Digital Sanskrit Buddhist Canon

चतुर्विंशतितमं प्रकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Caturviṁśatitamaṁ prakaraṇam

आर्यसत्यपरीक्षा चतुर्विंशतितमं प्रकरणम्।
अत्राह -

यदि शून्यमिदं सर्वमुदयो नास्ति न व्ययः।
चतुर्णामार्यसत्यानामभावस्ते प्रसज्यते॥१॥

यदि युक्त्या नोपपद्यते इति कृत्वा सर्वमिदं बाह्यमाध्यात्मिकं भावजातं शून्यमिति प्रतिपादितम् , ननु च एवं सति बहवश्च महान्तश्च दोषा भवत आपद्यन्ते। कथं कृत्वा ? यदि सर्वमिदं शून्यं स्यात्, तदा यच्छून्यं तन्नास्ति, यच्च नास्ति, तदविद्यमानत्वाद् वन्ध्यापुत्रवन्नैवोत्पद्यते न चापि निरुध्यते, इति न कस्यचित्पदार्थस्य उदयो व्ययश्च। तदभावाच्च चतुर्णामार्यसत्यानामभावः ते शून्यवादिनः प्रसज्यते। कथं कृत्वा? इह हि पूर्वहेतुजनिताः प्रतीत्यसमुत्पन्नाः पञ्चोपादान स्कन्धाः दुःखदुःखतया विपरिणामदुःखतया संस्कारदुःखतया च प्रतिकूलवर्तित्वाच्च पीडात्मकत्वेन दुःखमित्युच्यते। एतच्च दुःखमार्या एव विपर्यासप्रहाणे सति दुःखमिति संजानते, न अनार्याः, विपर्यासानुगतत्वात्, यथादर्शनं च पदार्थस्वभावव्यवस्थानात्। यथा हि विपर्यस्तेन्द्रियाणां मधुरस्वभावमपि गुडशर्करादिकं तिक्ततया उपलभमानानां ज्वरादिरोगातुराणां तिक्ततैव सत्यं तज्ज्ञानापेक्षया, माधुर्यम्, तेनात्मना तस्य वस्तुनोऽनुपलभ्यमानत्वात्, एवमिहापि यद्यपि पञ्चोपादानस्कन्धा दुःखस्वभावा भवन्ति, तथापि ये एतान् दुःखात्मकान् पश्यन्ति, तेषामेव दुःखं व्यवस्थाप्यते, न विपर्यासानुगमादन्यथोपलभमानानामिति। अतः आर्याणामेव दुःखात्मता सत्यमिति कृत्वा दुःखमार्यसत्यमित्युच्यते। ननु च अनार्यैर्दुःखा वेदना दुःखमिति परिच्छिद्यते इति, एवं तत्कथं दुःखमार्याणामेव सत्यम्? सत्यम्। न हि दुःखैव वेदना केवलं दुःखसत्यम्, किं तर्हि पञ्चाप्युपादानस्कन्धाः, इत्यतः आर्याणामेव तत् सत्यमिति कृत्वा आर्यसत्यमिति व्यवस्थाप्यते। यथोक्तम् -

ऊर्णापक्ष्म यथैव हि करतलसंस्थं न वि (वे?) द्यते पुंभिः।
अक्षिगतं तु तदेव हि जनयत्यरतिं च पीडां च॥

करतलसदृशो बालो न वेत्ति संस्कारदुःखतापक्ष्म।
अक्षिसदृशस्तु विद्वान् तेनैवोद्वेजते गाढम्॥इति।

तस्मादार्याणामेव तद्दुःखसत्यमिति दुःखमार्यसत्यमिति व्यवस्थाप्यते॥

कदा च तद्दुःखमार्यसत्यं युज्यते? यदा संस्काराणामुदयव्ययौ संभवतः। यदा तु शून्यत्वान्न किंचिदुत्पद्यते नापि किंचिन्निरुध्यते, तदा नास्ति दुःखम्॥

असति च दुःखे कुतः समुदयसत्यम्? यतो हि हेतोर्दुःखम्, समुदेति समुत्पद्यते स हेतुः तृष्णाकर्मक्लेशलक्षणः समुदय इत्युच्यते। यदा तु फलभूतं दुःखसत्यं नास्ति, तदा फलरहितस्य हेतुकत्वानुपपत्तेः समुदयोऽपि नास्ति॥

दुःखस्य च विगमः अपुनरुत्पादः निरोध इत्युच्यते। यदा तु दुःखमेव नास्ति, तदा कस्य निरोधः स्यादिति? अतो दुःखनिरोधोऽपि न संभवति। असति हि दुःखे निरोधसत्यस्या प्यभावः। असति च दुःखनिरोधे कुतो दुःखनिरोधगामिनी आर्याष्टाङ्गमार्गानुगा प्रतिपद् भविष्यतीति मार्गसत्यमपि नास्तीति। तदेवं शून्यत्वं भावानां ब्रुवतः चतुर्णामार्यसत्यानामभावः प्रसज्यते॥१॥

ततश्च को दोष इति ? उच्यते -

परिज्ञा च प्रहाणं च भावना साक्षिकर्म च।
चतुर्णामार्यसत्यानामभावान्नोपपद्यते॥२॥

चतुर्णामार्यसत्यानामभावप्रसङ्गे सति यदेतदनित्यादिभिराकारैर्दुःखसत्यपरिज्ञानं दुःखसमुदयस्य च प्रहाणं दुःखनिरोधगामिन्याश्च प्रतिपदो भावना दुःखनिरोधस्य च साक्षिकर्म साक्षात्करणम्, तन्नोपपद्यते॥२॥

यदि दुःखादीनामार्यसत्यानामभावे सति परिज्ञानादिकं नास्ति, तदा को दोष इति? उच्यते -

तदभावान्न विद्यन्ते चत्वार्यार्यफलानि च।
फलाभावे फलस्था नो न सन्ति प्रतिपन्नकाः॥३॥

संघो नास्ति न चेत्सन्ति तेऽष्टौ पुरुषपुद्गलाः।
अभावाच्चार्यसत्यानां सद्धर्मोऽपि न विद्यते॥४॥

धर्मे चासति संघे च कथं बुद्धो भविष्यति।

यदा चैवं दुःखपरिज्ञानादिकं नास्ति, तदा, अस्मिन्नसति स्रोतआपत्तिसकृदागाम्यनागाम्यर्हत्फलाख्यं फलचतुष्टयं नोपपद्यते। कथं कृत्वा ? इह क्लेशानां प्रहाणं संपिण्डितं फलाख्यं प्रतिलभते। तद्यथा - संयोजनत्रयप्रहाणे सति षोडशे मार्गे अन्वयज्ञानक्षणे यत् क्लेशप्रहाणं तत् स्रोतआपत्तिफलम्। कामावचराणां भावनाप्रहातव्यानां क्लेशानामधिमात्रमध्यमृदूनां प्रकाराणां पुनरधिमात्रमध्यमृदुप्रकारभेदेन प्रत्येकं भिद्यमानानां नव प्रकारा भवन्ति। तत्र कामावचरषष्ठ क्लेशप्रकारपरिक्षये विमुक्तिमार्गे यत् प्रहाणं तत् सकृदागामिफलम्। तेषामेव कामावचराणां नवमप्रकारक्लेशपरिक्षये विमुक्तिमार्गे यत् क्लेशप्रहाणं तदनागामिफलम्। रूपारूप्यावचराणां क्लेशानां भावनाप्रहातव्यानां भूमौ भूमौ नवप्रकारभेदभिन्नानां यावन्नैवसंज्ञानासंज्ञायतनभूमिकनवमक्लेशप्रकारपरिक्षये विमुक्तिमार्गे यत् प्रहाणं तदर्हत्फलम्। इत्येतानि चत्वारि फलानि। तान्येतानि कथं युज्यन्ते? यदि दुःखस्य परिज्ञानं संभवति, समुदयस्य प्रहाणम्, निरोधस्य साक्षात्करणम्, आर्यमार्गस्य च भावना भवति। यदा तु दुःखादीनामार्यसत्यानामभावे सति दुःखपरिज्ञानादिकं नास्ति, तदा न सन्ति तानि चत्वारि फलानि। चतुर्णा च फलानामभावे सति ये तेषु व्यवस्थिताः फलस्थाश्चत्वार आर्यपुद्गलाः, ते न सन्ति। अत एव च प्रतिपन्नका अपि चत्वार आर्यपुद्गला न संविद्यन्ते॥

