Digital Sanskrit Buddhist Canon

द्वाविंशतितमं प्रकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

dvāviṁśatitamaṁ prakaraṇam

तथागतपरीक्षा द्वाविंशतितमं प्रकरणम्।

अत्राह - विद्यत एव भवसंततिः, तथागतसद्भावात्। इह हि भगवता महाकरुणोपाय प्रज्ञाद्वयधारिणा सकलत्रैधातुकाशेषसत्त्वजात्यादिदुःखव्युपशमैकमनसा त्रिभिः कल्पासंख्येयैः सप्तभिर्वा नैरन्तर्यक्रमेणोद्यच्छता तैस्तैर्निरतिशयैरतिविचित्रैः पुण्यक्रियाप्रारम्भैः सकलजगद्धितोदयैकक्रियालक्षणैः प्रियैकपुत्रादप्यधिकतरनिरवशेषजगदनुग्रहतत्परेण महाकरुणापरवशेन तत्रतत्रोपपत्त्यायतने क्षितिसलिलज्वलनपवनसाधारणभैषज्यमहामहीरुहवज्जनानां स्वेच्छात उपभोग्यतामात्मानमुपगमयता महाकालेन सार्वज्ञं सर्वाकारपरिच्छेदि पदमधिगतम्। स एवमधिगतसर्वज्ञज्ञानो भगवान् यथा धर्माणां तत्त्वं व्यवस्थितं तथैव अशेषतो गतत्वाद् बुद्धत्वात् तथागत इत्युच्यते। यदि भवसंततिर्न स्यात्, तदा तथागतोऽपि न स्यात्। न हि एकेन जन्मना शक्यं तथागतत्वमनुप्राप्तुम्। तस्माद्विद्यत एव भवसंततिः, तथागतसद्भावादिति। उच्यते। भवदीयमेव हि इदमतिमहदज्ञानं भवसंतानस्य अविच्छेदवर्तितां च अतिदीर्घकालं च गमयति, यस्य नाम भवतः अतिमहदज्ञानधनान्धकारमेव विचित्रैरुपपत्तिशरच्चन्द्रज्ञानालोकैर्विध्वस्यमानमपि अतिचिरतरकालाभ्यासवासना विस्तराभिवृद्धमद्यापि न विध्वस्यते न निवर्तते। यदि हि तथागतो नाम कश्चित् स्यात् स्वभावतः, तदा तस्य महता कालेनाभिनिष्पत्तेर्भवसंततिः स्यात्। न च तथागतो नाम कश्चिद् भावस्वभावत उपलभ्यते। केवलं तु भवानविद्यातिमिरोपहतमतिनयनतया द्विचन्द्रकेशमशकादिवन्मिथ्या तथागतं नाम स्वभावत उपलभते। यथा च तथागतो नास्ति स्वभावतः, तथा प्रतिपादयन्नाह -

स्कन्धा न नान्यः स्कन्धेभ्यो नास्मिन् स्कन्धा न तेषु सः।
तथागतः स्कन्धवान्न कतमोऽत्र तथागतः॥१॥

यदि हि तथागतो नाम कश्चित् पदार्थोऽमलो निष्प्रपञ्चः स्यात्, स स्कन्धस्वभावो वा भवेत्, रूपवेदनासंज्ञासंस्कारविज्ञानाख्यस्कन्धपञ्चकस्वभावो वा भवेत्। यदि वा शीलसमाधिप्रज्ञाविमुक्तिविमुक्तिज्ञानदर्शनाख्यपञ्चस्कन्धस्वभावः, तद्वयतिरिक्तो वा भवेत्। पूर्वका एव पञ्च स्कन्धाः सत्त्वप्रज्ञप्तिनिमित्तत्वादिह विचारे परिगृह्यन्ते नोत्तरे, अव्यापकत्वादेषां पूर्वकैरन्तर्भावित त्वादिति॥

यदि वा पञ्चस्कन्धव्यतिरिक्तो भवेत्, तत्र तथागते वा स्कन्धाः स्युः, स्कन्धेषु वा स भवेत्, तथागतो वा स्कन्धवान् भवेत् धनवानिव देवदत्तः? सर्वथा च विचार्यमाणो न संभवति। कथं कृत्वा? तत्र तावत् स्कन्धा एव न तथागतः। किं कारणम्? उक्तं हि -

