति विज्ञेयम्। ततश्च निरवशेषकल्पनाक्षयरूपमेव निर्वाणम्। उक्तं च भगवता -

निर्वृत्ति धर्माण च अस्ति धर्मा
ये नेह अस्ती न ते जातु अस्ति।
अस्तीति नास्तीति च कल्पनावता -
मेवं चरन्तान न दुःख शाम्यति॥इति।

अस्या गाथाया अयमर्थः - निवृतौ निरुपधिशेषे निर्वाणधातौ धर्माणां क्लेशकर्मजन्मलक्षणानां स्कन्धानां वा सर्वथा अस्तंगमादस्तित्वं नास्ति, एवं च सर्ववादिनामभिमतम्। ये तर्हि धर्मा इह निर्वृतौ न सन्ति, प्रदीपोदयादन्धकारोपलब्धरज्जुसर्पभयादिवत्, न ते जातु अस्ति, न ते धर्माः क्लेशकर्मजन्मादिलक्षणाः कस्मिंश्चित् काले संसारावस्थायामपि तत्त्वतो विद्यन्ते। न हि रज्जुः अन्धकारावस्थायां स्वरूपतः सर्पोऽस्ति, सद्भूतसर्पवत् अन्धकारेऽपि आलोकेऽपि कायचक्षुर्भ्यामग्रहणात्। कथं तर्हि संसारः इति चेत्, उच्यते। आत्मात्मीयासद्ग्रहग्रस्तानां बालपृथग्जनानामसत्स्वरूपा अपि भावाः सत्यतः प्रतिभासन्ते तैमिरिकाणामिव असत्केशमशकादय इवेति। आह -

अस्तीति नास्तीति च कल्पनावता-
मेवं चरन्तान न दुःख शाम्यति। इति।

अस्तीति भावसद्भावकल्पनावतां जैमिनीयकाणादकापिलादीनां वैभाषिकपर्यन्तानाम्। नास्तीति च कल्पनावतां नास्तिकानामपायगतिनिष्ठानाम्। तदन्येषां च अतीतानागतसंस्थानां विज्ञप्तिविप्रयुक्तसंस्काराणां नास्तिवादिनां तदन्यदस्तिवादिनाम्, परिकल्पितस्वभावस्य नास्तिवादिनाम्, परतन्त्रपरिनिष्पन्नस्वभावयोरस्तिवादिनाम्, एवमस्तिनास्तिवादिनामेवं चरतां न दुःखं संसारः शाम्यतीति। तथा -

यथ शङ्कितेन विषसंज्ञ अभ्युपेति।
नो चापि कोष्ठ गन्तु आविष्ट पपद्यते।
एवमेव बालुऽपगतो
जायि म्रियते सदा अभूतो॥इति।

तदेवं न कस्यचिन्निर्वाणे प्रहाणं नापि कस्यचिन्निरोध इति विज्ञेयम्। ततश्च सर्वकल्पना क्षयरूपमेव निर्वाणम्। यथोक्तमार्यरत्नावल्याम् -
न चाभावोऽपि निर्वाणं कुत एवास्य भावना।
भावाभावपरामर्शक्षयो निर्वाणमुच्यते॥

इति॥३॥

ये तु सर्वकल्पनोपशमरूपं निर्वाणमप्रतिपद्यमानाः भावाभावतदुभयानुभयरूपं निर्वाणं परिकल्पयन्ति, तान् प्रति उच्यते -

भावस्तावन्न निर्वाणं जरामरणलक्षणम्।
प्रसज्येतास्ति भावो हि न जरामरणं विना॥४॥

तत्रैके भावतो निर्वाणमभिनिविष्टा एवमाचक्षते - इह क्लेशकर्मजन्मसंतानप्रवृत्तिनियत रोधभूतो जलप्रवाहरोधभूतसेतुस्थानीयो निरोधात्मकः पदार्थः, तन्निर्वाणम्। न च अविद्यमान स्वभावो धर्मः एवं कार्यकारी दृश्यते। ननु च योऽस्या नन्दीरागसहगतायास्तृष्णायाः क्षयो विरागो निरोधो निर्वाणमित्युक्तम्, न च क्षयमात्रं भावो भवितुमर्हति। तथा -

