Digital Sanskrit Buddhist Canon

एकविंशतितमं प्रकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Ekaviṁśatitamaṁ prakaraṇam

२१
संभवविभवपरीक्षा एकविंशतितमं प्रकरणम्।

अत्राह - विद्यत एव स्वभावतः कालः, संभवविभवनिमित्तत्वात्। इह कंचित् काल विशेषमपेक्ष्य अङ्कुरोत्पत्तिः भावानामुत्पादो भवति, कंचित्कालविशेषमपेक्ष्य विभवो विनाशो भवति, न सर्वदा, विद्यमानायामपि हेतुप्रत्ययसामग्र्याम् - इत्यतो विद्यत एव कालः, संभवविभव निमित्तत्त्वात्। उच्यते। स्यात् संभवविभवनिमित्तता कालस्य यदि संभवविभवावेव स्याताम्। न तु स्तः। यथा च न स्तः, तथा प्रतिपादयन्नाह -

विना वा सह वा नास्ति विभवः संभवेन वै।
विना वा सह वा नास्ति संभवो विभवेन वै॥१॥

इह यदि संभवविभवौ स्याताम्, तौ अन्योन्यं सहभावेन वा स्याताम्, विनाभावेन वा। उभयथा च विचार्यमाणौ न संभवतः। कथं कृत्वा? तत्र तावद् यथा विना संभवेन उत्पादेन विभवो विनाशो नास्ति, तथा प्रतिपादयन्नाह -

भविष्यति कथं नाम विभवः संभवं विना।
विनैव जन्म मरणं विभवो नोद्भवं विना॥२॥

संभवं विना कथं नाम विभवो विनाशो भविष्यति? कथं नामेत्यनेन प्रसिद्धमत्यन्ता संभवं दर्शयति। कथं नाम भविष्यति, नैव एतत्संभवतीत्यभिप्रायः। यदि पुनर्विनैव संभवं विभवः स्यात्, को दोषः स्यात्? उच्यते। विनैव जन्म मरणं स्यात्, अजातस्य मरणं स्यात्। न च अजातस्य मरणं दृष्टमिति। तस्माद्विभवो नोद्भवं विना भवितुमर्हति। आद्येनात्र श्लोकस्यार्धेन प्रतिज्ञा, मध्येन पादेन प्रसङ्गापादनम्, अन्त्येन निगमनमिति विज्ञेयम्॥२॥

एवं तावद्विना संभवेन विभवो न युक्तः इति प्रतिपाद्य इदानीं सह संभवेनापि विभवो न संभवति तथा प्रतिपादयन्नाह -

संभवेनैव विभवः कथं सह भविष्यति।
न जन्ममरणं चैवं तुल्यकालं हि विद्यते॥३॥

यदि हि संभवेन सह युगपत् तुल्यकालं विभवः स्यात्, एवं सति जन्ममरणे युगपत् स्याताम्। न चैवं परस्परविरुद्धे आलोकान्धकारवदेकस्मिन् काले विद्येते इति। तस्मात् सहापि संभवेन विभवस्य नास्ति सिद्धिरिति स्थितम्॥३॥

यदा चैवं संभवेन विना वा सह वा विभवस्य नास्ति सिद्धिः, एवं संभवस्यापि विना वा सह वा विभवेन नास्ति सिद्धिरिति प्रतिपादयन्नाह -

भविष्यति कथं नाम संभवो विभवं विना
अनित्यता हि भावेषु न कदाचिन्न विद्यते॥४॥

नैव हि संभवो विभवेन विना युज्यते। यस्मादनित्यता हि भावेषु भवनधर्मकेषु उत्पाद धर्मकेषु न कदाचिन्न विद्यते, किं तर्हि सर्वदैव विद्यते। उक्तं हि -

जरामरणधर्मेषु सर्वभावेषु सर्वदा।
तिष्ठन्ति कतमे भावा ये जरामरणं विना॥ इति।

यदा चैवं नित्यमनित्यतानुगताः सर्वे भावाः, तदा कुतः सा काचिदवस्था या विनाशरहिता स्यादिति? अतो नास्ति विभवेन विना उत्पाद इति। एवं तावद्विना विभवेन नास्ति संभवः। शेषमत्र संस्कृतपरीक्षायां विचारितत्त्वान्न विचार्यते॥

