Digital Sanskrit Buddhist Canon

विंशतितमं प्रकरणम्

Technical Details
  • Text Version:
    Devanāgarī
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

Viṁśatitamaṁ prakaraṇam

२०
सामग्रीपरीक्षा विंशतितमं प्रकरणम्।

अत्राह - विद्यते कालः, फलप्रवृत्तौ सहकारिकारणभावात्। यो नास्ति, नासौ सह कारिकारणभावेन प्रतिपद्यते, वन्ध्यातनयवत्। तस्मादस्ति कालः, सहकारिकारणभावात्। इह बीजावनिसलिलज्वलनपवनगगनाभिधानहेतुप्रत्ययसामग्रीं प्रतीत्य अयमङ्कुर उपजायमानः सत्यामपि बीजादिप्रत्ययसामग्र्याम्, ऋतुविशेषासंनिधानान्नोपजायते। यथा च बाह्येषु, एवमाध्यात्मिकेष्वपि। यथोक्तं भगवता -

न प्रणश्यन्ति कर्माणि कल्पकोटिशतैरपि।
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्॥इति॥

यस्माच्च एवमस्ति कालापेक्षा, तस्मादस्त्यसौ कालो नाम, यः अङ्कुरादिप्रवृत्तौ सहकारिकारणं भवतीति। उच्यते। स्यात् सहकारिकारणता कालस्य, यदि अङ्कुरादिफलस्य प्रवृत्तिरेव स्यात्। न त्वस्ति। कथं कृत्वा? इह बीजादिहेतुप्रत्ययसामग्रीतोऽङ्कुरादिफलोदये परिकल्प्यमाने व्यवस्थितस्य वा फलस्य सामग्र्यां सत्यांतत उत्पादः परिकल्प्येत अव्यवस्थितस्य वा? किं चातः? यदि तावद् व्यवस्थितस्य परिकल्प्यते, तन्न युज्यते इति प्रतिपादयन्नाह -

हेतोश्च प्रत्ययानां च सामग्र्या जायते यदि।
फलमस्ति च सामग्र्यां सामग्र्या जायते कथम्॥१॥

यदि हेतुप्रत्ययसामग्र्यां त्वन्मतेन फलमस्ति, ननु एवं सति यस्मात् सामग्र्यामस्ति, कथं तया तज्जन्यते? न हि कुण्डे दधि विद्यमानं कुण्डेन जन्यते। अपि च। यद्विद्यते तन्निष्पन्नत्वात् निष्पन्नपुरोवस्थितघटवत् न पुनर्जन्मापेक्षते। अभिव्यक्तिः स्थौल्यं वा सूक्ष्मात्मना विद्यमानस्य क्रियत इति चेत्, तस्यापि पक्षस्य पूर्वमेव -

आगच्छत्यन्यतो नाग्निरिन्धनेऽग्निर्न विद्यते।

इत्यत्रोक्तमुत्तरम्॥१॥
अथ नास्त्येव सामग्र्यां फलमिति परिकल्प्यते, एतदपि नोपपद्यते इति प्रतिपादयन्नाह -
हेतोश्च प्रत्ययानां च सामग्र्या जायते यदि।
फलं नास्ति च सामग्र्यां सामग्र्या जायते कथम्॥२॥

यदि हेतोश्च प्रत्ययानां च सामग्र्यां नास्ति तत्फलम्, कथं तर्हि हेतुप्रत्ययसामग्र्या फलं जन्यते? तत्र अविद्यमानत्वात् सिकताभिरिव तैलम्। अत एव असंभावयन्नाह -

फलं नास्ति च सामग्र्यां सामग्र्या जायते कथम्।
न तत्फलं सामग्रीतो जायते इत्यभिप्रायः॥२॥

किं चान्यत् -

हेतोश्च प्रत्ययानां च सामग्र्यामस्ति चेत्फलम्।
गृह्येत ननु सामग्र्यां सामग्र्यां च न गृह्यते॥३॥

यद् यत्र अस्ति, तत् तत्र गृह्यते, तद्यथा कुण्डे दधि। यच्च यत्र नास्ति न तत्तत्र गृह्यते तद्यथा सिकतासु तैलम्, मण्डूकजटायां शिरोमणिः॥