यदिन्धनं स चेदग्निरेकत्वं कर्तृकर्मणोः।

भवेदिति, तदिहापि योज्यम्,
स बुद्धो यो ह्युपादानमेकत्वं कर्तृकर्मणोः।
भवेदिति। तथा -
आत्मा स्कन्धा यदि भवेदुदयव्ययभाग्भवेत्।

इत्युक्तम्, तदिहापि योज्यम्,
बुद्धः स्कन्धा यदि भवेदुदयव्ययभाग्भवेत्। इति।
एवं तावत् स्कन्धा न तथागतः॥ इदानीं नान्यः स्कन्धेभ्यस्तथागत इति। किं कारणम्? उक्तं हि -

अन्यश्चेदिन्धनादग्निरिन्धनादष्यृते भवेत्।

तथा -
परत्र निरपेक्षत्वादप्रदीपनहेतुकः।
पुनरारम्भवैयर्थ्यमेवं चाकर्मकः सति॥ इति ,

तथा इहापि योज्यम्,
बुद्धोऽन्यश्चेदुपादानादुपादानं विना भवेत्।
तथा-
परत्र निरपेक्षत्वादनुपादानहेतुकः।
पुनरारम्भवैयर्थ्यमेवं चाकर्मकः सति॥

तथा -
स्कन्धेभ्योऽन्यो यदि भवेद्भवेदस्कन्धलक्षणः।इति।
अन्यत्वाभावाच्च स्कन्धादीनां तथागतस्य च, तथागते स्कन्धा नोपपद्यन्ते॥

नापि स्कन्धेषु तथागत इति उपपद्यते। उक्तं चैतन्मध्यमकावतारे पक्षद्वयव्याख्यानम् -
स्कन्धेष्वात्मा विद्यते नैव चामी
सन्ति स्कन्धा आत्मनीतीह यस्मात्।
सत्यन्यत्वे स्यादियं कल्पना वै
तच्चान्यत्वं नास्त्यतः कल्पनैषा॥

स्कन्धवानपि तथागतो यथा न भवति, तथा तत्रैवोक्तम् -
इष्टो नात्मा रूपवान्नास्ति यस्मा -
दात्मा वत्त्वार्थोपयोगो हि नातः।

भेदे गोमान् रूपवानष्यभेदे
तत्त्वान्यत्वेऽरूपतो नात्मनः स्तः॥

तत्त्वान्यत्वपक्षे एव तु पञ्चापि पक्षा अन्तर्गता वस्तुतः। सत्कायदृष्टिप्रवृत्त्यपेक्षया तु पञ्च पक्षाः समुपवर्ण्यन्ते आचार्येणेति विज्ञेयम्। यश्चैवं स्कन्धेषु पञ्चधा विचार्यमाणो नास्ति तथागतः, स केनान्येन आत्मना भविष्यतीति, सर्वथा न संभवत्येव तथागत इति भावस्वभावादपश्यन्त आचार्यपादाः प्राहुः - कतमोऽत्र तथागत इति। नास्त्येव स कश्चित् सकलत्रैलोक्यवस्तुविपश्चिद्भावस्वभाव इत्यभिप्रायः। तथागताभावाच्च भवसंततिरपि द्रव्यसंततिर्नास्तीति सिद्धम्॥१॥

अत्रैके वदन्ति - नैव हि स्कन्धास्तथागत इति ब्रूमः, यथोक्तदोषप्रसङ्गात्। नापि स्कन्धव्यतिरिक्तः। नापि तथागते अनास्रवान् स्कन्धान् वर्णयामः, हिमवति पर्वते इव तरुखण्डम्। नापि स्कन्धेषु, तरुखण्डे एव सिंहम्। नापि स्कन्धवन्तं वर्णयामः, लक्षणवन्तमिव चक्रवर्तिनम्, एकत्वान्यत्वानभ्युपगमादेव। किं तर्हि स्कन्धानमलानुपादाय तत्त्वान्यत्वाद्यवाच्यं तथागतं व्यवस्थापयामः। तस्मान्नायं विधिरस्माकं बाधक इति। अत्रोच्यते -
बुद्धः स्कन्धानुपादाय यदि नास्ति स्वभावतः।
स्वभावतश्च यो नास्ति कुतः स परभावतः॥२॥