यस्तु सहेतुको विनाशः, संस्कृतलक्षणत्वात्, उत्पादवत्, इति साधनमुत्क्षिप्य अन्त्यचित्तचैत्तक्षणैरनैकान्तिकतामाह, स न युक्तमाह, तद्विनाशस्यापि जातिप्रत्ययत्वेन सहेतुकत्वात् साध्यसमत्वाच्च अनैकान्तिकताभावात्। यदपि निर्दिष्टम्- भावात्मभाव एव अभूत्वा भावादुत्पाद उच्यते, तस्माद् द्रव्यसदुत्पादसिद्धेर्व्यवहारतो दृष्टान्तभाव इति, तदपि न युक्तम्, अद्रव्यसतां प्रतिबिम्बादीनां सहेतुकत्वाभ्युपगमात्। यथोक्तमाचार्यपादैः -

हेतुतः संभवो येषां तदभावान्न सन्ति ये।
कथं नाम न ते स्पष्टं प्रतिबिम्बसमा मताः॥इति।

अस्मादा [गमात्] कुतो व्यवहारतो दृष्टान्तासिद्धिः? यदि च भावात्, यत् तत्त्वान्यत्वेन न शक्यते वक्तुम्, तत् संवृत्यापि नास्तीत्युच्यते। नीलादिकमपि नास्तीत्युच्यते। यथोक्तं रत्नावल्याम् -

रूपस्याभावमात्रत्वादाकाशं नाममात्रकम्।
भूतैर्विना कुतो रूपं नाममात्रकमप्यतः॥इति॥

अपि च। कुतो माध्यमिकानां स्वभावरूपं सिद्धसत्ताकं यस्य अवस्थाविशेष उत्पादः स्यात्? अतः अयुक्तमेव दृष्टान्तासिद्धतोद्भावनम्। यच्चोक्तम् - न सहेतुको विनाशः, अविनाशवत्त्वात्, यथा असंस्कृतमिति, तस्यैवं ब्रुवतो महान्तं विरोधमयं हेतुराभवति। यथा हि अयं हेतुर्विनाशस्य निर्हेतुकत्वं साधयति, एवं संस्कृतलक्षणत्वाभावमपि साधयति। तथा संस्कारस्कन्धसंग्रहप्रतीत्यसमुत्पादाङ्ग संग्रहादिकमपि सर्वं विरोधयतीति न युक्तमेतन्मतम्। तथा । न विज्ञानं विषयस्वरूपच्छेदकम्, अविज्ञानवत्त्वात्, असंस्कृतवत्, इत्यादिना सर्वनिषेधान्महती अनिष्टापत्तिरुपपद्यतेऽस्य, इति नास्थेयमेतत्॥४॥

इदानीं विभवेन सह यथा संभवस्य नास्ति सिद्धिः, तथा प्रतिपादयन्नाह -

संभवो विभवेनैव कथं सह भविष्यति।
न जन्ममरणं चैव तुल्यकालं हि विद्यते॥५॥

यदि हि संभवो विभवेनैव सह स्यात्, तदा जन्ममरणयोस्तुल्यकालता स्यात्। न च [सा] संभवति। तस्मात् सहभावेनापि संभवविभवयोर्नास्ति सिद्धिः॥५॥

अथ स्यात् - यद्यपि जन्ममरणयोरेकीभावेन वा नानाभावेन वा नास्ति सिद्धिः, तथापि विद्येते एव संभवविभवौ, वाच्यत्वात्, विज्ञानवत्, इति। उच्यते। यदि वाच्यत्वेन अनयोः सिद्धिरिष्यते, वन्ध्यापुत्रस्यापि इष्यताम्॥

अपि च -

सहान्योन्येन वा सिद्धिर्विनान्योन्येन वा ययोः।
न विद्यते, तयोः सिद्धिः कथं नु खलु विद्यते॥६॥

सहभावासहभावरहितं नास्ति पक्षान्तरं यतः संभवविभवयोः सिद्धिः स्यात्। अवाच्यतया सिद्धिर्भविष्यतीति चेत्, केयमवाच्यता नाम? यदि मिश्रीभावः, सोऽनुपपन्नः, पृथक्पृथगसिद्धयो मिश्रीभावाभावात्। अनिर्धार्यमाणौ स्वरूपत्वात् बन्ध्यापुत्रश्यामगौरतादिवन्न स्तः एव संभवविभवाविति। यदा चैवं संभवविभवौ न स्तः, तदा तद्धेतुरपि कालो नास्तीति सिद्धम्॥६॥