अथ स्यात् - विद्यमाना अपि पदार्थाः अतिसौक्ष्म्यात्, अतिसंनिकर्षात्, अतिविप्रकर्षात्, इन्द्रियोपघातात्, मूर्तिवद्द्रव्यव्यवधानात्, मूर्त्यन्तर्धानात्, मनोनवस्थानात्, परमाणुवत् अक्षस्थाञ्जनशलाकावत् आदित्यगतिवत् तैमिरिकैकैककेशवत् अन्धबधिरादिरूपशब्दादिवत् कुडयादिव्यवहितघटादिवत् सिद्धदेवपिशाचादिशरीरवत् विषयान्तरव्यापृतस्य विषयान्तरवन्न गृह्यते इति चेत्, किं खलु एषामगृह्यमाणानामस्तित्वे लिङ्गम्, येन एषामस्तित्वे सति अनुपलब्धिरिति स्यात्? अनुमानोपमानागमैर्ग्रहणादेषामस्तित्वमिति चेत्, न तर्हि तेषामनुपलब्धिरिति वक्तव्यम्, अनुमानादिभिरुपलभ्यमानत्वात्। यद् रूपीन्द्रियग्राह्यं तद् एभिः कारणैर्विद्यमानमपि सन्न गृह्यते, इति चेत्, उच्यते। किमस्माभिरेवमुक्तम् - रूपीन्द्रियैर्विद्यमानं सद् गृह्येतेति? किं तर्हि सामान्येनैव यद् ब्रूमः - गृह्येत ननु सामग्र्यामिति॥

अथापि मन्यसे - यद् यत्र नास्ति, न तत् तस्मादुत्पद्यते सिकताभ्यस्तैलवत्। उत्पद्यते च सामग्रीतः फलम्, तस्मादनुमानतः सामग्र्यां फलस्यास्तित्वमिति। उच्यते। यद् यत्र अस्ति, न तत् तस्मादुत्पद्यते, तद्यथा कुण्डाद् दधि इति। अस्मादप्यनुमानादस्तित्वमस्य अयुक्तमिति कृत्वा नास्त्येव सामग्र्यां फलमिति किं न गृह्यते?

अथापि स्यात् - उभ्योरपि पक्षयोरनुमानविरोधाद् यथा अस्तित्वं न युक्तम्, एवं नास्तित्वमपीति। उच्यते। न वयमस्यासत्त्वं प्रतिपादयामः, किं तर्हि परपरिकल्पितं सत्त्वमस्य निराकुर्मः। एवं न वयमस्य सत्त्वं प्रतिपादयामः, किं तर्हि परपरिकल्पितमसत्त्वमस्य अपाकुर्मः। अन्तद्वयपरिहारेण मध्यमायाः प्रतिपदः प्रतिपादयितुमिष्टत्वादिति। उक्तं च आर्यदेवपादीये शतके -

स्तम्भादीनामलंकारो गृहस्यार्थे निरर्थकः।
सत्कार्यमेव यस्येष्टं यस्यासत्कार्यमेव च॥ इति।

तदेवं न सामग्रीतः फलमुत्पद्यते विद्यमानस्य ग्रहणप्रसङ्गात्, इति व्यवस्थितम्॥३॥

अथ मन्यसे - नास्त्येव सामग्र्यां फलमिति, एवमपि -

हेतोश्च प्रत्ययानां च सामग्र्यां नास्ति चेत्फलम्।
हेतवः प्रत्ययाश्च स्युरहेतुप्रत्ययैः समाः॥४॥

यथा हि ज्वालाङ्गारादिषु अङ्कुरो नास्तीति कृत्वा तस्य ते हेतुप्रत्यया न भवन्ति, एव विवक्षितानामपि बीजादीनां हेतुप्रत्ययता न स्यात् तेषु अङ्कुरो नास्तीति कृत्वा। न च अहेतु प्रत्ययेभ्यः फलप्रवृत्तिर्युक्तेति नास्ति स्वभावतः फलप्रवृत्तिः॥

अत्राह - नैव हि सामग्र्याः फलोत्पादनसामर्थ्यमस्ति यतः इयं चिन्ता स्यात् - किं सामग्र्यां फलमस्ति उताहो नास्तीति। किं तर्हि हेतोः फलोत्पादनसामर्थ्यम्। सामग्री तु हेतोरनुग्रहमात्रं करोति। स हेतुः फलस्योत्पत्त्यर्थं हेतुं दत्वा निरुध्यते, तेन च हेतुना अनुगृह्यमाणं फलमुत्पद्यते इति। उच्यते। नैव हि अजातस्य फलस्य हेतोरनुग्रहणमस्ति। न चाप्यजातस्य बन्ध्यातनयस्येव केनचित्किंचिन्मात्रं कर्तुं शक्यमित्ययुक्तैषा कल्पना॥४॥