प्रद्योतस्येव निर्वाणं विमोक्षस्तस्य चेतसः।

इत्युक्तम्। न च प्रद्योतस्य निवृत्तिर्भाव इत्युपपद्यते। उच्यते। नैतदेवं विज्ञेयं तृष्णायाः क्षयः तृष्णाक्षयः इति। किं तर्हि तृष्णायाः क्षयोऽस्मिन्निति निर्वाणाख्ये धर्मे सति भवति, स तृष्णाक्षय इति वक्तव्यम्। प्रदीपश्च दृष्टान्तमात्रम्। तत्रापि यस्मिन् सति चेतसो विमोक्षो भवतीति वेदितव्यमिति॥

एवं भावे निर्वाण व्यवस्थापिते आचार्यो निरूपयति - भावस्तावन्न निर्वाणम्। किं कारणम्? यस्माज्जरामरणलक्षणं प्रसज्येत, भावस्य जरामरणलक्षणाव्यभिचारित्वात्। ततश्च निर्वाणमेव तन्न स्यात्, जरामरणलक्षणत्वाद्विज्ञानवत्, इत्यभिप्रायः॥

तामेव च जरामरणलक्षणव्यभिचारितां स्पष्टयन्नाह - अस्ति भावो हि न जरामरणं विनेति। यो हि जरामरणरहितः, स भाव एव न संभवति, खपुष्पवत्, जरामरणरहितत्वात्॥४॥

किं चान्यत् -

भावश्च यदि निर्वाणं निर्वाणं संस्कृतं भवेत्।
नासंस्कृतो हि विद्यते भावः क्कचन कश्चन॥५॥

यदि निर्वाणं भावः स्यात्, तदा तन्निर्वाणं संस्कृतं भवेत्, विज्ञानादिवत् भावत्वात्। यस्तु असंस्कृतः, नासौ भावः, तद्यथा खरविषाणवदिति व्यतिरेकमुपदर्शयन्नाह -

नासंस्कृतो हि विद्यते भावः क्कचन कश्चन।

क्कचनेत्यधिकरणे देशे काले सिद्धान्ते वा। कश्चनेत्याधेये। आध्यात्मिको बाह्यात्मिको वेत्यर्थः॥५॥

किं चान्यत् -
भावश्च यदि निर्वाणमनुपादाय तत्कथम्।
निर्वाणं नानुपादाय कश्चिद् भावो हि विद्यते॥६॥

यदि भवन्मतेन निर्वाणं भावः स्यात्, तदुपादाय भवेत्, स्वकारणसामग्रीमाश्रित्य भवेदित्यर्थः। न चैवमुपादाय निर्वाणमिष्यते, किं तर्हि अनुपादाय। तद्यदि भावो निर्वाणमनुपादाय, तत् कथं निर्वाणं स्यात्? नैव अनुपादाय स्यात्, भावत्वात्, विज्ञानादिवत्। व्यतिरेक कारणमाह - नानुपादाय कश्चिद्भावो हि विद्यते इति॥६॥

अत्राह - यदि भावो हि न निर्वाणम् , यथोदितदोषप्रसङ्गात्, किं तर्हि अभाव एव निर्वाणम्, क्लेशजन्मनिवृत्तिमात्रत्वादिति ? उच्यते। एतदप्ययुक्तम्, यस्मात् -

यदि भावो न निर्वाणमभावः किं भविष्यति।
निर्वाणं यत्र भावो न नाभावस्तत्र विद्यते॥७॥

यदि भावो निर्वाणं नेष्यते, यदि निर्वाणं भाव इति नेष्यते, तदा किमभावो भविष्यति निर्वाणम्? अभावोऽपि न भविष्यतीत्यर्थः। क्लेशजन्मनोरभावो निर्वाणमिति चेत्, एवं तर्हि क्लेशजन्मनोरनित्यता निर्वाणमिति स्यात्। अनित्यतैव हि क्लेशजन्मनोरभावो नान्यत् , इत्यतः अनित्यतैव निर्वाणं स्यात्। न चैतदिष्टम्, अयत्नेनैव मोक्षप्रसङ्गादित्युक्तमेवैतत्॥७॥