यदि हि बुद्धो भगवानमलान् स्कन्धानुपादाय तत्त्वान्यत्वेनावक्तव्यः प्रज्ञप्यते, न तर्हि स्वभावतः सोऽस्तीति व्यक्तमापद्यते, प्रतिबिम्बवदुपादाय प्रज्ञप्यमानत्वात्। यश्च इदानीं स्वभावतो नास्ति आत्मीयेन स्वरूपेण, स कथमविद्यमानः स्वभावतः स्कन्धानुपादाय परभावतो भविष्यतीति? न हि अविद्यमानो वन्ध्यातनयः परभावमपेक्ष्य भवतीति युज्यते॥२॥

अथ स्यात् - यथैव हि प्रतिबिम्बकं स्वभावतोऽसंविद्यमानमपि परभावं मुखादर्शादिकमपेक्ष्य भवति, एवं च तथागतोऽपि स्वभावतोऽसंविद्यमानः अनास्रवान् पञ्च स्कन्धानुपादाय परभावतो भविष्यतीति, एवमपि -

प्रतीत्य परभावं यः सोऽनात्मेत्युपपद्यते।
यश्चानात्मा स च कथं भविष्यति तथागतः॥३॥

यदि प्रतिबिम्बवत् परभावं प्रतीत्य तथागतः इष्यते, एवं सति प्रतिबिम्बवदेव स तथागतोऽनात्मेत्युपपद्यते। न तु स्वभावत इति युज्यते। आत्मशब्दोऽयं स्वभावशब्दपर्यायः। यश्च अनात्मा निःस्वभावः प्रतिबिम्बवदेव, स कथं तथागतः स्वभावरूपतो भविष्यति? अविपरीतमार्गगतो न भविष्यतीत्यभिप्रायः॥३॥

किं चान्यत् - इह यदि तथागतस्य कश्चित् स्वभावः स्यात्, तदा तत्स्वभावापेक्षया स्कन्धस्वभावः परभाव इति स्यात्, तं च परभावं प्रतीत्य तथागतः स्यात्। यदा तु तथागतस्य स्वभाव एव नास्ति , तदा कुतः स्कन्धानां परत्वं स्यादिति प्रतिपादयन्नाह -

यदि नास्ति स्वभावश्च परभावः कथं भवेत्।
यदा चैवं स्वभावपरभावौ न स्तः, तदा

स्वभावपरभावाभ्यामृते कः स तथागतः॥४॥

पदार्थो हि भवन् स्वभावो भवेत्, परभावो वा। ताभ्यां तु विना कोऽसौ अपरः पदार्थोऽस्ति, यस्तथागत इति व्यवस्थाप्यते? तस्मान्नास्ति स्वभावतस्तथागत इति॥४॥

किं चान्यत् -
स्कन्धान् यद्यनुपादाय भवेत्कश्चित्तथागतः।
स इदानींमुपादद्यादुपादाय ततो भवेत्॥५॥

यदि मन्यसे - स्कन्धेभ्यस्तत्त्वान्यत्वेन अवक्तव्यस्तथागतः स्कन्धानुपादाय प्रज्ञप्यते इति, तत् कदा युज्यते? यदि स्कन्धाननुपादाय अगृहीत्वा पूर्वं कश्चित्तथागतो नाम भवेत्, स स्कन्धानुपादद्यात्। व्यतिरिक्त एव हि पूर्वसिद्धो धनाद् देवदत्तो धनस्योपादानं कुरुते, तद्वदेतान् स्कन्धाननुपादाय यदि कश्चित् तथागतः स्यात्, स इदानीं स्कन्धानुपादद्यात्, ततश्च तान् स्कन्धानुपादाय ततो भवेत्॥५॥

विचार्यमाणस्तु सर्वथा -
स्कन्धांश्चाप्यनुपादाय नास्ति कश्चित्तथागतः।
निर्हेतुकत्वप्रसङ्गात्।

