Digital Sanskrit Buddhist Canon

त्रयोविंशतितमं प्रकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Trayoviṁśatitamaṁ prakaraṇam

विपर्यासपरीक्षा त्रयोविंशतितमं प्रकरणम्।

अत्राह - विद्यत एव भवसंततिः, तत्कारणसद्भावात्। इह हि क्लेशेभ्यः कर्म प्रवर्तते।
कर्मक्लेशहेतुका जन्ममरणपरंपरा उपजायते। सा च भवसंततिर्व्यपदिश्यते। तस्याश्च प्रधानं कारणं क्लेशाः, प्रहीणक्लेशानां भवसंततेरभावात्। ते च रागादयः क्लेशाः सन्ति। तस्मात् कार्यभूतापि जन्ममरणपरंपरा अविच्छेदप्रबन्धेन भवसंततिरपि भविष्यतीति। उच्यते। स्याद् भवसंततिः, यदि तद्धेतुभूताः क्लेशाः स्युः। न तु सन्ति। कथं कृत्वा? इह भगवद्भिर्बुद्धैः सकलत्रिभुवनजनसंक्लेशशत्रुविध्वंसिभिश्चतुर्मारारातिसमरपराजयैः -

संकल्पप्रभवो रागो द्वेषो मोहश्च कथ्यते।
शुभाशुभविपर्यासान् संभवन्ति प्रतीत्य हि॥१॥

संकल्पो वितर्कः। संकल्पात् प्रभवतीति संकल्पप्रभवः।
काम जानामि ते मूलं संकल्पात्किल जायसे।
न त्वां संकल्पयिष्यामि ततो मे न भविष्यसि॥

इति गाथाभिधानात्
संकल्पप्रभवो रागो द्वेषो मोहश्च कथ्यते।
एतन्मूलकत्वादन्येषां क्लेशानां मुख्यत्वादेषामेवोपादानं त्रयाणाम्। एते च त्रयः क्लेशाः -
शुभाशुभविपर्यासान् संभवन्ति प्रतीत्य हि।

तत्र हि शुभमाकारं प्रतीत्य राग उत्पद्यते, अशुभं प्रतीत्य द्वेषः, विपर्यासान् प्रतीत्य मोह उत्पद्यते। संकल्पस्तु एषां त्रयाणामपि साधारणकारणमुत्पत्तौ। कथं पुनर्मोहः संकल्पप्रभवः? उच्यते। उक्तं हि प्रतीत्यसमुत्पादे भगवता -

अविद्यापि भिक्षवः सहेतुका सप्रत्यया सनिदाना। कश्च भिक्षवः अविद्याया हेतुः? अयोनिशो भिक्षवो मनस्कारोऽविद्याया हेतुः। आविलो मोहजो मनस्कारो भिक्षवोऽविद्याया हेतुः॥ इत्यतः अविद्या संकल्पप्रभवा भवति॥१॥

ततश्च -

शुभाशुभविपर्यासान् संभवन्ति प्रतीत्य ये।
ते स्वभावान्न विद्यन्ते तस्मात् क्लेशा न तत्त्वतः॥२॥

इति। यदि रागादयः स्वभावसिद्धाः स्युः, नैव ते शुभाशुभविपर्यासान् प्रतीत्य संभवेयुः, स्वभावस्य अकृत्रिमत्वात् परनिरपेक्षत्वाच्च। भवन्ति च शुभाशुभविपर्यासान् प्रतीत्य, तस्मान्निःस्वभावा एव ते। तत्त्वतो न विद्यन्ते, परमार्थतः स्वभावतो न विद्यन्ते इत्यर्थः॥२॥

अपि च -

आत्मनोऽस्तित्वनास्तित्वेन कथंचिच्च सिध्यतः।
तं विनास्तित्वनास्तित्वे क्लेशानां सिध्यतः कथम्॥३॥

आत्मनो यथा अस्तित्वनास्तित्वे न स्तः, तथा उक्तं विस्तरेण। ततश्च - तदाश्रितस्य धर्मस्य कुतोऽस्तित्वनास्तित्वे भविष्यतः?॥३॥

अथ स्यात् - यदि अस्तित्वनास्तित्वे आत्मनो न स्तः, तदा किमत्र क्लेशानामायातम्, यतस्तेषामपि अस्तित्वनास्तित्वे न स्तः इति ? उच्यते -

कस्यचिद्धि भवन्तीमे क्लेशाः स च न सिध्यति।
कश्चिदाहो विना कंचित्सन्ति क्लेशा न कस्यचित्॥४॥

इह अमी रागादयः कुडयं चित्रवत् फलं पक्कतादिवच्च उत्पत्तौ आश्रयमपेक्षन्ते। ततश्च कस्यचिदेते भवन्ति, न विना कंचिदाश्रयम्। स च आश्रयः परिकल्प्यमानः आत्मा वा चित्तं वा भवेत्। स चैषामाश्रयः पूर्वमेव प्रतिषिद्धत्वान्नास्ति। तं च कंचिदाश्रयं विना कस्य क्लेशा भवन्तु? नैव कस्यचिद्भवन्ति, तस्याविद्यमानत्वात्, आहो विना कंचित् सन्ति क्लेशा न कस्यचित्॥४॥

अत्राह - नैव हि क्लेशानां कश्चिदाश्रयः पूर्वं सिद्धोऽभ्युपगम्यते। न च आत्मा नाम कश्चिदस्ति, यः आश्रयत्वेन व्यवस्थाप्येत, निर्हेतुकत्वाद् व्योमचूततरुवत्। किं तर्हि क्लिष्टं चित्तं प्रतीत्य क्लेशा उपजायन्ते, तच्च चित्तं सहैव क्लेशैरुपजायत इति। एतदपि न युक्तमित्याह -