किं चान्यत् - इहेमौ संभवविभवौ परिकल्प्यमानौ क्षयधर्मिणो वा भावस्य परिकल्प्येयाता मक्षयधर्मिणो वा? उभयथा च नोपपद्यते इति प्रतिपादयन्नाह -

क्षयस्य संभवो नास्ति नाक्षयस्यापि संभवः।
क्षयस्य विभवो नास्ति विभवो नाक्षयस्य च॥७॥

तत्र क्षयस्य क्षयलक्षणस्य भावस्य विरोधिधर्मसद्भावात् संभवो न युक्तः। अक्षयस्यापि भावलक्षणवियुक्तत्वात् खरविषाणस्येव संभवो न युक्तः। एवं क्षयस्य विभवो नास्ति। क्षयधर्मो हि अविद्यमानः, तस्य निराश्रयो विभवो न युक्तः। तथा विभवो नाक्षयस्य च। अक्षयधर्मो हि भावाभावलक्षणविलक्षणः। तस्य अविद्यमानस्य कुतो विभवो भविष्यति? यौ च संभवविभवौ न क्षयधर्मिणो नाक्षयधर्मिणो भावस्य संभवतः, तौ न संभवतः। इति न स्तः संभवविभवौ।७॥

अत्राह - विद्येते एव भावानां संभवविभवौ, तदाश्रयिधर्मिसद्भावात्। इह भावाश्रयौ संभवविभवौ, स च तावद् भावोऽस्ति, तत्सद्भावात् तदाश्रितावपि धर्मौ भविष्यतः इति। उच्यते। स्यातां भावाश्रितावेतौ धर्मौ, यदि भावः स्यात्। यदा तु भावो नास्ति, तदा -

संभवो विभवश्चैव विना भावं न विद्यते।
कस्मात्पुनर्भावो नास्तीति चेत्, यस्मात् -

संभवं विभवं चैव विना भावो न विद्यते॥८॥

भावस्य हि लक्षणभूतौ संभवविभवौ, तौ च स्वरूपतो न स्तः इति प्रतिषिद्धौ। यदा च तौ भावतः प्रतिषिद्धौ, तदा भावलक्षणं संभवं विभवं च विना कुतो भावलक्षणविलक्षणो भावो भविष्यति? भावं च विना न स्तः संभवविभवौ॥

अपरे तु पूर्वार्धं पश्चिमं कृत्वा व्याचक्षते। स्तः एव संभवविभवौ, भावधर्मत्वात्। इह यन्नास्ति, न तस्यास्ति भावधर्मत्वम् , तद्यथा मण्डूकजटाशिरोमणेः। भावधर्मौ च संभवविभवौ, तस्मात् स्तः एव तौ इति। यदि कस्यचित् परमार्थतः संभवविभवौ स्याताम्, स भाव इति युक्तं स्यादभिधातुम्। तौ च न स्तः, इति

संभवं विभवं चैव विना भावो न विद्यते।
भावस्य संभवविभवसत्त्वे विद्यमानत्वात्, इति भावः। तदसत्त्वे च हेतोरसिद्धार्थता। तथा -

संभवो विभवश्चैव विना भावं न विद्यते॥

आश्रयस्याभावादाश्रितस्य असिद्धिः इत्यभिसंधिरिति॥८॥

किं चान्यत् - इहेमौ संभवविभवौ परिकल्पमानौ शून्यस्य वा भावस्य परिकल्प्येयाता - मशून्यस्य वा? उभयथा च नोपपद्यते इति प्रतिपादयन्नाह -

संभवो विभवश्चैव न शून्यस्योपपद्यते।
अविद्यमानाश्रयत्वादाकाशचित्रवदित्यभिप्रायः। तथा -
संभवो विभवश्चैव नाशून्यस्योपपद्यते॥९॥

अशून्यस्य असत्त्वात् निराश्रयौ संभवविभवौ नोपपद्यतः॥९॥

किं चान्यत् - इह यदि संभवविभवौ स्याताम्, तौ एकत्वेन वा स्यातामन्यत्वेन वा/ उभयथा च नोपपद्यते इत्याह -