इह हि षोडशात् मार्गेऽन्वयज्ञानक्षणात् पूर्वे ये पञ्चदश क्षान्तिज्ञानक्षणाः, तद्यथा -त्रैधातुकदुःखाभिसमये दुःखसत्यालम्बनाश्चत्वारः क्षान्तिज्ञानक्षणाः। तत्र कतमे त्रैधातुकदुःखाभिसमये चत्वारः क्षान्तिज्ञानक्षणाः? तद्यथा - कामावचरदुःखदर्शनप्रहातव्यसत्कायान्तग्राहमिथ्यादृष्टिदृष्टिपरामर्शशीलव्रतपरामर्शविचिकित्सारागप्रतिघमानाविद्याख्यदशानुशयप्रतिपक्षः अनित्यदुःखशून्यानात्माकारोत्पन्नः कामावचरदुःखसत्यालम्बनः आनन्तर्यमार्गलक्षणः दुःखे धर्मज्ञानक्षान्तिक्षणः एकः। तदालम्बनाकार एव च विमुक्तिमार्गलक्षणः दुःखे धर्मज्ञानक्षणः द्वितीयः। एवं रूपारूप्यावचरदुःखसत्यालम्बनः प्रतिघवर्जितानन्तरोक्ताष्टादशानुशयप्रतिपक्षः दुःखाद्याकारोत्पन्नः आनन्तर्यमार्ग लक्षणः दुःखे अन्वयज्ञानक्षान्तिक्षणस्तृतीयः। तदालम्बनाकार एव च विमुक्तिमार्गलक्षणः दुःखेऽन्वयज्ञानक्षणश्चतुर्थः॥

यथा चैते त्रैधातुकावचरदुःखसत्याभिसमये क्षान्तिज्ञानक्षणाश्चत्वारः, एवं कामावचरसमुदयदर्शनप्रहातव्यमिथ्यादृष्टिदृष्टिपरामर्शविचिकित्सारागप्रतिघमानाविद्याख्यसप्तानुशयप्रतिपक्षः हेतु समुदयप्रभवप्रत्ययाकारोत्पन्नः कामावचरसमुदयसत्यालम्बनः आनन्तर्यमार्गलक्षणः समुदये धर्मज्ञान क्षान्तिक्षणः एकः। तदालम्बनाकार एव च विमुक्तिमार्गलक्षणः समुदये धर्मज्ञानक्षयो द्वितीयः। एवं रूपारूप्यावचरसमुदयसत्यालम्बनः प्रतिघवर्जितानन्तरोक्तद्वादशानुशयप्रतिपक्षः समुदयसत्या कारोत्पन्नः आनन्तर्यमार्गलक्षणः समुदयेऽन्वयज्ञानक्षान्तिक्षणस्तृतीयः। तदालम्बनाकार एव च विमुक्तिमार्गलक्षणः समुदयेऽन्वयज्ञानक्षणश्चतुर्थः। इत्येते त्रैधातुकावचरदुःखसमुदयसत्याभिसमये चत्वारः क्षणाः॥

यथा चैते चत्वारः क्षणाः त्रैधातुकदुःखसमुदयसत्याभिसमये, एवं कामावचरदुःखनिरोध दर्शनप्रहातव्यसमुदयोक्तसप्तानुशयप्रतिपक्षः निरोधशान्तप्रणीतनिःसरणाकारोत्पन्नः कामावचरदुःख निरोधसत्यालम्बनः आनन्तर्यमार्गलक्षणः निरोधे धर्मज्ञानक्षान्तिक्षणः एकः। तदालम्बनाकार एव च विमुक्तिमार्गलक्षणः निरोधे धर्मज्ञानक्षणः द्वितीयः। एतैरेव आकारैः रूपारूप्यावचरदुःखनिरोध सत्यालम्बनः प्रतिघवर्जितद्वादशानुशयप्रतिपक्षः आनन्तर्यमार्गलक्षणः निरोधे अन्वयज्ञानक्षान्तिक्षण स्तृतीयः। तदालम्बनाकार एव च विमुक्तिमार्गलक्षणः निरोधे अन्वयज्ञानक्षणश्चतुर्थः। इत्येते त्रैधातुकावचरदुःखनिरोधसत्याभिसमये चत्वारः क्षणाः॥

एवं कामावचरदुःखनिरोधगामिमार्गदर्शनप्रहातव्यनिरोधोक्तानुशयेषु शीलव्रतपरामर्शमष्टमं प्रक्षिप्य अष्टानुशयप्रतिपक्षः मार्गन्यायप्रतिपन्नैर्याणिकाकारोत्पन्नः कामावचरदुःखनिरोधगामिमार्गा लम्बनः आनन्तर्यमार्गलक्षणः मार्गे धर्मज्ञानक्षान्तिक्षणः एकः। तदालम्बनाकार एव च विमुक्ति मार्गलक्षणः मार्गे धर्मज्ञानक्षणः द्वितीयः। एतैरेवाकारैः रूपारूप्यावचरदुःखनिरोधगामिमार्गालम्बनः प्रतिघवर्जितचतुर्दशानुशयप्रतिपक्षः आनन्तर्यमार्गलक्षणो मार्गेऽन्वयज्ञानक्षान्तिक्षणः तृतीयः। इत्येते पञ्चदश क्षणाः दर्शनमार्गाभिधानाः॥

एवं व्यवस्थितः आर्यः स्रोतआपत्तिफलसाक्षात्क्रियायै प्रतिपन्नकः इत्युच्यते। षोडशे तु मार्गेऽन्वयज्ञानस्थितः स स्रोतआपन्न इत्युच्यते॥

त एते अष्टाशीतिरनुशयाः सत्यानां दर्शनमात्रेण भावनामनपेक्ष्यैव प्रहीयन्ते इति कृत्वा दर्शनप्रहातव्या इत्युच्यन्ते। यथादृष्टसत्याकारभावनया तु ये पश्चात्प्रहीयन्ते ते भावनाप्रहातव्याः। ते च दशानुशया भवन्ति। कामावचरा रागप्रतिघमानाविद्याः। रूपावचरा एव प्रतिघवर्जितास्रयः। आरूप्यावचराश्च त्रयः एते एवेति दश भवन्ति। एते च यथोक्तेन न्यायेन भूमौ भूमौ नवधा भिद्यन्ते, कामधातौ चतुर्षु ध्यानेषु, चतुर्ष्वारूप्येषु। एकैकस्य च क्लेशप्रकारस्य प्रहाणार्थ मानन्तर्यविमुक्तिमार्गभेदेन द्वौ द्वौ ज्ञानक्षणौ व्यवस्थाप्येते क्लेशक्षणविपर्ययेण। अधिमात्राधिमात्रो हि क्लेशप्रकारः मृदुमृदुभ्यामानन्तर्यविमुक्तिमार्गाभ्यां प्रहीयते। यावन्मृदुमृदुक्लेशप्रकारोऽधिमात्रा धिमात्राभ्यां ज्ञानक्षणाभ्यां प्रहीयते। स्थूलं हि मलमल्पप्रयत्नसाध्यम्, सूक्ष्मं तु महायत्नसाध्यं रजकवस्त्रधावनसाधर्म्येणेति विज्ञेयम्॥

तत्र दर्शनमार्गादूर्ध्वं कामावचरभावनाप्रहातव्यषष्ठक्लेशप्रकारप्रतिपक्षविमुक्तिमार्गाख्यज्ञानक्षणादर्वाग् ज्ञानक्षणावस्थितः आर्यः सकृदागामिफलप्रतिपन्नक इत्युच्यते। सकृदिमं लोकमागत्य परिनिर्वाणात् सकृदागामीत्युच्यते, तत्फलार्थंप्रतिपन्नकः प्रयोगस्थः सकृदागामिफलप्रतिपन्नक इत्युच्यते। षष्ठे तु क्षणे सकृदागामीत्युच्यते॥

षष्ठात् क्षणादूर्ध्व नवमक्लेशप्रकारप्रहाणविमुक्तिमार्गक्षणादर्वाग्ज्ञानक्षणेषु वर्तमानः आर्यः अनागामिफलप्रतिपन्नक इत्युच्यते। अनागत्य इमं लोकं तत्रैव परिनिर्वाणादनागामीत्युच्यते। तत्फलार्थं प्रतिपन्नकः प्रयोगस्थः अनागामिफलप्रतिपन्नक इत्युच्यते। नवमे तु क्षणे अनागामीत्युच्यते॥

कामावचरनवमविमुक्तिमार्गक्षणादूर्ध्वं नैवसंज्ञानासंज्ञातयनभूमिकनवमक्लेशप्रकारप्रहाणविमुक्तिमार्गक्षणादर्वाग्ज्ञानक्षणेषु वर्तमानः आर्यः अर्हत्फलप्रतिपन्नकः इत्युच्यते। सदेवमानुषासुराल्लोकात् पूजार्हत्वादर्हन्नित्युच्यते। तत्फलार्थं प्रतिपन्नकः प्रयोगस्थः अर्हत्फलप्रतिपन्नकः इत्युच्यते। भवाग्रिकनवमक्लेशप्रकारप्रहाणात्तु नवमविमुक्तिमार्गे व्यवस्थितः अर्हन् भवति॥

त एते चत्वारः प्रतिपन्नकाः पुद्गलाः, चत्वारश्च फलस्थाः इत्येते अष्टौ महापुरुषपुद्गला भवन्ति। परमदक्षिणार्हा उक्ता भगवता। यथोक्तं सूत्रे -