स्वकायदृष्टिवत् क्लेशाः क्लिष्टे सन्ति न पञ्चधा।
स्वकायदृष्टिवत् क्लिष्टं क्लेशेष्वपि न पञ्चधा॥५॥

स्वकायो हि नाम रूपादिलक्षणसंहतिः। स्वकायदृष्टिः स्वकाये आत्मदृष्टिः आत्मीयाकार ग्रहणप्रवृत्ता। यथेयं पञ्चधा विचार्यमाणा स्वकाये न संभवति,

स्कन्धा न नान्यः स्कन्धेभ्यो नास्मिन् स्कन्धा न तेषु सः।
तथागतः स्कन्धवान्न कतमोऽत्र तथागतः॥

इत्यनेन। एवं क्लिष्टेऽपि क्लेशा विचार्यमाणाः पञ्चधा न संभवन्ति। तत्र क्लिश्यन्तीति क्लेशा क्लिश्यते इति क्लिष्टम्। तत्र यदेव क्लिष्टं तदेव क्लेशा इति न युज्यते दग्धृदाह्ययोरप्येकत्व प्रसङ्गात्। अन्यत् क्लिष्टम्, अन्ये क्लेशा इति न युज्यते। परत्र निरपेक्षत्वात्, अक्लिष्टहेतुक क्लेशप्रसङ्गात्। अत एव च एकत्वान्यत्वाभावादाधाराधेयतद्वत्पक्षाणां च अभावान्न क्लेशेषु क्लिष्टम्, न क्लिष्टे क्लेशाः, नापि क्लेशवत् क्लिष्टम्। इत्येवं क्लिष्टे पञ्चधा विचार्यमाणाः क्लेशा न संभवन्ति। यथा च क्लिष्टहेतुकाः क्लेशा न संभवन्ति, एवं क्लेशहेतुकमपि क्लिष्टं क्लेशेषु विचार्यमाणं पञ्चधा न संभवति। न हि क्लेशा एव क्लिष्टम्, कर्तृकर्मणोरेकत्वप्रसङ्गात् , नान्ये क्लेशा अन्यत् क्लिष्टम्, निरपेक्षत्वप्रसङ्गात्, न च क्लिष्टे क्लेशाः न च क्लेशेषु क्लिष्टम्, न क्लिष्टवन्तः क्लेशाः। इत्येवं स्वकायदृष्टिवदेव क्लिष्टं क्लेशेष्वपि पञ्चधा नास्ति। यतश्चैवम्, अतः परस्परापेक्षयापि क्लेशाक्लिष्टयोर्नास्ति सिद्धिः॥५॥

अत्राह - यद्यपि त्वया क्लेशाः प्रतिषिद्धाः, तथापि क्लेशहेतवः शुभाशुभविपर्यासास्तावत् सन्ति, तत्सद्भावाच्च क्लेशाः सन्तीति। उच्यते। स्युः क्लेशाः, यदि शुभाशुभविपर्यासा एव स्युः, यावता एतेऽपि प्रतीत्य ससुत्पन्नत्वाद्वक्ष्यमाणप्रतिषेधाच्च। यदा च ते न सन्ति स्वभावतः , तदा -
स्वभावतो न विद्यन्ते शुभाशुभविपर्ययाः।

प्रतीत्यसमुत्पन्नत्वाद्वक्ष्यमाणप्रतिषेधाच्च। यदा च ते न सन्ति स्वभावतः, तदा -

प्रतीत्य कतमान् क्लेशाः शुभाशुभविपर्ययान्॥६॥

नैव सन्ति क्लेशाः, तद्धेतुशुभाशुभविपर्ययाभावादित्यभिप्रायः॥६॥

अत्राह - विद्यन्त एव क्लेशाः, तदालम्बनसद्भावात्। इह हि यन्नास्ति, न तस्यालम्बन मस्ति, तद्यथा वन्ध्यासूनोः। अस्ति च रूपशब्दगन्धरसस्प्रष्टव्यधर्माख्यं षड्विधमालम्बनम्। तस्मादालम्बनसद्भावाद्विद्यन्त एव क्लेशा इति। उच्यते। अस्त्येतत्, यद् भवद्भिः -

रूपशब्दरसस्पर्शा गन्धा धर्माश्च षड्विधम्।
वस्तु रागस्य द्वेषस्य मोहस्य च विकल्प्यते॥७॥

तत्र वस्तु आलम्बनम्, वसतीति वा अस्मिन् रागादिकम्, तदुत्पत्तेः इति कृत्वा। तच्च तदालम्बनं षोढा भवति, इन्द्रियाणां षण्णां परिच्छेदकराणामन्योन्यभेदात्। रूपं शब्दा गन्धा रसाः स्प्रष्टव्यानि धर्माश्चेति। तत्र इदमिहामुत्रेति निरूपणात्, रूपणाच्च रूपम्। तेन शब्देन शब्द्यन्ते प्रकाश्यन्ते पदार्था इति शब्दः। गन्ध्यन्ते हिंस्यन्ते यत्र प्राप्ताः ततोऽन्यत्रागमनाद् गन्धाः। रस्यते आस्वाद्यते इति रसः। स्पृश्यते इति स्पर्शः। स्वलक्षणासाधारणान्निर्वाणाग्रधर्माधारणाद्धर्माः। तदेतत् षड्विधं वस्तु भवति । कस्य? रागस्य द्वेषस्य मोहस्य। तत्र रञ्जनं रागो रक्तिरध्यवसानम्। रज्यते वा अनेन चित्तमिति रागः। दूषणं दोषः, आघातः सत्त्वविषयोऽसत्त्वविषयो वा दूष्यते वा अनेन चितमिति दोषः। मोहनं मोहः संमोहः पदार्थस्वरूपापरिज्ञानम्। मुह्यते वा अनेन चित्तमिति मोहः। तदेषां क्लेशानां रूपादिकं षड्विधं वस्तु आलम्बनं भवति। तत्र शुभाकारा ध्यारोपेण यथा रूपादिभ्यो राग उपजायते, अशुभाकाराध्यारोपेण द्वेषः, नित्यात्माद्यध्यारोपेण मोहः संभवतीति॥७॥