संभवो विभवश्चैव नैक इत्युपपद्यते।
परस्परविरुद्धयोरालोकान्धकारयोरिवैकत्वानुपपत्तेः।
संभवो विभवश्चैव न नानेत्युपपद्यते॥१०॥

उभयोः परस्परमव्यभिचारित्वात्। न हि संभवरहितस्य विनाशः, न विभवरहितस्य संभवो दृष्ट इति। एवमुभयोः परस्परमव्यभिचारित्वात्
संभवो विभवश्चैव न नानेत्युपपद्यते॥

अथ स्यात् - किमनया सूक्ष्मेक्षिकया? आगोपालाङ्गनादिको हि जनः यस्मात् संभवं विभवं च पश्यति, तस्मात् स्तः संभवविभवौ। न हि अविद्यमानो वन्ध्यातनयः शक्यो द्रष्टुमिति। एवमपि -

दृश्यते संभवश्चैव विभवश्चैव ते भवेत्।

उच्यते। अनैकान्तिकमेतत्। न हि यद् यद् लोकेनोपलभ्यते तस्य तस्य अस्तित्वम्।
तथा हि आगोपालाङ्गनादिको जनो गन्धर्वनगरमायास्वप्नालातचक्रमरीचिकासलिलादिकमविद्यमान मपि पश्यति इन्द्रियोपघातात्, एवमिमावपि संभवविभवौ असन्तौ मोहादेव पश्यतीत्याह-

दृश्यते संभवश्चैव मोहाद्विभव एव च॥११॥

अथ कस्मात् पुनरेतदेवं निश्चीयते - अविद्यमानस्वरूपाविमौ संभवविभवौ मोहादेव वारलोकेन दृश्येते इति। युक्त्या ह्येतदेवं निश्चीयते। का पुनरत्र युक्तिः? इह यदि कश्चिद् भावो नाम भवेत्, नियतं स भावाद्वा जायेत अभावाद्वा। तथा यदि अभावो नाम कश्चित्, सोऽपि भावाद्वा जायेत अभावाद्वा। उभयथा च उभयोरप्यसंभवः इत्याह -

न भावाज्जायते भावो भावोऽभावान्न जायते।
नाभावाज्जायतेऽभावोऽभावो भावान्न जायते॥१२॥

भावात् तावत् संभवाख्याद् भावस्य संभवाख्यस्य उत्पादो न विद्यते, कार्यकारणयोर्यौग पद्याभावात्, उत्पादस्य च लब्धजन्मनः पुनरुत्पादवैयर्थ्यात्। अभावादपि भावो न जायते। किं कारणम्? अभावो हि नाम विभवो विनाशः। स च भावविरुद्धः। तस्माद्भावविरुद्धात् कथं भावः स्यात्? यदि स्यात्, तदा वन्ध्यादुहितुरपि पुत्रः स्यात्। न चैतदेवमिति। तस्मादभावादपि भावो न भवति। इदानीमभावोऽप्यभावान्न भवति। भावनिवृत्तिरूपो हि अभावः, तत कुतोऽस्य कार्यकरणसामर्थ्यम्? यदि स्यात्, निर्वाणस्यापि कार्यकरणसामर्थ्यं स्यात्। यदि च अभावादभावः स्यात्, तदा वन्ध्यादुहितुरपि पुत्रः स्यात्। न चैतदेवमिति। तस्मादभावादप्य भावो न भवति। इदानीं भावादप्यभावो न भवति। भावविरुद्धो ह्यभावः। स कथं भावाद्भवेत्। यदि भवेत्, प्रदीपादन्धकारः स्यात्। यतश्चैवं विचार्यमाणौ संभवविभवौ न स्तः, तस्मान्मोहादेव लोकेन दृश्येते इति विज्ञेयम्॥

अथवा। अयमन्यः पूर्वपक्षः - इह हि यदि संभवविभवौ स्याताम्, तौ भावाश्रयौ वा स्यातामभावाश्रयौ वा। तौ च भावाभावौ सर्वथा विचार्यमाणौ न संभवतः। ततश्च कुतो निराश्रयौ संभवविभवाविति? अतः -

दृश्यते संभवश्चैव मोहाद्विभव एव च।
इति विज्ञेयम्। यथा च भावाभावौ न संभवतः, तथा प्रतिपादयन्नाह -