पृष्टः स देवराजेन शक्रेण वशवर्तिना।
कृषतां यजमानानां प्राणिनां पुण्यकाङ्क्षिणाम्॥

कुर्वतां श्रद्धद्दधानानां पुण्यमौपधिकं सदा।
सुक्षेत्रं ते प्रवक्ष्यामि यत्र दत्तं महत्फलम्॥

प्रतिपन्नकाश्चत्वारश्चत्वारश्च फलस्थिताः।
एष संघो दक्षिणीयो विद्याचरणसंपदा॥इति।

यदि चत्वारि आर्यसत्यानि न सन्ति तेषां च परिज्ञानानि, तदा सत्यदर्शनभावना लभ्यानां फलानामभावात् प्रतिपन्नकफलस्थपुद्गलानामभाव एव। अतश्च संघो नास्ति। तत्र अधिगमधर्मेण प्रत्यक्षधर्मतया सर्वमारैरपि बुद्धे भगवति अभेद्यत्वादवेत्य प्रसादलाभेन संघः, स न स्यात्। न चेत् सन्ति तेऽष्टौ पुरुषपुद्गलाः॥

आर्यसत्यानां च अभावात् सद्धर्मोऽपि न संभवति। सतामार्याणां धर्मः सद्धर्मः। तत्र निरोधसत्यं फलधर्मः, मार्गसत्यं तु फलावतारधर्मः। एष तावदधिगमधर्मः। तत्संप्रकाशिका देशना आगमधर्मः। सर्व एष आर्यसत्यानामभावे सति नास्तीति -

अभावाच्चार्यसत्यानां सद्धर्मोऽपि न विद्यते।
धर्मे चासति संघे च कथं बुद्ध भविष्यति॥

यदि हि यथोक्तो धर्मः स्यात्, तदा तद्धर्मप्रतिपत्त्या सर्वाकारसर्वधर्माभिसंबोधाद् बुद्धो भवतीति युक्तं स्यात्। यदि च संघः स्यात्, तदा तदुपदेशैरुपचीयमानज्ञानसंभारः तद्दानमान शरणगमनादिभिश्च उपचीयमानपुण्यसंभारः क्रमाद् बुद्धो भवेत्॥

अथवा। असति संघे स्रोतआपत्तिफलप्रतिपन्नकादीनामभावः स्यात्। न च प्रतिपन्नकादित्वमप्राप्य बुद्धत्वमाप्यते। अवश्यं हि पूर्वं भगवता कस्मिंश्चित् फले व्यवस्थातव्यम्। तत्र च फले व्यवस्थितः संघान्तःपात्येव भगवान् भवति। संघे चासति नियतं नास्ति भगवान् बुद्धः। अथ भगवानपि अशैक्षान्तर्भावात् संघान्तर्गत एव। तथा च बुद्धप्रमुखो भिक्षुसंघः इत्यभिधानात् संघान्तर्गत एव भगवान् इति केचिद्वर्णयन्ति। तेषां मतेन स्पष्टमेवैतत् -

धर्मे चासति संघे च कथं बुद्धो भविष्यति।इति।
मध्योद्देशिकाश्च महावस्तूपदिष्टभूमिव्यवस्थया प्रथमभूमिस्थितं बोधिसत्त्वमुत्पन्नदर्शनमार्गं व्याचक्षाणाः संघान्तःपातिनं व्याचक्षते। तदा संघे चासति बोधिसत्त्वोऽपि नास्तीति कथं बुद्धो भविष्यतीति स्पष्टमेवैतत्। तद् -

एवं त्रीण्यपि रत्नानि ब्रुवाणः प्रतिबाधसे॥५॥

शून्यतामित्येवं वदन् बुद्धधर्मसंघाख्यानि त्रीण्यपि दुर्लभत्वात् कदाचिदेव उत्पत्तितः अल्पपुण्यानां च तदप्राप्तेः महार्घमूल्यत्वाद् रत्नानि प्रतिबाधसे॥५॥

किं चान्यत् -

शून्यतां फलसद्भावमधर्मं धर्ममेव च।
सर्वसंव्यवहारांश्च लौकिकान् प्रतिबाधसे॥६॥

शून्यतां ब्रुवाण इत्यनेन संबन्धः। यदि सर्वमिदं शून्यम् , यदा सर्वमेव नास्ति, तदा सर्वान्तः पातित्वात् धर्माधर्मौ सह तद्धेतुकेन इष्टानिष्टफलेन न संभवतः। सर्व एव चामी लौकिका व्यवहाराः - कुरु , पच, खाद, तिष्ठ, गच्छ, आगच्छ इत्येवमादयोऽपि सर्वान्तर्गतत्वात् सर्वधर्माणां च शून्यत्वान्नैव युज्यन्ते इति। अतो नायं यथोपवर्णितो न्यायो ज्यायानिति॥६॥

अत्र ब्रूमः शून्यतायां न त्वं वेत्सि प्रयोजनम्।
शून्यतां शून्यतार्थं च तत एवं विहन्यसे॥७॥

स भवान् स्वविकल्पनयैव नास्तित्वं शून्यतार्थ इत्येवं विपरीतमध्यारोप्य " यदि सर्वमिदं शून्यमुदयो नास्ति न व्ययः" इत्यादिनोपालम्भं ब्रुवाणोऽस्मासु महान्तं खेदमापन्नोऽतीव विहन्यते विविधैर्भूतैः परिकल्पैर्हन्यते इत्यर्थः। न त्वयमस्माभिरत्र शास्त्रे शून्यतार्थं उपवर्णितो यस्त्वया परिगृहीतः, शून्यतार्थं चाजानानः शून्यतामपि न जानासि। न चापि शून्यताया यत्प्रयोजनं तद्विजानासि। ततश्च यथावस्थितवस्तुस्वरूपापरिज्ञानेन एतत् त्वया बहुचायुक्तमस्मद्वयाख्यानासंबद्धमेवोपवर्णितम्॥

अथ किं पुनः शून्यतायां प्रयोजनम् ? उक्तमेव तदात्मपरीक्षायाम् -

कर्मक्लेशक्षयान्मोक्षः कर्मक्लेशा विकल्पतः।
ते प्रपञ्चात्प्रपञ्चस्तु शून्यतायां निरुध्यते॥इति॥

अतो निरवशेषप्रपञ्चोपशमार्थं शून्यतोपदिश्यते, तस्मात्सर्वप्रपञ्चोपशमः शून्यतायां प्रयोजनम्। भवांस्तु नास्तित्वं शून्यतार्थं परिकल्पयन् प्रपञ्चजालमेव संवर्धयमानो न शून्यतायां प्रयोजनं वेत्ति॥

अथ का पुनः शून्यता? सापि तत्रैवोक्ता।
अपरप्रत्ययं शान्तं प्रपञ्चैरप्रपञ्चितम्॥

निर्विकल्पमनानार्थमेतत्तत्वस्य लक्षणम्॥इति।

अतः प्रपञ्चनिवृत्तिस्वभावायां शून्यतायां कुतो नास्तित्वमिति शून्यतामपिन जानाति भवान्। यं चार्थमुपादाय शून्यताशब्दः प्रवर्तते, तमपीहैव प्रतिपादयिष्यामः -
यः प्रतीत्यसमुत्पादः शून्यतां तां प्रचक्ष्महे।
सा प्रज्ञप्तिरुपादाय प्रतिपत्सैव मध्यमा॥इति॥

यः प्रत्ययैर्जायति स ह्यजातो
न तस्य उत्पादु स्वभावतोऽस्ति।
यः प्रत्ययाधीनु स शून्यु उक्तो
यः शून्यतां जानति सोऽप्रमत्तः॥

इति भगवतो गाथावचनात्। एवं प्रतीत्यसमुत्पादशब्दस्य योऽर्थः, स एव शून्यता शब्दस्यार्थः, न पुनरभावशब्दस्य योऽर्थः स शून्यताशब्दस्यार्थः। अभावशब्दार्थं च शून्यतार्थ मित्यध्यारोप्य भवानस्मानुपालभते। तस्माच्छून्यताशब्दार्थमपि न जानाति। अजानानश्च त्वमेवमुपालम्भं कुर्वन् नियतं विहन्यसे॥७॥

कश्चास्माकं यथोक्तमुपालम्भं करोति? यो भगवत्प्रवचनोपदिष्टाविपरीतसत्यद्वयविभागं न जानाति, केवलं ग्रन्थमात्राध्ययनपर एवेति। अत आचार्यः करुणया परस्य मिथ्याप्रवचनार्थाव बोधनिरासार्थं भगवत्प्रवचनोपदिष्टाविपरीतसत्यद्वयव्यवस्थामेव तावदधिकृत्याह -

द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना।
लोकसंवृतिसत्यं च सत्यं च परमार्थतः॥८॥
इह हि भगवतां बुद्धानां सत्यद्वयमाश्रित्य धर्मदेशना प्रवर्तते। कतमत्सत्यद्वयम् ? लोकसंवृतिसत्यं च परमार्थसत्यं च। तत्र