सत्यं विकल्प्यते एतद्बालजनैः षड्विधं वस्तु। किं तु अविद्यमानस्वभावसत्ताकमेतद् रागादीनामालम्बनत्वेन परिकल्प्यते भवता तैमिरिकैरिव असत्केशमशकमक्षिकाद्विचन्द्रादिकमिति प्रतिपादयन्नाह -

रूपशब्दरसस्पर्शा गन्धा धर्माश्च केवलाः।

केवला इति परिकल्पितमात्रा निःस्वभावा इत्यर्थः। यदि निःस्वभावाः, कथं तर्हि उपलभ्यन्ते इति? उच्यते -

गन्धर्वनगराकारा मरीचिस्वप्नसंनिभाः॥८॥

इति एते उपलभ्यन्ते॥८॥

यथा गन्धर्वनगरादिप्रख्या एते केवलं विपर्यासादुपलभ्यन्ते, तदा -
अशुभं वा शुभं वापि कुतस्तेषु भविष्यति।
मायापुरुषकल्पेषु प्रतिबिम्बसमेषु च॥९॥

तदनेन मिथ्याश्रयसमुत्पन्नत्वाच्छुभाशुभयोरपि निमित्तयोर्मृषात्वमेव भवति। यथोक्तम् -
अहंकारोद्भवाः स्कन्धाः सोऽहंकारोऽनृतोऽर्थतः।
बीजं यस्यानृतं तस्य प्ररोहः सत्यतः कुतः॥
स्कन्धानसत्यान् दृष्ट्वैवमहंकारः प्रहीयते।
अहंकारप्रहाणाच्च न पुनः स्कन्धसंभवः॥

इति॥९॥

न च केवलमाश्रयमिथ्यात्वे शुभाशुभयोर्निमित्तयोर्मिथ्यात्वम्, अपि च अनयाप्युपपत्त्या अनयोर्मिथ्यात्वमिति प्रतिपादयन्नाह -
अनपेक्ष्य शुभं नास्त्यशुभं प्रज्ञपयेमहि।
यत्प्रतीत्य शुभं तस्माच्छुभं नैवोपपद्यते॥१०॥

इह यदि शुभं नाम किंचित् स्यात्, नियतं तदशुभमपेक्ष्य भवेत्, पारावारवत् , बीजाङ्कुरवत्, ह्रस्वदीर्घवद्वा, शुभस्य संबन्ध्यन्तरपदार्थसापेक्षत्वात्। तच्चाप्यपेक्षणीयमशुभं शुभेन विना नास्ति। [अनपेक्ष्य शुभं नास्त्यशुभं ] शुभं निरपेक्ष्याशुभं नास्तीत्यभिप्रायः। यदशुभं प्रतीत्य यदशुभमपेक्ष्य शुभं प्रज्ञपयेमहि व्यवस्थापयेमहि। यच्छब्देन अनन्तरस्याशुभस्य परामर्शः। प्रज्ञपयेमहीत्यनेन उत्तरस्य शुभस्य संबन्धः। यतश्च एवं शुभस्य प्रज्ञप्तौ संबन्ध्यन्तरमपेक्षणीय मशुभाख्यं पदार्थान्तरं नास्ति, तस्माच्छुभं नैवोपपद्यते ह्रस्वासंभवादिव दीर्घम्, पारासंभवादिव अवारमित्यभिप्रायः॥१०॥

इदानीमशुभमपि यथा न संभवति, तथा प्रतिपादयन्नाह -

अनपेक्ष्याशुभं नास्ति शुभं प्रज्ञपयेमहि।
यत्प्रतीत्याशुभं तस्मादशुभं नैव विद्यते॥११॥

यदि हि अशुभं नाम किंचित् स्यात्, नियतमेव तच्छुभमपेक्ष्य भवेत्, पारावारवत्, ह्रस्वदीर्घवद्वा, अशुभस्य संबन्ध्यन्तरपदार्थसापेक्षत्वात्। तच्चाप्यपेक्षणीयं शुभमशुभेन विना नास्ति, अनपेक्ष्याशुभं नास्ति शुभम्। अशुभं निरपेक्ष्य शुभं न संभवतीत्यभिप्रायः। यच्छुभं प्रतीत्य यच्छुभमपेक्ष्य अशुभं प्रज्ञपयेमहि, अशुभं व्यवस्थापयेमहि। अत्रापि यच्छब्देन अनन्तरस्य शुभस्य परामर्शः। प्रज्ञपयेमहीत्यनेन च उत्तरस्याशुभस्य संबन्धः। यतश्चैवमशुभस्य प्रज्ञप्तौ संबन्ध्यन्तरमपेक्षणीयं शुभाख्यं पदार्थान्तरं नास्ति, तस्मादशुभं नैव विद्यते॥११॥