यश्च नास्त्यनुपादाय स उपादास्यते कथम्॥६॥

अविद्यमानत्वादित्यभिप्रायः। यदा चैवं न किंचिदप्युपादत्ते, तदा स्कन्धानुपादाय तथागतो नाम भविष्यतीति नोपपद्यते॥६॥

यदा चैवं तथागतः उपादानात्पूर्वमविद्यमानत्वात् न किंचिदुपादत्ते, तदा तदुपादानस्यापि केनचिदपि अनुपादीयमानस्य उपादानत्वं न संभवत्येवेति प्रतिपादयन्नाह -

न भवत्यनुपादत्तमुपादानं च किंचन।
यदा चैवमुपादानं केनचिदप्यनुपादीयमानत्वादुपादानं न भवतीति, तदा उपादानाभावादुपादातापि कश्चिन्नास्तीति प्रतिपादयन्नाह -
न चास्ति निरुपादानः कथंचन तथागतः॥७॥

इति॥७॥
तदेवं यथोपपादितन्यायेन -
तत्त्वान्यत्वेन यो नास्ति मृग्यमाणश्च पञ्चधा।
उपादानेन स कथं प्रज्ञप्येत तथागतः॥८॥

यो हि तथागतो विचार्यमाणो मृग्यमाणः तत्त्वेनस्कन्धेभ्य एकत्वेन नास्ति, अन्यत्वेन स्कन्धेभ्यः पृथक्त्वेन च यो नास्ति, एवं तत्त्वान्यत्वासत्वादाधाराधेयतद्वत्पक्षपञ्चप्रकारैर्मृग्यमाणो यो नास्ति , स कथमत्यन्तोऽसंविद्यमानस्तथागतः उपादानेन शक्यः प्रज्ञपयितुम्? इत्यतोऽपि नास्ति तथागतो नाम स्वभावतः॥८॥

न केवलमनेन विचारेण तथागत एव नास्ति,

यदपीदमुपादानं तत्स्वभावत्वान्न विद्यते।

यदपि इदमुपादानं रूपवेदनासंज्ञासंस्कारविज्ञानाख्यं स्कन्धपञ्चकम्, तदपि स्वभावेन न विद्यते, प्रतीत्यसमुत्पन्नत्वात्, स्कन्धपरीक्षायां च विस्तरेण प्रतिषिद्धत्वात्॥

अथापि स्यात् - यद्यपि स्वभावतः उपादानं नास्ति, तथापि हेतुप्रत्ययात्मकात् परभावा द्भविष्यतीति, तदापि नोपपद्यते इति प्रतिपादयन्नाह -

स्वभावतश्च यन्नास्ति कुतस्तत्परभावतः॥९॥

न हि बन्ध्यासूनुः स्वभावतोऽसंविद्यमानः शक्यः परभावेन प्रज्ञपयितुमिति। अतः उपादानमपि नास्ति॥

अथवा - यदपीदमुपादानं तत्स्वभावान्न विद्यते।
उपादातृसापेक्षत्वादुपादातृनिरपेक्षस्य च उपादानत्वाभावान्नास्ति स्वभावसिद्धमुपादानम्। अथ यद्यपि उपादातृनिरपेक्षमुपादानं स्वभावसिद्धं न संभवति, एवं तदुपादात्रपेक्षमेव भवत्विति। उच्यते। एवमपि -

स्वभावतश्च यन्नास्ति कुतस्तत्परभावतः॥

स्वभावतो यदुपादानं न सिद्धम्, तदविद्यमानस्वभावं कथमुपादातुः परभावतो भविष्यतीति। तस्मादुपादानमपि नास्तीति॥९॥

इदानीं यथाप्रसाधितमेवार्थमुपदर्शयन्नाह -

एवं शून्यमुपादानमुपादाता च सर्वशः।
सर्वेण प्रकारेण विचार्यमाणं शून्यमुपादानं निःस्वभावम्, उपादाता च शून्यः स्वभावरहितः। तेनेदानीमुपादानेन -

प्रज्ञप्यते च शून्येन कथं शून्यस्तथागतः॥१०॥

नैव तत्संभवति यदविद्यमानेन अविद्यमानस्य तथागतस्य प्रज्ञप्तिः स्यादिति। तस्मात् स्कन्धानुपादाय तथागतः प्रज्ञप्यते इति नोपपद्यते॥