स्कन्धात्मा लोक आख्यातस्तत्र लोको हि निश्रितः।

इति वचनात्पञ्च स्कन्धानुपादाय प्रज्ञप्यमानः पुद्गलो लोक इत्युच्यते। समन्ताद्वरणं संवृतिः। अज्ञानं हि समन्तात्सर्वपदार्थतत्त्वावच्छादनात्संवृतिरित्युच्यते। परस्परसंभवनं वा संवृतिरन्योन्यसमाश्रयेणेत्यर्थः। अथवा संवृतिः संकेतो लोकव्यवहार इत्यर्थः। स चाभिधानाभि धेयज्ञानज्ञेयादिलक्षणः। लोके संवृतिर्लोकसंवृतिः। किं पुनरलोकसंवृतिरप्यस्ति यत एवं विशिष्यते लोकसंवृतिरिति? यथावस्थितपदार्थानुवाद एषः, नात्रैषा चिन्तावतरति। अथवा। तिमिरकामलाद्युपहतेन्द्रियविपरीतदर्शनावस्थानास्तेऽलोकाः, तेषां या संवृतिरसावलोकसंवृतिः। अतो विशिष्यते लोकसंवृतिरिति। एतच्च मध्यमकावतारे विस्तरेणोक्तं ततो वेदितव्यम्। लोकसंवृत्या सत्यं लोकसंवृतिसत्यम्। सर्व एवायमभिधानाभिधेयज्ञानज्ञेयादिव्यवहारोऽशेषो लोकसंवृतिसत्यमित्युच्यते। न हि परमार्थत एते व्यवहाराः संभवन्ति। तत्र हि -

निवृत्तमभिधातव्यं निवृत्ते चित्तगोचरे।
अनुत्पन्नानिरुद्धा हि निर्वाणमिव धर्मता॥

इति कृत्वा कुतस्तत्र परमार्थे वाचां प्रवृत्तिः कुतो वा ज्ञानस्य ? स हि परमार्थोऽपरप्रत्ययः शान्तः प्रत्यात्मवेद्य आर्याणां सर्वप्रपञ्चातीतः। स नोपदिश्यते न चापि ज्ञायते। उक्तं हि पूर्वम् -

अपरप्रत्ययं शान्तं प्रपञ्चैरप्रपञ्चितम्।
निर्विकल्पमनानार्थमेतत्तत्त्वस्य लक्षणम्॥इति।

परमश्चासावर्थश्चेति परमार्थः। तदेव सत्यं परमार्थसत्यम्। अनयोश्च सत्ययोर्विभागो विस्तरेण मध्यमकावतारादवसेयः। तदेतत्सत्यद्वयमाश्रित्य बुद्धानां भगवतां धर्मदेशना प्रवर्तते। एवं व्यवस्थिते देशनाक्रमे -

येऽनयोर्न विजानन्ति विभागं सत्ययोर्द्वयोः।
ते तत्त्वं न विजानन्ति गम्भीरं बुद्धशासने॥९॥

अत्राह - यदि तर्हि परमार्थो निष्प्रपञ्चस्वभावः स एवास्तु, तत्किमनया अपरया स्कन्धधात्वायतनार्यसत्यप्रतीत्यसमुत्पादादिदेशनया प्रयोजनमपरमार्थया? अतत्वं हि परित्याज्यम्। यच्च परित्याज्यं किं तेनोपदिष्टेन? उच्यते। सत्यमेतदेवम्। किं तु लौकिकं व्यवहारमनभ्युपगम्य अभिधानाभिधेयज्ञानज्ञेयादिलक्षणम्, अशक्य एव परमार्थो देशयितुम्, अदेशितश्च न शक्योऽधिगन्तुम्, अनधिगम्य च परमार्थं न शक्यं निर्वाणमधिगन्तुमिति प्रतिपादयन्नाह -

व्यवहारमनाश्रित्य परमार्थो न देश्यते।
परमार्थमनागम्य निर्वाणं नाधिगम्यते॥१०॥

तस्मान्निर्वाणाधिगमोपायत्वादवश्यमेव यथावस्थिता संवृतिरादावेवाभ्युपेया भाजनमिव सलिलार्थिनेति॥१०॥

तदेवं यः संवृतिपरमार्थलक्षणसत्यद्वयस्य व्यवस्थामपाकृत्य शून्यतां वर्णयति, तं तथाविधं पुद्गलम् -

विनाशयति दुर्दृष्टा शून्यता मन्दमेधसम्।
सर्पो यथा दुर्गृहीतो विद्या वा दुष्प्रसाधिता॥१९॥

संवृतिसत्यं हि अज्ञानमात्रसमुत्थापितं निःस्वभावं बुद्धा तस्य परमार्थलक्षणां शून्यतां प्रतिपद्यमानो योगी नान्तद्वये पतति। किं तदासीद्यदिदानीं नास्तीत्येवं पूर्वं भावस्वभावानुपलम्भात् पश्चादपि नास्तितां न प्रतिपद्यते। प्रतिबिम्बाकारायाश्च लोकसंवृतेरबाधनात् कर्मकर्मफलधर्मा धर्मादिकमपि न बाधते। न चापि परमार्थं भावस्वभावत्वेन समारोपयति। निःस्वभावानामेव पदार्थानां कर्मफलादिदर्शनात् सस्वभावनां चादर्शनात्॥

यस्तु एवं सत्यद्वयविभागमपश्यन् शून्यतां संस्काराणां पश्यति, स शून्यतां पश्यन् मुमुक्षुर्नास्तितां वा संस्काराणां परिकल्पयेद्, यदि वा शून्यतां कांचिद्भावतः सतीम्, तस्याश्चाश्रयार्थं भावस्वभावमपि परिकल्पयेत्। उभयथा चास्य दुर्दृष्टा शून्यता नियतं विनाशयेत्। कथं कृत्वा ? यदि तावत्सर्वमिदं शून्यं सर्वं नास्तीति परिकल्पयेत्, तदास्य मिथ्यादृष्टिरापद्यते। यथोक्तम् -

विनाशयति दुर्दृष्टो धर्मोऽयमविपश्चितम्।
नास्तितादृष्टिसमले यस्मादस्मिन्निमज्जति॥

अथ सर्वापवादं कर्तुं नेच्छति, तदा नियतमस्य शून्यतायाः प्रतिक्षेप आपद्यते - कथं हि नाम अमी भावाः सकलसुरासुरनरलोकैरुपलभ्यमाना अपि शून्या भविष्यन्ति? तस्मान्न निःस्वभावार्थः शून्यतार्थः, इत्येवं प्रतिक्षिप्य सद्धर्मव्यसनसंवर्तनीयेन पापकेन कर्मणा नियतमपायान्वयात्। यथोक्तमार्यरत्नावल्याम् -

अपरोऽप्यस्य दुर्ज्ञानान्मूर्खः पण्डितमानिकः।
प्रतिक्षेपविनष्टात्मा यात्यवीचिमधोमुखः॥ इति।

एवं तावदभावेन गृह्यमाणा शून्यता ग्रहीतारं विनाशयति। अथायं भावेन शून्यतां परिकल्पयेत्, तदाश्रयाणां च संस्काराणामस्तित्वम्, एवमपि निर्वाणगामिनि मार्गे विप्रतिपन्नत्वाच्छून्यतोपदेशविह्वलो जायेत। तदेवं भावरूपेणापि शून्यता गृह्यमाणा ग्रहीतारं विनाशयति॥

ननु च यदुपकारकं तदन्यथा [क्रियमाणमकालोप्तमिव बीजं न फलाय कल्पते, कालोप्तं च महते फललाभाय जायते, एवमेव मणिमन्त्रौषधादिभि ] र्गृह्यमाणः [सर्पः] महान्तं धनस्कन्धमावहति शिरोमणिग्रहणात्, तेन च व्यालग्राहकाणां जीविकाकल्पनात्। यथोद्देशतिरस्कारेण तु गृह्यमाणो ग्रहीतारमेव विनाशयति। यथा च यथोपदेशं प्रसाधिता विद्या साधकमनुगृह्णाति, उपदेशपरिभ्रष्टा तु साध्यमाना साधकमेव विनाशयति, एवमिहापि यथोपदेशं शून्यता महती विद्या साध्यमाना गृह्यमाणा भावाभावादिग्राहतिरस्कारेण मध्यमया प्रतिपदा ग्रहीतारं परमेण जातिजरामरणादिदुःखहुताशनशमनैकरसेन निरुपधिशेषनिर्वाणजलधरधारावर्षमुखेन योजयति। यथोपदेशविशेषविगमेन तु गृह्यमाणा नियतं यथोदितेन न्यायेन ग्रहीतारमेव विनाशयति॥

यतश्चैवं शून्यता दुर्गृहीता ग्रहीतारं विनाशयति, मन्दप्रज्ञैश्च अशक्या सम्यग्ग्रहीतुम् -
अतश्च प्रत्युदावृत्तं चित्तं देशयितुं मुनेः।
धर्मं मत्वास्य धर्मस्य मन्दैर्दुरवगाहताम्॥१२॥