यतश्चैवं शुभाशुभयोरसंभवः, अतः -

अविद्यमाने च शुभे कुतो रागो भविष्यति।
अशुभेऽविद्यमाने च कुतो द्वेषो भविष्यति॥१२॥

शुभाशुभनिमित्तकयो रागद्वेषयोः शुभाशुभनिमित्ताभावे सति निर्हेतुकत्वान्नास्ति संभव इत्यभिप्रायः॥१२॥

तदेवं शुभाशुभनिमित्ताभावेन रागद्वेषयोरभावमुपपाद्य विपर्यासस्वभावाभावप्रतिपादनेन मोहस्याप्यधुना स्वभावाभावं प्रतिपादयन्नाह -

अनित्ये नित्यमित्येवं यदि ग्राहो विपर्ययः।
नानित्यं विद्यते शून्ये कुतो ग्राहो विपर्ययः॥१३॥

इह चत्वारो विपर्यासा उच्यन्ते। तद्यथा - अनित्ये प्रतिक्षणविनाशिनि स्कन्धपञ्चके यो नित्यमिति ग्राहः, स विपर्यासः। तथा -

अनित्यस्य ध्रुवा पीडा पीडा यस्य न तत्सुखम्।
तस्मादनित्यं यत्सर्वं दुःखं तदिति जायते॥

इत्यमुना न्यायेन यदनित्यं तद्दुःखम्, सर्वसंस्काराश्च अनित्याः, तस्माद्दुःखात्मके स्कन्धपञ्चके यः सुखमिति विपरीतो ग्राहः, सोऽपरो विपर्यासः। तथा -

शुक्रशोणितसंपर्कबीजं विण्मूत्रवर्धितम्।
अमेध्यरूपमाजानन् रज्यसेऽत्र कयेच्छया॥
अमेध्यपुञ्जप्रच्छन्ने तत्क्लेदार्द्रेण चर्मणा।
यः शयीत स नारीणां शयीत जघनोदरे॥ इत्यादि।

एवमिदं शरीरं सर्वात्मना सततमशुचिस्वभावम्। तत्र यो मोहाच्छुचित्वेन ग्राहोऽभिनिवेशः , स विपर्यासः। तथा पञ्चस्कन्धकमात्मलक्षणविलक्षणमस्थिरत्वादुदयव्ययधर्मित्वाच्च निरात्मकमात्मस्वभावशून्यम्, तस्मिन् य आत्मग्राहोऽभिनिवेशः अनात्मनि आत्माभिनिवेशः, स विपर्यासः। इत्येते चत्वारो विपर्यासाः संमोहस्य हेतुभूताः॥

अत्रेदानीं विचार्यते - यदि नित्यत्वं नित्यदर्शनं स्वभावशून्येषु नित्यग्राहो विपर्यास इत्येवं व्यवस्थाप्यते, ननु च स्वभावशून्येषु स्कन्धेषु अनित्यत्वमपि नास्ति, इति

नानित्यं विद्यते शून्ये कुतो ग्राहो विपर्ययः।
अनित्यत्वं हि विपरीतमपेक्ष्य नित्यत्वं विपर्यास इति व्यवस्थाप्यते। न च अनित्यत्वं विद्यते शून्ये। यदा अनित्यत्वस्याभावः, तदा कुतस्तद्विरोधि नित्यत्वं नित्यदर्शनविपर्यासो भविष्यतीति भावः।

तस्मान्नास्ति विपर्यासः। यथा च अनित्यत्वं शून्ये न संभवति भावस्वभावरहिते सस्वभावेन अनुत्पन्ने, एवं दुःखत्वमपि न संभवति, अशुचित्वमपि नास्ति। अनात्मकत्वमपि नास्ति। यदा च स्वभावशून्यत्वाद्दुःखत्वादिकं नास्ति, तदा कुतस्तद्विपक्षभूता नित्यसुखशुच्यात्मविपर्यासा भविष्यन्ति? तस्मात् सन्ति विपर्यासाः स्वरूपतः। तदभावे कुतो भविष्यत्यविद्या? हेत्वभावात्। यथोक्तं भगवता -

अविद्यया नैव कदाचि विद्यते
अविद्यत प्रत्ययसंभवश्च।
अविद्यमानेयमविद्य लोके
तस्मान्मया उक्त अविद्य एषा॥

तथा -
कथं भगवन् मोहो धारणीपदम्? भगवानाह - अत्यन्तमुक्तो हि मञ्जुश्रीः मोहः, तेनोच्यते मोहः।
इत्यादिना विपर्यय इति व्यवस्थाप्यते॥१३॥

ननु एवं सति स्वभावेन अविद्यमाने पदार्थे अनित्यमित्यपि ग्राहो न संभवति इति असावपि कस्मान्न विपर्यास इति व्यवस्थाप्यते इति प्रतिपादयन्नाह -

अनित्ये नित्यमित्येवं यदि ग्राहो विपर्ययः।
अनित्यमित्यपि ग्राहः शून्ये किं न विपर्ययः॥१४॥

यदा च उभयस्यापि वैपरीत्यं नित्यस्य अनित्यस्य च, तदा तद्वयतिरिक्तं तृतीयमपरं नास्ति यन्न विपर्ययः स्यात्। यदा च अविपर्यासो नास्ति, तदा किमपेक्षो विपर्यासः स्यादिति। तस्मादमुनापि न्यायेन नास्ति विपर्ययः। तस्याभावाच्च नास्त्यविद्या स्वरूपतः। यथा च अनित्ये नित्यमित्येवं ग्राहो विपर्यासो न संभवति, एवं शेषविपर्यासासंभवेऽपि योज्यम्। अत एवोक्तं भगवता आर्यदृढाशयपरिपृच्छायाम् -