अपि च -
हेतुकं फलस्य दत्वा यदि हेतुर्निरुध्यते।
यद्दत्तं यन्निरुद्धं च हेतोरात्मद्वयं भवेत्॥५॥

यदि हेतुः फलस्योत्पत्त्यर्थं हेतुकं कारणं दत्वा निरुध्यत इति परिकल्प्यते, एवं सति यद्दत्तं यन्निरुद्धं च तदात्मभावद्वयं हेतोः स्यात्। न चैतद् युक्तम्, अर्धशाश्वतप्रसङ्गात् नित्यानित्ययोश्च परस्परविरुद्धयोरेकत्वाभावात्॥५॥

अथ हेतोरात्मभावद्वयप्रसङ्गपरिहारार्थं सर्वात्मना निरोध इष्यते फलस्योत्पत्त्यर्थं किंचिदप्यदत्वा, एवमपि -

हेतुं फलस्यादत्वा च यदि हेतुर्निरुध्यते।
हेतौ निरुद्धे जातं तत्फलमाहेतुकं भवेत्॥६॥

यदि फलस्य किंचिदप्यदत्वा सर्वात्मना हेतुर्निरुध्यते, ननु तस्मिन् हेतौ निरुद्धे यत्फलमुत्पद्यते तत् आहेतुकं स्यात्। न च आहेतुकमस्ति। इत्ययुक्तैषा कल्पना॥६॥

अत्राह - यदि एवं फलस्य हेतोरुत्पत्तौ दोषः, एवं सति सहोत्पन्नैव सामग्री फलस्य जनिका अस्तु, तद्यथा प्रदीपप्रभाया इति। एषापि कल्पना नोपपद्यते इति प्रतिपादयन्नाह -

फलं सहैव सामग्र्या यदि प्रादुर्भवेत्पुनः।
एककालौ प्रसज्येते जनको यश्च जन्यते॥७॥

न चैककालयोः सव्येतरगोविषाणयोर्जन्यजनकत्वं दृष्टम्, वामदक्षिणकरयोश्चरणयोर्वा, इत्ययुक्तैषा कल्पना इत्ययुक्तमेतत्॥७॥

अत्राहुरेके - नैव हि अभूत्वा भावानामुत्पत्तिर्युक्ता आकस्मिकत्वप्रसङ्गात्। तस्माद् हेतुप्रत्ययसामग्रीतः पूर्वमेव तत् फलमनागतावस्थायां व्यवस्थितमनागतात्मना। तस्य हेतुप्रत्यय सामग्र्या वर्तमानावस्था जन्यते, द्रव्यं तु व्यवस्थितमेवेति। तान् प्रत्युच्यते -

पूर्वमेव च सामग्र्याः फलं प्रादुर्भवेद्यदि।
हेतुप्रत्ययनिर्मुक्तं फलमाहेतुकं भवेत्॥८॥

यदि भवतामभीप्सितं सामग्रीतः पूर्वमेव फलं स्वरूपतः स्यादिति, तद् हेतुप्रत्ययनिरपेक्षं स्यात्, ततश्च आहेतुकं स्यात्। न च आहेतुकानां पदार्थानामस्तित्वं युक्तम् , खरतुरगोरगविषाणादीनामप्यस्तित्वप्रसङ्गात् , पूर्वसिद्धस्य च पुनः हेतुप्रत्ययापेक्षया निष्प्रयोजनत्वादित्ययुक्तमेतत्॥८॥

अन्ये पुनर्वर्णयन्ति - हेतुरेव फलं जनयति न सामग्री। न च उक्तदोषप्रसङ्गः। यस्मात् न हि अन्योहेतुः अन्यत् फलम्। यतः, किं हेतुं दत्वा फलस्य हेतुर्निरुध्यते उत अदत्वैवेति विचारः स्यात्। अपि तु हेतुरेव निरुद्धः फलात्मना व्यवस्थितः इति। उच्यते। एवमपि -

निरुद्धे चेत्फलं हेतौ हेतोः संक्रमणं भवेत्।
पूर्वजातस्य हेतोश्च पुनर्जन्म प्रसज्यते॥९॥

यदि निरुद्धे हेतौ भवन्मतेन फलमुत्पद्यते, तच्च फलं हेत्वात्मकमेव भवतीति परिकल्प्यते, एवं सति हेतोः संक्रमणं भवेत्, नटस्य वेषान्तरपरित्यागेन वेषान्तरसंचारवत् हेतोः संक्रमण मात्रमेव स्यात्, न तु अपूर्वस्य फलस्योत्पादः। ततश्च हेतोर्नित्यतैव स्यात्। न च नित्याना मस्तित्वं क्कचिदस्ति। यथोक्तं शतके -