न भावाज्जायते भावो भावोऽभावान्न जायते।
नाभावाज्जायतेऽभावोऽभावो भावान्न जायते॥
अस्यार्थः पूर्ववत्॥१२॥

अपि च। यदि कश्चिद् भावो नाम स्यात्, तस्य उदयव्ययवत्त्वात् संभवविभवौ स्याताम्। न च कश्चिद् भावः स्वरूपतोऽस्ति खरविषाणवत् स्वभावानुत्पन्नत्वात्। अनुत्पन्नत्व मसिद्धमिति चेत्, तत् सिद्धम्, यस्मात् -

न स्वतो जायते भावः परतो नैव जायते।
न स्वतः परतश्चैव जायते, जायते कुतः॥१३॥

एतच्च आद्य एव प्रकरणे व्याख्यातत्त्वान्न पुनर्व्याख्यायते। यश्चैवं यथोक्तप्रकारेण जायते स इदानीं कुतो जायते? नैव कुतश्चिज्जायते इत्यभिप्रायः। अवश्यं चैतदेवमभ्युपेयम् - सर्वथा नास्ति भावस्योत्पाद इति॥१३॥

भावसद्भावताभ्युपगमे च भवतः शाश्वतोच्छेददर्शनमापद्यते बौद्धमतानुगस्येत्याह - भावमभ्युपपन्नस्य शाश्वतोच्छेददर्शनम्।
प्रसज्यते
यस्मात् ,
स भावो हि नित्योऽनित्योऽथ वा भवेत्॥१४॥

यो हि यथोदितपदार्थव्यवस्थामतिक्रम्य भावसद्भावदर्शनमभ्युपैति, तस्य अवश्यं प्रवचना त्यन्तविरुद्धं शाश्वतोच्छेददर्शनद्वयमापद्यते। किं कारणम्? यस्मात् स भावः परिकल्प्यमानः नित्यो वा भवेदनित्यो वा। यदि नित्यः, तदा नियतं शाश्वतवादः। अथ अनित्यः, तदा नियतमुच्छेद इति॥१४॥

अत्राह -
भावमभ्युपपन्नस्य नैवोच्छेदो न शाश्वतम्।
किं कारणम्? यस्मात् -
उदयव्ययसंतानः फलहेत्वोर्भवः स हि॥१५॥

यो हि हेतुफलयोरुदयव्ययानुप्रबन्धः, स हि अस्माकं भवः संसारः। तत्र यदि हेतुर्निरुध्येत, तद्धेतुकं फलं नोत्पद्येत, तदा स्यादुच्छेदवाददोषः। यदि च हेतुर्न निरुध्येत, स्वरूपेणावतिष्ठेत्, तदा स्याच्छाश्वतवाददर्शनदोषः। न चैतदेवमिति। तस्माद् भावाभ्युपगमेऽपि नास्ति शाश्वतोच्छेददर्शनदोषद्वयप्रसङ्गः। स एव संसारः योऽयं हेतुफलाविच्छिन्नक्रमवर्ती उत्पादव्ययानुप्रबन्धः संस्काराणामिति। अतो नास्ति अस्माकमयं दोष इति॥१५॥

उच्यते -

उदयव्ययसंतानः फलहेत्वोर्भवः स चेत्।
ननु एवमपि -
व्ययस्यापुनरुत्पत्तेर्हेतूच्छेदः प्रसज्यते॥१६॥

यो हि हेतुक्षणः फलस्योत्पत्तौ हेतुभावमुपेत्य निरुध्यते , ननु तस्य व्ययवतो हेतुक्षणस्य पुनरनुत्पादादुच्छेददर्शनमापद्यते। तवायं कथं न दोष इति चेत्, भावमभ्युपपन्नस्य अयं दोषः। न च मया भावोऽभ्युपगतः, स्वभावानुत्पन्नत्वात् सर्वधर्माणाम्। यत्रापि मया -

प्रतीत्य यद्यद्भवति न हि तावत्तदेव तत्।
न चान्यदपि तत्तस्मान्नोच्छेदो नापि शाश्वतम्।।
इत्युक्तम्, तत्रापि अमुना न्यायेन नैःस्वाभाव्यमेव भावानां प्रतिपादितम्। अन्यथा हि सति भावस्वरूपे बीजाङ्कुरयोः कथमन्यत्वं न स्यात्? तस्मान्नायं प्रसङ्गोऽस्माकं बाधक इति॥१६॥