भगवानाह - किमेतत् कुलपुत्र तस्य भवति यो मार्गेण निःसरणं पर्येषते? न कुलपुत्र तथागतेन रञ्जनीयान् धर्मान् परिवर्ज्य रागप्रहाणं प्रज्ञप्तम्, एवं न दोषणीयान् मोहनीयान धर्मान् परिवर्ज्य तथागतेन दोषमोहप्रहाणं प्रज्ञप्तम्। तत् कस्माद्धेतोः? न कुलपुत्र तथागताः कस्यचिद्धर्मस्य उत्सर्गाय वा प्रतिलम्भाय वा धर्मं देशयन्ति न परिज्ञायै न प्रहाणाय न साक्षात्क्रियायै नाभिसमयाय न संसारचरणतायै न निर्वाणगमनतायै नोत्क्षेपाय न प्रभेदाय। न हि कुलपुत्र द्वयप्रभाविता तथागतधर्मता। तत्र ये द्वये चरन्ति, न ते सम्यक्प्रयुक्ताः। मिथ्याप्रयुक्तास्ते वक्तव्याः। कतमच्च कुलपुत्र द्वयम्? अहं रागं प्रहास्यामीति द्वयमेतत्। अहं द्वेषं प्रहास्यामीति द्वयमेतत्। अहं मोहं प्रहास्यामीति द्वयमेतत्। ये एवंप्रयुक्ताः, न ते सम्यक्प्रयुक्ता। मिथ्याप्रयुक्तास्ते वेदितव्याः॥

तद्यथापि नाम कुलपुत्र कश्चिदेव पुरुषो मायाकारनाटके प्रत्युपस्थिते मायाकारनिर्मितां स्त्रियं दृष्ट्वा रागचित्तमुत्पादयेत्। स रागपरीतचित्तः पर्षच्छारद्यभयेन उत्थायासनादपक्रमेत्। सोऽपक्रम्य तामेव स्त्रियमशुभतो मनसि कुर्यादनित्यतो दुःखतः शून्यतोऽनात्मतो मनसि कुर्यात्। भगवानाह -एवमेव कुलपुत्र इहैके भिक्षुभिक्षुण्युपासकोपासिका द्रष्टव्याः, येऽनुत्पन्नान् धर्मानजातानशुभतो मनसि कुर्वन्ति, अनित्यतो दुःखतोऽनात्मतो मनसि कुर्वन्ति। नाहं तेषां मोहपुरुषाणां मार्गभावनां वदामि। मिथ्याप्रयुक्तास्ते वेदितव्याः॥

तद्यथापि नाम कुलपुत्र कश्चिदेव पुरुषः सुप्तः स्वप्नान्तरे स्वगृहे राजभार्यां पश्येत्। स तया सार्धं शय्यां कल्पयेत्। स्मृतिसंमोषाच्चैवं कल्पयेत् - विरुद्धोऽस्मीति। स भीतस्रस्तः पलायेत् , मा मां राजा विध्येत्, स मा मां जीविताद् व्यवरोपयेत्। तत् किं मन्यसे कुलपुत्र अपि नु स पुरुषो भीतस्रस्तः पलायमानस्ततो राजभार्यानिदानभयात्परिमुच्येत? आह - नो भगवन्। तत्कस्य हेतोः? तथा हि भगवंस्तेन पुरुषेण अस्त्रियां स्त्रीसंज्ञा उत्पादिता, अभूतं च परिकल्पितम्। भगवानाह - एवमेव कुलपुत्र इहैके भिक्षुभिक्षुण्युपासकोपासिका द्रष्टव्याः, ये अरागे रागसंज्ञामुत्पाद्य रागभयभीता रागनिःसरणं पर्येषन्ते। एवमदोषे दोषसंज्ञामुत्पाद्य दोषभयभीता दोषनिःसरणं पर्येषन्ते। अमोहे मोहसंज्ञामुत्पाद्य मोहभयभीता मोहनिःसरणं पर्येषन्ते। नाहं तेषां मोहपुरुषाणां मार्गभावनां वदामि। मिथ्याप्रयुक्तास्ते वेदितव्याः॥

तद्यथापि नाम कुलपुत्र स पुरुषः अभये भयसंज्ञामुत्पादयेदसत्समारोपेण। एवमेव कुलपुत्र सर्वबालपृथग्जना रागकोटिं विरागकोटिमप्रजानन्तो रागकोटिभयभीता विरागकोटिं निःसरणं पर्येषन्ते। दोषकोटिमकिंचनकोटिमप्रजानन्तो दोषकोटिभयभीता अकिंचनकोटिं निःसरणं पर्येषन्ते। मोहकोटिं शून्यताकोटिमप्रजानन्तो मोहकोटिभयभीताः शून्यताकोटिं निःसरणं पर्येषन्ते। नाहं तेषां कुलपुत्र मोहपुरुषाणां मार्गभावनां वदामि। मिथ्याप्रयुक्तास्ते वेदितव्याः॥ इति विस्तरः॥१४॥