अत्राहुः - अहो वत हता प्रत्याशा अस्माकम्, ये हि नाम वयं स्वविकल्पविकल्पिता तिकठिनकुदर्शनमालुतालताजालावबद्धेषु निर्वाणपुरगाम्यविपरीतमार्गगमनपरिभ्रष्टेषु अनतिक्रान्तसंसाराटवीकान्तारदुर्गेषु कणभक्षाक्षपाददिगम्बरजैमिनिनैयायिकप्रभृतिषु तीर्थकरेषु अविपरीत स्वर्गापवर्गमार्गोपदेशाभिमानिषु स्पृहां परित्यज्य निरवशेषान्यतीर्थ्यमतान्धकारोपघातकं स्वर्गापवर्गानुगाम्यविपरीतमार्गसंप्रकाशकं सद्धर्मदेशनातिपटुतरकिरणव्याप्ताशेषाशामुखं विविधविनेय जनमतिकमलकुङ्मलविबोधनतत्परं यथावदवस्थितपदार्थतत्त्वार्थभाजनानाममलैकचक्षुर्भूतं सकल जगच्छरण्यभूतमद्वितीयं दशबलवैशारद्यावेणिकबुद्धधर्मामलमण्डलं महायानमहानयसारथिवरं सप्त बोध्यङ्गोत्तुङ्गतुरंगपदातियोजितं सकलत्रिभुवनजनजातिजरामरणसंसारकान्तारसरिदुच्छोषणतत्परं चतुरसममारारातिसमरशरसंपातविजयिनं सकलजगदसद्ग्राहराहुग्रहविग्रहोद्ग्रहनिरासिनं तथागत सवितारमज्ञानधनगहनान्धकारनिराकरणाय मोक्षार्थिनोऽतुत्तरसम्यक्संबोध्यर्थिनः शरणं प्रतिपन्नाः, तस्य च त्वया -

एवं शून्यमुपादानमुपादाता च सर्वशः।
प्रज्ञप्यते च शून्येन कथं शून्यस्तथागतः॥

इत्यादिना स्वभावतोऽसत्त्वं व्रुवता भवता हता अस्माकं मोक्षप्रत्याशा अनुत्तरसम्यक्संबोध्यागमा भिलाषः इति। तदलं भवता तथागतमहादित्यप्रच्छादकेन आकालिकधनधनावलीविसरणेन जगदन्ध कारोपमेनेति। उच्यते। अस्माकमेव हता प्रत्याशा भवद्विधेष्वबुधजनेषु ये हि नाम भवन्तः मोक्षकामतया अन्यतीर्थ्यमतानि परित्यज्य भगवन्तं तथागतमपि अविपरीतं परमशास्तारं प्रतिपद्य परमगम्भीर मनुत्तरं सर्वतीर्थ्यवादासाधारणं नैरात्म्यसिंहनादमसहमानाः कुरङ्गमा इव स्वाधिमुक्तिदरिद्रतया विविधकुदृष्टिव्यालमालाकुलं विपर्यस्तजनानुयातं तमेव महाघोरसंसाराटवीकान्तारचारकानुगमार्गमवगाहन्ते। न हि तथागताः कदाचिदप्यात्मनः स्कन्धानां वा अस्तित्वं प्रज्ञपयन्ति। यथोक्तं भगवत्याम् -

बुद्धोऽप्यायुष्मन् सुभूते मायोपमः स्वप्नोपमः। बुद्धधर्मा अप्यायुष्मन् सुभूते मायोपमाः स्वप्नोपमाः॥इति॥

तथा-

धर्म स्वभावतु शून्य विविक्तो
बोधि स्वभावतु शून्य विविक्ता।
यो हि चरेत्स पि शून्यस्वभावो
ज्ञानवतो न तु बालजनस्य॥इति।

न च वयं सर्वथैव निष्प्रपञ्चानां तथागतानां नास्तित्वं ब्रूमः, यदस्माकं तदपवादकृतो दोषः स्यात्॥१०॥

अपि च। निःस्वभावं हि तथागतं व्याचक्षाणेन अविपरीतार्थाभिधित्सुना योगिनां सता सर्वथा -