किं चान्यत् -
यद्यभावश्च निर्वाणमनुपादाय तत्कथम्।
निर्वाणं न ह्यभावोऽस्ति योऽनुपादाय विद्यते॥८॥

तत्र अभावः अनित्यता वा भावमुपादाय प्रज्ञप्यते, खरविषाणादीनामनित्यतानुपलम्भात्। लक्षणमाश्रित्य लक्ष्यं प्रज्ञप्यते, लक्ष्यमाश्रित्य च लक्षणम्। अतः परस्परापेक्षिक्यां लक्ष्यलक्षण प्रवृत्तौ कुतो लक्ष्यं भावमपेक्ष्य अनित्यता भविष्यति? तस्मादभावोऽप्युपादाय प्रज्ञप्यते। ततो यदि अभावश्च निर्वाणम्, तत् कथमनुपादाय निर्वाणं भवेत्? उपादायैव तद्भवेत्, अभावत्वाद्विनाशवत्। एतदेव स्पष्टयन्नाह - न ह्यभावोऽस्ति योऽनुपादाय विद्यते इति॥

यदि तर्हि अभावः अनुपादाय नास्ति, किमिदानीमुपादाय बन्ध्यापुत्रादयोऽभावा भविष्यन्ति? केनैतदुक्तं वन्ध्यापुत्रादयोऽभावा इति ? उक्तं हि पूर्वम् -

भावस्य चेदप्रसिद्धिरभावो नैव सिध्यति।
भावस्य ह्यन्यथाभावमभावं ब्रुवते जनाः॥इति।

तस्मान्न बन्ध्यापुत्रादीनामभावत्वम्। यच्चाप्युच्यते -

आकाशं शशशृङ्गं च वन्ध्यायाः पुत्र एव च।
असन्तश्चाभिलप्यन्ते तथा भावेषु कल्पना॥इति,

तत्रापि भावकल्पनाप्रतिषेधमात्रम्, न अभावकल्पना, भावत्वासिद्धेरेवेति विज्ञेयम्। वन्ध्यापुत्र इति शब्दमात्रमेवैतत्, न अस्य अर्थः उपलभ्यते, यस्यार्थस्य भावत्वमभावत्वं वा स्यादिति। कुतः अनुपलभ्यमानस्वभावस्य भावाभावकल्पना योक्ष्यते? तस्मात् न बन्ध्यापुत्रोऽभाव इति विज्ञेयम्। ततश्च स्थितमेव न ह्यभावोऽस्ति योऽनुपादाय विद्यते इति॥८॥

अत्राह - यदि भावो निर्वाणं न भवति, अभावोऽपि, किं तर्हि निर्वाणमिति? उच्यते। इह हि भगवद्भिस्तथागतैः-

य आजवंजवीभाव उपादाय प्रतीत्य वा।
सोऽप्रतीत्यानुपादाय निर्वाणमुपदिश्यते॥९॥

तत्र आजवंजवीभावः आगमनगमनभावजन्ममरणपरंपरेत्यर्थः। स चायमाजवंजवीभावः कदाचिद्धेतुप्रत्ययसामग्रीमाश्रित्य अस्तीति प्रज्ञप्यते दीर्घह्रस्ववत्। कदाचिदुत्पद्यत इति प्रज्ञप्यते प्रदीपप्रभावद् बीजाङ्कुरवत्। सर्वथा यद्ययमुपादाय प्रज्ञप्यते, यदि वा प्रतीत्य जायत इति व्यवस्थाप्यते, सर्वथास्य जन्ममरणपरंपराप्रबन्धस्य अप्रतीत्य वा अनुपादाय वा अप्रवृत्तिस्तन्निर्वाण मिति व्यवस्थाप्यते। न च अप्रवृत्तिमात्रं भावोऽभावो वेति परिकल्पितु पार्यत इति। एवं न भावो नाभावो निर्वाणम्॥