अप्रतीत्यास्तिता नास्ति कदाचित्कस्यचित्क्कचित्।
न कदाचित्क्कचित्कश्चिद्विद्यते तेन शाश्वतः॥इति॥

किं च। एतस्यां कल्पनायां पूर्वजातस्य च हेतोः पुनर्जन्म प्राप्नोति। न च जातस्य पुनरपि [जन्म] युज्यते निष्प्रयोजनत्वात्, अनवस्थाप्रसङ्गाच्च॥

अथ मन्यसे - येनात्मना विद्यमानो न तेनैवात्मना जायते, येन चात्मना अविद्यमानः तेनैव जायत इति। एतदपि न युक्तम्। अपरित्यक्तहेतुस्वभावस्य हेतुस्वरूपस्य फलमिति संज्ञामात्रभेदादवस्थाभेदाच्च द्रव्याभेदस्य साधयितुमशक्यत्वात्। फलावस्थायां च परित्यक्तहेतुस्वभावस्य फलशब्दवाच्यत्वाद् हेतुः फलात्मना तिष्ठतीति यत्किंचिदेतत्॥९॥

किं चान्यत् - यदि हेतुः फलं जनयेत्, निरुद्धो वा जनयेदनिरुद्धो वा? फलमपि उत्पन्नं वा जनयेदनुत्पन्नं वा? उभयथा च नोपपद्यते इति प्रतिपादयन्नाह -

जनयेत्फलमुत्पन्नं निरुद्धोऽस्तंगतः कथम्।
तिष्ठन्नपि कथं हेतुः फलेन जनयेद्धृतः॥१०॥

[ यदि तावत निरुद्धः अस्तंगतः हेतुः उत्पन्नं सत् विद्यमानं फलं जनयतीति परिकल्प्यते, तन्नोपपद्यते। कस्मादिति चेत्, कथं निरुद्धः असंविद्यमानः हेतुः फलं जनयेत्? यदि जनयति, वन्ध्यापुत्रोऽपि पुत्रं जनयिष्यति। फलं च सद् विद्यमानमपि जन्मनिरपेक्षमपि कथं हेतुर्जनयि ष्यति? अथ मन्यसे - शक्त्यभावान्निरुद्धो न जनयति, किं तु तिष्ठन्नेव हेतुः फलं जनयिष्यतीति। उच्यते। ] तिष्ठन्नपि हेतुरविकृतरूपो विद्यमानेन फलेन वृतः संबद्धः कथं जनयेत् ? इह हि -

कारणं विकृतिं गच्छज्जायतेऽन्यस्य कारणम्।

इति कारणाभावं प्रतिपद्यमानस्य हेतोरवश्यं विकारेण भवितव्यम्। यस्तु न विक्रियते, स हेतुलक्षणयुक्त एव न भवतीति। फलेन च संबद्धः कथं जनयेत्? फलस्य विद्यमानत्वात्॥१०॥

अथ मन्यसे - विद्यमानस्य फलस्य पुनर्जनयितुमशक्यत्वात् अवृत एव असंबद्ध एव हेतुः फलेन फलं जनयिष्यतीति, एतदप्ययुक्तमित्याह -

अथावृतः फलेनासौ कतमज्जनयेत्फलम्।
यदि हेतुः फलेन असंबद्ध एवेष्यते, तदा कतमदिदानीं फलं जनयेत्? सर्वमेव वा फलं जनयेदसंबद्धत्वात्, न वा किंचिज्जनयेदसंबद्धत्वादेवेत्यभिप्रायः॥

किं चान्यत्। यदि हेतुः फलं जनयेत्, स दृष्ट्वा फलं जनयेददृष्ट्वा वा? उभयथा च न युज्यते इत्याह-

न ह्यदृष्ट्वा वा दृष्ट्वा वा हेतुर्जनयते फलम्॥११॥

तत्र यदि हेतुर्दृष्ट्वा जनयतीति परिकल्प्यते, तन्न युज्यते। यस्माद्विद्यमानमेव द्रष्टुं पार्यते नाविद्यमानम्। विद्यमानं चेत्, तन्न जन्यते विद्यमानत्वादिति। एवं तावद् हेतुः फलं दृष्ट्वा न जनयति, अदृष्ट्वापि न जनयति, सर्वस्य फलस्य हेतोर्जनकत्वप्रसङ्गात्॥