शून्यमिति न वक्तव्यमशून्यमिति वा भवेत्।
उभयं नोभयं चेति

सर्वमेतन्न वक्तव्यमस्माभिः। किं तु अनुक्ते यथावदवस्थितं स्वभावं प्रतिपत्ता प्रतिपत्तुं न समर्थ इत्यतो वयमपि आरोपतो व्यवहारसत्ये एव स्थित्वा व्यवहारार्थं विनेयजनानुरोधेन शून्यमित्यपि ब्रूमः, अशून्यमित्यपि, शून्याशून्यमित्यपि, नैव शून्यं नाशून्यमित्यपि ब्रूमः। अत एवाह
प्रज्ञप्त्यर्थं तु कथ्यते॥११॥

इति। यथोक्तं भगवता -

शून्याः सर्वधर्मा निःस्वभावयोगेन। निर्निमित्ताः सर्वधर्मा निर्निमित्ततामुपादाय। अप्रणिहिताः सर्वधर्मा अप्रणिधानयोगेन। प्रकृतिप्रभास्वराः सर्वधर्माः प्रज्ञापारमितापरिशुद्धया। इति॥
अन्यत्र अशून्यमुक्तम् -

अतीतं चेद्भिक्षवो रूपं नाभविष्यन्न श्रुतवानार्यश्रावकोऽतीतं रूपमभ्यनन्दिष्यत्। यस्मात्तर्हि भिक्षवः अस्ति अतीतं रूपम्, तस्मादार्यश्रावकः श्रुतवानतीतं रूपमभिनन्दतीति। अनागतं चेद्भिक्षवः -इत्यादि। एवं यावत् अतीतं चेद्भिक्षवो विज्ञानं नाभविष्यत् - इत्यादि पूर्ववत्॥

तथा सौत्रान्तिकमते अतीतानागतं शून्यम्, अन्यदशून्यम्। विप्रयुक्ता विज्ञप्तिः शून्या।
विज्ञानवादेऽपि कल्पितस्वभावस्य शून्यत्वम्, अप्रतीत्यसमुत्पन्नत्वात्, तैमिरिकद्विचन्द्रादि दर्शनवत्।

न शून्यं नापि चाशून्यं तस्मात्सर्वं विधीयते।
[तथा] सत्त्वादसत्त्वाच्च मध्यमा प्रतिपच्च सा॥इति॥

येन त्वभिप्रायेण शून्यत्वादिकमुपदिश्यते, स आत्मपरीक्षातो बोद्धव्यः।
यथोक्तं सूत्रे -
मायोपमं जगदिदं भवता
नटरङ्गस्वप्नसदृशं विहितम्।
नात्मा न सत्त्व न च जीवगती
धर्मा मरीचिदकचन्द्रसमाः॥

शून्यं च शान्तमनुपादमयं
अविजानदेव जगदुद्भ्रमती।
तेषामुपायनययुक्तिशतै -
रवतारयस्यपि कृपालुतया॥

रागादिभिश्च बहुरोगशतैः
संत्रासितं सकलमीक्षि जगत्।
वैद्योपमो विचरसेऽप्रतिमो
परिमोचयं सुगत सत्त्वशतान्॥

रथचक्रवद् भ्रमति सर्वजगत्
तिर्यक्षु प्रेतनिरयेषु गताः।
मूढा अदेशिक अनाथगताः
तेषां प्रदर्शयसि मार्गवरम्॥इति।

सर्वास्त्वेताः कल्पना निष्प्रपञ्चे तथागते न संभवन्ति॥११॥

न च केवलं शून्यत्वादिकमेव चतुष्टयं तथागते न संभवति, अपि च -

शाश्वताशाश्वताद्या कुतः शान्ते चतुष्टयम्।
अन्तानन्तादि चाप्यत्र कुन्तः शान्ते चतुष्टयम्॥१२॥