एवं तावद् भावमभ्युपपन्नस्य हेतोः पुनरनुत्पादादुच्छेददर्शनप्रसङ्गमुद्भाव्य इदानीं शाश्वतवादे दोषप्रसङ्गमुद्भावयन्नाह -

सद्भावस्य स्वभावेन नासद्भावश्च युज्यते।
यदि हि हेतोः सद्भावः स्वभावतः स्यात्, तस्य पश्चादसद्भावो न स्यात् स्वभावस्या नपायित्वात्। ततश्च शाश्वतदर्शनप्रसङ्गः तदवस्थ एव॥
किं चान्यत् -

निर्वाणकाले चोच्छेदः प्रशमाद्भवसंततेः॥१७॥

यद्यपि हेतुफलयोरुदयव्ययसंतानप्रवृत्त्या शाश्वतोच्छेददर्शनप्रसङ्गः परिह्रियते, तथापि यत्रास्य संतानस्य पुनरप्यप्रवृत्तिः, तत्र निर्वाणे नियतमुच्छेददर्शनमापद्यते। उच्छेददर्शनं च प्रहातव्यमित्युक्तं भगवता। एवंविधमुच्छेददर्शनं न भविष्यतीति चेत्, अन्यदपि किमर्थं भवता भविष्यतीति भावविच्छेदालम्बनत्वात्, निर्वाणकाले भावविच्छेदालम्बनवदित्यभिप्रायः॥

यच्चोक्तम् -
उदयव्ययसंतानः फलहेत्वोर्भवः स हि।

इति, तदपि नोपपद्यते। कथं कृत्वा? इह हि चरमो भवो निवृत्तिलक्षणः, प्रथमो गतिप्रतिसंधिलक्षणः। तत्र चरमो भवो निरुध्यमानो हेतुत्वेनावतिष्ठते। उपपत्तिलक्षणस्तु प्रथमो भवः फलरूपत्वेन व्यवतिष्ठते। अनयोश्च भवयोः संसार इति संज्ञा कृता॥१७॥

अत्र च इदं विचार्यते - य एष प्रथमो भवः फलरूपत्वेन व्यवस्थाप्यते, स किं चरमे भवे निरुद्धे उपजायते, अथानिरुद्धे, उत निरुध्यमाने, यतो हेतुफलानुप्रबन्धात् संसारः स्यात्? सर्वथा च विचार्यमाणो न संभवतीति प्रतिपादयन्नाह -

चरमे न निरुद्धे च प्रथमो युज्यते भवः।
चरमे नानिरुद्धे च प्रथमो युज्यते भवः॥१८॥

तत्र यदि चरमे भवे निरुद्धे प्रथमो भवो जायते इति परिकल्प्यते, तदा निर्हेतुक स्यात्। दहनदग्धबीजादपि अङ्कुरोदयः स्यात्। न चैतदिष्टम्। तस्माच्चरमे निरुद्धे प्रथमो भवो न युज्यते॥

इदानीमनिरुद्धेऽपि चरमे भवे प्रथमो भवो न युज्यते। यदि स्यात्, निर्हेतुकः स्यात्, द्विरूपता च एकस्य सत्त्वस्य स्यात्, अपूर्वसत्त्वप्रादुर्भावश्च, पूर्वस्य च नित्यता स्यात्, अविनष्टे च बीजे अङ्कुरोदयः स्यात्। न चैतदेवमिष्टमिति। अतः -

चरमे नानिरुद्धे च प्रथमो युज्यते भवः।
इति स्थितम्॥१८॥

इदानीं निरुध्यमानेऽपि चरमे भवे प्रथमो भवो यथा नोपपद्यते तथा प्रतिपादयन्नाह -
निरुध्यमाने चरमे प्रथमो यदि जायते।
निरुध्यमान एकः स्याज्जायमानोऽपरो भवेत्॥१९॥

तत्र निरुध्यमानो वर्तमानो वर्तमानप्रत्ययान्तवाच्यत्वात्, जायते इत्यपि वर्तमान एवोच्यते वर्तमानशब्दवाच्यत्वात्। अथवा निरुध्यमानो निरोधक्रियाकारकः। यश्चापि जायते, असावपि जनिक्रियाकारकः, तौ च एककालाविष्यमाणौ यौगपद्येनैव स्तः। ततश्च निरुध्यमानः एको भवः स्यात्, जायमानश्चापर इति यौगपद्येनैव द्वौ भवौ प्राप्नुतः। न चैकस्य युगपद् द्वौ भवौ संभवतः इत्युक्तमेतत्॥१९॥