अथ किमिदं दर्शनं किं वा अदर्शनमिति? उच्यते। प्रसिद्धमेतल्लोके - उपलब्धिर्दर्शनमिति॥

ननु एतद् बीजादिषु निरिन्द्रियेषु न संभवति। संभवतु मा वा। नास्माकमयं पर्यनुयोगः किं तर्हि तस्योत्पादवादिनः। तत्र यः उत्पादवादी ब्रूयात् - दृष्ट्वा जनयतीति, स वक्तव्यः - न दृष्टमेतल्लोके यद्बीजादिकं पश्यतीति। तस्मादयुक्ता एषा कल्पना। अथ अदृष्ट्वा कल्पयेत्, एवमपि यत्किंचिददृष्टं संभवति तत्सर्वमुत्पादयेत्, न चोत्पादयति, तस्मात् न अदृष्ट्वापि जनयति। अनिष्टापत्त्या हि वयं परकल्पनां विचारयामः संसाराटवीकान्तारगिरिदरीप्रपातदुःखमालासमाकुलामा तामीव। बुद्धिपूर्वकर्तृकं च पुरुषादिकारणिनो जगदभ्युपगच्छन्तो निर्ग्रन्थाश्चैकेन्द्रियं बीजादिकं प्रतिपन्नाः प्रसङ्गान्न व्यतिवर्तन्त इति। तस्मान्नास्ति दोषः॥११॥

किं चान्यत् - यदि युष्मदभिमतं हेतोः फलस्य च अन्योन्यढौकनलक्षणं संगमनं स्यात्, स्यात्तदानीं तयोर्जन्यजनकभावः। यस्मात् न हि परस्परासंगतयोरालोकान्धकारयोः संसारनिर्वाण योर्जन्यजनकभावो दृष्ट इति। अतः अवश्यं हेतुफलभावयोर्जन्यजनकभावमिच्छता परेण संगति रभ्युपेया। सा च कालत्रयेऽपि विचार्यमाणा न संभवति। अतो हेतुः फलं न जनयति। यथा च संगतिर्नास्ति तथा प्रतिपादयन्नाह-

नातीतस्य ह्यतीतेन फलस्य सह हेतुना।
नाजातेन न जातेन संगतिर्जातु विद्यते॥१२॥

अतीतस्य तावत् फलस्य अतीतेन हेतुना सह जातु कदाचिदपि संगतिर्नास्ति, अतीत त्वेनोभयोरप्यविद्यमानत्वात्। नापि अजातेन हेतुना अतीतस्य फलस्य संगतिर्जातु विद्यते, नष्टाजातत्वेन उभयोरप्यविद्यमानत्वात्, भिन्नकालत्वाच्च। नापि जातेन वर्तमानेन हेतुना सह अतीतस्य फलस्य संगतिः संभवति, भिन्नकालत्वात्, नष्टस्य च फलस्य अविद्यमानत्वाद्वन्ध्या पुत्रेणेव देवदत्तस्येत्यभिप्रायः॥ १२॥

यथा च अतीतस्य फलस्य अतीतेन अनागतवर्तमानेन हेतुना सह न कदाचित् संगतिरस्ति, एवं वर्तमानस्यापि फलस्य त्रैकालिकेन हेतुना सह नास्ति संगतिरिति तत् प्रतिपादयन्नाह -

न जातस्य ह्यजातेन फलस्य सह हेतुना।
नातीतेन न जातेन संगतिर्जातु विद्यते॥१३॥

जातस्य फलस्य भिन्नकालत्वादजातेन च अतीतेन च हेतुना सह संगमनं नास्ति। नापि वर्तमानस्य वर्तमानेन हेतुना सह संगतिरस्ति, हेतुफलयोर्यौगपद्याभावात्, तयोश्च संगतिर्वैयर्थ्यात्। किं हि विद्यमानयोः परस्परनिरपेक्षयोः पुनः संगत्या प्रयोजनमिति नास्ति संगतिः॥१३॥

इदानीमनागतस्यापि फलस्य यथा अतीतानागतप्रत्युत्पन्नेन हेतुना सह संगमनं नास्ति तथा प्रतिपादयन्नाह -

नाजातस्य हि जातेन फलस्य सह हेतुना।
नाजातेन न नष्टेन संगतिर्जातु विद्यते॥१४॥

अजातं हि फलमसंविद्यमानम्। तस्य भिन्नकालेन वर्तमानेन अतीतेन च हेतुना सह नास्ति संगमनं भिन्नकालत्वात्। अनागतेनापि हेतुना सह नास्ति संगमनम्, उभयोरविद्यमान त्वात्॥१४॥