अत्राह - यद्यपि अनित्ये नित्यमित्येवं ग्राहो विपर्ययो न संभवति, तथापि एष तावत् ग्राहोऽस्ति। ग्राहश्च नाम संग्रहणं भावरूपः। तस्य च अवश्यं साधनेन करणेन भवितव्यं साधकतमेन नित्यत्वादिना। कर्त्रा च भवितव्यं स्वतन्त्रेण नित्यात्मना चित्तेन वा। कर्मणा च कर्तुरीप्सिततमेन विषयेण रूपादिना। सत्यां च भावकरणकर्तृकर्मणां सिद्धौ सर्वसिद्धेरिष्टसिद्धिः स्यादस्माकमिति। उच्यते। अलीकेयं प्रत्याशा। ननु च यथोपवर्णितेन न्यायेन -

येन गृह्णाति योग्राहो ग्रहीता यच्च गृह्यते।
उपशान्तानि सर्वाणि तस्माद्ग्राहो न विद्यते॥१५॥

इह हि कश्चिद् ग्रहीता येन विशेषेण नित्यत्वादिना करणभूतेन किंचित् कर्मभूतं रूपशब्दादिकं वस्तु गृह्णाति, तद्यथा न संभवति तथा पूर्वं प्रतिपादितम्। कथं कृत्वा ?

अनित्ये नित्यमित्येवं यदि ग्राहो विपर्ययः।

इत्यादिना यथा नित्यत्वादिकं करणं न संभवति, तथा प्रतिपादितम्। ग्रहीतापि यथा नास्ति, तथा -
आत्मनोऽस्तित्वनास्तित्वे न कथंचिच्च सिध्यतः।

इत्यनेन प्रतिपादितम्। यच्च गृह्यते तदपि नास्ति तथा -
रूपशब्दरसस्पर्शा गन्धा धर्माश्च केवलाः।
इत्यनेन प्रतिपादितम्। यदा चैवं कर्तृकरणकर्माणि न सिद्धानि, तदा कुतो निर्हेतुको ग्राहो भविष्यति? ततश्च-

येन गृह्णाति यो ग्राहो ग्रहीता यच्च गृह्यते।
उपशान्तानि सर्वाणि

स्वभावेन अनुत्पन्नत्वानिर्वृतानि सर्वाणीत्यर्थः। यतश्च एवमेवम् -
तस्माद् ग्राहो न विद्यते॥

अथवा। प्रत्ययपरीक्षादिभिः प्रकरणैर्यस्मात् सर्वेषामेव करणकर्तृकर्मणां सर्वथानुत्पादः प्रतिपादितः, तस्मात् सर्वाण्येतानि भावस्वरूपविरहादुपशान्तानि। अतश्च ग्राहो न विद्यते॥१५॥

अत्राह - विद्यन्त एव विपर्ययाः, विपरीतसद्भावात्। इह हि विपर्यासानुगतो देवदत्तो नाम विद्यते। न च विना विपर्यासैः स विपर्यासानुगतः संभवति। तस्मात् सन्ति विपर्यासाः विपर्यस्तसद्भावादिति। उच्यते। इह अस्माभिः करणकर्तृकर्मणामभावात् सर्वथा ग्राह एव नास्तीति प्रतिपादितम्। ततश्च -

अविद्यमाने ग्राहे च मिथ्या वा सम्यगेव वा।
भवेद्विपर्ययः कस्य भवेत्कस्याविपर्ययः॥१६॥

सम्यग्वा मिथ्या वा कस्यचित् किंचिदप्यगृह्णतः कुतो विपरीतत्वमविपरीतत्वं वेति। तस्मान्न सन्ति विपर्ययाः॥१६॥

अपि च। इमे विपर्ययाः कस्यचिदिष्यमाणाः विपरीतस्य परिकल्प्येरन्, अविपरीतस्य वा, विपर्यस्यमानस्य वा? सर्वथा च नोपपद्यन्ते इति प्रतिपादयन्नाह -

न चापि विपरीतस्य संभवन्ति विपर्ययाः।
न चाप्यविपरीतस्य संभवन्ति विपर्ययाः॥१७॥

न विपर्यस्यमानस्य संभवन्ति विपर्ययाः।
विमृशस्व स्वयं कस्य संभवन्ति विपर्ययाः॥१८॥

तत्र तावद्विपरीतस्य विपर्यया न संभवन्ति। किं कारणम्? यस्मात्, यो हि विपरीत, स विपरीत एव। किं तस्य पुनरपि विपर्ययसंबन्धः कुर्यात्? निष्प्रयोजनत्वात्। अविपरीतस्यापि विपर्यया न युज्यन्ते, विबुद्धबुद्धिनयनानामपि अज्ञाननिद्रातिमिरोपशमाद् बुद्धानां विपर्यय प्रसङ्गात्॥ तथा विपर्यस्यमानस्यापि न सन्ति विपर्ययाः, विपर्यस्यमानस्य भावस्य अभावात्। को हि नाम असावपरः पदार्थः, यो विपरीताविपरीतविनिर्मुक्तो विपर्यस्यमानो नाम भविष्यति? अर्धविपरीतो विपर्यस्यमान इति चेत्, अर्धविपरीतो हि नाम यस्य किंचिद्विपरीतं किंचिदविपरीतम्। तत्र यदस्य किंचिद्विपरीतं तद्विपर्यासो न विपर्यासयति, विपर्यस्तत्वात्। यदप्यस्य अविपरीतम्, तदपि विपर्यासो न विपर्यासयति, अविपर्यस्तत्वात्। तस्माद्विपर्यस्यमानस्यापि कस्यचिद्विपर्यासा न संभवन्ति। यदा चैवं विपरीताविपरीतविपर्यस्यमाना न संभवन्ति, भवानिदानीं विमृशतु स्वयं प्रज्ञया मध्यस्थः सन् कस्य संभवन्ति विपर्यासा इति। तदेवमाश्रयस्याभावान्न सन्ति विपर्ययाः॥१७ -१८॥