अथवा। येषां संस्काराः संसरन्तीति पक्षः, तेषां प्रतीत्य प्रतीत्य य उत्पादश्च विनाशश्च , सोऽप्रतीत्याप्रवर्तमानो निर्वाणमिति कथ्यते। येषां तु पुद्गलः संसरति, तेषां तस्य नित्यानित्यत्वेना - वाच्यस्य तत्तदुपादानमाश्रित्य य आजवंजवीभावः स उपादाय प्रवर्तते, स एवोपादायोपादाय प्रवर्तयमानः सन्निदानीमनुपादायाप्रवर्तयमानो निर्वाणमिति व्यपदिश्यते। न च संस्काराणां पुद्गलस्य वा अप्रवृत्तिमात्रकं भावोऽभावो वेति शक्यं परिकल्पयितुम्। इत्यतोऽपि न भावो नाभावो निर्वाणमिति युज्यते॥९॥

किं चान्यत् -
प्रहाणं चाब्रवीच्छास्ता भवस्य विभवस्य च।
तस्मान्न भावो नाभावो निर्वाणमिति युज्यते॥१०॥

तत्र सूत्र उक्तम् - ये केचिद्भिक्षवो भवेन भवस्य निःसरणं पर्येषन्ते विभवेन वा, अपरिज्ञानं [तं?] तत्तेषामिति। उभयं ह्येतत् परित्याज्यं भवे तृष्णा विभवे तृष्णा च। न चैतन्निर्वाणं प्रहातव्यमुक्तं भगवता, किं तर्हि अप्रहातव्यम्। तद्यदि निर्वाणं भावरूपं स्यादभावरूपं वा , तदपि प्रहातव्यं भवेत्। न च प्रहातव्यम्।

तस्मान्न भावो नाभावो निर्वाणमिति युज्यते॥

येषामपि क्लेशजन्मनोस्तत्राभावादभावरूपं निर्वाणं स्वयं च भावरूपत्वाद्भावरूपमित्युभयरूपम्, तेषामुभयरूपमिति निर्वाणं नोपपद्यते, इति प्रतिपादयन्नाह -

भवेदभावो भावश्च निर्वाणमुभयं यदि।
भवेदभावो भावश्च मोक्षस्तच्च न युज्यते॥११॥

यदि भावाभावोभयरूपं निर्वाणं स्यात्, तदा भावश्च अभावश्च मोक्ष इति स्यात्। ततश्च यः संस्काराणामात्मलाभः तस्य च विगमः, स एव मोक्षः स्यात्। न च संस्कारा एव मोक्ष इति युज्यते। अत एवाह - तच्च न युज्यते इति॥११॥

किं चान्यत् -

भवेदभावो भावश्च निर्वाणमुभयं यदि।
नानुपादाय निर्वाणमुपादायोभयं हि तत्॥१२॥

यदि भावाभावरूपं निर्वाणं स्यात्, तदा हेतुप्रत्ययसामग्रीमुपादाय आश्रित्य भवेत्, न अनुपादाय। किं कारणम् ? यस्मादुपादायोभयं हि तत्। भावमुपादाय अभावः, अभावं चोपादाय भावः, इति कृत्वा उभयमेतद् भावं च अभावं च उपादायैव भवति, न अनुपादाय। एवं निर्वाणं भवेद् भावाभावरूपम्। न चैतदेवम्, इति न युक्तमेतत्॥१२॥

किं चान्यत् -
भवेदभावो भावश्च निर्वाणमुभयं कथम्।
असंस्कृतं च निर्वाणं भावाभावौ च संस्कृतौ॥१३॥

भावो हि स्वहेतुप्रत्ययसामग्रीसंभूतत्वात् संस्कृतः। अभावोऽपि [भावं ] प्रतीत्य संभूतत्वात्, जातिप्रत्ययजरामरणवचनाच्च संस्कृतः। तद्यदि भावाभावस्वभावं निर्वाणं स्यात्, तदा न असंस्कृतम्, [किं तु] संस्कृतमेव। यस्मान्न च संस्कृतमिष्यते, तस्मान्न भावाभावस्वरूपं निर्वाणं युज्यते॥१३॥