यदा चैवं सर्वथा हेतुफलयोः संगतिर्नास्ति, तदा -

असत्यां संगतौ हेतुः कथं जनयते फलम्।
नैव हेतुः फलं जनयति संगतेरविद्यमानत्वात् वन्ध्यापुत्रमिवेत्यभिप्रायः॥

अथापि स्यात् - सत्यामेव संगतौ हेतुः फलं जनयतीति, तदपि न युक्तम्, कालत्रयेऽपि संगत्यनुपलब्धेः। अथापि कथंचिद् हेतुफलयोः संगतिः परिकल्प्यते, एवमपि -

सत्यां वा संगतौ हेतुः कथं जनयते फलम्॥१५॥

संनिहितस्य फलस्य पुनर्जन्मवैयर्थ्यात्, असंहितानां च संगतेरयुक्तत्वात् इत्यभिप्रायः॥१५॥

किं चान्यत् -
हेतुः फलेन शून्यश्चेत्कथं जनयते फलम्।
हेतुः फलेनाशून्यश्चेत्कथं जनयते फलम्॥१६॥

योऽयं फलस्य हेतुः फलस्य जनक इष्यते, स तेन शून्यो वा भवन् फलमुत्पादयेत्, अशून्यो वा? तत्र हेतुः शून्यः फलेन रहितः फलं न जनयति, अहेतुवत् फलशून्यत्वात्। फलेन अशून्योऽपि हेतुः फलं न जनयति, विद्यमानत्वात् फलस्य, विद्यमानपुत्रं देवदत्त इव। एवं तावत् फलशून्यो वा फलाशून्यो वा हेतुः फलं न जनयति॥१६॥

यच्चापि फलमुत्पद्यते, तच्चाप्यशून्यं वा समुत्पद्यते, शून्यं वा? तत्र तावत् -

फलं नोत्पत्स्यतेऽशून्यमशून्यं न निरोत्स्यते।
अनिरुद्धमनुत्पन्नमशून्यं तद्भविष्यति॥१७॥

अशून्यं हि फलमप्रतीत्यसमुत्पन्नं स्वभावव्यवस्थितम्, तदेवंविधं फलं नैवोत्पत्स्यते स्वभावस्यानपायित्वाच्च न निरोत्स्यते। ततश्च अशून्यं तदिष्यमाणमनिरुद्धमनुत्पन्नं च स्यात्। न चैतदिष्टम्, इत्यतः अशून्यं तत्फलं न भवति, उत्पादनिरोधाभ्युपगमात्॥१७॥

इदानीं शून्यमपि तत्फलं न संभवति, अनुदयाव्ययवत्त्वप्रसङ्गात् इति प्रतिपादयन्नाह -

कथमुत्पत्स्यते शून्यं कथं शून्यं निरोत्स्यते।
शून्यमप्यनिरुद्धं तदनुत्पन्नं प्रसज्यते॥१८॥

तत्र शून्यमुच्यते यत्स्वभावेन नास्ति। यच्च वस्तु स्वभावेन नास्ति, तत् कथमुत्पत्स्यते, कथं वा निरोत्स्यते? न हि स्वभावेन अविद्यमानस्य आकाशादेः उदयव्ययौ दृष्टौ। तस्माच्छून्यमपि तत्फलमिष्यमाणमनिरुद्धमनुत्पन्नं च प्रसज्यते॥१८॥

किं चान्यत् - यदि हेतुः फलं जनयेत्, स फलादव्यतिरिक्तो वा जनयेत्, व्यतिरिक्तो वा? उभयथा च नोपपद्यते इत्याह -

हेतोः फलस्य चैकत्वं न हि जातूपपद्यते।
हेतोः फलस्य चान्यत्वं न हि जातूपपद्यते॥१९॥

तदेतत् प्रतिज्ञामात्रकमिति प्रतिपादयन्नाह -
एकत्वे फलहेत्वोः स्यादैक्यं जनकजन्ययोः।
पृथक्त्वे फलहेत्वोः स्यात्तुल्यो हेतुरहेतुना॥२०॥

यदि हेतोः फलस्य च एकत्वं स्यात्, तदा जन्यजनकयोरेकत्वमभ्युपेतं स्यात्। न चानयोरेकत्वम्, पितापुत्रयोश्चक्षुश्चक्षुर्विज्ञानयोर्बीजाङ्कुरयोश्चैक्यप्रसङ्गात्। एवं तावद् हेतोः फलस्य च एकत्वं नास्ति॥