इह चतुर्दश अव्याकृतवस्तूनि भगवता निर्दिष्टानि। तद्यथा - शाश्वतो लोकः, अशाश्वतो लोकः, शाश्वतश्च अशाश्वतश्च लोकः, नैव शाश्वतो नाशाश्वतश्च लोकः, इति चतुष्टयम्। अन्तवान् लोकः, अनन्तवान् लोकः, अन्तवांश्च अनन्तवांश्च लोकः, नैव अन्तवान् न अनन्तवांश्च लोकः, इति द्वितीयम्। भवति तथागतः परं मरणात्, न भवति तथागतः परं मरणात्, भवति च न भवति च तथागतः परं मरणात्, नैव भवति न न भवति च तथागतः परं मरणात्, इति तृतीयम्। स जीवस्तच्छरीरम्, अन्यो जीवोऽन्यच्छरीरम्, इति। तान्येतानि चतुर्दश वस्तूनि अव्याकृतत्वादव्याकृतवस्तूनि इत्युच्यन्ते। तत्र यथोपवर्णितेन न्यायेन यथा शून्यत्वादिकं चतुष्टयं प्रकृत्या शान्ते निःस्वभावे तथागते न संभवति, एवं शाश्वताशाश्वतादिक मपि चतुष्टयमत्र न संभवति। असंभवादेव च चतुष्टयं वन्ध्यापुत्रस्य श्यामगौरत्वादिवत् न व्याकृतं भगवता लोकस्य। यथा च एतच्चतुष्टयं तथागते न संभवति, एवमन्तानन्तादिकमपि शान्ते तथागते न संभवति॥१२॥

इदानीं भवति तथागतः परं मरणात् इत्यादिकस्यापि कल्पनाचतुष्टयस्य प्रवृत्त्यसंभव मुद्भावयन्नाह -

येन ग्राहो गृहीतस्तु घनोऽस्तीति तथागतः।
नास्तीति स विकल्पयन्निर्वृतस्यापि कल्पयेत्॥१३॥

येन हि घनतरो महताभिनिवेशेन अस्ति तथागतः इति ग्राहो गृहीतः, परिकल्प उत्पादितः, सः नियतं परिनिर्वृते तथागते, न भवति तथागतः परं मरणात्, मरणादुत्तरकालं न भवति, उच्छिन्नस्तथागतः, न संविद्यते, इति परिकल्पयेत्। तस्य एवं विकल्पयतः स्याद् दृष्टिकृतम्॥१३॥

यस्य तु न कस्यांचिदप्यवस्थायां स्वभावशून्यत्वात् तथागतस्य अस्तित्वनास्तित्वम्, तस्य पक्षे -

स्वभावतश्च शून्येऽस्मिंश्चिन्ता नैवोपपद्यते।
परं निरोधाद्भवति बुद्धो न भवतीति वा॥१४॥

आकाशे चित्ररूपकल्पनावदेषा कल्पना नास्तीत्यभिप्रायः॥१४॥

तदेवं प्रकृतिशान्ते निःस्वभावे तथागते सर्वप्रपञ्चातीते मन्दबुद्धितया शाश्वताशाश्वता दिकया नित्यानित्यास्तिनास्तिशून्याशून्यसर्वज्ञासर्वज्ञादिकया कल्पनया -

प्रपञ्चयन्ति ये बुद्धं प्रपञ्चातीतमव्ययम्।
ते प्रपञ्चहताः सर्वे न पश्यन्ति तथागतम्॥१५॥

वस्तुनिबन्धना हि प्रपञ्चाः स्युः, अवस्तुकश्च तथागतः। कुतः प्रपञ्चानां प्रवृत्तिसंभव इति ? अतः प्रपञ्चातीतस्तथागतः। अनुत्पादस्वभावावाच्च स्वभावान्तरागमनादव्ययः। तमित्थंविधं तथागतं स्वोत्प्रेक्षितमिथ्यापरिकल्पमलमलिनमानसतया विविधैरभूतैः परिकल्पविशेषैः ये बुद्धं भगवन्तं प्रपञ्चयन्ति, ते स्वकैरेव प्रपञ्चैर्हताः सन्तः तथागतगुणसमृद्धेरत्यन्तपरोक्षवर्तिनो भवन्ति। ततश्च शवभूताः एतस्मिन् प्रवचने न पश्यन्ति तथागतं जात्यन्धा इवादित्यम्। अत एवाह भगवान् -

ये मां रूपेण अद्राक्षुर्ये मां घोषेण अन्वयुः।
मिथ्याप्रहाणप्रसृता न मां द्रक्ष्यन्ति ते जनाः॥