यस्मादयं शून्यतालक्षणो धर्मो मन्दमेधसमल्पप्रज्ञं सत्त्वं विपर्यासग्रहणाद्विनाशयति, अत एव अस्य धर्मस्य मन्दैर्दुरवगाहतां मत्वा अनुत्तरां सम्यक्संबोधिमभिसंबुध्य सर्वसत्त्वधातुं चावलोक्य धर्मस्य चातिगाम्भीर्यम्, सद्धर्मं देशयितुं चित्तं प्रतिनिवृत्तं मुनेर्बुद्धस्य भगवतो महोपायज्ञानविशेषशालिनः। यथोक्तं सूत्रे -

अथ भगवतोऽचिराभिसंबुद्धस्यैतदभवत् - अधिगतो मया धर्मो गम्भीरो गम्भीरावभासोऽतर्कोऽतर्कावचरः सूक्ष्मः पण्डितविज्ञवेदनीयः। सचेत्तमहं परेषामारोचयेयम्, परे च मे न विभावयेयुः, स मम विघातः स्यात्, क्लमथः स्यात्, चेतसोऽनुदयः स्यात्। यन्न्वहमेकाक्यरण्ये प्रविविक्ते दृष्टधर्मसुखविहारमनुप्राप्तो विहरेयम्। इति विस्तरः॥१२॥

तदेवं सत्यद्वयाविपरीतव्यवस्थामविज्ञाय -

शून्यतायामधिलयं यं पुनः कुरुते भवान्।
दोषप्रसङ्गो नास्माकं स शून्ये नोपपद्यते॥१३॥

योऽयं भवता महान् दोषप्रसङ्गोऽस्मासु प्रक्षिप्तः -
यदि शून्यमिदं सर्वमुदयो नास्ति न व्ययः।

इत्यादिना, स यस्मात् सत्यद्वयव्यवस्थानभिज्ञेन सता शून्यतां शून्यतार्थं शून्यताप्रयोजनं च यथावदबुद्धा उपक्षिप्तः, सोऽस्माकं शून्ये शून्यतावादे नोपपद्यते। यतश्च नोपपद्यते, अतो यं भवान् दोषप्रसङ्गं शून्यतायामुद्भावयन् शून्यतायामधिलयमधिक्षेपं निराकरणं प्रतिक्षेपं करोति, सोऽधिलयोऽस्माकं नोपपद्यते। अभावार्थं हि शून्यतार्थमध्यारोप्य प्रसङ्ग उद्भावितो भवता। न च वयमभावार्थं शून्यतार्थं व्याचक्ष्महे, किं तर्हि प्रतीत्यसमुत्पादार्थम्। इत्यतो न युक्तमेतत् शून्यतादर्शनदूषणम्॥१३॥

न च केवलं यथोक्तदोषप्रसङ्गोऽस्मत्पक्षे नावतरति, अपि खलु सर्वमेव सत्यादि व्यवस्थानं सुतरामुपपद्यते इति प्रतिपादयन्नाह -

सर्वं च युज्यते तस्य शून्यता यस्य युज्यते।
सर्वंन युज्यते तस्य शून्यं यस्य न युज्यते॥१४॥

यस्य हि सर्वभावस्वभावशून्यतेयं युज्यते, तस्य सर्वमेतद् यथोपवर्णितं युज्यते। कथं कृत्वा? यस्मात् प्रतीत्यसमुत्पादं हि वयं शून्यतेति व्याचक्ष्महे -

यः प्रत्ययैर्जायति स ह्यजातो
न तस्य उत्पादु स्वभावतोऽस्ति।
यः प्रत्ययाधीनु स शून्य उक्तो
यः शून्यतां जानति सोऽप्रमत्तः॥

इति गाथावचनात्। "शून्याः सर्वधर्मा निःस्वभावयोगेन" इति प्रज्ञापारमिताभिधानात्॥

तस्माद्यस्येयं शून्यता युज्यते रोचते क्षमते, तस्य प्रतीत्यसमुत्पादो युज्यते। यस्य प्रतीत्यसमुत्पादो युज्यते, तस्य चत्वार्यार्यसत्यानि युज्यन्ते। कथं कृत्वा? यस्मात् प्रतीत्यसमुत्पन्नं हि दुःखं भवति नाप्रतीत्यसमुत्पन्नम्। तच्च निःस्वभावत्वाच्छून्यम्। सति च दुःखे दुःख समुदयो दुःखनिरोधो दुःखनिरोधगामिनी च प्रतिपद् युज्यते। ततश्च दुःखपरिज्ञानं समुदयप्रहाणं निरोधसाक्षात्करणं मार्गभावना च युज्यते। सति च दुःखादिसत्यपरिज्ञानादिके फलानि युज्यन्ते। सत्सु च फलेषु फलस्था युज्यन्ते। सत्सु च फलस्थेषु प्रतिपन्नका युज्यन्ते। सत्सु च प्रतिपन्नकफलस्थेषु संघो युज्यते। आर्यसत्यानां च सद्भावे सति सद्धर्मोऽपि युज्यते। सति च सद्धर्मे संघे च बुद्धोऽपि युज्यते। ततश्च त्रीण्यपि रत्नानि युज्यन्ते। लौकिकलोकोत्तराश्च पदार्थाः सर्वे विशेषाधिगमा युज्यन्ते। धर्माधर्मं तत्फलं सुगतिदुर्गतिः लौकिकाश्च सर्वसंव्यवहारा युज्यन्ते। तदेवम् -

सर्वं च युज्यते तस्य शून्यता यस्य युज्यते।

यस्य सर्वभावस्वभावशून्यता युज्यते, तस्य सर्वमेतद् यथोदितं युज्यते, संपद्यते इत्यर्थः। यस्य तु शून्यता यथोदिता न युज्यते, तस्य प्रतीत्यसमुत्पादाभावात् सर्वं न युज्यते। यथा च न युज्यते, तथा विस्तरेण प्रतिपादयिष्यति॥१४॥

तदेवमास्माकीने सुपरिशुद्धतरे सर्वव्यवस्थासु अविरुद्धे व्यवस्थिते, अतिस्थूले अत्यासन्ने तद्विरुद्धे च स्वकीये पक्षे दोषवति अतिमोघो यथावदवस्थितौ गुणदोषावपश्यन् -

स त्वं दोषानात्मनीनानस्मासु परिपातयन्।
अश्वमेवाभिरुढः सन्नश्वमेवासि विस्मृतः॥१५॥

यथा हि कश्चिद् यमेवाश्वमारूढः, तमेव विस्मृतः सन्, तदपहारदोषेण परानुपालभते, एवमेव भवान् प्रतीत्यसमुत्पादलक्षणशून्यतादर्शनाश्वमारूढ एव अत्यन्तविक्षेपात्तमनुपलम्भमानोऽस्मान् परिवदति॥१५॥

के पुनस्ते परस्य दोषाः, याननुपलभमानः शून्यतावादिनमेव उपालभते इति, तान् प्रतिपादयन्नाह -

स्वभावाद्यदि भावानां सद्भावमनुपश्यसि।
अहेतुप्रत्ययान् भावांस्त्वमेवं सति पश्यसि॥१६॥

यदि त्वं स्वभावेन विद्यमानान् भावान् पश्यसि, तदा स्वभावस्य हेतुप्रत्ययनिरपेक्षत्वात् अहेतुप्रत्ययान् अविद्यमानहेतुप्रत्ययान् पदार्थान् बाह्याध्यात्मिकभेदभिन्नान् निर्हेतुकान् त्वमेवं सति पश्यसि॥१६॥

सति च अहेतुकत्वाभ्युपगमे -

कार्यं च कारणं चैव कर्तारं करणं क्रियाम्।
उत्पादं च निरोधं च फलं च प्रतिबाधसे॥१७॥

कथं कृत्वा? यदीह घटः स्वभावतोऽस्तीति परिकल्पयसि, तदा अस्य स्वभावतो विद्यमानस्य किं मृदादिभिर्हेतुप्रत्ययैः प्रयोजनमिति तेषामभावः स्यात्। निर्हेतुकं च कार्यं घटाख्यं नोपपद्यते। असति चास्मिंश्चक्रादिकस्य करणस्य, कर्तुः कुम्भकारस्य घटकरणक्रियायाश्चाभावा दुत्पादनिरोधयोरभावः। असतोश्चोत्पादनिरोधयोः कुतः फलम्? इति सस्वभावाभ्युपगमे सति सर्व मेतत् कार्यादिकं प्रतिबाधसे। तदेवं भवतः सस्वभावाभ्युपगमे सति सर्वमेव न युज्यते॥१७॥