इदानीमन्यत्वमपि नास्ति। किं कारणम्? यदि हेतोः फलस्य च भवन्मतेनाभिमतमन्यत्वं स्यात्, तदा परत्र निरपेक्षत्वाद् हेतुनिरपेक्षमेव फलं स्यात्। न चैतदेवम्, इत्यतः अन्यत्वमपि हेतोः फलस्य च न संभवति। ययोश्च एवं विचार्यमाणयोस्तत्त्वान्यत्वे न स्तः, तयोर्न कदाचिज्जन्यजनकभावः इष्यते। अतो नैव हेतुः फलं जनयति॥२०॥

किं चान्यत् - यदि हेतुः फलं जनयेत्, स तत्फलं स्वभावेन सद्भूतं वा जनयेत्, असद्भूतं वा? उभयथा च न युज्यते इत्याह -

फलं स्वभावसद्भूतं किं हेतुर्जनयिष्यति।
फलं स्वभावासद्भूतं किं हेतुर्जनयिष्यति॥२१॥

तत्र यत् फलं स्वभावेन सद्भूतं स्वभावेन विद्यमानम्, तन्न पुनर्जन्यते विद्यमानत्वात्, विद्यमानघटवत्। यदपि स्वभावेन असद्भूतं फलम्, तदपि हेतुर्न जनयति, स्वभावेन असद्भूतत्वात्, खरविषाणवत्॥

प्रतिबिम्बेनानैकान्तिकतेति चेत् , भवतु अनैकान्तिकता, नैःस्वाभाव्यं तु सिद्धं भावानाम्। ततश्च सस्वभाववादत्यागः स्यात्, अस्मद्वादानुवर्णनमेव स्यात्। सस्वभावश्च न कश्चित् पदार्थो नाम अस्तीति प्रतिद्वन्द्वयभावात् निःस्वभावोऽपि पदार्थो नास्तीति कुतोऽनैकान्तिकता? न हि अस्माकं प्रतिबिम्बकं सस्वभावं नापि निःस्वभावम्, धर्मिणमन्तरेण तद्धर्मयोरप्यभावात्। न हि आर्याः प्रतिबिम्बकं नाम किंचित् निःस्वभावं सस्वभावं वा उपलभन्त इति॥

तत्र पूर्वं फलं नोत्पत्स्यते इत्यादिना श्लोकद्वयेन साक्षादुत्पत्तिक्रियाकर्तृत्वं फलस्य निषिद्धम्। इदानीं हेतोः फलोत्पत्तिक्रियाप्रयोजकत्वं प्रतिषिद्धमिति। अयमस्य पूर्वकाद्विशेष इति विज्ञेयम्॥२१॥

अत्राह - यद्यपि हेतोः फलोत्पत्तिक्रियाप्रयोजकत्वं निषिद्धम्, तथापि हेतुस्तावत् स्वभावतोऽस्ति, न च असति फले हेतोर्हेतुत्वं सिध्यति, तस्मात् फलमपि भविष्यतीति। उच्यते - स्याद्धेतुः, यदि अजनयतोऽस्य हेतुत्वं स्यात्।

न चाजनयमानस्य हेतुत्वमुपपद्यते।

अथ स्यात् - यद्यपि एवं हेतोर्हेतुत्वं नास्ति, तथापि फलं तावदस्ति। न च हेतुमन्तरेण फलं युक्तमिति फलसद्भावाद् हेतुरपि भविष्यतीति। उच्यते। यदा अजनयमानस्य हेतोर्हेतुत्वं नास्तीत्युक्तम्, तदा -

हेतुत्वानुपपत्तौ च फलं कस्य भविष्यति॥२२॥

इति। तस्मात् फलमपि नास्तीति॥२२॥

अत्राह - नैव हि केवलस्य हेतोः फलोत्पत्तिक्रियायाः प्रयोजकत्वम्, किं तर्हि हेतुप्रत्ययसामग्र्या फलं जन्यते इति। उच्यते। उक्तदोषत्वात् न युक्तमेतत्। अपि च, इयं हेतुप्रत्ययसामग्री यदि फलस्य जनिकेति कल्प्यते, किं सास्वयमेव तावदात्मानं जनयति, उताहो न ? यदि जनयतीति कल्प्यते, तन्न युज्यते। न हि अलब्धात्मभावस्य प्रयोजकत्वं दृष्टमित्यतः सामग्र्या अवश्यं लब्धात्मभावया भवितव्यम्। न च लब्धात्मभावायाः पुनः स्वात्मोत्पादे प्रयोजकत्वं युक्तम्, इत्यतः न सामग्री स्वात्मानमुत्पादयति। या च आत्मानं नोत्पादयति, सा कथं फलमुत्पादयितुं शक्नोतीति प्रतिपादयन्नाह -