अथापि स्यात्- नैव हि निर्वाणं भावाभावस्वरूपम्, किं तर्हि निर्वाणे भावाभावाविति। एवमपि न युक्तम्। कुतः? यस्मात् -

भवेदभावो भावश्च निर्वाणे उभयं कथम्।
[तयोरेकत्र नास्तित्वमालोकतमसोर्यथा]॥१४॥

भावाभावयोरपि परस्परविरुद्धयोरेकत्र निर्वाणे नास्ति संभव इति , अतः,
भवेदभावो भावश्च निर्वाणे उभयं कथम्।
नैव भवेदित्यभिप्रायः॥१४॥

इदानीं यथा नैव भावो नैवाभावो निर्वाणं युज्यते, तथा प्रतिपादयन्नाह -

नैवाभावो नैव भावो निर्वाणमिति याञ्जना।
अभावे चैव भावे च सा सिद्धे सति सिध्यति॥१५॥

यदि हि भावो नाम कश्चित् स्यात्, तदा तत्प्रतिषेधेन नैव भावो निर्वाणमित्येषा कल्पना, यदि कश्चिदभावः स्यात्, तदा तत्प्रतिषेधेन नैवाभावो निर्वाणं स्यात्। यदा च भावाभावावेव न स्तः, तदा तत्प्रतिषेधोऽपि नास्तीति। तस्मान्नैव भावो नैवाभावो निर्वाणमिति या कल्पना, सापि नोपपद्यत एव। इति न युक्तमेतत्॥१५॥

किं चान्यत् -

नैवाभावो नैव भावो निर्वाणं यदि विद्यते।
नैवाभावो नैव भाव इति केन तदज्यते॥१६॥

यदि एतन्निर्वाणं नैवाभावरूपं नैव भावरूपमस्तीति कल्प्यते, केन तदानीं तदित्थंविधं नोभयरूपं निर्वाणमस्तीति अज्यते गृह्यते प्रकाशते वा? किं तत्र निर्वाणे कश्चिदेवंविधः प्रतिपत्तास्ति, अथ नास्ति? यदि अस्ति, एवं सति निर्वाणेऽपि तवात्मा स्यात्। न चेष्टम्, निरुपादानस्यात्मनोऽस्तित्वाभावात्। अथ नास्ति, केनैतदित्थंविधं निर्वाणमस्तीति परिच्छिद्यते? संसारावस्थितः परिच्छिनत्तीति चेत्, यदि संसारावस्थितः परिच्छिनत्ति, स किं विज्ञानेन परिच्छिनत्ति, उत्त ज्ञानेन? यदि विज्ञानेनेति परिकल्प्यते, तन्न युज्यते। किं कारणम्? यस्मान्निमित्तालम्बनं विज्ञानम्, न च निर्वाणे किंचिन्निमित्तमस्ति, तस्मान्न तत्तावद्विज्ञानेनालम्ब्यते। ज्ञानेनापि न ज्ञायते। किं कारणम्? यस्माद् ज्ञानेन हि शून्यतालम्बनेन भवितव्यम्, तच्च अनुत्पादरूपमेवेति, कथं तेनाविद्यमानस्वरूपेण नैवाभावो नैव भावो निर्वाणमिति गृह्यते, सर्वप्रपञ्चातीतरूपत्वाद् ज्ञानस्येति। तस्मान्न केनचिन्निर्वाणं नैवाभावो नैव भाव इत्यज्यते। अनज्यमानमप्रकाश्यमानमगृह्यमाणं तदेवमस्तीति न युज्यते॥१६॥

सर्वथा यथा च निर्वाणे एताश्चतस्रः कल्पना न संभवन्ति, एवं निर्वाणाधिगन्तर्यपि तथागते एताः कल्पना नैव संभवन्तीति प्रतिपादयन्नाह -