किं चान्यत् -

अनुत्पन्नाः कथं नाम भविष्यन्ति विपर्ययाः।
विपर्ययेष्वजातेषु विपर्ययगतः कुतः॥१९॥

तत्र
न स्वतो जायते भावः परतो नैव जायते।
न स्वतः परतश्चेति विपर्ययगतः कुतः॥२०॥

कुतो विपरीत इत्यर्थः। ततश्च यदुक्तम् - सन्ति विपर्ययाः विपर्ययगतसद्भावादिति, तन्न युक्तम्॥१९-२०॥

यस्यापि कथंचिद्विपर्यासचतुष्टयमस्त्येवेत्यभ्युपगम्यते, तथापि तस्य विपरीतत्वमशक्यमास्थातुम्। किं कारणम्? यस्मात् -

आत्मा च शुचि नित्यंन सुखं च यदि विद्यते।
आत्मा च शुचि नित्यं च सुखं च न विपर्ययः॥२१॥

यदि एतानि आत्मशुचिनित्यसुखानि विपर्यासा इति व्यवस्थाप्यन्ते, किमेतानि सन्ति, अथ न सन्ति ? यदि विद्यन्ते, न तर्हि विपर्यासाः, विद्यमानत्वादनात्मादिवत्॥२१॥

अथ न विद्यन्ते, तदा एषामविद्यमानत्वान्न केवलं नास्ति विपर्यासत्वम्, विपर्यासप्रतिबन्ध्यभावादनात्मादीनामपि अविपर्यासादीनां नास्ति सद्भाव इति प्रतिपादयन्नाह -

नात्मा च शुचि नित्यं च सुखं च यदि विद्यते।
अनात्माशुच्यनित्यं च नैव दुःखं च विद्यते॥२२॥

यदि आत्मा च शुचि नित्यं च न विद्यते इति मन्यसे, विपर्यासासंभवात्, एवं सति आत्मादीनामप्यभावाद् यदि एतदनात्मादिकमविपर्यासत्वेन गृहीतम्, तदपि तर्हि त्यज्यताम्, प्रतिषेध्याभावे प्रतिषेधस्याभावात्। यदा चैवमनात्मादिकं न संभवति, तदा तदपि स्वरूपतोऽविद्यमानत्वात् आत्मादिवत् कथं न विपर्यासः स्यात्? तस्मात् जातिजरामरणसंसारचारका मारबन्धनान्मुमुक्षुभिरष्टावप्येते विपर्यासास्त्याज्याः॥२२॥

अस्य च यथोपवर्णितविपर्यासविचारस्य अविद्यादिप्रहाणहेतुत्वेन महार्थतां प्रतिपादयन्नाह -

एवं निरुध्यतेऽविद्या विपर्ययनिरोधनात्।
अविद्यायां निरुद्धायां संस्काराद्यं निरुध्यते॥२३॥

यदा अयं योगी यथोदितेन न्यायेन विपर्यासान् नोपलभते, तदा एवं विपर्यासानुपलम्भनेन तद्धेतुका अविद्या निरुध्यते। तन्निरोधाच्च संस्कारादयः अविद्याहेतुका जरामरण शोकपरिदेवदुःखदौर्मनस्योपायासपर्यन्ता धर्मा निरुध्यन्ते॥

अविद्या हि सकलस्यैव संक्लेशगणस्य जात्यादिदुःखस्य च हेतुभूता। यथा हि कायेन्द्रियहेतुकानि सर्वाणि रूपीन्द्रियाणि कायेन्द्रिये निरुध्यमाने निरुध्यन्ते, एवमविद्याहेतुकानि संस्कारादीनि भवाङ्गानि प्रवर्तमानानि नियतमविद्यायां निरुद्धायां निरुध्यन्ते इति प्रतिपादयन्नाह -
अविद्यायां निरुद्धायां संस्काराद्यं निरुध्यते।इति॥

अत्राह - यदि विपर्यासनिरोधादविद्या निरुध्यते, अस्ति तर्हि अविद्या यस्या एवं विपर्यास निरोधान्निरोधो भवति। न तर्हि अविद्यमानाया गगनचूतलतायाः प्रहाणोपायान्वेषमस्ति। तस्माद्विद्यते एव अविद्या, तन्निरोधोपायान्वेषणसद्भावात्। ततश्च सन्ति तद्धेतुका रागादयः क्लेशाः। क्लेशासद्भावाच्च अस्त्येव संसारे भवसंततिः। उच्यते। अत्र हि नाम अतिमहदनर्थपाण्डित्यं परस्य, यो हि नाम सर्वात्मना अत्यन्तदुःखायासक्लेशासमञ्जसे संसारे निरन्तरफुल्लफलप्रदसंक्लेशविषवृक्षे परार्थोदय संबद्धकक्षैः साधुभिः प्रज्ञोपायमहानिलबलैर्निःशेषं तदुन्मूल्यमानैर्न केवलं न साहाय्येनावतिष्ठन्ते, अपि खलु तदुन्मूलकानामतिमहानिलबलानामिव भावसद्भाववादमहाशैलायमान इवातिविरोधितया अवस्थितो भवान् आहोपुरुषिकया तस्यैव क्लेशविषवृक्षस्य जातिजरामरणशोकायासविसर दुःखैकफलस्य सुतरां भावाभिनिवेशतोयास्रवैरारोपणमाद्रियते॥