न च प्रत्ययहेतूनामियमात्मानमात्मना।
या सामग्री जनयते सा कथं जनयेत्फलम्।२३॥

प्रत्ययानां हेतूनां च येयं सामग्री सा तावदात्मनैव आत्मानं नोत्पादयति, स्वात्मनि वृत्तिविरोधात्, सत्याः पुनरुत्पादवैयर्थ्याच्च। या च एवमात्मानमेव तावन्न जनयति, सा कथं फलं जनयिष्यति? न हि बन्ध्यादुहिता आत्मानं जनयितुमशक्ता सती पुत्रं जनयिष्यतीति युज्यते। एवं सामग्र्यपि स्वात्माजनिका फलं जनयतीति न युज्यते॥२३॥

तस्मात् -

न सामग्रीकृतं फलं

अथापि स्यात्- यदि सामग्रीकृतं फलं न संभवति, एवं तर्हि असामग्रीकृतं भविष्यतीति चेत्, उच्यते -

नासामग्रीकृतं फलम्।
यदा सामग्रीकृतं फलं न संभवति, तदा कथमत्यन्तविरुद्धमसामग्रीकृतं भविष्यति? असामग्रीकृतं फलं न संभवति॥

अथ स्यात् - यद्यपि नास्ति फलं स्वभावतः, तथापि हेतुप्रत्ययसामग्री तावदस्ति। न च फलमन्तरेण हेतुप्रत्ययसामग्री संभवतीति फलमपि संभविष्यतीति। उच्यते। स्याद्धेतुप्रत्यय सामग्री , यदि फलमेव भवेत्। यदा तु यथोदितेन न्यायेन फलमेव नास्ति, तदा -

अस्ति प्रत्ययसामग्री कुत एव फलं विना॥२४॥

फलाभावे सति निर्हेतुका हेतुप्रत्ययसामग्री अपि नास्तीत्यभिप्रायः। उक्तं हि आर्यललितविस्तरसूत्रे -

कण्ठोष्ठ प्रतीत्य तालुकं
जिह्वपरिवर्ति रवन्ति अक्षराः।
न च कण्ठगता न तालुके
अक्षरैकैकश नोपलभ्यते॥
सामग्रि प्रतीत्यतश्च सा
वाच मनबुद्धिवशेन निश्चरी।
मन वाच अदृश्यरूपिणी
बाह्यतोऽभ्यन्तरि नोपलभ्यते॥

उत्पादव्ययं विपश्यतो
वाचरुतघोषस्वरस्य पण्डितः।
क्षणिकां वशिकां तदा दृशी
सर्व वाच प्रतिश्रुतकोपमा॥

तथा आर्योपालिपरिपृच्छायामुक्तं भगवता -
इह शासनि सूरमणीये
प्रव्रजथा गृहिलिङ्ग जहित्वा।
फलवन्तु भविष्यथ श्रेष्ठा
एषु निदेशितु कारुणिकेन।

प्रव्रजित्व गृहिलिङ्ग जहित्वा
सर्वफलस्य भविष्यति प्राप्तिः।
पुन धर्मसभाव तुलित्वा
सर्वफलान फलान च प्राप्तिः॥

अलभन्त फलं तथ प्राप्तिं
आश्चरियं पुन जायति तेषाम्।
अहोऽतिकारुणिको नरसिंहो
सुष्टुपदेशित युक्ति जिनेन॥इति।

तथा आर्यप्रज्ञापारमितायामष्टसाहस्रिकायाम् -

तेन हि कौशिक बोधिसत्त्वेन महासत्त्वेन महासंनाहसंनद्धेन न रूपे स्थातव्यं न वेदनायां न संज्ञायां न संस्कारेषु न विज्ञाने स्थातव्यम्। न स्रोतआपत्तिफले न सकृदागामिफले न अनागामिफले न अर्हत्त्वे न प्रत्येकबुद्धत्वे न सम्यक्संबुद्धत्वे स्थातव्यम्॥इति॥

इत्याचार्यचन्द्रकीर्तिपादोपरचितायां प्रसन्नपदायां मध्यमकवृत्तौ
सामग्रीपरीक्षा नाम विंशतितमं प्रकरणम्॥
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project