परं निरोधाद्भगवान् भवतीत्येव नोह्यते।
न भवत्युभयं चेति नोभयं चेति नोह्यते॥१७॥

उक्तं हि पूर्वम् -
घनग्राहगृहीतस्तु येनास्तीति तथागतः।
नास्तीति वा कल्पयन् स निर्वृतस्य विकल्पयेत्।

एवं तावत् परं निरोधाद्भवति तथागतो न भवति चेति नोह्यते। एतद्द्वयस्याभावादुभय मित्यपि नोह्यते। उभयस्याभावादेव नोभयमिति नोह्यते न गृह्यते॥१७।

न च केवलं परं निरोधाच्चतुर्भिः प्रकारैर्भगवान्नोह्यते, अपि च -
तिष्ठमानोऽपि भगवान् भवतीत्येव नोह्यते।
न भवत्युभयंचेति नोभयं चेति नोह्यते॥१८॥

यथा नाज्यं न चोह्यं तथा तथागतपरीक्षायां प्रतिपादितम्॥१८॥

अत एव -
न संसारस्य निर्वाणात्किंचिदस्ति विशेषणम्।
न निर्वाणस्य संसारात्किंचिदस्ति विशेषणम्॥१९॥

यस्मात्तिष्ठन्नपि भगवान् भवतीत्येवमादिना नोह्यते, परिनिर्वृतोऽपि नोह्यते भवतीत्येव मादिना, अत एव संसारनिर्वाणयोः परस्परतो नास्ति कश्चिद्विशेषः, विचार्यमाणयोस्तुल्यरूपत्वात्। यच्चापीदमुक्तं भगवता - अनवराग्रो हि भिक्षवो जातिजरामरणसंसार इति , तदपि अत एवोपपन्नम्, संसारनिर्वाणयोर्विशेषस्याभावात्॥१९॥

तथाहि -
निर्वाणस्य च या कोटिः कोटिः संसरणस्य च।
न तयोरन्तरं किंचित्सुसूक्ष्ममपि विद्यते॥२०॥

न च केवलं संसारस्य निर्वाणेनाविशिष्टत्वात् पूर्वापरकोटिकल्पना न संभवति, या अप्येताः -

परं निरोधादन्ताद्याः शाश्वताद्याश्च दृष्टयः।
निर्वाणमपरान्तं च पूर्वान्तं च समाश्रिताः॥२१॥

ता अपि अत एव नोपपद्यन्ते, संसारनिर्वाणयोरुभयोरपि प्रकृतिशान्तत्वेनैकरसत्वात्॥

तत्र परं निरोधादित्यनेनोपलक्षणेन चतस्रो दृष्टयः परिगृह्यन्ते। तद्यथा - भवति तथागतः परं मरणात्, न भवति तथागतः परं मरणात, भवति च न भवति च तथागतः परं मरणात्, नैव भवति न न भवति तथागतः परं मरणादिति। एताश्चतस्रो दृष्टयो निर्वाणपरामर्शेन प्रवृत्ताः॥

अन्ताद्या अपि दृष्टयः। तद्यथा - अन्तवान् लोकः, अनन्तवांश्च, अन्तवांश्चानन्तवांश्च, नैवान्तवान् नानन्तवान् लोकः इति। एताश्चतस्रो दृष्टयोऽपरान्तं समाश्रित्य प्रवृत्ताः। तत्र आत्मनो लोकस्य वा अनागतमुत्पादमपश्यन् अन्तवान् लोक इत्येवं कल्पयन् अपरान्तमालम्ब्य प्रवर्तते। एवमनागतमुत्पादं पश्यन् अनन्तवान् लोक इति प्रवर्तते। पश्यंश्च अपश्यंश्च उभयथा प्रातिपद्यते। द्वयप्रतिषेधेन नैवान्तवान् नानन्तवानिति प्रतिपद्यते। शाश्वतो लोकः, अशाश्वतो लोकः, शाश्वतश्चाशाश्वतश्च, नैवशाश्वतो नैवाशाश्वातो लोकः, इत्येताश्चतस्रो दृष्टयः पूर्वान्तं समाश्रित्य प्रवर्तन्ते। तत्र आत्मनो लोकस्य वा अतीतमुत्पादं पश्यन् शाश्वतो लोक इति प्रतिपद्यते, अपश्यन्नशाश्वत इति प्रतिपद्यते, पश्यंश्च अपश्यंश्च शाश्वतश्चाशाश्वतश्चेति प्रतिपद्यते, नैव पश्यन्नैवापश्यन् नैवशाश्वतो नाशाश्वतश्चेति प्रतिपद्यते पूर्वान्तमाश्रित्य। ताश्चैता दृष्टयः कथं युज्यन्ते? यदि कस्यचित्पदार्थस्य कश्चित् स्वभावो भवेत्, तस्य भावाभावकल्पनात् स्युरेता दृष्टयः। यदा तु संसारनिर्वाणयोरविशेषः प्रतिपादितः, तदा -