अस्माकं तु भावस्वभावशून्यतावादिनां सर्वमेतदुपपद्यते। किं कारणम्? यस्माद्वयम् -

यः प्रतीत्यसमुत्पादः शून्यतां तां प्रचक्ष्महे।
सा प्रज्ञप्तिरुपादाय प्रतिपत्सैव मध्यमा॥१८॥

योऽयं प्रतीत्यसमुत्पादो हेतुप्रत्ययानपेक्ष्य अङ्कुरविज्ञानादीनां प्रादुर्भावः, स स्वभावे नानुत्पादः। यश्च स्वभावेनानुत्पादो भावानां सा शून्यता। यथा भगवतोक्तम् -

यः प्रत्यत्यैर्जायति स ह्यजातो
न तस्य उत्पादु स्वभावतोऽस्ति।
यः प्रत्ययाधीनु स शून्य उक्तो
यः शून्यतां जानति सोऽप्रमत्तः॥ इति।

तथा आर्यलङ्कावतारे - " स्वभावानुत्पत्तिं संधाय महामते सर्वधर्माः शून्या इति मया देशिताः"॥ इति विस्तरेणोक्तम्॥

द्वयर्धशतिकायाम् - "शून्याः सर्वधर्मा निःस्वभावयोगेन"॥ इति॥

या चेयं स्वभावशून्यता सा प्रज्ञप्तिरुपादाय, सैव शून्यता उपादाय प्रज्ञप्तिरिति व्यवस्थाप्यते। चक्रादीन्युपादाय रथाङ्गानि रथः प्रज्ञप्यते। तस्य या स्वाङ्गान्युपादाय प्रज्ञप्तिः, सा स्वभावेनानुत्पत्तिः, या च स्वभावेनानुत्पत्तिः, सा शून्यता। सैव स्वभावानुत्पत्तिलक्षणा शून्यता मध्यमा प्रतिपदिति व्यवस्थाप्यते। यस्य हि स्वभावेनानुत्पत्तिः, तस्य अस्तित्वाभावः, स्वभावेन चानुत्पन्नस्य विगमाभावान्नास्तित्वाभाव इति। अतो भावाभावान्तद्वयरहितत्वात् सर्वस्वभावानुत्पत्ति लक्षणा शून्यता मध्यमा प्रतिपत्, मध्यमो मार्ग इत्युच्यते। तदेवं प्रतीत्यसमुत्पादस्यैवैता विशेष संज्ञाः - शून्यता, उपादाय प्रज्ञप्तिः, मध्यमा प्रतिपद् इति॥१८॥

विचार्यमाणश्च सर्वथा -

अप्रतीत्य समुत्पन्नो धर्मः कश्चिन्न विद्यते।
यस्मात्तस्मादशून्यो हि धर्मः कश्चिन्न विद्यते॥१९॥

यो हि अप्रतीत्यसमुत्पन्नो धर्मः, स न संविद्यते। यथोक्तं शतके -

अप्रतीत्यास्तिता नास्ति कदाचित्कस्यचित्क्कचित्।
न कदाचित्क्कचित्कश्चिद्विद्यते तेन शाश्वतः॥
आकाशादीनि कल्प्यन्ते नित्यानीति पृथग्जनैः।
लौकिकेनापि तेष्वर्थान्न पश्यन्ति विचक्षणाः॥इति।

उक्तं च भगवता -

प्रतीत्य धर्मानधिगच्छते विदू
न चान्तदृष्टीय करोति निश्रयम्।
सहेतु सप्रत्यय धर्म जानति
अहेतु अप्रत्यय नास्ति धर्मता॥

एवम् -
अप्रतीत्य समुत्पन्नो धर्मः कश्चिन्न विद्यते।
अप्रतीसमुत्पन्नश्च शून्यः। तस्मादशून्यो धर्मो नास्ति। यत एतदेवम्, अतोऽस्माकं सर्वधर्माश्चशून्याः, न च परोक्तदोषप्रसङ्गः॥१९॥

भवतस्तु सस्वभाववादिनः -
यद्यशून्यमिदं सर्वमुदयो नास्ति न व्ययः।

तदा नियतमुदयव्यययोरभावे सति -

चतुर्णामार्यसत्यानामभावस्ते प्रसज्यते॥२०॥

किं कारणम्? यस्मात् -

अप्रतीत्य समुत्पन्नं कुतो दुःखं भविष्यति।
अनित्यमुक्तं दुःखं हि तत्स्वाभाव्ये न विद्यते॥२१॥

यद्धि सस्वभावम्, न तत्प्रतीत्योत्पद्यते। यच्च अप्रतीत्य समुत्पन्नम् , न तदनित्यं भवति। न हि गगनकुसुममविद्यमानमनित्यम्। अनित्यं च दुःखमुक्तं भवगता - यदनित्यं तद्दुःखमिति। तथा च शतकशास्त्रे -

अनित्यस्य ध्रुवा पीडा पीडा यस्य न तत्सुखम्।
तस्मादनित्यं यत्सर्वं दुःखं तदिति जायते॥इति।

यच्च अनित्यं स्वाभाव्ये सस्वभावत्वेऽभ्युपगम्यमाने भावानाम्, तन्न विद्यत इति॥२१॥

एवं तावत् सस्वभावत्वे सति भावानां दुःखं न युज्यते। न च केवलं दुःखमेव न युज्यते, सति सस्वभावाभ्युपगमे समुदयोऽपि न युज्यते इति प्रतिपादयन्नाह -
स्वभावतो विद्यमानं किं पुनः समुदेष्यते।
तस्मात्समुदयो नास्ति शून्यतां प्रतिबाधतः॥२२।

इह समुदेत्यस्माद्दुःखमिति दुःखस्य हेतु [तः] समुदय इत्युच्यते। तदस्य दुःखस्य शून्यतां प्रतिबाधमानस्य सस्वभावं दुःखमभ्युपगच्छतः तस्य पुनरुत्पादवैयर्थ्यात् तद्धेतुकल्पना वैयर्थ्यमेव, इत्येवं शून्यतां प्रतिबाधमानस्य समुदयोऽपि भवतो न युज्यते॥२२॥

स्वाभाविकमेव दुःखमभ्युपगच्छतो दुःखनिरोधोऽपि न युज्यते इति प्रतिपादयन्नाह -

न निरोधः स्वभावेन सतो दुःखस्य विद्यते।
स्वभावपर्यवस्थानान्निरोधं प्रतिबाधसे॥२३॥

यदि हि स्वभावतो दुःखं स्यात्, तदा स्वभावस्यानपायित्वात् कुतोऽस्य निरोधत्वमिति? एवं स्वभावपर्यवस्थानात् स्वभावं गृहीत्वा प्रत्यवतिष्ठमानो दुःखनिरोधमपि प्रतिबाधसे॥२३॥

इदानीमार्यमार्गोऽपि सस्वभाववादिनो यथा नोपपद्यते तथा प्रतिपादयन्नाह -

स्वाभाव्ये सति मार्गस्य भावना नोपपद्यते।
अथासौ भाव्यते मार्गः स्वाभाव्यं ते न विद्यते॥२४॥

यदि हि सस्वभावा भावा भवेयुः, तदा मार्गोऽपि सस्वभाव एवेति कृत्वा अभावित एवासावस्ति। तस्य किं पुनर्भावनयेति? एवम् -

स्वाभाव्ये सति मार्गस्य भावना नोपपद्यते।

अथ अस्य मार्गस्य भावना अभ्युपगम्यते भवता, एवं तर्हि स्वभावता आर्यमार्गस्य न स्यात्, कार्यत्वादित्यभिप्रायः॥२४॥

अपि च - दुःखस्य निरोधप्राप्त्यर्थं समुदयस्य च प्रहाणार्थं भावना मार्गस्येष्यते। पूर्वोक्तेन तु न्यायेन सस्वभाववादिनो भवतः -

यदा दुःखं समुदयो निरोधश्च न विद्यते।
मार्गो दुःखनिरोधत्वात् कतमः प्रापयिष्यति॥२५॥

नास्त्येव असौ दुःखनिरोधः, यन्निरोधान्मार्गो भावितः सन् प्रापयिष्यति। तस्मादार्यमार्गोऽप्येवं नोपपद्यत इति। एवं सस्वभाववादिनः चतुर्णामार्यसत्यानामभावः प्राप्नोति॥२५॥
इदानीं दुःखादिपरिज्ञानादिकमपि यथा परस्य न संभवति, तथा प्रतिपादयन्नाह -

स्वभावेनापरिज्ञानं यदि तस्य पुनः कथम्।
परिज्ञानं ननु किल स्वभावः समवस्थितः॥२६॥

यदि पूर्वं दुःखमपरिज्ञातस्वभावं तत् पश्चात् परिज्ञायत इति कल्प्यते, तदयुक्तम्। किं कारणम्? यस्मान्ननु किल स्वभावः समवस्थितः। यो हि स्वभावः, स किल लोके समवस्थितः, नैवान्यथात्वमापद्यते, वह्नेरौष्ण्यवत्। यदा च स्वभावस्यान्यथात्वं नास्ति, तदा पूर्वमपरिज्ञात स्वभावस्य दुःखस्य पश्चादपि परिज्ञानं नोपपद्यत इति। अतो दुःखपरिज्ञानमपि न संभवति॥२६॥