तदेवं यथोक्तेन विचारकमेण -

न चेन्निरुध्यमानश्च जायमानश्च युज्यते।
सार्धं च म्रियते येषु तेषु स्कन्धेषु जायते॥२०॥

चशब्दः समुच्चयार्थः। पृथक्पृथक् चेति एतत्संनिधापयति। यदा एवं यथोदितन्यायेन निरुद्धे चरमे प्रथमो भवो न संभवति, अनिरुद्धेऽपि चरमे प्रथमो भवो न संभवति, सार्धं चैकस्मिश्च काले चरमेन भवेन सह प्रथमो भवो न संभवति, तत् किमिदानीं येषु एव स्कन्धेषु म्रियते तेषु एव जायते इति स्यात्। येषु स्कन्धेषु स्थितो म्रियते, तेष्वेव जायते इति अत्यन्त विरुद्धमेतत्। न हि म्रियमाणो जायते इति दृष्टम्॥२०॥

तत् -
एवं त्रिष्वपि कालेषु न युक्ता
भवदभिमता
भवसंततिः।
चरमे भवे निरुद्धेऽनिरुद्धे निरुध्यमाने यस्मात् प्रथमो भवो न संभवति, तस्मात् त्रिष्वपि कालेषु भवसंतिर्नास्ति।

त्रिषु कालेषु या नास्ति सा कथं भवसंततिः॥२१॥
या च इदानीं त्रिषु कालेषु नास्ति, कुतः सा अन्येनात्मना भविष्यतीति सर्वथा नास्ति भवन्मता भवसंततिः। ततश्च यदुक्तम् -
उदयव्ययसंतानः फलहेत्वोर्भवः स हि।

इति, तन्न युक्तम्। ततश्च भावाभ्युपगमे सति स एव शाश्वतोच्छेदवादप्रसङ्गो दुर्निवारो भवताम्, इत्यतो नास्त्येव भावानां स्वभावत उत्पत्तिरिति सिद्धम्। यथोक्तमार्यसमाधिराजभट्टारके -

तथा -
बीजस्य सतो यथाङ्कुरो
न च यो बीजु स चैव अङ्कुरो।
न च अन्यु ततो न चैव त -
देवमनुच्छेद अशाश्वत धर्मता॥

मुद्रात्प्रतिमुद्र दृश्यते
मुद्रसंक्रान्ति न चोपलभ्यते।
न च तत्र न चैव सान्यतो
एवं संस्कार अनुच्छेदशाश्वताः॥

अत एवोक्तमार्यनागार्जुनपादैः
स्वाध्यायदीपमुद्रादर्पणघोषार्ककान्तबीजाम्रैः।
स्कन्धप्रतिसंधिरसंक्रमश्च विद्वद्भिरवधार्यौ॥ इति।
तथा भगवान् -
जायते च्यवते चापि न च जातिर्न च च्युतिः।
यस्य विजानत एष समाधिर्नास्य दुर्लभः॥इति।

तथा -
सूसुखिता सद ते नर लोके
येहि अचिन्तिय ज्ञातिभि धर्माः।
न च धर्म अधर्म विकल्पो
चित्तपपञ्च विभावित सर्वि॥

भाव अभाव विभावयि ज्ञानं
सर्वमचिन्तयि सर्वमभूतम्।
ये पुन चित्तवशानुग बाला -
स्ते दुखिता भवकोटिशतेषु॥

योऽपि च चिन्तयि शून्यकधर्मान्
सोऽपि कुमार्गपपन्नकु बालः।
अक्षर कीर्तित शून्यक धर्मा -
स्ते च अनक्षर अक्षर उक्ताः॥

शान्त पशान्त य चिन्तयि धर्मान्
सोऽपि च चित्तु न जातु न भूतः।
चित्तवितर्कण सर्वि पपञ्चाः
सूक्ष्म अचिन्तिय बुध्यथ धर्मान्॥

इति॥२१॥

इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ
संभवविभवपरीक्षा नाम एकविंशतितमं प्रकरणम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project