शून्येषु सर्वधर्मेषु किमनन्तं किमन्तवत्।
किमनन्तमन्तवच्च नानन्तं नान्तवच्च किम्॥२२॥
किं तदेव किमन्यत्किं शाश्वतं किमशाश्वतम्।
अशाश्वतं शाश्वतं च किं वा नोभयमप्यतः॥२३॥

चतुर्दशाप्येतानि अव्याकृतवस्तूनि असति भावस्वरूपे नैव युज्यन्ते। यस्तु भावस्वरूपमध्यारोप्य तद्विगमाविगमतः एता दृष्टीरुत्पाद्य अभिनिविशते, तस्यायमभिनिवेशो निर्वाणपुरगामिनं पन्थानं निरुणद्धि, सांसारिकेषु च दुःखेषु नियोजयतीति विज्ञेयम्॥२३॥

अत्राह - यदि एवं भवता निर्वाणमपि प्रतिषिद्धम्, ननु च य एष भवगता अनन्तचरितसत्त्वराश्यनुवर्तकेन विदिताविपरीतसकलजगदाशयस्वभावेन महाकरूणापरतन्त्रेण प्रियैकपुत्र कप्रेमानुगताशेषत्रिभुवनजनेन चरितप्रतिपक्षानुरूपो धर्मो देशितो लोकस्य निर्वाणाधिगमार्थम्, स एवं सति व्यर्थ एव जायते। उच्यते - यदि कश्चिद्धर्मो नाम स्वभावरूपतः स्यात्, केचिच्च सत्त्वास्तस्य धर्मस्य श्रोतारः स्युः, कश्चिद्वा देशिता बुद्धो भगवान्नाम भावस्वभावः स्यात्, स्यादेतदेवम्। यदा तु -

सर्वोपलम्भोपशमः प्रपञ्चोपशमः शिवः।
न क्कचित्कस्यचित्कश्चिद्धर्मो बुद्धेन देशितः॥२४॥