यदा चैतद्दुःखपरिज्ञानमपि न संभवति, तदा -

प्रहाणसाक्षात्करणे भावना चैवमेव ते।
परिज्ञावन्न युज्यन्ते चत्वार्यपि फलानि च॥२७॥

यदेतत् समुदयस्य प्रहाणं निरोधस्य च साक्षात्करणम्, ते एते द्वे प्रहाणसाक्षात्करणे या च मार्गस्य भावना, एषापि। एवमेव ते दुःखपरिज्ञानासंभवान्न युज्यन्ते। समुदयस्य स्वभावेनाप्रहीणस्य स्वभावस्यानपायित्वात् पश्चादपि प्रहाणं नोपपद्यते। एवं भावनासाक्षात्करणेऽपि योज्यम्। न च केवलं परिज्ञानादिकमेव न संभवति सस्वभाववादे, अपि च -

परिज्ञावन्न युज्यन्ते चत्वार्यपि फलानि च।

यथा स्वभावेनापरिज्ञातस्य दुःखस्य परिज्ञानं न युक्तम्, एवं स्वभावेनाविद्यमानस्य पूर्वं स्रोतआपत्तिफलस्य पश्चादस्तित्वं न संभवति। यथा स्रोतआपत्तिफलस्य, एवं सकृदागाम्यना गाम्यर्हत्फलानामभावो वेदितव्यः॥२७॥

न च केवलमेतानि फलानि परिज्ञावन्न युज्यन्ते, किं तर्हि अधिगमोऽप्येषां न युज्यत इति प्रतिपादयन्नाह -

स्वभावेनानधिगतं यत्फलं तत्पुनः कथम्।
शक्यं समधिगन्तुं स्यात्स्वभावं परिगृह्णतः॥२८॥

स्वभावस्याविजहनप्रकृतिकत्वाद्भावस्वभाववादमभ्युपगच्छतः पूर्वमनधिगतस्वभावानां पश्चादप्यधिगमो नोपपद्यते॥२८॥

ततश्च -
फलाभावे फलस्था नो न सन्ति प्रतिपन्नकाः।
संघो नास्ति न चेत्सन्ति तेऽष्टौ पुरुषपुद्गलाः॥२९॥

अभावाच्चार्यसत्यानां सद्धर्मोऽपि न विद्यते।
धर्मे चासति संघे च कथं बुद्धो भविष्यति॥३०॥

अनयोश्च श्लोकयोः पूर्ववदेवार्थो वेदितव्यः॥२९-३०॥

अपि च - सस्वभावाभ्युपगमे सति -

अप्रतीत्यापि बोधिं च तव बुद्धः प्रसज्यते।
अप्रतीत्यापि बुद्धं च तव बोधिः प्रसज्यते॥३१॥

यदि हि स्वभावतो बुद्धो नाम कश्चिद् भावः स्यात्, स बोधिं सर्वज्ञज्ञानमप्रतीत्यापि अनपेक्ष्यापि स्यात्।
अकृत्रिमः स्वभावो हि निरपेक्षः परत्र च।

इति वचनात्। तथा विनापि बुद्धेन बोधिः स्यात्, अनपेक्ष्यापि बुद्धं निराश्रया बोधिः स्यात्॥३१॥

किं चान्यत् -
यश्चाबुद्धः स्वभावेन स बोधाय घटन्नपि।
न बोधिसत्त्वचर्यायां बोधिं तेऽधिगमिष्यति॥३२॥

इह हि बुद्धत्वात्पूर्वमबुद्धस्वभावस्य सतः पुद्गलस्य सत्यामपि बोधिसत्त्वचर्यायां बोध्यर्थं घटमानस्यापि नैव बोधिः स्यात्, अबुद्धस्वभावस्य व्यावर्तयितुमशक्यत्वात्॥३२॥

किं चान्यत् -
न च धर्ममधर्मं वा कश्चिज्जातु करिष्यति।
किमशून्यस्य कर्तव्यं स्वभावः क्रियते न हि॥३३॥

सति हि स्वभाववादाभ्युपगमे धर्माधर्मयोः करणं नोपपद्यते। किं हि अशून्यस्य कर्तव्यम्? न हि स्वभावस्याशून्यस्य कारणमुपपद्यते विद्यमानत्वात्॥३३॥

किं चान्यत् -
विना धर्ममधर्मं च फलं हि तव विद्यते।
धर्माधर्मनिमित्तं च फलं तव न विद्यते॥३४॥

यदेतद्धर्माधर्मनिमित्तकमिष्टानिष्टफलम्, यदि तत् स्वभावतोऽस्ति, तद् विनापि धर्माधर्माभ्यां स्यात्। यदा च विना धर्माधर्मं फलं तवास्ति, तदा धर्माधर्मजं फलं तव न संभवति। धर्माधर्मोपार्जनवैयर्थ्यं स्यात्,

धर्माधर्मनिमित्तं च फलं तव न विद्यते। इति।
अथ धर्माधर्मनिमित्तकं फलं भवतीति परिकल्प्यते, न तर्हि तत्फलमशून्यमिति प्रतिपादयन्नाह -

धर्माधर्मनिमित्तं वा यदि ते विद्यते फलम्।
धर्माधर्मसमुत्पन्नमशून्यं ते कथं फलम्॥३५॥

शून्यमेवैतत्, प्रतीत्यसमुत्पन्नत्वात्, प्रतिबिम्बवत्, इत्यभिप्रायः॥३५॥

अपि च। सर्व एव ह्येते ' गच्छ, कुरु, पच, पठ, तिष्ठ' इत्येवमादयो लौकिका व्यवहाराः प्रतीत्यसमुत्पन्नाः। तान् यदि सस्वभावानिच्छति भवान्, तदा भवता प्रतीत्यसमुत्पादो बाधितो भवति।तद्बाधनाच्च सर्व एव लौकिका व्यवहारा बाधिता भवन्तीति प्रतिपादयन्नाह -

सर्वसंव्यवहारांश्च लौकिकान् प्रतिबाधसे।
यत्प्रतीत्यसमुत्पादशून्यतां प्रतिबाधसे॥३६॥

यच्छब्दः क्रियाविशेषणम्। यद्बाधसे इत्यनेन संबध्यते॥३६॥

किं चान्यत् -
न कर्तव्यं भवेत्किंचिदनारब्धा भवेत्क्रिया।
कारकः स्यादकुर्वाणः शून्यतां प्रतिबाधतः॥३७॥

यदि हि स्वरूपशून्याः पदार्था न भवेयुः, सस्वभावा एव भवेयुः, तदा स्वभावस्य विद्यमानत्वान्न केनचित् कस्यचित् किंचित् कर्तव्यं स्यात्। न हि नभसोऽनावरणत्वं केनचित् क्रियते। अक्रियमाणा च क्रिया स्यात्। क्रियां चाकुर्वाणस्य कारकत्वं स्यात्। न चैतदेवमिति। तस्मान्नाशून्याः पदार्थाः॥३७॥

किं चान्यत् -

अजातमनिरुद्धं च कूटस्थं च भविष्यति।
विचित्राभिरवस्थाभिः स्वभावे रहितं जगत्॥३८॥

[ विचित्राभिरवस्थामिः स्वभावरचितं स्वभावेनैव रचितमप्रतीत्यसमुत्पन्नं जगत् स्वभाव शून्यवादिनाम्। ] स्वभावेनैव यदि भावाः [सस्वभावाः] स्युः, तदा स्वभावस्याकृत्रिमत्वादव्या वर्तनत्वाच्च सर्वमिदं जगदजातमनिरुद्धं च स्यात्। अजातानिरुद्धत्वाज्जगत् कूटस्थं स्यात्। हेतुप्रत्ययानपेक्षं विचित्राभिरवस्थाभी रहितमप्रतीत्यसमुत्पन्नं जगदशून्यवादिनां स्यात्। यथोक्तं पितापुत्रसमागमे -

स्याद्यदि किंचिदशून्यं न वदेज्जिनु तस्य व्याकरणम्।
तथाहि स्थितं तत् स्वके स्वके भावे।
कूटस्थमविकारं न तस्य वृद्धिर्न परिहाणिः॥ इति॥
तथा आर्यहस्तिकक्ष्यसूत्रे -

यदि कोचि धर्माण भवेत्स्वभावः
तत्रैव गच्छेय जिनः सश्रावकः।
कूटस्थधर्माण सिया न निर्वृती
न निष्प्रपञ्चो भवि जातु पण्डितः॥इति॥३८॥

न च केवलं सस्वभाववादाभ्युपगमे लौकिका एव व्यवहारा नोपपद्यन्ते, अपि च लोकोत्तरा एव [अपि?] नोपपद्यन्ते इति प्रतिपादयन्नाह -