धर्मतो बुद्धा द्रष्टव्या धर्मकाया हि नायकाः।
धर्मता चाप्यविज्ञेया न सा शक्या विजानितुम्॥

इति॥१५॥

तदत्र तथागतपरीक्षायां सत्त्वलोकः सकलः ससुरासुरनरादिः परीक्षितः। यथा चायं सत्त्वलोको निःस्वभावः, तथा भाजनलोकस्यापि वायुमण्डलादेरकनिष्ठवितानभवनपर्यन्तस्य नैःस्वाभाव्यमुद्भावयन्नाह -

तथागतो यत्स्वभावस्तत्स्वभावमिदं जगत्।

इदं जगदिति अयं भाजनलोक इत्यर्थः। किंस्वभावस्तथागतः पुनरित्याह -

तथागतो निःस्वभावो निःस्वभावमिदं जगत्॥१६॥

इति। यथा च जगतो नैःस्वाभाव्यम्, तथा प्रत्ययपरीक्षादिभिः प्रतिपादितम्। अत एवोक्तं सूत्रे -

अनुपादधर्मः सततं तथागतः
सर्वे च धर्माः सुगतेन सादृशाः।
निमित्तग्राहेण तु बालबुद्धयः
असत्सु धर्मेषु चरन्ति लोके॥

तथागतो हि प्रतिबिम्बभूतः
कुशलस्य धर्मस्य अनास्रवस्य।
नैवात्र तथता न तथागतोऽस्ति
बिम्बं च संदृश्यति सर्व लोके॥इति।

उक्तं च भगवत्यां प्रज्ञापारमितायाम् -

अथ खलु ते देवपुत्राः आयुष्मन्तं सुभूतिं स्थविरमेतदवोचन् - किं पुनरार्यसुभूते मायोपमास्ते सत्त्वाः, न ते माया? एवमुक्ते आयुष्मान् सुभूतिस्तान् देवपुत्रानेतदवोचत् -मायो- पमास्ते देवपुत्राः सत्त्वाः, स्वप्नोपमास्ते देवपुत्राः सत्त्वाः। इति हि माया च सत्त्वाश्च अद्वयमेत दद्वैधीकारम्। इति हि स्वप्नश्च सत्त्वाश्च अद्वयमेतदद्वैधीकारम्।सर्वधर्मा अपि देवपुत्रा मायोपमाः स्वप्नोपमाः। स्त्रोतआपन्नोऽपि मायोपमः स्वप्नोपमः। स्त्रोतआपत्तिफलमपि मायोपमं स्वप्नोपमम्। एवं सकृदागाम्यपि सकृदागामिफलमपि। अनागाम्यपि अनागामिफलमपि। अर्हन्नपि मायोपमः स्वप्नोपमः। अर्हत्त्वफलमपि मायोपमं स्वप्नोपमम्। प्रत्येकबुद्धोऽपि मायोपमः स्वप्नोपमः। प्रत्येक बुद्धत्वमपि मायोपमं स्वप्नोपमम्। सम्यक्संबुद्धोऽपि मायोपमः स्वप्नोपमः इति। सम्यक्संबुद्धत्वमपि मायोपमं स्वप्नोपममिति वदामि।।

अथ खलु देवपुत्रा आयुष्मन्तं सुभूतिमेतदवोचन् - सम्यक्संबुद्धोऽपि मायोपमः स्वप्नोपम इति , सम्यक्संबुद्धत्वमपि मायोपमं स्वप्नोपममिति आर्यसुभूते वदसि? सुभूतिराह - निर्वाणमपि देवपुत्रा मायोपमं स्वप्नोपममिति वदामि, किं पुनरन्यं धर्मम्? देवपुत्रा आहुः - निर्वाणमप्यार्यसुभूते मायोपमं स्वप्नोपममिति वदसि? सुभूतिराह - यद्यपि देवपुत्रा निर्वाणादप्यन्यः कश्चिद्धर्मो विशिष्टतरः स्यात्, तमप्यहं मायोपमं स्वप्नोपममिति वदेयम्। इति हि माया च निर्वाणं च अद्वयमेतदद्वैधीकारमिति॥

इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ
तथागतपरीक्षा नाम द्वाविंशतितमं प्रकरणम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project