तदा कुतोऽस्माकं यथोक्तदोषप्रसङ्गः? इह हि सर्वेषां प्रपञ्चानां निमित्तानां य उपशमोऽप्रवृत्तिस्तन्निर्वाणम्। स एव चोपशमः प्रकृत्यैवोपशान्तत्वाच्छिवः। वाचामप्रवृत्तेर्वा प्रपञ्चोपशमश्चित्तस्याप्रवृत्तेः शिवः। क्लेशानामप्रवृत्त्या वा जन्मनोऽप्रवृत्त्या शिवः। क्लेशप्रहाणेन वा प्रपञ्चोपशमो निरवशेषवासनाप्रहाणे शिवः। ज्ञेयानुपलब्ध्या वा प्रपञ्चोपशमो ज्ञानानुपलब्ध्या शिवः। यदा चैवं बुद्धा भगवन्तः सर्वप्रपञ्चोपशान्तरूपे निर्वाणे शिवेऽस्थानयोगेन नभसीव हंसराजाः स्थिताः स्वपुण्यज्ञानसंभारपक्षपातवाते वातगगने वा गगनस्याकिंचनत्वात्, तदा सर्वनिमित्तानुपलम्भान्न क्कचिद्देवेषु वा मनुष्येषु वा न कस्यचिद्देवस्य वा मनुष्यस्य वा न कश्चिद्धर्मः सांक्लेशिको वा वैयवदानिको वा देशित इति विज्ञेयम्। यथोक्तमार्यतथागतगुह्यसूत्रे - " यां च रात्रिं शान्तमते तथागतोऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धः, यां च रात्रिमनुपादाय परिनिर्वास्यति, अत्रान्तरे तथागते- नैकमप्यक्षरं नोदाहृतं न व्याहृतं नापि प्रव्याहरति नापि प्रव्याहरिष्यति। अथ च यथाधिमुक्ताः सर्वसत्त्वा नानाधात्वाशयास्तां तां विविधां तथागतवाचं निश्चरन्तीं संजानन्ति। तेषामेवं पृथक् पृथग्भवति - अयं भगवानस्मभ्यमिमं धर्मं देशयति, वयं च तथागतस्य धर्मदेशनां शृणुमः। तत्र तथागतो न कल्पयति न विकल्पयति। सर्वकल्पविकल्पजालवासनाप्रपञ्चविगतो हि शान्तमते तथागतः "। इति विस्तरः॥

तथा -
अवाचऽनक्षराः सर्वशून्याः शान्तादिनिर्मलाः।
य एवं जानति धर्मान् कुमारो बुद्ध सोच्यते॥

यदि तर्ह्येवं न क्कचित्कस्यचित्कश्चिद्धर्मो बुद्धेन देशितः, तत्कथमिमे एते विचित्राः प्रवचनव्यवहाराः प्रज्ञायन्ते? उच्यते। अविद्यानिद्रानुगतानां देहिनां स्वप्नायमानानामिव स्वविकल्पाभ्युदय एषः - अयं भगवान् सकलत्रिभुवनसुरासुरनरनाथः इमं धर्ममस्मभ्यं देशयतीति। यथोक्तं भगवता -

तथागतो हि प्रतिबिम्बभूतः
कुशलस्य धर्मस्य अनास्रवस्य।
नैवात्र तथता न तथागतोऽस्ति
बिम्बं च संदृश्यति सर्वलोके॥ इति।

एतच्च तथागतवाग्गुह्यपरिवर्ते विस्तरेण व्याख्यातम्। ततश्च निर्वाणार्थं धर्मदेशनाया अभावात् कुतो धर्मदेशनायाः सद्भावेन निर्वाणस्यास्तित्वं भविष्यति? तस्मान्निर्वाणमपि नास्तीति सिद्धम्। उक्तं च भगवता -

अनिर्वाणं हि निर्वाणं लोकनाथेन देशितम्।
आकाशेन कृतो ग्रन्थिराकाशेनैव मोचितः॥इति।

तथा - न तेषां भगवन् संसारसमतिक्रमो ये निर्वाणं भावतः पर्येषन्ते। तत्कस्य हेतोः? निर्वाणमिति भगवन् यः प्रशमः सर्वनिमित्तानामुपरतिः सर्वेञ्जितसमिञ्जितानाम्। तदिमे भगवन् मोहपुरुषा ये स्वाख्याते धर्मविनये प्रव्रज्य तीर्थिकदृष्टौ निपतिता निर्वाणं भावतः पर्येषन्ते तद्यथा तिलेभ्यस्तैलं क्षीरात्सर्पिः। अत्यन्तपरिनिर्वृतेषु भगवन् सर्वधर्मेषु ये निर्वाणं मार्गन्ति तानहमाभिमानिकान् तीर्थिकानिति वदामि। न भगवन् योगाचारः सम्यक् प्रतिपन्नः कस्यचिद्धर्मस्योत्पादं वा निरोधं वा करोति, नापि कस्यचिद्धर्मस्य प्राप्तिमिच्छति नाभिसमयमिति विस्तरः॥

इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ
निर्वाणपरीक्षा नाम पञ्चविंशतितमं प्रकरणम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project