असंप्राप्तस्य च प्राप्तिर्दुःखपर्यन्तकर्म च।
सर्वक्लेशप्रहाणं च यद्यशून्यं न विद्यते॥३९॥

यदि हि अशून्यं सस्वभावं सर्वमेतत् स्यात्, तदा यदसंप्राप्तं तदसंप्राप्तमेव, इति असंप्राप्तस्य च फलस्य प्राप्तिर्न स्यात्। तदा दुःखपर्यन्तकारणं च पूर्वं नाभूदिति सांप्रतमपि न स्यात्। सर्वेषां च क्लेशानां पूर्वं प्रहाणं नाभूदिति पश्चादपि प्रहाणं न स्यात्॥३९॥

तदेवं यस्मात् सस्वभाववादाभ्युपगमे सति सर्वमेतन्न युज्यते, अतः -

यः प्रतीत्यसमुत्पादं पश्यतीदं स पश्यति।
दुःखं समुदयं चैव निरोधं मार्गमेव च॥४०॥

यो हि सर्वधर्मप्रतीत्यसमुत्पादलक्षणां स्वभावशून्यतां सम्यक् पश्यति, स चत्वारि आर्यसत्यानि पश्यति यथाभूतानि तत्त्वतः।
यथोक्तमार्यमञ्जुश्रीपरिपृच्छायाम् -

येन मञ्जुश्रीरनुत्पादः सर्वधर्माणां दृष्टः, तेन दुःखं परिज्ञातम्। येन नास्तिता सर्वधर्माणां दृष्टा, तस्य समुदयः प्रहीणः। येन अत्यन्तपरिनिर्वृताः सर्वधर्मा दृष्टाः, तेन निरोधः साक्षात्कृतः। येन मञ्जुश्रीरभावः सर्वधर्माणां दृष्टः, तेन मार्गो भावितः॥ इति विस्तरः॥

उक्तं च आर्यध्यायितमुष्टिसूत्रे -

अथ खलु भगवान् मञ्जुश्रियं कुमारभूतमेतदवोचत् - चतुर्णा मञ्जुश्रीरार्यसत्यानां यथाभूतादर्शनाच्चतुर्भिर्विपर्यासैर्विपर्यस्तचित्ताः सत्त्वा एवभिममभूतं संसारं नातिक्रामन्ति। एवमुक्ते मञ्जुश्रीः कुमारभूतो भगवन्तमेतदवोचत् - देशयतु भगवान् कस्योपलम्भतः सत्त्वाः संसारं नातिक्रामन्ति? भगवानाह - आत्मात्मीयोपलम्भतो मञ्जुश्रीः सत्त्वाः संसारं नातिक्रामन्ति। तत् कस्य हेतोः? यो हि मञ्जुश्रीरात्मानं परं च समनुपश्यति, तस्य कर्माभिसंस्कारा भवन्ति। बालो मञ्जुश्रीरश्रुतवान् पृथग्जनोऽत्यन्तपरिनिर्वृतान् सर्वधर्मानप्रजानानः आत्मानं परं च उपलभते, उपलभ्य अभिनिविशते, अभिनिविष्टः सन् रज्यते दुष्यते मुह्यते। स रक्तो दुष्टो मूढः सन् त्रिविधं कर्म अभिसंस्करोति कायेन वाचा मनसा। सः असत्समारोपेण विकल्पयति - अहं रक्तः, अहं दुष्टः , अहं मूढः इति। तस्य तथागतशासने प्रव्रजितस्य एवं भवति - अहं शीलवान्, अहं ब्रह्मचारी, संसारं समतिक्रामिष्यामि, अहं निर्वाणमनुप्राप्स्यामि, अहं दुःखेभ्यो मोक्ष्यामि। स कल्पयति - इमे धर्माः कुशलाः, इमे धर्मा अकुशला इति , इमे धर्माः प्रहातव्याः, इमे धर्माः साक्षात्कर्तव्याः, दुःखं परिज्ञातव्यम्, समुदयः प्रहातव्यः , निरोधः साक्षात्कर्तव्यः, मार्गो भावयितव्यः। स कल्पयति अनित्याः सर्वसंस्काराः, आदीप्ताः सर्वसंस्काराः। यन्न्वहं सर्वसंस्कारेभ्यः पलायेयम्। तस्यैव मवेक्षमाणस्य उत्पद्यते निर्वित्सहगतो मनसिकारः अनिमित्तपुरोगतः। तस्यैवं भवति - एषा सा दुःखपरिज्ञा, येयमेषां धर्माणां परिज्ञा। तस्यैवं भवति - यन्न्वहं समुदयं प्रजहेयम्। स सर्वधर्मेभ्य अर्तीयते जेह्रीयते वितरति विजुगुप्सते उत्त्रस्यति संत्रस्यति संत्रासमापद्यते। तस्यैवं भवति - इयमेषां धर्माणां साक्षात्क्रिया, इदं समुदयप्रहाणम्, यदिदमेभ्यो धर्मेभ्योऽर्तीयना। तस्यैवं भवति - निरोधः साक्षात्कर्तव्यः। समुदयं कल्पयित्वा निरोधं संजानाति। तस्यैवं भवति - एषा सा निरोधसाक्षात्क्रिया। तस्यैवं भवति - यन्नूनमहं मार्गं भावयेयम्। स एको रहोगतस्तान् धर्मान् मनसि कुर्वन् शमथं प्रतिलभते। तस्य तेन निर्वित्सहगतेन मनसिकारेण शमथ उत्पद्यते। तस्य सर्वधर्मेषु चित्तं न प्रलीयते प्रतिवहति प्रत्युदावर्तते। तेभ्यश्चार्तीयते जेह्रीयते, अनभिनन्दनाचित्तं समुत्पद्यते। तस्यैवं भवति - मुक्तोऽस्मि सर्वदुःखेभ्यः, न मम भूयः उत्तरिं किंचित्करणीयम्, अर्हन्नस्मीत्यात्मानं संजानाति। स मरणकालसमये उत्पत्तिमात्मनो देवेषु पश्यति। तस्य काङ्क्षा विचिकित्सा च भवति बुद्धबोधौ। स विचिकित्सामापतितः कालगतो महानिरयेषु प्रपतति। तत्कस्य हेतोः? यथापीदमनुत्पन्नान् सर्वधर्मान् विकल्पयित्वा तथागते विचिकित्सां विमतिमुत्पादयति॥

अथ खलु मञ्जुश्रीः कुमारभूतो भगवन्तमेतदवोचत् - कथं पुनर्भगवन् चत्वारि आर्य सत्यानि द्रष्टव्यानि? भगवानाह - येन मञ्जुश्रीरनुत्पन्नाः सर्वधर्मा दृष्टाः, तेन दुःखं परिज्ञातम्। येन असमुत्थिताः सर्वधर्मा दृष्टाः, तस्य समुदयः प्रहीणः। येन अत्यन्तपरिनिर्वृताः सर्वधर्मा दृष्टाः, तेन निरोधः साक्षात्कृतः। येन अत्यन्तशून्याः सर्वधर्मा दृष्टाः, तेन मार्गो भावितः। येन मञ्जुश्रीरेवं चत्वारि आर्यसत्यानि दृष्टानि, स न कल्पयति - इमे धर्माः कुशलाः, इमे धर्मा अकुशलाः, इमे धर्माः प्रहातव्याः, इमे धर्माः साक्षात्कर्तव्याः, दुःखं परिज्ञातव्यम्, समुदयः प्रहातव्यः, निरोधः साक्षात्कर्तव्यः, मार्गो भावयितव्यः इति। तत् कस्य हेतोः? तथाहि स तं धर्मं न समनुपश्यति नोपलभते यं परिकल्पयेत्। बालपृथग्जनास्त्वेतान् धर्मान् कल्पयन्तो रज्यन्ति च द्विष्यन्ति च मुह्यन्ति च। स न कंचिद्धर्ममाव्यूहति निर्व्यूहति। तस्यैवमनाव्यूहतोऽनिर्व्यूहतस्त्रैधातुके चित्तं न सज्जति। अजातं सर्वत्रैधातुकं समनुपश्यति मायोपमं स्वप्नोपमं प्रतिश्रुत्कोपमम्॥ एवंस्वभावान् सर्वधर्मान् पश्यन् अनुनयप्रतिधापगतो भवति सर्वसत्त्वेषु। तत् कस्य हेतोः? तथाहि स तान् धर्मान् नोपलभते यत्रानुनीयेत वा प्रतिहन्येत वा। स आकाशसमेन चित्तेन बुद्धमपि न समनुपश्यति, धर्ममपि न समनुपश्यति, संधमपि न समनुपश्यति। सर्वधर्मान् शून्यानिति समनुपश्यन् न क्कचिद्धर्मे विचिकित्सामुत्पादयति। अविचिकित्सन् निरुपादानो भवति। निरुपादानोऽनुपादाय परिनिर्वातीति विस्तरः॥४०॥

इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ
आर्यसत्यपरीक्षा नाम चतुर्विंशतितमं प्रकरणम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project