अपि च। यदि अविद्यादीनां संक्लेशानां प्रहाणं संभवेत्, स्यात् तत्प्रहाणोपायान्वेषणम्। न च तेषां प्रहाणं संभवति। यदि स्यात्, तदा तत्त्वरूपतो विद्यमानानां वा स्यात्, अविद्यमानानां वा? किं चातः? तत्र यदि स्वरूपतः सद्भतानां क्लेशानां प्रहाणमिष्यते, तन्नोपपद्यते। किं कारणम्? यस्मात् -

यदि भूताः स्वभावेन क्लेशाः केचिद्धि कस्यचित्।
कथं नाम प्रहीयेरन् कः स्वभावं प्रहास्यति॥२४॥

स्वभावतो विद्यमानानां भावानां न शक्यः स्वभावो विनिवर्तयितुम्। न हि क्षित्यादीनां कठिनत्वादिस्वभावो निवर्तते। एवं यदि इमे क्लेशाः स्वभावतः सद्भूताः स्युः। केचिदित्यविद्यादयः। कस्यचिदिति पुद्गलस्य। कथं नाम प्रहीयेरन्? नैव ते कस्यचित् कथंचिन्नाम प्रहीयेरन्। कस्मात्पुनः न ते प्रहीयन्ते इत्याह - कः स्वभावं प्रहास्यतीति। स्वभावस्य विनिवर्तयितुमशक्य त्वात्। आकाशानावरणविनिवर्तनासंभववदित्यभिप्रायः॥२४॥

अथ स्वभावेन असद्भूता इति विकल्प्यते, एवमपि प्रहाणासंभव एवेत्याह -

यद्यभूताः स्वभावेन क्लेशाः केचिद्धि कस्यचित्।
कथं नाम प्रहीयेरन् कोऽसद्भावं प्रहास्यति॥२५॥

अभूता अपि क्लेशाः स्वभावेन अविद्यमानाः अशक्या एव प्रहातुम्। न हि अग्नेः शैत्यमसंविद्यमानं शक्यमपाकर्तुम्। एवमिमेऽपि क्लेशाः केचिद् यदि कस्यचित् स्वभावतो न विद्यन्ते, कस्तान् प्रहास्यति? नैव कश्चित् प्रहास्यति। तदेवमुभयपक्षेऽपि प्रहाणासंभवान्नास्ति प्रहाणं क्लेशानाम्। प्रहाणाभावाच्च कुतः क्लेशप्रहाणोपायान्वेषणमिति। अतो यदुक्तम् - विद्यन्त एव अविद्यादयः क्लेशाः, तत्प्रहाणोपायान्वेषणादिति, तदयुक्तमिति। यथोक्तमार्यसमाधिराजे -

यो रज्येत, यत्र वा रज्येत, येन वा रज्येत। यो दुष्येत, यत्र वा दुष्येत, येन वा दुष्येत। यो मुह्येत यत्र वा मुह्येत, येन वा मुह्येत। स तं धर्म न समनुपश्यति, तं धर्मं नोपलभते। स तं धर्ममसमनुपश्यन् अनुपलभमानोऽरक्तोऽदुष्टोऽमूढोऽविपर्यस्तचित्तः समाहित इत्युच्यते। तीर्णः पारग इत्युच्यते। क्षेमप्राप्त इत्युच्यते॥इति विस्तरः।

तथा -
आदर्शपृष्ठे तथ तैलपात्रे
निरीक्षते नारिमुखं स्वलंकृतम्।
सो तत्र रागं जनयित्व बालो
प्रधावितो कामि गवेषमाणो॥

मुखस्य संक्रान्ति यदा न विद्यते
बिम्बे मुखं नैव कदाचि लभ्यते।
मूढो यथा सो जनयेत रागं
तथोपमान् जानथ सर्वधर्मान्॥इत्यादि।

तथा -
रूपेण दर्शिता बोधी बोधये रूप दर्शितम्।
विषभागेन शब्देन उत्तरो धर्मु देशितः॥

शब्देन उत्तरं रूपं गम्भीरं च स्वभावतः।
समं रूपं च बोधिश्च नानात्वं न स लभ्यते॥

यथा निर्वाणु गम्भीरं शब्देन संप्रकाशितम्।
लभ्यते न च निर्वाणं स च शब्दो न लभ्यते।

शब्दश्चापि निर्वाणं च उभयं तन्न लभ्यते।
एवं शून्येषु धर्मेषु निर्वाणं संप्रकाशितम्॥

निर्वाणं निवृत्तिरेव निर्वाणं च न लभ्यते।
अप्रवृत्तिर्हि धर्माणां यथा पश्चात्तथा पुरा॥

सर्वधर्माः स्वभावेन निर्वाणसमसादृशाः।
ज्ञाता नैष्क्रम्यसारेहि ये युक्ता बुद्धबोधये॥

तथा -
ज्ञानेन जानाम्यहु स्कन्धशून्यतां
ज्ञात्वा च क्लेशेहि न संवसामि।
व्याहारमात्रेण हि व्याहरामि
परिनिर्वृतो लोकमिमं चरामि॥

तथा -
परिनिर्वृत लोकि ते शूरा
येहि स्वभावत ज्ञातिभि धर्माः।
कामगुणैर्हि चरन्ति असङ्गाः
सङ्गु विवर्जिय सत्त्व विनेन्ति॥

इति॥२५॥

इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ
विपर्यासपरीक्षा नाम त्रयोविंशतितमं प्रकरणम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project